सुवर्णवर्णावदान · भाग 2124
एतत् कृत्वाद्य कुशलं ममेदं रूपम् ईदृशं ।
प्रादुर्भूतम् मनापञ् च वर्णं काञ्चनसन्निभं ।18।
इत्य्
स्व रोय् 287,3 - 288,3
[106] अथैतद् उपश्रुत्य कर्णः सार्थवाहः सहसैव सहस्रैः प्रसादकण्टकितसर्वरोमकूपः कृताञ्जलिर् विपश्यिनं तथागतं मुहुर् मुहुर् नमस्यमानः परमप्रीतिसौमनस्य जातः सुरूपं पुत्रम् अनिमिषम् अभिवीक्ष्य प्राह । पुत्र आगच्छ गच्छाव इत्य् अथ सुरूपः कुमारः पितायं ममेत्य् उत्पन्नबहुमानः पितुः पादाभिवन्दनं कृत्वा स्वागतं तातेत्य् उक्त्वा पित्रा सार्द्धं गन्तुं संप्रस्थितः ।
स्व रोय् 288,3 - 290,291
[107] शक्रस्य देवानाम् इन्द्रस्याधस्ताज् ज्ञानदर्शनं प्रवर्तते । तस्यैतद् अभवत् अयं कर्णः सार्थवाहो भगवति बुद्धे कृताधिकारः तन् नायम् अर्हति तृणागारे वस्तुम् इति विदित्वा विश्वकर्माणं देवपुत्रम् आमन्त्रयते । गच्छ विश्वकर्मन् कर्णस्य सार्थवाहस्य चतूरत्नमयञ् चतुर्द्वारम् अर्धाष्टमतलकं गृहम् अभिनिर्मिमीष्वेति । ततो विश्वकर्मणा शक्रस्य देवेन्द्रस्य प्रतिश्रुत्य तत्क्षणाद् एव बन्धुमतीराजधानीम् आगत्य चतूरत्नमयेष्टकस्तम्भसञ्चितम् उत्तुङ्गरुचिराट्टालकं गवाक्षनिर्यूहकपोतमालासुविन्यस्ताङ्गाफलकनागदन्तकम् अत्युच्चार्द्धाष्टमतलकम् अतिरमणीयतोरणोपशोभितद्वारं शरजलधराभ्रकूटहिमनिकरराशिशिकरमृणालावदातोच्छ्रितच्छत्रध्वजपताकम् आमुक्तपटुदामकलापं सकलपुरवरोपशोभानिकेतभूतम् अतिरुचिरकनकमयाभिनवविनिःसृतताम्रचूतपल्लवोपशोभितमुखम् अष्टाङ्गशीतलाम्बुपरिपूर्णकुम्भोपशोभितद्वारम् अपरिमितरजतवैदूर्यस्फटिकमुसारगल्वेन्द्रनीलमहानीलादिरत्नपरिपूर्णानेकनिधिसहस्रापूर्यमाणं शेषानर्धद्रव्योपकरणपरिपूर्णं गृहवरम् अभिनिर्मितं ॥
स्व रोय् 291,1 - 298,2
[108] अथ कर्णः सार्थवाहो गृहम् आगतो भार्यया चास्य हृष्टतुष्टप्रमुदितया सौवर्णेन भृङ्गारेणार्घम् अनुप्रदत्तं । उक्तश् चार्यपुत्र त्वत्पुण्यानुभावाद् ईदृशः केनापि भवनवरम् अभिनिर्मितम् इत्य् अथ कर्णः सार्थवाहस् तं भवनवरम् अभिवीक्ष्य परमप्रीतिसौमनस्य जातः सुतरां बुद्धे भगवति उत्पन्नप्रसादोपजनितरोमाञ्चः शिरसि कृतकरपुटाञ्जलिर् नमस् तस्मै भगवते तथागतायार्हते सम्यक्सम्बुद्धायाचिन्त्याचिन्तामणये ऽनुत्तराय पुण्यक्षेत्रायेत्य् उक्त्वा प्रहर्षपूर्णवदनकमलः प्राह ॥
अहो गुणमयं क्षेत्रं सर्वदोषविवर्जितं ।
यत्र न्यस्तं मया बीजमद्यैव फलदायकं ।1।
क्व तत् परीत्तं दानं मे सर्वसंस्काववर्जितं ।
क्व चेदं रम्यम् उत्तुङ्गं हेमरत्नमयं गृहं ।2।
क्व तत् कुड्यावशेषन् मे गृहं शोकविवर्धनं ।
क्व चेदम् अभ्रनिर्मुक्तशशाङ्करपाण्डुरं ।3।
क्व च तन् मूषिकाकीटच्छिद्रवातायनं गृहं ॥
क्व चेदं प्रवरानेकरत्नवातायनं गृहं ।4।
क्व तत् क्रुद्धैः श्वभिर् व्याप्तं कण्टकामेध्यसंकुलं ।
गृहम् एतत् पुरा चित्रं क्व चेदं रत्नसञ्चितं ।5।
क्व तद् भुजङ्गनिर्मोकप्रलम्बाम्बरसंकुलं ।
क्व चेदं सूक्षवस्त्रश्रीचित्रचामरलम्बितं ।6।
क्व तच् छ्वभिर् उपनीतं सितास्थिप्रकरं गृहं ॥
क्वेदं सुरभिसत्पुष्पामुक्तप्रकरशोभितं ।7।
क्व तच् छोकाश्रुधाराभिः सदासिक्ततलं गृहं ।
क्वेदं मृगमदामोदवारिसंसिक्तचन्दनं ।8।
क्व तद् वह्निअशिखाप्लुष्टवायसाशुचितोरणं ।
क्व चेदं हेमसद्रत्नामुक्ताहारोपशोभितं ।9।
क्व तद् भग्नैककटकद्वारावरणकं गृहं ।
क्व चेदं स्फटिकोत्कीर्णं कपाटपुटसंयुतं ।10।
क्व तन् मम चिराध्वस्तं खण्डाववरकं गृहं ।
क्वेदं मणिमयस्तम्भनिर्यूहप्रतिमण्डितं ।11।
क्व तद् आक्रन्दशब्देन समापूरितचत्वरं ।
क्व चेदं तूर्यनिघोषवीणास्वरसमन्वितं ।12।
क्व तत् कपालसंकारराशिपूर्णं गृहं पुरा ।
क्व चेदं रुचिरानेकरत्नराशिचितान्तरं ।13।
क्व तत् पातितनिःशेषनागदन्तकबन्धनं ।
क्व चेदम् इन्द्रनीलान्तप्रविष्टस्फटिकम् महत् ।14।
क्व तद् आसननिर्मुक्तम् इष्टकैकपरायणं ।
क्व चेदं चित्रपट्टान्तमसूरकशान्वितं ।15।
क्व तच् छर्कराकीर्णे भूतले शयनं पुरा ।
क्व चेदं पट्टविपुलं श्रीपयङ्कं मनोरमं ।16।
क्व तत् तृणाशृतं भूमौ शयनं मे ऽतिकर्कशं ।
क्व चेदं तूलिकास्तीर्णम् अद्यातीव मनोरमं ।17।
क्व तच् छ्वासुविसंकीर्णन् दुर्गन्धान्तर्गृहं गृहं ।
क्वेदं सुरभिसङ्गन्धवासित_न्तःपुरं पुरं ।18।
क्व तच् चीरावचीरञ् च गृहम् अन्तर्बहिः पुरा ।
क्वेदं विविधसद्रत्नभक्तिचित्रमनोहरं ।19।
क्व तत् काक_शुचिश्वेतरेखाशतविलम्बितं ।
क्व चेदं विपुलानेकमुक्ताहारोपशोभितं ।20।
क्व च दुःखविलापोक्तसमुच्छ्रितभुजं गृहं ।
क्व चेदम् अमलचत्त्रपताकोच्छायभूषितं ।21।
नमो ऽस्तु तस्मै नाथाय पुण्यक्षेत्राय तायिने ।
यम् आगम्याहम् अद्यैव तीर्णो दारिद्रसागरं ।22।
नमो ऽस्तु लोकनाथाय सर्वज्ञाय विपश्यिने ।
यम् आगम्य मया ऽद्यैव प्राप्ता सम्पत्तिर् ईदृशी ।23।
वैजयन्तम् इवाचिन्त्यम् अनेकगुणभूषितं ।
यम् आगम्य मया ऽद्यैव प्राप्तं भवनम् उत्तमं ।24।
तं समासाद्य शास्तारं कैलाशशिखरोच्छ्रितं ।
भवनं प्राप्यम् उत्तुङ्गं शरत्कालेन्दुपाण्डुरं ।25।
अद्यैवास्मिन् पुरे ऽणाथो भूत्वा दारिद्रदुःख्वान् ।
अद्यैव सर्वश्रेष्ठत्वं महाधनवताङ् गतः ।26।
उप्तमात्रं यद् अद्यैव बीजं मे फलदायकं ।
लोकश्रेष्ठं विभुं कस् तं प्रजयितुम् अर्हति इत्य् ।27।
स्व रोय् 298,2 - 299
[109] अथ कर्णः सार्थवाहस् तीव्रप्रसादवेगावर्जितचित्तसन्ततिः संलक्षयति । भगवन्तम् आगम्य मयैवं विभूतिर् आसादिता यन् न्व् अहं प्रथमतो भगवन्तं विपश्यिनं तथागतम् अस्मिन् गृहे प्रवेश्य सश्रावकगणं भोजयेयम् इति विदित्वा महता सत्कारेण विपश्यिनं तथागतं सश्रावकसंघम् अन्तर्गृहे उपनिमन्त्र्य शतरसेनाहारेण सप्ताहं भोजयित्वा पादयोः प्रणिपत्य यावज्जीवं सर्वोपकरणैः प्रवारितवान् ।
स्व रोय् 299,2 - 307,4
[110] अथापरस्मिन् दिवसे स क्षेत्रपालको भृतकपुरुषः प्रत्युषसि स्वामिनानुरूपदत्तां भक्तपुटिकाम् आदय क्षेत्रं संप्रस्थितो ऽश्रौषीद् अन्तर्मार्गे स भृतकपुरुषो ऽन्यतरस्योपासकस्यान्तिकाद् यथा कर्णेन सार्थवाहेन माषपूपकम् एकं बुद्धे भगवत्य् अनुप्रदायैवम्विधा श्री प्राप्तेति श्रुत्वा च पुनः स पुरुषस् तम् उपासकम् उवाच । भोः साधो के तस्य भगवतो गुणा इति । स उपासकः कथयति । भद्रमुख का मे शक्तिस् तस्य भगवतो विशेषविहितान् गुणान् वक्तुं । एक ही संक्षेपतः श्रूयतां । स हि भगवान् सम्यक्सम्बुद्ध प्रवरपुरुषलक्षणालङ्कृतः काञ्चनाद्रिप्रकाशः शशाङ्कार्कतुल्यातिरेकप्रभः सूरतः सुव्रतः शान्तचित्तः सुवाक्यः सुवेष्टः सुगात्रः सुवक्त्रः सुनेत्रः सुकर्मा सुधर्मा क्षमावान् प्रतिभावान् । विनेता सुनेता नयज्ञो दमज्ञः कृतज्ञः सुचक्षः प्रशान्तेन्द्रियः सुइनीतेन्द्रियाश्वो महाधर्मराजो महासत्त्वसारो महालोकनाथो महाज्ञानकेतुस् महावादिशूरो महापुण्यकोशो महाधर्महेतुस् महासार्थवाहो धर्मदाता महाकर्णधारो महादक्षिणीयः तृषाच्छेदको महामोहविनासकः क्रोधनिर्वापको मोक्षसंस्थापकः कापथाच् च्यावकः सत्पथोद्देशकः शंसयच्छेदकः सत्यसंदर्शकः क्लेशनिर्वापको मारविध्वंसको लोकनिस्तारको ब्रह्मणाभ्यर्च्चितः शक्रसंपूजितः सर्वलोकाधिकः सर्वलोकार्थकृत् सत्त्वोत्तमः सर्वदुःखान्तकृत सर्ववित् । अनयविनयविशारदो ऽतीतसर्वास्रवो वादिमुख्यैर् नाधिष्ठितः सर्वदोषैर् असंभ्रामितः सर्वार्थम् अभ्युद्यतः रूपवान् शीलवान् ध्यायवान् वीर्यवान् ज्ञानयुक्तस् तथा निःस्पृहो निर्ज्वरो निष्प्रपञ्चो निरायासवृत्तिः प्रवृत्तिक्षयोपायसंदर्शकः सर्वसत्वेषु मैत्रासयो पापमुक्तो ऽधिमोक्षान्वितो ऽनुत्तरो नायको दैशिकः क्लेशरोगार्दितानां महावैद्यभूतः स्वयम्भूः विभुः संयतात्माप्रमेयप्रभावो ऽल्पकृतः सुसन्तोषवान् कालवान् अर्थवान् ज्ञानवान् निर्जितक्लेशशत्रुः प्रशान्ताग्निर् अक्षोभ्यधर्मो महादक्षिणीयः परं दुःखितं लोकम् अज्ञानपङ्के निमग्नं समवलोक्य तस्मात् स्वयञ् चापि शक्तः समुद्धर्तुम् आत्माप्रभावानुरूपात्मनः सर्वसत्त्वानुकम्पार्थम् एवं प्रकारोत्तमा बुद्धि तस्माच् चैवम् उत्तारेयं जगद् दुःखितं मोचयेयं कथं भीतानाम् आश्वासयेयं कथं संसारमग्नम् अभ्युद्धरेयं कथं दह्यमानम् आह्लादयेयं दृढं चित्तम् एवं समुत्पाद्य वीर्यञ् च कृत्वा परं जन्मकोटीसहस्रेषु पूर्ववच् चान्नपानाश्रयोपानहोभोजनछत्रयानासनादीन् रम्याणि हस्त्यश्वदारात्मजान् दासदासी शिरोलोचनान्य् आत्ममांसानि चोत्कृत्य सेष्माणिसद्वज्रेणे स्येनरूपाय वुद्धात्मना सर्वसत्वेषु सर्वैर् उपायैर् हितं चिन्तयन् सर्वकालञ् च जीर्णातुरसन्नसंऊढसंभ्रान्तसंक्षुभ्यमानान् अवस्थितान् अवेक्ष्य सर्वात्मान् आश्वास्य सन्तो ऽप्य् असन्तो यथाचार्य संशेविना दानशीलक्षमासत्त्वसप्रज्ञाध्यानाद्यैर् गुणैर् जन्मकोटीसहस्रैर् अनेकैर् शिवां बोधिम् अग्र्याम् अनुप्राप्तवान् अपि च । कस् तस्य सर्वाग्रसत्त्वस्य सम्यक्सम्बुद्धस्य विख्यातकीर्तेः कृपाख्यातविश्वासधर्मस्य विज्ञानपूर्णस्य विस्तीर्णवीर्यस्य निस्तीर्णसर्वप्रतिज्ञस्य निर्मुक्तदोषस्य निर्वान्तमोहस्य शान्तस्य दान्तस्य सर्वेन्द्रियार्थेष्व् अशक्तस्य विश्वेश्वरस्यान्तिकं देहम् आसादित तस्याप्रमेयप्रभावप्रभालङ्कृतज्ञानकोशस्य सम्पूर्णचन्द्रप्रकाशातिरेकाननस्य सुरेन्द्रासुरेन्द्रोरगैश् च भक्त्या प्रसादेन नित्यवन्द्यस्य प्रदीप्तौजसा पुण्यकीर्तेर् महर्षिप्रसूतस्य निष्क्रान्तहेमप्रकाशस्य धर्मेश्वस्याग्रधर्मेषु पारङ्गतस्याग्रसत्त्वस्य नाथस्य नागस्य मुक्तस्य धीरस्य वीरस्य देवातिदेवस्य सम्यक्सम्बुद्धस्य कस् तस्य शक्नोत्य् अशेषान् गुणान् वक्तुम् ॥
स्व रोय् 307,4 - 308,309
[111] अपि च
सर्वसद्रूपलावण्यसम्पद्भिः समलङ्कृतं ।
वपुर् बुद्धाद् ऋते नास्ति अन्यस्येदृशम् उत्तमं ।1।
नास्ति बुद्धसमो वक्ता नास्ति बुद्धसमः सुधीः ।
नास्ति बुद्धसमो बोद्धो नास्ति बुद्धसमो सुधीः ।2।
नास्ति बुद्धसमं पात्रं नास्ति बुद्धसमः सुखी ।
नास्ति बुद्धसमो दान्तो नास्ति बुद्धसमः प्रभुः ।3।
नास्ति बुद्धसमः शास्ता नास्ति बुद्धसमः पिता ।
नास्ति बुद्धसमो बन्धुर् नास्ति बुद्धसमः सुहृत् ।4।
निर्ममो निर्मदो निर्भी निरायासो निरङ्गणः ।
निस्तीर्ण भवकान्तारो निःसपत्नो निरामयः ।5।
कान्तः शान्तः शुचिर् दान्तः स्मृतिमान् बलवान् वशी ।
हृतकृतसर्वसत्त्वानां नास्ति बुद्धसमो परः ।6।
समासतो गुणैः सद्भिर् विशेषैर् विधिवद् यतः ।
त्रैलोक्ये ऽपि न बुद्धेन सदृशो ऽस्तीति गृह्यतां ।7।
स्व रोय् 309,2 - 312,5
[112] तच् छ्रुत्वा भृतकपुरुषः प्रसादकण्टकितः सहसैवोत्पन्नातिदुर्ल्लभप्रतिभानस् तम् उवाच ॥ कर्णेन सार्थवाहेन तृष्णयानुप्रदत्तं माषपूपकम् एवंविधे परमदक्षिणीये भगवति विपश्यिनि तथागते तत्क्षणाद् एवैष सार्थवाहो ऽदरिद्रः स्याम् इत्य् एवंविधं चिन्तामणिरत्नभूतं तथागतम् आसाद्यातिपरीत्तविभवमात्रकहेतभूतं प्रणिधानं कृतवान् । अहन् तु पुनर् यद् भगवन्तं तथागतम् अर्हन्तं सम्यकसम्बुद्धम् अनेककल्पकोटीनियुतशतसहस्रैर् अप्य् अनासाद्य दर्शनम् अतिदर्शनीयम् अनुत्तरम् अनन्तरकल्पशतसहस्रसम्भृताशेषसत्त्वप्रवृतोत्तमपुण्यसम्भारानुप्रवृत्तकारुण्यम् अनेकविधसांसारिकक्लेशविषमहोरगोपदष्ट_अतिदीनानुकम्पकं पतितजनविशेषवत्सलम् अनुपकृतबान्धवम् अनेककालानासादितविभवो ऽहम् अनयाभिपरीत्तया क्षेत्रपालितार्जितया भक्तभिक्षया प्रतिपादयितुम् आसादयामि । तदा तादृशं प्रणिधानं करिष्यामि येन सर्वसत्त्वोत्तमो भविष्यामीत्य् आशयोद्गीर्णवचनावसानसमनन्तरं भगवान् विपश्यी सम्यक्सम्बुद्धस् तस्य चेतसो चित्तम् आज्ञाय ऋद्धया गत्वाग्रतः स्थितो ऽद्राक्षीत् स भृतकपुरुषो विपश्यिनं तथागतम् असेचनकदर्शनम् अभिरुचिरचारुचामीकरामरगिरिशिखरतररुणविकिरणविसरचितान्तरोद्भासितभासुरतरशरीरद्युतिं दृष्ट्वा च पुनः परमप्रीतिसौमनस्य जातो ऽतिमहता प्रसादवेगेन तां भक्तपुटिकाम् आदाय भगवतो विपश्यिनः सम्यक्सम्बुद्धस्य पात्रे प्रतिपाद्य तीव्रेण प्रसादवेगेन पादयोर् निपत्य प्रणिधानं कर्तुम् आरब्धः ॥
स्व रोय् 312,5 - 314,3
[113] अनेन नाथ पुण्येन इतः प्रभृति जन्मनः ।
सर्वसत्त्वहिताध्यायी भूयशः करुणात्मकः ।1।
यथा त्वं लक्षणोपेतो ऽनुत्तरा बोधिम् आप्तवान् ।
तथाहम् अपि सम्बोधिम् अतुलां समवाप्नुयां ।2।
यथा देशयसे धर्मसर्वज्ञत्वं यथा त्वया ।
प्राप्तं तथाहम् अप्य् एव सर्वज्ञत्वम् अवाप्नुयां ।3।
निर्जितस् ते यथा मारो धर्मचक्रं प्रवर्तितं ।
तथाहमपि निर्जित्य धर्मचक्रं प्रवर्तये ।4।
तीर्णस् तारयसे नाथ यथा संसारसागरात् ।
अत्वान् बहूंस् तथा चाहं ताराये मुनिसत्तम ।5।
अथ स भगवान् विपश्यी सम्यक्ससम्बुद्धः सकलजलदगम्भीरोदात्तेन स्वरेणोच्चैर् उवाच । भद्रमुख ।
अथ स भगवान् विपश्यी सम्यक्ससम्बुद्धः सकलजलदगम्भीरोदात्तेन स्वरेणोच्चैर् उवाच । भद्रमुख ।
भविष्यसि त्वं हि महानुभावः सर्वार्थसिद्धो भुवि नाम शास्ता ।
जित्वेह मारं सबलं प्रसह्य भीमं समन्ताद् अभिनिष्पतन्तं ।6।
इत्य्
स्व रोय् 314,3 - 316,3
[114] अथ विपश्यी सम्यक्सम्बुद्धस् तं पुरुषम् अनुत्तरायां सम्यक्सम्बोधौ व्याकृत्य प्रक्रान्तो ऽयञ् च वृत्तान्तो बन्धुमत्यां राजधान्यां समन्ततो निःसृतः । यावद् राज्ञां बन्धुमता श्रुतं । श्रुत्वा च पुनस् तेन स्वयम् एवागत्य ततकुशलमूलसंभारोत्साहितमतिना स पुरुषो ऽति महता सत्कारेण हस्तिस्कन्धे समारोप्य भवनं नीत्वार्धासनं निषाद्यार्द्धराज्यानुप्रदानेन पूजितः । स कथयति । महाराज नाहं कामैर् अर्थी तदनुजानीस्व मां प्रव्रज्य ब्रह्मचर्यञ् चरामीति । स राज्ञानुज्ञातः स्वाख्याते धर्मविनये प्रव्रजितः स तत्र यावद् आप्तब्रह्मचर्यं चरित्वा कालगतो निर्माणरतिषु देवेषूप्रपन्नः । बन्धुमान् अपि राजा कालगतः । तस्य पुत्रो राज्ये प्रतिष्ठितः । सो ऽपि किञ्चित् कालं राज्यं कारयित्वा कालगतो ऽमात्यैर् महता सत्कारेण सुरूपो राज्ये प्रतिष्ठापितस् तेन षष्ठिवर्षहस्राणि धर्मेण राज्यं कारितं । ततः कालं कृत्वा तुषितदेवनिकाये उपपन्नः ।
स्व रोय् 316,4 - 318,5
[115] किं मन्यसे महाराजान्यः स तेन कालेन तेन समयेन सुरूप्रो नाम राजा ऽभूद् इति । न खल्व् एवं दृष्टव्यं । अपि त्व् एष सुवर्णवर्णः स तेन कालेन तेन समयेन सुरूपो ऽनाम राजाभूद् यद् अनेन विपश्यिनि तथागते हरिद्रारक्तं वस्त्रखण्डम् अनुप्रदतं प्रणिधानञ् च कृतं तस्य कर्मणो विपाकेनानेन देवमनुष्येष्व् अनन्तं देव्यमानुष्यकं सुखम् अनुभूतं यत्र यत्रोपपद्यते तत्र तत्र सुवर्णकायः सुवर्णवर्णवस्त्राच्छादितशरीरः कर्णिकारकुसुमवर्षं चास्य जातिसमये प्रपतति स्म ॥ यावद् एतर्ह्य् अप्य् एवं पुण्यमहेशाख्यो यत् कायाद् असकृद् अपनीते वस्त्रे ऽन्यद् वस्त्रं तत्क्षणाद् एव शरीरे समुत्पद्यत इति । यो ऽसौ कर्णः सार्थवाहो ऽयम् एवासौ दिवाकरः सार्थवाहस् तेन कालेन तेन समयेन या सा कर्णस्य सार्थवाहस्य भार्या । एषैव दिवाकरस्य सार्थवाहस्य भार्या । दासी काशिसुन्दरी दासः प्रचण्डो ऽग्रामात्यस् तेन कालेन तेन समयेन ।
स्व रोय् 318,5 - 320,321
[116] पुनर् अपि राजा ऽजातशत्रुः स्थविरानन्दम् इदम् अवोचत् । किं भदन्तानन्द सुवर्णवर्णेन भिक्षुणा कर्म कृतं । यस्य कर्मणो विपाकेनादूश्य् अनपकारी शूले समारोपितः । प्रव्रज्यञ् चार्हत्वं प्राप्तम् इति । स्थविरानन्दः कथयति । भूतपूर्वं महाराजातीते ध्वनि चन्द्रो नाम सम्यक्सम्बुद्धो लोक उदपादि तथागतो ऽर्हन् सम्यक्सम्बुद्धो विद्याचरणसम्पन्नः सुगतो लोकविद् अनुत्तरः पुरुषदम्यसारथिः शास्ता देवानाञ् च मनुष्यानाञ् च बुद्धो भगवान् असौ ऽन्यतमां राजधानीम् उपनिःसृत्य विहरति स्म । तेन खलु समयेनान्यतमस्मिंश् च विहारे ऽन्यतमो भिक्षुः धार्मकथिकः स कालेन कालम् आगतागतानां ब्राह्मणगृहपतीनां धर्मं देशयति । तस्य महान् लाभसत्कार उत्पद्यते ।
स्व रोय् 320,3 - 323,4
[117] यावद् अपरेण समयेनाजितो नाम भिक्षुः धार्मकथिको युक्तमुक्तप्रतिभानश् चित्रकथो मधुरकथो । जनपदचारिकाञ् चरन् तं विहारम् आगतः स चतसृणां पर्षदां धर्म देशयत्य् आदौ कल्याणं मध्ये कल्याणं पर्यवशाने कल्याणं सुव्यञ्जनं केवलं परिपूर्णं परिशुद्धं पर्यवदातं ब्रह्मचर्यं सम्प्रकाशयति । तेन सर्व एवासौ कर्वटनिवासीजनकायो ऽभिप्रसादितः । स लाभी चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्काराणां । तस्य नैवासिकस्य धार्मकथिकस्य भिक्षोर् लाभसत्कारसमुच्छिन्नस् तस्यैतद् अभवद् अजितेन मे भिक्षुणा लाभसत्कार समुच्छेदः कृतः । तद् यावद् एष इहावतिष्ठते तावत् कुतो मे लाभसत्कारो भविष्यति । उपायम् अस्य गमनाय चिन्तयितव्यम् इति । पुनश् चिन्तयति । असत्कारभीरवश् चैव बहुश्रुताः । असत्कारो ऽस्य प्रयोक्तव्य इति विदित्वान्यतमां ब्राह्मणकुमारिकाम् आह । भगिन्य् अहन् ते वासोयुगम् अनुप्रदास्याम्य् एतम् अजितं भिक्षुं दूषय मया सार्द्धम् अब्रह्मचारीति । सा कथयत्य् आर्य यद्य् अहम् एवं वक्ष्यामि तत् को मां परिणेष्यति । ननु यावज्जीवम् मातापितृपोष्या भविष्यामीति । स कथयत्य् अहं तथा करिष्यामि यथा न महाजनविदितं भविष्यति । यदा त्वं स्वैर् आलापेन कथयिष्यसीति । अपि तु यदायं तृभिश् चतुर्भिः परैर् भिक्षुभिः सार्द्धं निषण्ण इहावतिष्ठते । तया प्रतिज्ञातम् एवं करिष्यामीति ।
स्व रोय् 323,4 - 326,4
[118] यावद् अपरस्मिन् दिवसे स धार्मकथिको भिक्षुर् भिक्षुभिः सार्द्धं लयनद्वारे निषण्णः कथासांकथ्येनावतिष्ठते तया च ब्राह्मणदारिकया गत्वाभिहितः । आर्य प्रव्रजिता यूयम् इति कृत्वा वयम् इह विस्रब्धा उपसंक्रमितव्यं मन्यामहे । तत् कथम् एतद् युक्तं यद् अहम् अनेनाप्य् अजितेन भिक्षुणा हठाद् गृहीत्वा विकुमारी कृतेति । ततस् तैर् भिक्षुभिः कर्णौ पिधायाभिहितं । भगिनि मैवम् वद नैतच् छ्रोतव्यम् इति । ततस् तेन धार्मकथिकेन भिक्षुणा न साधु कृतं न साधु कृतम् इत्य् उक्त्वा अजितस्य भिक्षोर् अवर्णो निश्चारितः । यावच् छ्रवणपरंपरया ऽजितेन भिक्षुणा श्रुतं श्रुत्वा कथयति । क एवम् आहेति । एष धार्मकथिको भिक्षुर् इति । स येन धार्मकथिको भिक्षुस् तेनोपसंक्रान्तः । उपसंक्राम्य कथयति । भदन्त किम् मया तवापराधं कृतं यद् एवम् अवर्णनिश्चारणं मे कृतवान् असीति । तेन तस्यान्तिके चित्तं प्रदूष्य खरं वाक्कर्म निश्चारितं तादृशं त्वया पापकर्म कृतं येन त्वं शुलम् अर्हसीति । तच् छ्रुत्वा अजितस्य भिक्षोर् एतद् अभवत् । दुःखितो ऽयं तपस्व्य् उपहतश् चेति विदित्वा पात्रचीवरम् आदाय यथापरिभुक्तं शयनासनं प्रतिशमाय्य तस्माद् विहारान् निष्क्रम्य संप्रस्थितः । तञ् च संप्रस्थितम् अवलोक्य भिक्षवो भिक्षुण्यः स च कर्वटकनीवासीजनकायस् तं निवर्त्तयितुकामाः पृष्ठतो ऽनुबद्धा ॥
स्व रोय् 326,4 - 329,330
[119] तस्य धार्मकथिकस्य भिक्षोः कौकृत्यम् उत्पन्नं न शोभनं मया कृतं यल् लाभसत्कारकारणाद् ईदृशम् अपायगतिसम्वर्तनीयं कर्म कृतम् इत्य् उत्पन्नवैमनस्यो गच्छाम्य् एनं क्षमापयामीति त्वरितत्वरितं तस्माद् विहारान् निष्क्रम्यातिसम्विग्नमना अश्रुधारावसिच्यमानदीनवदनो बालदारक इवोच्चैः प्ररुदरन् पश्यता तेषाम् अनेकेषां ब्राह्मणगृहपतिशतसहस्राणाम् अजितस्य भिक्षोः पादयोर् निपत्यात्ययम् अत्ययतो देशयितुम् आरब्धः । क्षमस्व भदन्त यथा बालेन यथा मूढेन यथाव्यक्तेनाकुशलेन लाभसत्काराभिभूतेन मया तवाभूतेनावर्णो निश्चारितस् तद् अत्ययम् अत्यतो देशयत क्षमस्वानुकम्पाम् उपादयेति । अजितो भिक्षुः कथयति । आयुष्मान् क्षान्तम् इत्य् उक्त्वातीवसंविग्नचित्तो ऽन्यतमं वृक्षमूलं निश्रित्य निषण्णः पर्यङ्कम् आभुज्य ऋजुं कायं प्रणिधाय प्रतिमुखं स्मृतिम् उपस्थाप्य तेन तस्मिन्न् एव परमसम्वेगद्रवीकृतचेतसा उद्यच्छता घटमानेन व्यायच्छमानेन इदम् एव पञ्चगण्डकं संसारचक्रं चलाचलं विदित्वा यावत् सेन्द्रोपेन्द्राणां देवानां पूज्यो मान्यो ऽभिवाद्यश् च सम्वृत्तः । स विततपक्ष इव हंसराजो गगनतलम् उत्पत्य तस्य महतो जनकायस्य मनांस्य् अभिप्रसाद्यन् विविधानि प्रातिहार्याणि प्रदर्शयितुम् आरब्धः । स च धार्मकथिको भिक्षुस् तं गगनतलस् तम् अवलोक्य हा कस्टम् ईदृशस्य मया महर्षेर् अन्तिके चित्तं प्रदूषितम् इत्य् उक्त्वा मूर्छितः पृथिव्यां निपतितः ॥
स्व रोय् 330,1 - 332,333
[120] अत्रान्तरे भगवांश् चन्द्रः सम्यक्सम्बुद्धो महाकरुणया परिगतहृदयः मा खल्व् अयं धार्मकथिको भिक्षुर् उष्णं शोणितं छर्दयित्वा कालं करिष्यतीति विदित्वा ऋद्धया तं कर्वटकम् आगतः । ततो भगवता चन्द्रेण सम्यक्सम्बुद्धेन चक्रस्वस्तिकनन्द्यावर्तजालाववद्धेनानेकपुण्यशतनिर्जातेन भीतानाम् आश्वासनकरेण करेण स धार्मकथिको भिक्षुः शिरसि परामृष्टः । स्पृष्टमात्रश् च भगवता स भिक्षुश् चेतनां प्रतिलभ्योत्थितो ऽत्ययम् अत्ययतो देशयितुम् आरब्धाः ॥ अथ भगवांश् चन्द्रः सम्यक्सम्बुद्धस् तस्यां वेलायां गाथा भाषते ।
पुरुषस्य हि जातस्य कुठारी जायते मुखे ।
च्छिन्नत्ति हि ययात्मानं वाचा दुर्भाषितं वदन् ।1।
यो निन्द्यजनं प्रशंसति प्रशंस्यञ् च जनं विनिन्दति ।
स चिनोति मुखेन तं कलिं कलीनां येन सुखं न वन्दति ।2।
अल्पमात्रो ह्य् अयं कलिर् य इहाक्षैः स्वधनं पराजयेत् ।
अयम् अत्र महत्तरः कलिर् यः सुगतेषु मनः प्रदूषयेत् ।3।
शतं सहस्राणि निरर्बुदानां षट्त्रिङ्शतं पञ्च चैवार्बुदानि ।
यान् आर्यगर्ही नरकान् उपैति वाचं मनश् च प्रणिधाय पापकं ।4।
( fओर् अ वेर्से इन् तिबेतन् चोर्रेस्पोन्दिन्ग् तो उदानवर्ग विइइ.6)
चित्तप्रदूषणाहेतोः सत्वा गच्छन्ति दुर्ग्गतिं ।
चित्तप्रसादनाहेतोः सत्वा गच्छन्ति सद्गतिं ।5।
इत्य् एष भगवांश् चन्द्र सम्यक्सम्बुद्धस्तां पर्षदं धार्मया कथया यावत् संप्रहर्ष्योत्थायासनात् प्रक्रान्तः ॥
स्व रोय् 333,2 - 336,5
[121] किम् मन्यसे महाराजान्यः स तेन कालेन तेन समयेन धार्मकथिको भिक्षुर् अभूद् इति । न खल्व् एवं द्रष्टव्यम् अपि त्व् एष एव सुवर्णवर्णः तेन कालेन तेन समयेन तस्य भिक्षोर् अन्तिके चित्त प्रदूष्य खरं वाक्कर्म निश्चारितं तस्य कर्मणो विपाकेन पञ्चजन्मशतानि नरकेषु पत्त्वा मनुष्येषु चोत्पन्नः पञ्चजातिशतानि अदूष्य् अनपकारी शूलम् आरोपितो यावद् एतर्ह्य् अपि तेनैव कर्मवशेणादूष्य् अनपकारी शूलम् आरापितो यद्य् अनेन तत् कर्म कृत्वा नात्ययम् अत्ययतो देशितं स्यात् तद् एष पञ्चजन्मशतान्य् एकैकस्मिं महानिरये पक्वः स्यात् । पञ्चजन्मशतानि प्रेतेषु पञ्चजन्मशतानि तिर्यक्षुपपन्नः स्यात् । यद् अनेन भगवतश् चन्द्रस्य सम्यक्सम्बुद्धस्य शासने ब्रह्मचर्यञ् चरितं तस्य कर्मणो विपाकेनैतर्ह्य् अनेन भगवच्छासने प्रव्रज्य सर्वक्लेशप्रहाणाद् अर्हत्वं साक्षात्कृतम् इति ॥ तस्मात् तर्हि महाराज आत्मनो दुःखम् अन्विच्छता न परेषाम् अन्तिके चित्तप्रदूषणं कर्तव्यं ॥ अयशोभीतेन च न परेषाम् अयशो ऽनुप्रदेश्यं । आत्मनः सुखम् अन्विच्छता परेषाम् अपि सुखोपसंहारः कर्तव्य इत्य् अथास्मिन् धर्मपर्याये भाष्यमाणे ऽनेकैः प्राणिशतसहस्रैर् महां विशेषो ऽधिगतः । कैश्चित् श्रोतापत्तिफलं कैश्चित् सकृदागामिफलं कैश्चिद् अनागामिफलं कैश्चित् प्रव्रज्य सर्वक्लेशप्रहाणाद् अर्हत्त्वं साक्षात्कृतं । कैश्चिद् अनुत्तरायां सम्यक्सम्बोधौ चित्तान्य् उत्पादितानि । कैश्चित् श्रावकबोधौ । कैश्चिच् चरणगमनशिक्षापदानि गृहीतानि । यद्भूयसा सा पर्षद् बुद्धनिम्ना धर्मप्रवणा संघप्राग्भारा व्यस्थापिता ॥
स्व रोय् 336,5 - 339,3
[122] अथ दिवाकरः सार्थवाह एकांसम् उत्तरासङ्गं कृत्वा दक्षिणं जानुमण्डलं पृथिव्यां प्रतिष्ठाप्य कृतकरपुटः स्थविरानन्दम् एतद् अवोचत् । आर्यानन्द मया बुद्धप्रमुखो भिक्षुसंघो ऽन्तर्ग्गृहे उपनिमन्त्र्य षड्रसेनाहारेण भोजयित्वा एकैको भिक्षुः शतसहस्रकेण चीवरेणाच्छादयितव्य इति विचिन्तितं स च भगवान् परिनिर्वृतस् तद् इच्छाम्य् आयीनन्दप्रमुखं भिक्षुसंघम् अधुना भोजयितुम् इति ॥ स्थविरानन्दः कथयति । सार्थवाहैवं कुरुष्वाहं तथा करिष्यामि सर्व एव जाम्बूद्वीपावस्थिता भगवतः श्रावका इहागमिष्यन्तीति । अथ दिवाकरः सार्थवाहः प्रहर्षपूर्णमना राजगृहस्य नगरस्य बहिर् मण्डलवाटकम् अपगतपाषाणशर्करकठलं समुच्छ्रितध्वजपताकं चन्दनवारिसिक्तम् आमुक्तपट्टदामकलापां नानापुष्पावकीर्णं सुरभिधूपघटिकोपधूपघटिकोपनिबद्धम् अतिरुचिरवितानतोरणम् अतिरमणीयं कारयित्वा ताम् एव रात्रिं शुचिप्रणीतं खादनीयं समुदानीय काल्यम् एवोत्थायासनप्रज्ञप्तिं कृत्वोदकमणी प्रतिष्ठाप्य स्थविरानन्दस्य दूतेन कालम् आरोचयति । समयो भदन्त सज्जं भक्तं यस्येदानीं कालं मन्यसे । इत्य्
स्व रोय् 339,3 - 341,5
[123] अथ स्थविरानन्दो नभस्तलम् उत्प्लुत्य ऋद्ध्या सकलम् इदं जम्बुद्वीपम् विलीनकनक_वभासया प्रभयावभास्य स्वयम् एव गण्डीम् आकोट्य सजलजलधरगम्भीरओदात्तेन स्वरेणोद्घोषितवान् ये भगवतः श्रावका ऋद्धेर् लाभिनस् ते स्वकीयया ऋद्ध्या आगच्छन्तु ये पृथग्जनास् ते मदीयया ऋद्ध्या आगच्छन्त्व् इति । ततस् तां गण्डीम् उपश्रुत्य हिमवद्विन्ध्यमलयपारियात्रकगन्धमादनसुमेरुयुगन्घरेषाधारखदिरकसुदर्शनाश्वकर्णनिमिन्धरादिषु सकाननसरितसुसीता समुद्रपत्तनवरद्रुमविहारावशषु मेठीशून्यागारश्माशानादिषु च ये भिक्षवः समाधिसमापत्तिसुखलाभिन्नः प्रतिवसन्ति तत्क्षणआत् सर्वम् इदं नभस्तलमशोककिंशुसदृशैः सन्ध्यालोहितैर् इव जीमूतवृन्दैर् आच्छादयन्तो राजगृहनगरम् आगत्य तस्मिं मण्डलवाटे ऽवतीर्णाः । तत्क्षणाद् एव तिस्रः कोट्यो भिक्षुण्याः ऽसन्निपतितः । एका क्षीणास्रवणां । द्वितीय शैक्षणां । तृतीया पृथकग्जनकल्याणकानां ततो यथा वृद्धिकया प्रज्ञप्तेषु स्वेषु स्वेष्व् आशनेषूपविष्टाः ॥
स्व रोय् 341,5 - 345,1
[124] अथ दिवाकर सार्थवाहः सुखोपनिषण्णम् आर्यस्थविरानन्दप्रमुखं भिक्षुसंघं विदित्वा शुचिना प्रणीतेन खादनीयभोजनीयेन स्वहस्तं सन्तर्पयति । यावद् भिक्षुसंघं भुक्तवदन्तं विदित्वा धौतहस्तम् अपनीतपात्रं शतसहस्रेण त्रिचीवरेणाच्छादयितुकामस् तं भिक्षुसंघम् अवलोक्य प्रीतिमना अभवत् । सुवर्णवर्णश् च तस्याशयम् अवगम्याह अल्पोत्सुक त्वं भव हि । अहम् एव भिक्षुसंघं सुवर्णवर्णपीतेन त्रिचीवरेणाच्छादयामीति ॥ ततः सुवर्णवर्णेन भिक्षुणा तस्मिन्न् एव क्षणे स्वशरीरात् सुवर्णपीतानि वस्राणि अवतार्यावतार्य शतसहस्रमूल्यानां यथा वृद्धिकया तिसृणां भिक्षुकोटीनां त्रिचीवरम् अनुप्रदत्तं ॥ अत्रान्तरे ऽनेकैर् देवतासहस्रैर् हा हाकारो मुक्तः । विविधानि च वाद्यानि संप्रवादितानि । दिव्यञ् च पुष्पपूर्णवर्षम् उत्सृष्टं यथासौ नानादिग्देशाभ्यागतो जनकायो राजा चाजातशत्रुः सान्तःपुरकुमारामत्यपौरजानपदसहायस् तं तथाविधम् आश्चर्यम् अवलोक्य विस्मयोत्फुल्ललोचनस् त्रिर् उदानम् उदानयत्य् अहो पुण्यफलविपाकः अहो पुण्यानां सामर्थ्य अहो दक्षिणीयक्षेत्रावरोपितस्य दानबीजस्यानतिक्रान्तो विपाकस् तत् केन नाम विदुषा एवंविधं पुण्यफलविपाकम् अभिसमीक्ष्य तद्दक्षिणीयक्षेत्रे दानं न देयम् इत्य् एवम् अनेकानि प्राणिशतसहस्राणि शिरस्य् आञ्जलिम् उपनिधाय नमो बुद्धायेत्य् उच्चैर् घोषितवन्तो ऽथ स्थविरानन्देन दक्षिणादेशना कृता ।
स्व रोय् 345,1 - 346,3
[125] ततो दिवाकरः सार्थवाह उथायासनाद् एकांसम् उत्तरासङ्गं कृत्वा दक्षिणं जानुमण्डलं पृथिब्यां प्रतिष्ठाप्य येन स्थविरानन्दस् तेनाञ्जलीं प्रणम्य त्रिर् उदानम् उदानयतीदं भदन्तास्माकं न मात्रा कृतं न पित्रा न राज्ञा न देवताभिर् नेष्टेन स्वजनबन्धुवर्गेण पूर्वप्रेतेन श्रवणब्राह्मणैर् यद् आनन्देनास्माकं कृतं प्रच्छोषिता रुधिराश्रुसमुद्रा इति ॥
जगति दैत्यनरामरपूजित विगतजन्मजरामरणामय ।
भवसहस्रसुदुर्लभं दर्शन सफलम् अद्य मुनेस् तव दर्शनं ।1। इत्य्
स्व रोय् 346,3 - 5
[126] अथ स्थविरानन्दस् तां सराजिकां पर्षदं धर्म्यया कथया सन्दर्श्य समादाप्य समुत्तेज्य संग्रहर्ष्य तैर् देवताशतसहस्रैर् अनेकैश् च राजगृहवासिभिः प्राणिशतसहस्रैर् नमस्यमान उत्थायासनात् प्रक्रान्तः । एवम् अल्पम् अपि भगवति बुद्धे कृतम् अनल्पफलम् भवतीति ।
स्व रोय् 346,5 - 347,3
ये धर्मा हेतुप्रभवा हेतुं (6) तेषान् तथागतो ह्य् अवदत् ।
तेषाञ् च यो निरोध एवम्वादी महाश्रमणः ।1।
[127] देयधर्मो ऽयं प्रवरमहायानयायिनः शाक्यभिक्षुबुद्धाकरगुप्तस्य यद् अत्र पुण्यन् तद् भवत्व् आचार्योपाध्यायमातापितृपूर्वङ्गमं कृत्वा सकलसत्त्वराशेर् अनुत्तरज्ञानफलवाप्तय इति ॥
मूल पाठ: Suvarṇavarṇāvadāna · Edition: Sitaram Roy: Suvarṇavarṇāvadāna [Decipherment and historical study of a palm-leaf Sanskrit manuscripts-an unknown Mahāyāna(avadāna) text from Tibet.], Patna : K.P. Jayaswal Research Institute 1971 (Historical Research Series, vol. VII); compared with: Rajapatirana, Tissa (1974), Suvarṇavarṇāvadāna, translated and edited together with its Tibetan translation and the Lakṣacaityasamutpatti, A thesis · Data entry Jens Braarvig · GRETIL (Göttingen) · CC BY-NC-SA 4.0