भाषा

ENहिગુ
ग्रंथ पाठ

श्वेताश्वतरोपनिषद् (अन्य संस्करण) · अध्याय 5

5.1

द्वे अक्षरे ब्रह्म-परे त्व् अनन्ते विद्याविद्ये निहिते यत्र गूढे
क्षरं त्व् अविद्या ह्य् अमृतं तु विद्या विद्याविद्ये ईशते यस् तु सो ऽन्यः ॥

5.2

यो योनिं योनिम् अधितिष्ठत्य् एको विश्वानि रूपाणि योनीश् च सर्वाः
ऋषिं प्रसूतं कपिलं यस् तम् अग्रे ज्ञानैर् बिभर्ति जायमानं च पश्येत् ॥

5.3

एकैक-जालं बहुधा विकुर्वन्न् अस्मिन् क्षेत्रे संहरत्य् एष देवः
भूयः सृष्ट्वा पतयस् तथेशः सर्वाधिपत्यं कुरुते महात्मा ॥

5.4

सर्वा दिश ऊर्ध्वम् अधश् च तिर्यक् प्रकाशयन् भ्राजते यद् व् अनड्वान्
एवं स देवो भगवान् वरेण्यो योनि-स्वभावान् अधितिष्ठत्य् एकः ॥

5.5

यच् च स्वभावं पचति विश्व-योनिः पाच्यांश् च सर्वान् परिणामयेद् यः
सर्वम् एतद् विश्वम् अधितिष्ठत्य् एको गुणांश् च सर्वान् विनियोजयेद् यः ॥

5.6

तद् वेद-गुह्योपनिषत्सु गूढं तद् ब्रह्मा वेदते ब्रह्म-योनिम्
ये पूर्वं देवा ऋषयश् च तद् विदुस् ते तन्-मया अमृता वै बभूवुः ॥

5.7

गुणान्वयो यः फल-कर्म-कर्ता कृतस्य तस्यैव स चोपभोक्ता
स विश्व-रूपस् त्रिगुणस् त्रिवर्त्मा प्राणाधिपः सञ्चरति स्व-कर्मभिः ॥

5.8

अङ्गुष्ठ-मात्रो रवि-तुल्य-रूपः सङ्कल्पाहङ्कार-समन्वितो यः
बुद्धेर् गुणेनात्म-गुणेन चैव आराग्र-मात्रो ऽप्य् अपरो ऽपि दृष्टः ॥

5.9

बालाग्र-शत-भागस्य शतधा कल्पितस्य च
भागो जीवः स विज्ञेयः स चानन्त्याय कल्पते ॥

5.10

नैव स्त्री न पुमान् एष न चैवायं नपुंसकः
यद् यच् छरीरम् आदत्ते तेन तेन स युज्यते ॥

5.11

सङ्कल्पन-स्पर्शन-दृष्टि-मोहैर् ग्रासाम्बु-वृष्ट्यात्म-विवृद्धि-जन्म
कर्मानुगान्य् अनुक्रमेण देही स्थानेषु रूपाण्य् अभिसम्प्रपद्यते ॥

5.12

स्थूलानि सूक्ष्माणि बहूनि चैव रूपाणि देही स्व-गुणैर् वृणोति
क्रिया-गुणैर् आत्म-गुणैश् च तेषां संयोग-हेतुर् अपरो ऽपि दृष्टः ॥

5.13

अनाद्य्-अनन्तं कलिलस्य मध्ये विश्वस्य स्रष्टारम् अनेक-रूपम्
विश्वस्यैकं परिवेष्टितारं ज्ञात्वा देवं मुच्यते सर्व-पाशैः ॥

5.14

भाव-ग्राह्यम् अनीडाख्यं भावाभाव-करं शिवम्
कला-सर्ग-करं देवं ये विदुस् ते जहुस् तनुम् ॥

मूल पाठ: Śvetāśvataropaniṣad · Edition: two editions: 1. Isadi nau upanisad. Ed. by Harikrsnadas Goendaka. (Gorakhpur : Gita Press, 2038 samvat), 2. Sri Sri Sruti-ratna-mala. Ed. by Bhakti Sudhakar. (Dhaka : 'Manjusa Printing Works) n.d. · Data entry Jan Brzezinski · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc