सुवर्णवर्णावदान · भाग 120
सुवर्णवर्णावदान
स्व रोय् 1,1
ओम् नमो बुद्धाय ॥
स्व रोय् 1,1 - 5
[1] एवम् अनुश्रूयते स्थविर महाकाश्यपे परिनिर्वृते स्थविरानन्दो महात्मा शारद्वतीपुत्रसमनुप्रज्ञया समन्वागतस् तथागत इव कारुण्यात् तेषु तेषु ग्रामनगरनिगमपल्लीपत्तनादिषु तांस् तान् वैनेयांस् तैस् तैर् उपायविशेषैर् विनयति स्म । यावद् अपरेण समयेन विनेयवशाद् अनेकानि सत्त्वकोटिनियुतशतसहस्त्राणि सद्धर्म्मदेशनामृतवर्षाभिषेकेण सन्तर्पयन् वैशाल्याम् विहरत्य् आम्रपालीवने ।
स्व रोय् 1,5 - 3,2
[2] तेन खलु पुनः समयेन राजगृहे नगरे दिवाकरो नाम सार्थवाहः प्रतिवसत्य् आढ्यो महाधनो महाभोगो विस्तीर्णविशालपरिग्रहो वैश्रवणधनसमुदितो वैश्रवणधनप्रतिस्पर्द्धी । तेन सदृशात् कुलात् कलत्रम् आनीतम् । स तया सार्द्ध क्रीडति रमते परिचारयति स्म । तस्य क्रीडतो रममाणस्य परिचारयतो न पुत्रो न दुहिता । सो ऽपुत्रः पुत्रहेतोर् उत्कण्ठितः परितप्यते । देवेषु त्रयस्त्रिंशेष्व् अन्यतमस्य पुण्यमहेशाख्यस्य देवपुत्रस्य पञ्चपूर्वनिमित्तानि प्रादुर्भूतानि । स बुद्धोत्पादविभूषितं लोकम् अवलोक्य निर्वाणाभिलाषीच्छति मनुष्येषु प्रतिसंधिं ग्रहीतुम् ।
स्व रोय् 3,2 - 4,5
[3] अद्राक्षीच् छक्रो देवेन्द्रस् तं देवपुत्रं च्यवनधर्म्माणं बुद्धोत्पादविभूषितं लोकम् अवलोक्य निर्वाणाभिलाषी इच्छति मनुष्येषु प्रतिसंधिं ग्रहीतुम् इति दृष्ट्वा च पुनस् तं देवपुत्रम् उपसंक्रम्योवाच । स चेत् त्वं मार्ष इच्छसि मनुष्येषु प्रतिसंधिं ग्रहीतुम् । राजगृहे नगरे दिवाकरस्य सार्थवाहस्य पत्न्याः कुक्षौ प्रतिसंधिं गृहाणेति । स कथयति कौशिकं अश्राद्धो ऽसौ सार्थवाहस् तस्य बुद्धे प्रसादो नास्तीति । शक्रः कथयति । मार्ष गृहाण त्वं अहन् तथा करिष्यामि यथासौ सार्थवाहो बुद्धशासने ऽभिप्रसीदतीति । देवपुत्रः कथयति । कौशिक स चेद् असौ सार्थवाहः सपत्नीको यावज्जीवं रत्नत्रयं शरणङ् गच्छेद् एवम् अहं तस्य सार्थवाहस्य पत्न्याः कुक्षौ प्रतिसन्धिं ग्रहीष्यामीति ।
स्व रोय् 5,1 - 7,3
[4] ततः शक्रो देवेन्द्रो देवेभ्यस् त्रयस्त्रिंशेभ्य अन्तरीक्षे राजगृहे नगरे दिवाकरस्य सार्थवाहस्य गृहे उपरिमे तलके प्रत्यस्थात् । शक्रस्य देवेन्द्रस्य वर्णानुभावेन सर्वत्र गृहं दिव्येनावभासेनावभासितम् अद्राक्षीद् दिवाकरः सार्थवाहस् तु दिव्यम् अवभासं दृष्ट्वा च पुनर् विस्मयोत्फुल्ललोचनश् चतुर्दिशम् अवलोकयितुम् आरब्धः यावत् पश्यति शक्रं देवेन्द्रं दृष्ट्वा च पुनः सहसैव तस्य पदयोर् प्रणिपत्योवाच देवेन्द्र लाभा मे सुलब्धा मे त्वं गृहम् आयातः पवित्रीकृतञ् चेदं गृहं युष्मद् आगमनेन । तदाज्ञाप्यतां किम् आगमनप्रयोजनम् इति । शक्रो देवेन्द्रः कथयति । सार्थवाह त्वम् अपुत्रः पुत्राभिनन्दी तद् अद्याग्रेण सपत्नीको यावज्जीवं रत्नत्रयं शरणं गच्छ । पुत्रस् ते भविष्यतीति ॥ दिवाकरः सार्थवाहो हृष्टतुष्ट उदग्रमनाः कथयति । देवेन्द्र यथा त्वम् आज्ञापयसि तथा करोम्य् एषो ऽहम् अद्याग्रेण सपत्नीको जावज्जीवं रत्नत्रयं शरणङ् गच्छामीत्य् अथ शक्रो देवेन्द्रो दिवाकरं सार्थवाहं सपत्नीकं शरणगमने प्रतिष्ठाप्य राजगृहाद् अन्तर्हितो देवेषु त्रयस्त्रिंशेष्व् प्रत्यष्टात् । तस्य देवपुत्रस्य भवने ततः शक्रो देवेन्द्रस् तस्य देवपुत्रस्यैतत् प्रकरणं विस्तरेणाख्यातवान् ।
स्व रोय् 7,3 - 9,10
[5] यावद् असौ देवपुत्रो देवेभ्यस् त्रयस्त्रिंशेभ्यश् च्युतो राजगृहे नगरे दिवाकरस्य सार्थवाहस्य पत्न्याः कुक्षिम् अवक्रान्तः । स यत एव तस्याः कुक्षिम् अवक्रान्तस् तत एव तस्याः सार्थवाहपत्न्याः शरीरे परा वर्णपुष्कलता प्रादुर्भूता । मनोज्ञश् च गन्धः प्रवातुम् आरब्धः । पञ्चावेणिका धर्मा एकत्ये पण्डितजातीये मातृग्रामे । कतमे पञ्च । रक्तं पुरुषं जानाति । विरक्तं जानाति । कालं जानाति । ऋतुं जानाति । गर्भम् अवक्रान्तं जानाति । यस्य सकाशाद् गर्भो ऽवक्रामति तं जानाति । दारकं जानाति । दारिकां जानाति । स चेद् दारको भवति दक्षिणं कुक्षिं निशृत्य तिष्ठति । स चेद् दारिका भवति । वामं कुक्षिन् निःसृत्य तिष्ठति । सा आत्तमनात्तमना स्वामिने आरोचयति । दिष्ट्यार्यपुत्र वर्द्धसे । आपन्नसत्त्वास्मि संवृत्ता । यथा च मे दक्षिणं कुक्षिं निश्रित्य तिष्ठति नियतं दारको भविष्यतीति । श्रुत्वा च पुनः सो ऽप्य् आत्तमनातमनाः पूर्वकायम् अभ्युन्नमय्य दक्षिणम् बाहुम् अभिप्रसार्योदानम् उदानयति । अप्य् एवाहं चिरकालाभिलषितं पुत्रमुखं पश्येयं जातो मे स्यान् नावजातः कृत्यानि मे कुर्व्वीत भृतः प्रतिबिभृयाद् दायाद्यं प्रतिपद्येत् । कुलवंशो मे चिरस्थितिकः स्याद् अस्माकञ् चात्यतीतकालगतानाम् अल्पं वा प्रभूतम् वा दानानि दत्वा पुण्यानि कृत्वा अस्माकञ् च नाम्ना दक्षिणाम् आदेक्ष्यते । इदं तयोर् यत्र तत्रोपपन्नयोर् गच्छतोर् अनुगच्छत्व् इति
स्व रोय् 10,2 - 12,3
[6] आपन्नसत्त्वाञ् चैनां विदित्वा उपरिप्रासादतलगताम् अयन्त्रितां धारयति । शीते शीतोपकरणै उष्णे उष्णोपकरणैर् वैद्यप्रज्ञप्तैर् आहारैर् नातितिक्तैर् नात्यम्लैर् नातिलवणैर् नातिमधुरैर् नातिकटुकैर् नातिकषायैस् तिक्ताम्ललवणमधुरकटुककषायविवर्जितैर् आहारैर् हारार्धहारविभूषितगात्र्त्रीम् अप्सरसम् इव नन्दनवनविचारिणीं मञ्चान् मञ्चं पीठात् पीठम् अनवतरन्तीम् अधरिमां भूमिं । न चास्याः किञ्चिद् अमनोज्ञशब्दश्रवणं यावद् एव गर्भस्य परिपाकाय । सा अष्टानाम् वा नवानाम् वा मासानाम् अत्ययात् प्रसूता । दारको जातो ऽभिरूपो दर्शनीयः प्रासादिकः सर्वाङ्गप्रत्यङ्गोपेतः । उत्तप्तसुवर्णवर्णया वर्णपुष्कलतया समन्वागतः सर्वजनमनोनयनहरः सुवर्णपीतैर् वस्त्रैर् अवगुण्ठितविग्रहः सर्वशरीराच् चास्य चन्दनगन्धो वाति । मुखाच् चास्य नीलोत्पलगन्धः । तस्य जातमात्रस्य तस्मिन् गृहे वस्त्रवर्षं कर्णिकारकुसुमवर्षञ् च पतितम् । तानि च वस्त्राणि सुवर्णवर्णानि ।
स्व रोय् 12,3 - 14,3
[7] ततस् ताम् अत्यद्भुतां तस्य च रूपौदार्यसम्पदां दृष्ट्वा दिवाकरस्य सार्थवाहस्य पत्नी परिजनश् च परम् विस्मयम् आपन्नः । दिवाकरश् च सार्थवाहो गृहस्य बहिर् द्वारकोष्ठके स्थितः । तस्य निवेदितं सार्थवाहो दिष्ट्या वर्द्धसे पुत्रस् तु जात इति । स हृष्टतुष्टोदग्रमना गृहं प्रविष्टो यावत् पश्यति कुमारम् अत्यन्तम् अभिरूपं दर्शनीयं । प्रासादिकं सर्वाङ्गप्रत्यङ्गोपेतं । उत्तप्तसुवर्णवर्णया वर्णपुष्कलतया समन्वागतं सर्वजनमनोनयनहरं सुवर्णपीतैर् वस्त्रैर् अवगुण्ठितविग्रहं कायाच् चास्य चन्दनगन्धो वाति मुखाच् च नीलोत्पलगन्धः । वस्त्रवर्यं कर्णिकारकुसुमवर्षञ् च पतितं । तानि च वस्त्राणि सुवर्णवर्णानि दृष्ट्वा च पुनः परमप्रीतिप्रामोद्य उदानम् उदानयति अहो लाभा मे सुलब्धाः अहो परिपूणो मे मनोरथो यस्य मे ईदृशः पुण्यमहेशाख्यः पुत्रो जात इति । हृष्टतुष्टप्रमुदितमनास् तानि च वस्त्राणि श्रमणब्राह्मणकृपणवनीपकसुहृत्सम्बन्धिबान्धवेभ्यो दत्तानि ।
स्व रोय् 14,3 - 17,3
[8] तस्य च कुमारस्य त्रीणि सप्तकान्य् एकविंशति दिवसान् विस्तरेण जातमात्रस्य जातिमहं कृत्वा नामधेयं व्यवस्थाप्यते । किं भवतु दारकस्य नामेति । ज्ञातय उचुर् अयं कुमार उत्तप्तसुवर्णवर्णया वर्णपुष्कलतया समन्वागतः । तस्माद् भवतु कुमारस्य सुवर्णवर्ण इति नाम सुवर्णवर्ण इति नामधेयं व्यवस्थापितं सुवर्णवर्णः कुमारो ऽष्टाभ्यो धात्रीभ्यो ऽनुप्रदत्तः । द्वाभ्याम् अङ्कधात्रीभ्यां द्वाभ्यां क्षीरधात्रीभ्यां द्वाभ्यां मलधात्रीभ्यां द्वाभ्यां क्रीडनिकाभ्यां धात्रीभ्यां यावद् आशु वर्द्धते ह्रदस्थम् इव पङ्कजम् स यदा महान् संवृत्तः तदा लिप्याम् उपन्यस्तः संख्यायां गणनायां मुद्रायां उद्धारे न्यासे निक्षेपे वस्तुपरीक्षायां वस्त्रपरीक्षायां वस्त्रपरीक्षायां इभिपरीक्षायां अश्वपरीक्षायां दारुपरीक्षायां रत्नपरीक्षायां कुमारपरीक्षायां कुमारिकापरीक्षायां सो ऽष्टासु परीक्षासूद्घाटको वाचकः पण्डितः पटुप्रचारः सम्वृत्तः । स च श्राद्धो भद्रः कल्याणाशयः आत्महितपरहितं प्रतिपन्नः । कारुणिको महात्मा धर्म्मकामः सत्वत्सलस् तेन च शास्त्राण्य् अधीतानि । सो ऽत्यन्तं पुण्यमहेशाख्यो यच् चिन्तयति । यत् प्रार्थयति । वस्त्रादिकन् धनं सर्वन् तत् तथैव सम्पद्यते । किन् तु न विजानात्य् अहम् एव पुण्यमहेशाख्य इति । दिवाकरश् च सार्थवाहो रत्नत्रयशरणगमनप्रभावान् मे पुत्रो जात इति भूयस्या मात्रया भगवच् छासने ऽभिप्रसन्नः स कालेन कालं भगवच्छासने काराङ् करोति स्म ।
स्व रोय् 17,3 - 19,5
[9] तेन खलु समयेन राजगृहे नगरे विमलो नाम सार्थवाहो महासमुद्रात् संसिद्धयानपात्रो ऽभ्यागतस् तेनार्द्धत्रयोदशपरिवारं बुद्धम् भगवन्तं भोजयित्वा एकैको भिक्षुस् त्रिचीवरेणाच्छादितस् तस्य यशसा सर्वो लोक आपूर्णः सार्थस्य सफलं महासमुद्रावतरणं सार्थवाहशब्दश् च येनैवं भगवच्छासने काराः कृता इति । दिवाकरस्य सार्थवाहस्य श्रुत्वा स्पर्द्धा जाता । अहम् अपि महासमुद्रम् अवतरामि । यदि ततः संसिद्धयानपात्रो ऽभ्यागच्छामि । यावन्तः के चन भगवच्छ्रावका जम्बूद्वीपे प्रतिवसन्ति भगवन्तं विज्ञप्य तान् ऐकध्य सन्निपात्य प्रणीतेनाहारेण सन्तर्प्य एकैकं भिक्षुं महार्हेण त्रिचीवरेणाच्छादयिष्यामीति । तेन पत्न्या एष वृत्तान्तो निवेदितः । सा कथयति स्वामिन् ऋध्यन्तु तव सङ्कल्पाः । परिपूर्यन्ताम् मनोरथा इति । ततो दिवाकरः सार्थवाहो राजगृहे नगरे यावत् त्रिर् अपि घण्टावघोषणङ् कारयित्वा पञ्चवणिकशतपरिवारो महासमुद्रम् अवतीर्णस् तस्य तस्मिन् महासमुद्रे ऽवतीर्णस्य भगवान् परिनिर्वृतस् तत्र स्थितस्यैव चास्य स्थविरमहाकाश्यपो ऽपि परिनिर्वृतो
स्व रोय् 19,5 - 21,3
[10] यावद् अपरेण समयेन सुवर्णवर्णः कुमारो वेणुवनङ् गतस् तत्र भिक्षुर् अनित्यताप्रतिसंयुक्ता गाथा स्वाध्यायति स्म ।
आयुर् दिवा च रात्रौ च चरतो वा स्थितस्य वा ।
स्रोतो महानदीनाम् वा यात्य् एव न निवर्तते ।1।
येषां रात्रिनिवासेन आयुर् अल्पतरम् भवेत् ।
अल्पोदके च मत्स्यानां का नु तेषां रति भवेत् ।2।
परिजीर्णम् इदं रूपं रोगनीडं प्रभङ्गुरं ।
भेत्स्यति पूतिसंघातं मरणान्तं हि जीवितं ।3।
न चिराद् वत कायो ऽयं पृथिवीम् अधिशेष्यते ।
शून्यो व्यपेत विज्ञानो निरस्तं वा कडङ्गरं ।4।
किम् अनेन शरीरेण पूतिविस्रवता सदा ।
नित्यं रोगाभिभूतेन जरामरणभीरुणा ।5।
अनेन पूतिकायेन भङ्गुरेणातुरेण च ।
मीमित परमां शान्तिं योगक्षेमम् अनुत्तरम् इति ।6।
स्व रोय् 21,3 - 23,1
[11] अथैता गाथाः श्रुत्वा सुवर्णवर्णः कुमारः सम्विग्नः संसारान् निर्वाणानुशंसदर्शी । तस्य भिक्षोर् वन्दनां कृत्वा पृच्छति । आर्य किम् इदम् इति भिक्षुणाभिहितम् आयुष्मन् बुद्धवचनम् इति । तस्य श्रुत्वा भगवच्छासने महान् प्रसाद उत्पन्नः प्रव्रज्याभिलाषो मोक्षाभिलाश् च । ततस् तस्य भिक्षोः सत्कृत्य पादयोर् निपत्य कथयत्य् आर्य प्रव्रजितुम् इच्छामि । तदनुकम्पाम् उपादाय मां प्रव्राजयितुम् अर्हसीति । भिक्षुणाभिहितम् आयुष्मन् किम् अनुज्ञातो ऽसि मातापितृभ्याम् इति । स कथयति नेति । भिक्षुः कथयति गच्छायुष्मान् मातापितरौ तावद् अवलोकय न ह्य् अननुज्ञातं मातापितृभ्याम् वयं प्रव्राजयाम इति । स कथयत्य् एवङ् करोमीति ।
स्व रोय् 23,1 - 26,5
[12] ततः सुवर्णवर्णः कुमारः संसारभयोद्विग्नमनाः स्वनिवेशनं गत्वा मातुः पादयोर् निपत्य कथयत्य् अम्बानुजानीहि मां प्रव्रजामि स्वाख्याते धर्मविनये । इति श्रुत्वास्य माता परमविषादम् आपन्ना । उरसि प्रहारं दत्त्वा कथयति । पुत्र त्वम् मे एकपुत्रकः प्रियो मनापः कान्तो ऽप्रतिकूलो मनोरथशतैः प्रतिलब्धः । कथन् नाम त्वं माम् अपहाय प्रव्रजसीति । स कथयत्य् अम्बावश्यं भावी प्रियविप्रयोगस् तद् अनुजानीहि मां प्रव्रजामि स्वाख्याते धर्मविनय इति । तस्य श्रुत्वा महान् सम्वेगो जातः सा बाष्पगद्गदकण्ठी प्रोवाच । पुत्र मा मां त्रिर् अपि वक्ष्यसि । मा मे उष्णं शोणितं मुखाद् आगमिष्यतीति । सा संलक्षयति । यादृशो ऽस्य व्यवसायो न शक्ष्यम् एवं मया निवारयितुम् । उपायसम्विधानङ् करोमीति । ततः सा कथयति । पुत्र तव पिता बुद्धशासने काराङ् करिष्यातीति महासमुद्रम् अवतीर्णः । स यावन् नागच्छति । तावत् त्वान् नानुजानामि । यद्य् असाव् आगत त्वाम् अनुज्ञास्यति प्रव्रजिष्यसीति । स मातृभक्तः संलक्षयति । यदि भूयो ऽप्य् एनां वक्ष्यामि कदाचिद् एषा महान्तं सम्वेगम् आपस्यते । तद् यावन् मे पिता नागच्छति तावत् तिष्ठामीति । स तुष्णीम् अवस्थितः । यदा च सुवर्णवर्णः कुमारो वीथीम् अवतरति । तदा लोकस् तस्य रूपोदार्यसम्पदं दृष्ट्वा निरीक्षमाणो न_अत्र तृप्तिम् उपयाति । स महाजनकायस्य वल्लभो जातस् तस्य रूपौदार्य सम्पदा समाकृष्टमनसो ऽत्यन्तं कामविमुखतां दृष्ट्वा माता संलक्षयति । धिक् कष्टं यादृशो ऽस्य व्यवसायस् तदाप्य् एष माम् अपहाय प्रव्रजिष्यतीति । ततो नित्यं शङ्कितमनसा तस्यानुकूलं प्रवर्तितुम् आरब्धा ॥
स्व रोय् 26,3 - 27,28
[13] सुवर्णवर्णः कुमारो ऽभीक्ष्णम् पण्डितान् श्रमणान् ब्राह्मणान् सेवते । स तत्र यत् सुभाषितं मोक्षमात्रानुकूलं शृणोति । तत्पुस्तके ऽभिलिखति । दिवाकरस्य च सार्थवाहस्य राजगृहान् नगराद् बहिर् उद्यानं पुष्पफलसलिलसम्पन्नं । ततः सुवर्णवर्णः कुमारस् तत् पैतृकम् उद्यानं दिने दिने गत्वा सुभाषितपुस्तकं वाचयंस् तिष्ठति । तेन खलु समयेन राजगृहे नगरे काशिसुन्दरी नाम वेश्या प्रतिवसति । स्त्रीरूपयौवनसम्पन्ना महाजनवल्लभा राज्ञश् चाजातशत्रोः प्रचण्डनामामात्यस् तस्य राज्ञो ऽत्यर्थम् बहुमतः । स काशिसुन्दर्यां दारिकायाम् अत्यर्तं संरक्तचित्तस् तया सह दिने दिने स्वम् उद्यानङ् गत्वा रतिक्रीडाम् अनुभवति ।
स्व रोय् 28,1 - 31,4
[14] यावद् अपरेण समयेन काशिसुन्दरीदारिका सर्वालङ्कारविभूषिता राजगृहान् निर्गत्य प्रचण्डस्यामात्यस्योद्यानं संप्रस्थिता । सुवर्णवर्णश् च कुमारो राजगृहान् नगरान् निर्गत्य स्वम् उद्यानङ् गच्छति । अद्राक्षीत् काशिसुन्दरी दारिका सुवर्णवर्णं कुमारम् अत्यन्तम् अभिरूपं दर्शनीयं प्रासादिकं सर्वाङ्गप्रत्यङ्गोपेतम् उत्तप्तसुवर्णवर्णया वर्णपुष्कलतया समन्वागतं । सर्वजनमनोनयनहरं सुवर्णवर्णपीतैर् वस्त्रैर् अवगुण्ठितविग्रहं दृष्ट्वा च पुनर् अस्या एतद् अभवत् । अहो रूपौदार्यसम्पदः । अहो वर्णपुष्कलता कृतभाग्या सा नारी यस्या एष भर्त्ता भविष्यतीति । सा तस्मिन् अत्यन्तम् आक्षिप्ता संलक्षति । मन्दभाग्या सा नारी सा ईदृशेन पुरुषेण सार्द्धं रतिक्रीडान् नानुभवति । वयं रूपजीविन्यः । साधारणपुरुषाणाम् एष च कुमारः प्रत्यग्रयौवनसमन्वागतः । यन् न्व् अहम् एनं तथा प्रलोभयेयं यथा ममानेन सह संयोगो भवेद् इति । सा तस्य पुरतः स्थित्वा निमित्तम् उपदर्शयितुम् आरब्धा । स महात्मा प्रकृत्यैव कामविमुखत्वान् निर्वाणप्रवणत्वाद् वा च न तां समन्वाहरति ।
स्व रोय् 31,4 - 35
[15] सा संलक्षयति नूनम् एष लज्जीयते । तेनेह मां न समन्वाहरत्य् एष चोद्यानं सम्प्रस्थितो ऽहम् अपि तत्रैव गच्छामि । तत्र चैनं प्रच्छन्ने प्रलोभयिष्यामीति सा तस्य पृष्ठतो ऽनुबद्धा सुवर्णवर्णेन कुमारेणोपलक्षिता तेनाग्रतः प्रविश्य तस्योद्यानस्य द्वारं बद्धं । काशिसुन्दरी दारिका कथयति । कुमार कथम् एवं युज्यते । अहं त्वाम् उद्दिश्यागता । न युक्तं तव मय्य् एवं नैष्ठुर्यम् उपदर्शयितुम् इति । स नैव तस्याः प्रतिवचनं ददाति । सा संलक्षयति । द्वाभ्याम् अत्र भवितव्यं । अथ वात्यन्तं कामैर् अनर्थी । अथवा महता दैन्येनावष्टब्धः । सर्वथा न शक्यम् एष मया रूपेण वा वचसा वा आराधयितुं स्पर्शेनैनम् आराधयिष्यामि । एष च मां दृष्ट्वा द्वारं बध्नाति । क उपायः स्याद् येनाहम् एनं प्रच्छन्नम् आसादयेयं । अथ वाप्रतिसंविदितम् एवास्य श्वः प्रथमतरम् आगत्य एतम् उद्यानं प्रविश्य स्थास्यामि परत एनम् आगतम् आलिङ्गनादिभिः गात्रसंस्पर्शनैस् तथाराधयिष्यामि यथा मे वशगो भविष्यतीति । सैवम् अनुविचिन्त्य प्रतिनिवृत्य नगरं प्रविष्टा । तं च दिवसं प्रचन्ण्डस्यामात्यस्योद्यानं न गता ॥
स्व रोय् 33-35
[16] प्रचण्डो ऽप्य् अमात्यः स्वे उद्याने ताम् उदीक्षमानश् चिरं परिखिन्नः सूर्यस्याष्टङ्गमनकालसमये नगरं प्रविष्टस् तेन स्वे गृहे काशिसुन्दर्या दूतो ऽनुप्रेषितः किम् अर्थं त्वम् अद्य ममोद्यानं नागतेति । काशिसुन्दरी दारिका व्याक्षेपं कृतवती आर्यपुत्राद्य मे शिरोरुजातीव बाधते येनोद्यानं नागतेति । मित्रामित्रमध्यमो लोकस् तस्यापरेणाख्यातं । न तस्याः शिरोरुजा बाधते ऽपि त्व् एषा सुवर्णवर्णस्य कुमारस्य सकाशम् उद्यानं गता । तस्माद् उद्यानान् मया प्रत्यागच्छन्ती दृष्टेति । श्रुत्वा प्रचण्डस्यामात्यस्य क्रोधपर्यवस्थानम् उत्पन्नं । ततः संलक्षयति तादृशम् अनर्थं करिष्यामि । यथा श्वः काशिसुन्दरी दारिका न भविष्यति । सुवर्णवर्णश् च कुमार इति । प्रतिक्रुष्टं चैतद् वैराणां यद् उत स्त्रीवैरम् इति । स क्रोधाग्निना दह्यमानहृदयस् तान् निशां कृच्छ्रेणातिनामितवान् । ततः प्रभातायां रजन्याम् अन्यतमम् आप्तपुरुषम् आमन्त्रयते । खड्गम् गृहाण राजगृहाद् बहिर् उद्यानं गमिष्यामि तत्रास्ति मे किञ्चिद् आत्ययिकं प्रयोजनम् इत्य् एवं स्वामिन्न् इति स पुरुषः खड्गम् आदाय तस्य पृष्ठतो ऽनुबद्धस् ततः प्रचण्डो ऽमात्यस् तेन पुरुषेण सार्धं राजग्रान् निर्गत्य दिवाकरस्य सार्थवाहस्योद्यानं प्रविश्यावस्थितः ॥
स्व रोय् 36,1 - 39,1
[17] काशिसुन्दर्य् अपि दारिका विचित्रवस्त्रालङ्कारालङ्कृतशरीरा राजगृआन् नागरान् निर्गत्य दिवाकरस्य सार्थवाहस्योद्यानङ् गता । सा तत्र प्रविष्टा यावत् पश्यति प्रचण्डम् अमात्यं दृष्ट्वा च पुनः संत्रस्ता । संलक्षयत्य् एष प्रकृत्यैव प्रचण्डो नियतं मे ऽद्य महान्तम् अनर्थङ् करोतीति प्रतिनिवर्त्तितुकामाभूत् । ततः प्रचण्डो ऽमात्यस् तां दृष्ट्वा क्रोधाग्निज्वलितमनास् त्रिशिखां ललाटे भृकुर्टिं कृत्वा प्रधावितस् ततस् तां सरभसं केशेषु गृहीत्वा निर्दयम् अवाङ्मुखीं पृथिव्यां पातयित्वा समाकृष्टवान् एवञ् चाह त्वम् इहागत्य सुवर्णवर्णेन कुमारेण सार्द्धं परिचारयसि । मम चैवङ् कथयसि । शिरोरुजातीव मे बाधते । येन त्वत्सकाशण् नागतेति । तद् अद्य ते तादृशम् मर्यादाबन्धां करोमि येन पुनर् न भवती जीवलोकं द्रक्ष्यति । सुवर्णवर्णेन कुमारेण सार्द्धं परिचारयिष्यामीति । तच् छ्रुत्वा काशिसुन्दरी दारिका तदाकर्षणपराकर्षणजं दुःखम् अगणयित्वा मरणभयभीता बाष्पोपरुद्ध्यमानगदगदकण्ठी हा इदानीन् न भविष्यामीति । कम्पमानगात्री प्रचण्डस्यामात्यस्य पादयोर् निपत्य करुणदीनविलम्वितैर् अक्षरैर् उवाच प्रसीदत्व् आर्यपुत्रो नार्हसि मां प्रघातयितुम् इति नित्यापराधो मातृग्रामः । इतः प्रभृति न भूय एवङ् करिष्यामि । यावज्जीवन् ते दासी भविष्यामि । तद् अलम् अनेन साहसेन प्रयच्छ जीवितम् इति । तस्य दुरात्मन एवं करुणदीनविलम्वितैर् अक्षरैर् उच्यमानस्य क्रोधाग्निर् वर्धत एव । ततस् तं सहायकम् उवाच शीघ्रम् अस्या अनेन खड्गेनोत्कृत्तमूलं शिरः कृत्वा पृथिव्यान् निपातयेत्य् ॥
स्व रोय् 39,1 - 43,2
[18] अथ स पुरुषस् तस्य दुरात्मनो ऽन्यायवचो दुरक्तम् उपश्रुत्य कम्पितुम् आरब्धः । चिन्तयति च । अहो नैर्घृण्यम् एषा हि स्त्री बहुप्रकारम् अस्योपयुक्ता । तत् कथन् नाम स्वल्पस्यापराधस्यार्थे प्रघातयितुम् इच्छति । अहो वयम् अपि जीविकाभयभीता येन नामास्याशीविषप्रख्यस्य पुरुषाधमस्य पार्ष्वे तिष्ठामः । सर्वथाहं महासङ्कटम् अनुप्रविष्टः । किम् अत्र प्राप्तकालं अथ वा स्फुटम् एनं वक्ष्यामि कदाचिद् एव स्फुटम् उच्यमानः प्रतिनिवर्तेतास्मात् पापकाद् असद्धर्माद् इति । विदित्वा सम्विग्नमनास् तस्याश् च स्त्रियास् तैर् अतिकरुणैर् विलापैर् द्रवीकृतसन्तानो बाष्पाम्बुपरिप्लुतq_ईक्षणः कृतकरपुटः प्रचण्डम् अमात्यम् उवाच । प्रसीदतु स्वामी नार्हसि माम् एवंविधे ऽकार्ये नियोजयितुन् नाहं निषादो नापि वध्यघातकः कथं हि नाम यत् कर्म्म वध्यघातकानाम् अपि नोत्सहते मनस् तत्कर्मणि प्रतारयति मां स्वामी । एषा च स्त्री प्रकाशात्यर्थम् अभिरूपा दर्शनीया प्रासादिका सर्वकलाभिज्ञा राजगृहनिवासिनो नानादिग्देशाभ्यागतस्य च विदग्धजनस्यातीव वल्लभा । सामान्यम् इदं मनुष्याणां रतिस्थानं । कथं हि नाम स्वामिन् प्रज्ञातमनुष्यस्य विचक्षणस्यास्मिन्न् अनुनयस्थाने द्वेष उत्पन्नस् तद् अलम् ईदृशेन लोकद्वयविरुधावाहकेन व्यवसायेन । प्रसीद नार्हसि माम् आत्मनञ् चानेन दुश्चरिताग्निना दग्धुम् । अपि च स्वामिन् ।
एषा हि सुकुमाराङ्गी रूपयौवनशालिनी ।
प्रीतिम् एताम् मनुष्याणां मन्ये मार्तिमतीम् इव ।1।
करुणैः करुणैर् दीनैर् मधुरैर् अक्षरैर् इयं ।
विज्ञपयति स्वामिंस् ते दृणाति मम मानसं ।2।
कम्पते हृदयम् मे ऽद्य श्रुत्वा दीप्तं वचस् तव ।
को ऽसौ निर्घृणचित्तः स्याद् य इमां हन्तुम् एधते ।3।
म्लेच्छा अपि नैनां हन्तुम् उत्सहन्ते सुनिर्घृणाः ।
कथन् नु मम तां हन्तुं स्वामिन् उत्सहते मनः ।4।
पशूनाम् अपि यां दृष्ट्वा भवत्य् अनुनयो महान् ।
तस्याः को मनुष्यो भूत्वा शस्त्रेण प्रहरिष्यति ।5।
तत् प्रसीद तवायुक्तम् अपि श्रोतुम् इदम् वचः ।
प्राग् एव अचरितुं स्वामिन् कर्म्मेदम् अतिदारुणम् इति ।6।
स्व रोय् 43,2 - 45,46
[19] अथ स दुरात्मा विपन्नाशयत्वाद् एवम् अपि हृदयग्राहकैर् वचोभिस् तेन पुरुषेणाभिधियमानो नैव स्वचित्तं प्रतिलभते ॥ सरोषभ्रूलताभङ्गरौद्रेण च मुखेन तं पुरुषम् उवाच ॥ भोः पुरुष कस् तवास्यां उपर्य् अनुनयो यन् नाम मदीयाम् आज्ञां विलङ्घ्य नेच्छस्य् एनां प्रघातयितुं सर्वथा यदि त्वम् एनां प्रघातयिष्यसीत्य् एवं कुशलन् नो चेन् न प्रघातयिष्यसि तवाद्य जीवितं च भविष्यतीति । ततो ऽसौ पुरुषस् तस्य तत् कर्कशं व्यवसायं बुद्ध्वा भीतश् चिन्तयितुं प्रवृत्तः । अहो परमशङ्कटम् अनुप्रविष्टो ऽस्मि । स चेद् अस्याज्ञां न करिष्यामि नियतम् अद्य मां जीविताद् व्यपरोपयिष्यति । यो हि नामैवंविधिं मातृग्रामं बहुप्रकारम् उपयुक्तं प्रघातयितुम् उद्यतः स मां न प्रघातयिष्यतीति । कुत एतत् कथञ् च नाम मनुष्यो ऽहम् इत्य् आत्मानम् मन्ये । ईदृश्या जनपदकल्याणिन्याः स्त्रियाः शरीरे शस्त्रं निपातयिष्यामि । सर्वथा कामं स्वजीवितविनाशो न त्व् एवास्याः प्रहारं दास्यामीति निश्चयं कृतवांस् तस्य बुद्धिर् उत्पन्ना यद्य् अहं खड्गम् आदाय निष्पलायेयं एवं मया त्व् आत्मा परिरक्षितो भविष्यति । काशिसुन्दरी दारिकेति । स खड्गम् आदाय तस्माद् उद्यानाद् निष्क्रम्य सर्वजवेन निःपलानः । प्रचण्डो प्य् अमात्यस् तस्य पृष्ठतो द्वारकोष्ठं यावद् अनुबद्धः ।
स्व रोय् 46,1 - 48,49
[20] ततः काशिसुन्दरी दारिका गतप्रत्यागतप्राणम् इवात्मानम् मन्यमनो त्वरितत्वरितम् उत्थाय निःपलायामीति प्राकारसमीपम् अभिगता । सा चोच्चः प्राकारं न शक्नोति विलङ्घयितुं । प्रचण्डश् चामात्यः प्रतिनिवृत्य यावत् तस्मिन् प्रदेशे काशिसुन्दरीं दारिकान् न पश्यति । इतश् चामुतश् च व्यवलोकयितुम् आरब्धो यावत् पश्यति प्राकारसमीपम् अभिगतां स त्वरितत्वरितं तस्याः समीपं गन्तुम् आरब्धः । तत्र च कृष्णसर्प्पो ऽवस्थितः । तेन सा दक्षिणे चरणे दष्टा स तां दृष्ट्वा निष्पलानः । काशिसुन्दरी दारिका संलक्षयति । एषः च प्रचण्डो माम् आगत्य प्रघातयिष्यतीति । तद्गतमानसा मरणभयत्रस्ता न विजानाति । यथाहं कृष्णसर्पेण दष्टेति । प्रचण्डश् चामात्यस् तम् अतिमुक्तकलतागहनम् अनुप्राप्तः । ततस् तेन दुरात्मना निर्घृणहृदयेन तीव्रद्वेषपर्याकुलीकृतमनसा काशिसुन्दरीं दारिकां तस्माद् अतिमुक्तकलतागहनाद् आकृष्य तस्याः शिरसि पार्ष्णिप्रहारो दत्तः । सुकुमारा सा स्त्री तेन प्रहारेण विषवेगेन च मूर्च्छिता प्रचण्डो ऽप्य् अमात्यस् तान् निरीक्षितुम् आरब्धो यावत् पश्यति निश्चेष्टां भूमौ निपतितां तस्यैतद् अभवन् मृतेयम् इदानीं गच्छामीति । ततश् च मां मा कश्चिद् द्रक्ष्यतीति । प्राकारं विलङ्घ्यान्येन पथा राजगृहं प्रविष्टः । तेन प्रविश्य राजपुरुषाः समाज्ञाप्ता । गच्छत दिवाकरस्य सार्थवाहस्योद्यानं प्रत्यवेक्षध्वम् इति । ते संप्रस्थिताः ।
स्व रोय् 49,1 - 50,5
[21] सुवर्णवर्णश् च कुमारो राजगृहान् निष्क्रम्य स्वम् उद्यानम् अनुप्राप्तः । यावत् पश्यति काशिसुन्दरीं दारिकाम् इतश् चामुतश् च समाहृष्टां मुक्तकेशीं निश्चेष्टां भूमौ निपतितां दृष्ट्वा चास्य महासम्वेग उत्पन्नः । तेनोपलक्षितं केनाप्य् एषा दुरात्मना निर्घृणहृदयेन त्यक्तपरलोकेन वैरानुबद्धेनाहानीय प्रघातिता भविष्यति । धिक् कष्टम् ईदृशा अपि नाम सत्त्वा भवन्ति । य एवंविधे मातृग्रामे निर्दयाः प्रहरन्तीति । तेन तद् उद्यानं सर्वं प्रत्यवेक्षितं यावन् न किञ्चित् पश्यति तस्यैव तद् अभवद् एषा स्त्री प्रज्ञाता ऽस्मिन्न् उद्याने प्रघातिता । अत्र न किञ्चित् पश्यामि । सर्वथा दुरात्मना केनापि स्वदौरात्म्यम् अन्तर्गतं प्रकटीकुर्वता मन मस्तके ऽयशो ऽशनिर् निपातित इति । स चैवं सम्विग्नमनाः करे कपोलं दत्त्वा चिन्तापरो व्यस्थितः ।
स्व रोय् 50,5 - 52,3
[22] ते च राजपुरुषाः संप्राप्तः । प्रविश्य च तद् उद्यानं प्रत्यवेक्षितुम् आरब्धाः । यावत् पश्यन्ति काशिसुन्दरीं दारिकाम् इतश् चामुतश् च समाहृष्टां मुक्तकेशीं निश्चेष्टां भूमौ निपतितां । दृष्ट्वा सुवर्णवर्णस्य कुमारस्य पूर्वकर्मविपाकसामर्थ्यान् न तां कश्चित् परिच्छिनत्ति । यथेयं मूर्च्छितेति । किन्तर्हि कालगतेति । ततस् ते राजपुरुषाः परस्परम् ऊचुः । भवन्तः एषा स्त्री केनापि प्रघातितेति । तैस् तद् उद्यानं सर्वं प्रत्यवेक्षितं । सुवर्णवर्णं कुमारं मुक्त्वा न कञ्चिद् अन्यं पश्यन्ति । तैः सुवर्णवर्णः कुमारः पृष्टः । कुमार एषा स्त्री केन प्रघातितेति । स कथयति भवन्तो ऽहम् अपि न जाने मयाप्य् एषा एव दृष्टेति ।
स्व रोय् 52,3 - 54,5
[23] अथ ते राजपुरुषाः परस्परं संजल्पं कर्तुम् आरब्धाः । भवन्त एष कुमारो ऽत्यन्तविनीतो नास्येदं कर्म संभाव्यते । अत्र च न कञ्चिद् अन्यं पश्यामः सर्वथा परमसङ्कटम् अनुप्रविष्टाः स्मः । कथमत्र प्रतिपतव्यम् इति । तत्रैकः कथयति । भवन्तो न वयं परिच्छेत्तुं समर्था । एतां स्त्रियं कुमारञ् च करणमण्डपं नयामस् तत्रामात्या एव परिच्छेत्स्यन्तीति । ततस् ते राजपुरुषास् तां स्त्रियं शिविकाम् आरोप्य सुवर्णवर्णञ् च कुमारम् आदाय करणमण्डपङ् गतास् तत्र च करणमण्डपे प्रचण्डो ऽमात्यः प्रतिपत्त्यैवानुकूलैर् व्यवहारिभिः सार्द्धं सन्निषण्णो ऽभूत् । सन्निपतितो यद्भूयसा तान् एव राजपुरुषान् आगमयमानस् तेन ते दूरत एव दृष्टाः । पृष्टाश् च भवन्तः किम् इदम् इति । तैर् आख्यातम् एषास्माभिः स्त्री दिवारकस्य सार्थवाहस्योद्याने कालगता दृष्टा तञ् चोद्यानम् अस्माभिः प्रत्यवेक्षिततम् । सुवर्णवर्णं कुमारं मुक्त्वा न कञ्चिद् अन्यं पश्यामः एष चास्माभिः पृष्टः कुमारः । इयं स्त्री केन प्रघातितेति । अनेनाख्यातम् अहम् अपि भवन्तो न जाने मयाप्य् एषा एवम् एव दृष्टेति । तद् इदानीं स्वामिन एवं प्रविचारयन्त्व् इति ।
स्व रोय् 54,5 - 56,4
[24] प्रचण्डो ऽमात्यः कथयति । भवन्तो मूहूर्तं तावद् अवीक्षध्वं यावद् अहं राज्ञो निवेदयामीति । तेन राज्ञो ऽजातशत्रोर् गृहं गत्वा दौर्वारिकः पुरुषः पृष्टो भोः पुरुषदेवः किं करोतीति । तेनाख्यातम् उपरिप्रासादतलगतो निःपुरुषेण तूर्येण क्रीडति रमते परिचारयति । लब्धप्रणयो ऽसौ तेन प्रतिहारी प्रेषिता गच्छ देवस्य निवेदयामात्या विज्ञपयन्ति । दिवाकरस्य सार्थवाहस्य पुत्रेणोद्याने काशिसुन्दरी दारिका प्रघातिता । स च न_उभ्युपगच्छति । कथम् अत्रास्माभिः प्रतिपत्तव्यम् इति । तया गत्वा राज्ञो निवेदितं राजा तत्र रतिक्रीडायाम् अतीव शक्तः कथयति । गच्छामात्यान् एवम् वद यूयम् एवं निपुणं प्रविचारयध्वम् इति । तया निर्गत्य प्रचण्डस्यामात्यस्य निवेदितम् एवं देवः समाज्ञापयतीति ।
स्व रोय् 56,4 - 58,4
[25] ततः प्रचण्डो ऽमात्यः करणमण्डपम् आगत्य तान् राजपुरुषान् उवाच । गच्छत भवन्तो वध्यघातकान् आहूयतेति । तैर् आहूताः प्रचण्डो ऽमात्यो वध्यघातकान् उवाच । भवन्तो ऽनेन कुमारेणेयङ् काशिसुन्दरी दारिका उद्याने प्रघातिता । गच्छतैनं दुराचारं पश्चाद् बाहुबन्धनं गाढं कृत्वा खरस्वरेण पटेन वाद्यमानेन रथ्यावीथीचत्वरशृङ्गाटकेषु श्रवणमुखेष्व् अनुश्राव्य दक्षिणेन नगरद्वारेण निर्णमय्य महाश्मशान् नीत्वा शूले समारोपयत मृतञ् चैनं काशिसुन्दर्या दारिकया सहैकाञ् चिताम् आरोप्य ध्यापयतेति । अथ ते वध्यघातकाः सुवर्णवर्णं कुमारम् अत्यर्थम् अभिरूपम् उत्तप्तसुवर्णपर्व्वतशृङ्गम् इव परमया श्रिया ज्वलन्तम् उद्वीक्ष्य सम्विग्नाः परस्परम् ऊचुः । भवन्तः किञ्चापि वयम् वध्यघातकास् तत् कथम् ईदृशमतिदुर्ल्लभदर्शनं पुरुषविशेषं प्रघातयिष्यामः । सर्वथा कामम् अस्माकं स्वजीवितविनाशो न त्व् एवैनं प्रघातयिष्यामः इति ।
स्व रोय् 58,4 - 61,4
[26] प्रचण्डो ऽमात्यस् तान् परस्परं संजल्पं कुर्वाणाङ् दृष्ट्वा पृच्छति । भवन्तः किं स्थीयते । शीघ्रमेनं नयथेति । ते कृताञ्जलयो विज्ञपयितुम् आरब्धाः । प्रसीद स्वामिन् । किञ्चापि वयम् वध्यघातका अपि नोत्सहामहे ईदृशं पुरुषविशेषं महाजनवल्लभं प्रघातयितुम् इति । प्रचण्डो ऽमात्यः कुपितः कथयति । भवन्तो यदि यूयम् एनं न प्रघातयिष्यथ । युष्माकम् एवाद्य सपुत्रकलत्रबान्धवानां जीवितानि न भविष्यन्तीति । ते सन्त्रस्ताः परस्परम् ऊचुः । भवन्तो ऽस्यामात्यस्यान्यायानुरूपो व्यवहारः । यो हि नाम सुवर्णवर्णं कुमारम् एवम् अतिदुर्लभदर्शनं पुरुषविशेषं परित्यक्तुम् उद्यतः यो ऽस्मान् सपुत्रकलत्रबन्धवान् प्रघातयिष्यतीति । कुत एतत् । तद् अतिसङ्कटम् अनुप्रविष्टाः स्मः । कथम् अत्र प्रतिपत्तव्यम् इति । तेषां मरणभयभीतानां बुद्धिर् उत्पन्ना । एषा कुमारो महाजनवल्ल्भस् तद् एनन् तावद् वीथीम् अवतरामः । स्थानम् एतद् विद्यते यन् महाजनकाय एवैनं प्रतिमोचयिष्यति । को ह्य् एनं प्रघात्यमानम् उपेक्षितुं समर्थ इति । ते तस्य समीपम् उपसृष्टाः । पश्चाद् बाहुम् एनम् बध्नीम इति । तञ् च तथा रूपौदार्यसम्पदा विभ्राजमानम् आलोक्य न शक्नुवन्ति स्प्रष्टुं ततो वेपमानाङ्गप्रत्यङ्गा बाष्पोपरुध्यमानगद्गदकण्ठाः क्रन्दितुम् आरब्धाः । हा कष्टम् ईदृशा अपि वयं पापकर्मकारिणो येनैवम्विधे कार्ये नियोज्यामहे इति ।
स्व रोय् 61,4 - 64,2
[27] ततः प्रचण्डेनामात्येन भूयः सकर्कशम् आज्ञप्ताः किम् परिविलम्बध्वे । ते सन्त्रस्ताः सकाशम् अभ्युपगताः । तैर् असौ बाष्पाम्बुपरिप्लुतेक्षणैर् वेपमानैर् गृहीतस् तेनैव सुवर्णपीतेन वस्त्रेण पश्चाद् बाहुको बद्धः । तञ् च पश्चाद् बाहुगाढबन्धनबद्धम् आलोक्य प्रचण्डम् अमात्यं मुक्त्वा सर्व एव करणमण्डपस्थो जनकायस् तद्वियोगमन्युद्रवीकृतसन्तानो ऽश्रूणि प्रपातयितुम् आरब्धो हा कष्टम् इदानीम् एव दुर्लभदर्शनः कुमारो न भविष्यतीति । ततस् तैर् वध्यघातकैर् वीथ्याम् अवतारितो यथास्मिन्न् अन्तरे कोलाहलो जातस् तञ् च कोलाहलम् उपश्रुत्य सस्त्रीपुरुषदारकदारिका राजगृहनिवासीनानादिग्देशाभ्यागतश् च जनकायः सन्निपतितः । सुवर्णवर्णं कुमारं पश्चाद् बाहुगाढबन्धनबद्धम् आलोक्य सम्विग्नमनाः ससम्भ्रमं प्रष्टुम् आरब्ध । भवन्तः किम् इदम् इति । ततस् ते वध्यघातकाः बाष्पोपरुध्यमानगद्गदकण्ठाः क्रन्दन्त ऊचुः । भवन्तो ऽनेन कुमारेण किल काशिसुन्दरी दारिका प्रघातितेति वधाय परित्यक्तो रथ्यावीथीचत्वरशृङ्गाटकेष्व् अनुश्राव्यते । न चिराद् एव महाश्मशानं नीत्वा प्रघात्यत इति ।
स्व रोय् 64,2 - 66,4
[28] तच् छ्रुत्वा स महाजनकायस् तद्वियोगदुःखाभ्याहत एकरवेणोच्चैर् विक्रोष्टुम् आरब्धः । हा हा कथम् अयं कुमार एवमभिरूपो दर्शनीयः प्रासादिकः सर्वाङ्गप्रत्यङ्गोपेत उत्तप्तसुवर्णवर्णया वर्णपुष्कलतया समन्वागतः सर्वजनमनोनयनहरः । पण्डितो विनीतः पेशलो दक्षः कारुणिको महात्मा धर्म्मकामः सत्त्ववत्सलः प्रघात्यते । किम् अस्तङ्गताः साधवः किम् अन्तर्हितो धर्मः किम् अधर्मस्यैव निःसपत्नं राज्यैश्वर्याधिपत्यं प्रत्युपस्थितं । धिक् कष्टम् भोः ।
रूपलावण्यसम्पद्भिर् उत्तमाभिर् अलङ्कृतं ।
दृष्ट्वा दृष्ट्वा यम् अस्माकं परा प्रीतिर् अभूत् पुरा ।1।
तम् एनं साम्प्रतं दृष्ट्वा वध्यघातैर् अधिष्ठितं ।
तीव्रशोकाभिभूतानि स्फुटन्तीव मनान्सि नः ।2।
मनोनयनहारित्वाद् यो महाजनवल्लभः ।
तस्योपरि कथन् नाम राज्ञा दण्डो निपात्यते ।3।
निरीक्षमाणा यन् नित्यं तृप्तिन् नायान्ति देहिनः ।
वधाय स कथं त्यक्तो घृणा त्यक्ताद्य मन्त्रिभिः ।4।
चारित्र्यं विनयोपेतं यस्य ख्यातं मुनेर् इव ।
कथं संभाव्यते तस्य ह्य् अपराधो ऽयम् ईदृशः ।5।
अधर्मो वत जागर्ति धर्मः सुप्तो ऽथ वा मृतः ।
यद् एवं गुणिनो ऽप्य् अस्य वियोगो ऽयम् उपस्थितः ।6।
स्व रोय् 66,4 - 67,4
[29] स च स्त्रीणां अतीव प्रियस् तत्र काश्चित् स्त्रियस् तद्वियोगदुःखाभ्याहताः पृथिव्याम् आवर्तनपरिवर्तनं कुर्वन्ति । काश्चिद् उरस् ताडयन्ति । काश्चित् सम्मोहम् आपद्यन्ते । एकैकास् तत्र पुत्रवियोगसदृशं वियोगदुःखम् अनुभवन्ति स्म । महाजनवल्लभो ऽसौ महात्मा राजगृहनगरनिवासी जनकायो यद्भूयसा तद्वियोगदुःखाभ्याहतो विक्रोष्टुम् आरब्धः । राजगृहं नगरम् आकुलाकुलं ज्ञायते । तद्वियोगाभ्याहतङ् कम्पत इति ।
स्व रोय् 67,4 - 69,1
[30] दिवाकरस्य सार्थवाहस्य गृहाद् दारिका वीथीम् अवतीर्णा । तया एष वृत्तान्तः श्रुतस् ततः क्रन्दमाना उरस् ताडयन्ती त्वरितत्वरितं गृहं गत्वा येन सुवर्णवर्णस्य कुमारस्य माता तेनोपसंक्रान्ता उपसंक्रम्य तस्याः पुरत आत्मानं क्षिप्तवती । ततः सुवर्णवर्णस्य कुमारस्य माता संत्रस्ता पृच्छति । दारिके किं कथयसीति । सा उच्चैर् विक्रोशन्ती कथयितुम् आरब्धा । आर्ये सुवर्णवर्णः कुमारः पश्चाद् बाहुगाढबन्धनबद्धो वध्यघातकैर् अधिष्ठितो ऽनेन किलोद्याने काशिसुन्दरी दारिका प्रघातितेत्य् अविचार्यैव वधाय परित्यक्तो रथ्यावीथीचत्वरशृङ्गाटकेष्व् अनुश्राव्यते । न चिराद् एव महाश्मशानं नीत्वा प्रघात्यत इति ।
स्व रोय् 69,1 - 70,3
[31] तच् छ्रुत्वा सुवर्णवर्णस्य कुमारस्य माता तीव्रदुःखाभ्याहता मूर्च्छिता भूमौ निपतिता । ततो जलाभिषेकप्रत्यागतप्राणा उत्थाय हा पुत्र हा पुत्रेति विक्रोशन्ती केशा लुञ्चमाना उरस् ताडयन्ती कम्पमाना मुहुर् मुहुर् मोहम् उपगच्छन्ती गृहान् निर्गत्य वीथीम् अवतीर्णा । सा पुत्रवियोगशोकाभ्याहता विक्लवहृदया तत्तद् विलपन्ती एकैकं पृच्छति । कतरेण पथा सुवर्णवर्णः कुमारो नीतो भविष्यतीति । हा पुत्रकं न पश्यामि परित्रायध्वं परित्रायध्वं पुत्रकम् मे दर्शयतेति । विरुवन्ती वीथीमध्येन संस्थिता ।
स्व रोय् 70,3 - 73,3
[32] यथा यथा सार्थवाहपत्नी सुवर्णवर्णं कुमारन् न पश्यति । तथा तथा तीव्रतरशोकदुःखाभ्याहता उच्चैर् विक्रोशन्ती एकैकस्य पादयोर् निपत्य कृतकरपुटी विज्ञापयति । परित्रायध्वं परित्रायध्वम् मे शीघ्रम् अवकाशम् अनुप्रयच्छत यावत् कुमारो नातिक्रम्यते अनेन पथा । अनेन पथा पुत्रको मे सुवर्णवर्णः कुमारो नीयते यथा च तं पश्यामि तथा मे प्रसादं कर्तुम् अर्हथेति । सा च तत्रावकाशम् अलभमाना हा कथं भोः पुत्र न लभ इति । सर्वाङ्गिकया पृथिव्याम् आत्मानं क्षिप्तवती । ततो जलोद्धृतेव मत्सी पृथिव्याम् आवर्त्तनपरिवर्तनङ् कर्तुम् आरब्धा । हृतपोतेव कुररी करुणकरुणं विरौति स्म । प्रणष्टवत्सेव गौर् बहुविधहम्भारवैर् विलपिता । हा पुत्रक । हा प्रिय । मनप । हा कान्त । हा अप्रतिकूल । हा मनोरथशतैर् लब्ध । हा अभिरूप दर्शनीय प्रासादिक । हा सर्वाङ्गप्रत्यङ्गोपेत । हा उत्तप्तसुवर्णवर्णया वर्णपुष्कलतया समन्वागत । हा सर्वजनमनोनयनहर । हा सर्वजनवल्लभ । हा नेत्रानन्दकर । हा पण्डित विनीत विशारद मनोज्ञ दक्ष । हा करुणिक धर्मकाम सत्त्ववत्सल । हा मे कुलोद्योतकर । हा मे पुत्रकुलप्रदीप । हा मे हृदयवल्लभ । हा मे हृदयसर्वस्व । हा मे सारसमुच्चय । हा मे नेत्रामृत । हा मे प्रीतिनिबन्धन । हा मे कुशलसर्वस्व । हा कथम् अविचार्यैवम् अनाथो वधाय नीयते स इति ।
स्व रोय् 73,3 - 75,76
[33] पुनर् अपि च कृतकरपुटा पौरान् विज्ञपयन्ती । विक्लवहृदया प्रोवाच ।
हा हतास्मि निरानन्दा किम् इदं वर्तते मम ।
स्वप्नो ऽयम् अथ वा मोह आहोस्विच् चित्तविभ्रमः ।1।
पुत्रशोकेन सा साध्वी तीव्रेण क्षिप्तमानसा ।
पौरान् विज्ञापयाम् आस विरुवन्ती मुहुर् मुहुः ।2।
अविनीतो विरूपो वा न च मे हृदयप्रियः ।
यद् एवम् अध्युपेक्षध्वं नीयमानं सुतम् मम ।3।
अनुकम्पा स चेद् अस्ति पक्षपातो गुणेषु वा ।
तथा मे क्रियतां पौरा यथा पश्यामि पुत्रकं ।4।
न मयाद्य समालब्धश् चन्दनाद्यैर् विलेपनैः ।
मण्डितो नापि बहुधा रोचनाङ्गदबिन्दुभिः ।5।
कटकाद्यैर् अलङ्करैर् न मया समलङ्कृतः ।
न विश्रब्ध परिष्वक्तो बहुशो नापि चुम्बितः ।6।
न मां प्रदक्षिणीकृत्य कृतानेनाद्य वन्दना ।
एवम् एव कथन् नाम नीयते भोः सुतो मम ।7।
शून्या मे ऽद्य दिशः सर्वा वेपते मे कडेवरं ।
दह्यते हृदयञ् चापि मोहम् एति च मानसं ।8।
त्वरितत्वरितं नीतो नृशंसैर् वध्यघातकैः ।
हा हा न भूयो द्रक्ष्यामि सुतं हृदयवल्लभं ।9।
नूनं कृतन् मया पापम् अन्यजन्मनि दारुणं ।
येनैवं पुत्रशोकेन दह्ये कक्षम् इवाग्निना ।10।
येन सत्येन चित्तम् मे शत्रुष्व् अपि न पापकं ।
मुच्यतां व्यसनाद् अस्मात् तेन सत्येन मे सुत इति ।11।
स्व रोय् 76,1 - 77,5
[34] दिवाकरश् च सार्थवाहः समुद्रात् संसिद्धयान्पात्रो राजगृहम् अनुप्राप्तः । स राजगृहन् नगरं प्रविशन् निमित्तान्य् अप्रशस्तानि पश्यति । तस्य हृदयं कम्पितुम् आरब्धं अङ्गानि सीदितुम् आरब्धानि । नेत्रं स्फुरितुम् आरब्धं शकुनयश् चास्य पुरतः खरम् वाशितुम् आरब्धाः । स निमित्तकुशलः शकुनिरुते च कृतवी चिन्तयितुं प्रवृत्तः । यथैतानि निमित्तान्य् अप्रशस्तानि समनुपश्यामि ध्रुवम् अद्य सुवर्णवर्णस्य कुमारस्य महान् उपद्रवः समुपस्थितो भविष्यति । तथा ह्य् एतानि निमित्तानि तद्वियोगं सूचयन्तीत्य् आह च ।
यथा स्फुरति नेत्रम् मे यथा रौति विहङ्गमः ।
ध्रुवम् मे पुत्रकेनाद्य वियोगः समुपस्थितः ।1।
यथा चाङ्गानि सीदन्ति वेपते हृदयञ् च मे ।
ध्रुवं पुत्रवियोगो ऽद्य दारुणः समुपस्थित इति ।2।
स्व रोय् 77,5 - 80,81
[35] स एवम् अनर्थशतसहस्राणि चिन्तयन् सीदमानाङ्गप्रत्यङ्गः । वेपथुर् अप्रगल्भपदसञ्चारः कथञ्चिद् राजगृहम् अनुप्रविष्टो यावच् छृणोति महाजनकायस्य क्रन्दनशब्दं । स तम् आक्रन्दनशब्दम् अनुसरन् वीथीम् अवतीर्णो यावत् पश्यति महाजनकायं राक्षसोपद्रुतम् इव नगरं वियोगदुःखाभ्याहतं क्रन्दमानं तेन सम्मुखागतो ऽन्यतमः पुरुषः पृष्टः । भोः पुरुष किम् इदम् इति । स च तन् न जानाति यथायम् एवासौ दिवाकरः सार्थवाह इति । तेनाख्यातं दिवाकरस्य सार्थवाहस्य पुत्रः सुवर्णवर्णो नाम कुमारो ऽत्यन्तं रूपादिगुणसम्पदा युक्तस् तेन किलोद्याने काशिसुन्दरी दारिका प्रघातितेत्य् अविचार्यैव वधाय परित्यक्तो रथ्यावीथीचत्वरशृङ्गाटकेष्व् अणुश्राव्यते । न चिराद् एव महाश्मशानं नीत्वा प्रघात्यत इति । तच् छ्रुत्वा दिवाकरः सार्थवाहः पुत्रवियोगदुःखाभ्याहतः सहसैव मूर्च्छितो भूमौ निपतितः । ततो जलाभिषेकप्रत्यागतप्राण उत्थाय बाष्पोर्मितरङ्गापूर्यमाणवदनकमलः सम्भ्रान्तः स निरीक्षमाण हा कतरेण पथा सुवर्णवर्णः कुमारो नीतो भविष्यतीति । वीथीमध्येन त्वरितत्वरितं संप्रस्थितः । यावत् पश्यति तावत् पश्यति भार्यां मुक्तकेशीम् उभाभ्यां पाणिभ्याम् उरस् ताडयन्तीं आर्तस्वरं तत् तद्विलपन्तीं सुतवियोगजां दुःखां तीव्रां खरां कटुकाम् अमनआपां वेदनां वेदयमानां दृष्ट्वा च पुनस् तीव्रमन्यूपरुद्धगद्गदायमानकण्ठो बाष्पाम्बुपरिप्लुतेक्षणस् तस्याः सकाशम् उपसंक्रान्तः ।
स्व रोय् 81,2 - 83,5
[36] सा तं दृष्ट्वा द्विगुणतरशोकशल्याभ्याहत बाष्पोर्म्मितरङ्गापूर्यमाणवदनकमला ससम्भ्रमा त्वरितं त्वरितम् उत्थाय तस्य पुरत आत्मानं क्षिप्तवती । सा ततो दिवाकरेण सार्थवाहेनार्तस्वरं क्रन्दमाना परिष्वज्योत्थापिता । सा तस्य पादयोर् निपत्योवाच । सार्थवाहं परित्रायस्व परित्रायस्व पुत्रभिक्षाम् मे ऽनुप्रयच्छेत्य् आह च ।
मन्दभाग्यां निरानन्दा माम् आश्वासय सांप्रतं ।
वियुज्यमानां पुत्रेण विरुदन्तीं सुदुःखितां ।1।
यस्य जन्मनि ते स्वामिन् आनन्दअः परमो ऽभवत् ।
स एव मारणायाद्य नीयते वल्लभः सुतः ।2।
विनीतः पेशलो दक्षो नैकशास्त्रविशारदः ।
रूपेणानुपमेयश् च नीयते पण्डितः सुतः ।3।
छिद्यते कुलवंशस् ते भिद्यते कुलमेथिका ।
कुलोद्योतकरः श्रीमान् दीपो निर्वाप्यते तव ।4।
एतद् धृदय सर्वस्वम् एतत् प्रीतिनिबन्धनं ।
एतन् नेत्रामृतं नॄणां नीयते वध्यघातकैः ।5।
सर्वम् एतद् धि क्रियते एतच् चक्षुर् निरुध्यते ।
पुत्राभिधानं हृदयं एतद् उत्पाट्य नीयते ।6।
तच् छीघ्रं क्रियतां यत्न[ः] सुतस्य परिमुक्तये ।
सर्वस्वम् अपि दत्त्वाद्य पुत्रं माञ् च विमोचय ।7।
ऋध्यन्तु तव सङ्कल्पा ऋध्यत्व् आशासितुम् मनः ।
अप्य् एव तञ् च जीवन्तं द्रक्ष्यामि तव पुत्रकम् इति ।8।
स्व रोय् 83,5 - 86,87
[37] अथ दिवाकरः सार्थवाहः पुत्रवियोगशोकदुःखाभ्याहतो ऽपि धैर्यम् अवलंब्य चित्तेन कृतकरपुटः पौरान् उवाच ॥ भोः भोः पौराः श्रूयतां कथन् नाम युक्तं भवताममेदं व्यसनम् उपस्थितम् उपेक्षितुं । कथम् अटव्याम् इवाविचार्य नगरमध्येन युष्माकं पश्यताम् एव प्रकाशगुणो ऽपि मे कुमारो वधाय नीयते । कथम् अल्पोत्सुकास् तिष्ठथ । कथं प्रतीकारविर्धिर् न चिन्त्यते । कथं कुमारस्य मुक्तये न प्रयत्नध्वम् इति । ते कथयन्ति सार्थवाह ईदृशो ऽयं कुमारो गुणवांस् तवैवैअक्स्येदं व्यसनम् अपि तु सर्वेषाम् एवास्माकं किन् तूपायन् न पश्यामः कुमारस्य प्रतिमुक्तये । येनैव विषण्णामनसस् तिष्ठाम इति । दिवाकरः सार्थवाहः कथयति । भवन्तः परिज्ञात एव युष्माभिर् अयं कुमारो यथात्यन्तं कारुणिको महात्मा धर्मकामः सत्त्ववत्सलः । चित्तम् अप्य् अयम् ईदृशे ऽकार्ये न समर्थ उत्पादयितुं प्राग् एवाचरितुं । ततः कुमारस्य प्रविचारणार्थं यत्न आरभ्यतां । यदि कुमारः प्रविचार्यते नियतम् अस्माद् व्यसनात् परिमुच्यते । यूयञ् च साधवः सर्वजनसाधारणास् तद् युष्माकं विज्ञापयतां न कश्चिद् दोषो दृश्यते । नान्यत्र मय्य् अनुकम्पा दर्शिता भवति । साधुत्वात् गुणानुरागित्वञ् च प्रकाशितं भवति । यत् कारुण्यचित्तं पर्युपस्थाप्य गत्वा राजा विज्ञप्यतां । तन्मन्त्रिणो वा कदाचिच् च ते ऽर्थरुचित्वात् सुयुक्तम् अपि युष्मद्वचनम् अन्यथा न मनयन्ति । अहञ् च पुत्रवियोगेनात्यन्तं व्यथितः । ततः सर्वस्वम् अपि मदीयं दत्त्वा तथा प्रसादः करणीयो यथा कुमारः प्रविचार्यत इति ।
स्व रोय् 87,1 - 89,3
[38] प्रज्ञातो ऽसौ सार्थवाहः कृतमित्रश् च । तेषु वचनात् कुमारगुणानुरागाच् चाभ्युपगतं ततः तैः प्रवीणा व्यवहारिणः पौरिका राजकुलं प्रेषिता उक्ताश् च । स चेद् अद्य कुमारः पुनर् निपुणतरं प्रविचार्यते वयम् अपि राज्ञः सुवर्णलक्षम् अनुप्रयच्छाम इति । ततस् ते पौरिका व्यवहारिणः करणमण्डपङ्गताः प्रचण्डेन चामात्येन दूरत एव दृष्टा उक्ताश् च भवन्तः किम् आगमनप्रयोजनम् इति । तैर् आख्यातं राजगृहनिवासिनश् च पौरा एवं विज्ञपयन्त्य् अयं सुवर्णवर्णः कुमारो ऽत्यर्थं रूपौदार्यसम्पदा युक्तत्वान् महाजनवल्लभश् चेद् अस्य वियोगाद् राजगृहनिवासिनो जनकस्य महती पीडा । धर्माभिरतत्वाद् विनयादिगुणोपेतत्वाच् चास्य न कश्चिद् एनम् अपराधम् अभिश्रद्दधाति । तद् वयं सुवर्णलक्षम् अनुप्रयच्छामः । दिवाकरश् च सार्थवाहः सर्वस्वम् अस्मद्विज्ञप्त्या सुवर्णवर्णः कुमारः प्रतिनिवर्त्य पुनर् निपुणतरं प्रविचार्यताम् एवं कृते चास्माकं विज्ञाप्तिसाकल्यं कृतं भवति । राज्ञश् च कोषः सम्वर्द्धितो भवति ।
स्व रोय् 89,3 - 91,5
[39] प्रचण्डो ऽमात्यः श्रुत्वा रुषितः कथयति । भवन्तः किम् अत्र न विचारितं यद् भूयो विचार्यते यच् च कथयत राजकोश एष संवर्द्धितो भवतीति । तत किं वयम् अन्यायोपात्तैर् द्रव्यै राजकोशं सम्वर्द्धयिष्यामः । न च युष्माभी राज्ञो ऽभिप्रायो ऽवबुद्धः । सर्वथा यूयम् अवश्यं वैशालकानां प्रयोगेणास्य राज्ञो ऽनर्थङ् कर्त्तुकामा येनैवम् उपायेनास्य राज्ञो ऽवर्णं निश्चारयितुम् इच्छथ । अन्यायकार्य् एव राजा यद् एवम् अविचार्यं जनपदं विनाशयतीति । तेन ते निर्भर्त्सिताः । स तान् निर्भर्त्सयित्वा चत्वारो ऽस्य कृतान्तपुरुषसदृशाः सन्ति मनुष्या अतिरौद्रकर्माणः सतताभ्यासवशान् निर्घृणीकृतसन्ताना निष्करुणास् तान् आहूय कथयति । गच्छत शीघ्रं वध्यघातकान् अधितिष्ठत । अस्माद्वचनाच्च वक्तव्या शीघ्रम् एनं नगरान् निष्कास्य यथा सन्दिष्टेन विधिना प्रघातयत । न च युष्माभिर् मां मुक्त्वा राजानम् वानयस्य कस्यचिद् वचनेनायं मोक्तव्यः । एवं हि कुर्वतां श्रेयो ऽन्यथाहं भवताम् महामरार्यादाबन्दङ् करोमीति । एवं स्वामिन्न् इति ते राजपुरुषास् तस्य प्रतिश्रुत्य खड्गपाणयः संप्रस्थितास् ।
स्व रोय् 91,5 - 93,4
[40] ते वध्यघातका व्याक्षेपशतानि कुर्वाणाः शैनः शैनः सुवर्णवर्णं कुमारं रथ्यावीथीचत्वरशृङ्गाटकेष्व् अनुश्रावयन्तः परिभ्रामयन्तो ऽहो वत कुमारस्य केचित् मोचयितारो भविष्यन्त्य् अप्य् एवं वयम् ईदृशम् अकार्यं न कुर्म इति । ते राजपुरुषा निकृष्टखड्गपाणयस् सम्प्राप्ता तैस् तेषाम् वध्यघातकानां यथा सन्दिष्टम् आख्यातं । उक्ताश् च यद्य् एनं शीघ्रं नगरान् निष्क्राम्य यथा सन्दिष्टेन विधिना न प्रघातयत । वयं युष्मान् साम्प्रतम् एव प्रघातयाम इति । ते तान् अतिसेकनिकृष्टान् खड्गव्यग्रष्टान् यमपुरुषान् इवालोक्य संत्रस्तास् ततो मरणभयभीताश् चिन्तयितुं प्रवृत्ताः हा कष्टं न केनचित् कुमारस्य परित्राणं कृतं । सांप्रतम् अस्माभिर् एव प्रघातयितव्यो भविष्यतीति । बाष्पाम्बुपरिप्लुतेक्षणैस् तै राजपुरुषैर् अधिष्ठिताः सुवर्णवर्णं नगरान् निष्क्रामयितुम् आरब्धाः ।
स्व रोय् 93,4 - 96,5
[41] तञ् च नगरान् निष्कास्यमानम् आलोक्यानेकानि प्राणिशतसहस्राणि एकरवेणोच्चैर् विक्रोष्टुम् आरब्धानि हा कष्टम् एष । दिवाकरः सार्थवाहः सर्वस्वेन वियुज्यते । एष दिवाकरस्य सार्थवाहस्य मातृकावङ्शश् छिद्यते । एष दिवाकरस्य सार्थवाहस्य कुलप्रदीपो अन्तर्धाप्यते । एष दिवाकरस्य सार्थवाहस्य कुलनन्दनो ऽन्तद्र्घाप्यते । एष दिवाकरस्य सार्थवाहस्य कुलचूडामणिरपह्रियते । एष दिवाकरस्य सार्थवाहस्य चक्षुर् निरुध्यते । एतद् दिवाकरस्य सार्थवाहस्य कुलविभूषणम् अपह्रियते । एतद् दिवाकरस्य सार्थवाहस्य हृदयम् उतपाट्यते । अमी दिवाकरस्य सार्थवाहस्य मूर्तिमन्तः प्राणा अपह्रियन्ते । हा कष्टं कथं नाम कुमारो ऽटव्याम् एवं परिभ्राम्य निष्कासितो न केनचिद् अस्य परित्राणं कृतं । एष साम्प्रतं राजगृहान् नगराच् चन्द्रमा मृत्युराहुणा ग्रस्यते । एष राजगृहनगरनभस्तलदिवाकरो ऽस्तङ्गच्छति । एतद् राजगृहनगरनिवासिनां पौराणां नेत्रामृतम् अदर्शनपथे व्यवस्थाप्यते । एतद् राजगृहनगरनिवासिनां पौराणां प्रीतिनिबन्धनं विलुप्यते । एतद् राजनगृहनगरनिवासिनां पौराणां विभूषणम् अपह्रियते । एष राजगृहनगरनिवासिनां पौराणां चूडामणिर् अपह्रियते । एष राजगृहनगरनिवासिनां पौराणां हृदयवल्लभो विनाशाय नीयते । कम् इदानीं राजगृहनिवासिनः पौरा अनिमिषम् अवलोकयिष्यन्ति । कम् इदानीं दृष्ट्वा प्रीतिमनसो भविष्यन्तीति निराशीभूताः ॥
स्व रोय् 96,5 - 99,2
[42] प्रचण्डस्यामात्यस्यान्यतयमेन पुरुषेणागत्य निवेदितं । निःकासितः सुवर्णवर्णः कुमारो राजगृहान् नगराद् इति । स श्रुत्वा प्रीतिमनाः सम्वृत्तः । ततस् ते पौरिका व्यवहारिणस् तच् छ्रुत्वा निराशीभूतास् तैर् आगत्य तेषां पौराणाम् एतत् प्रकरणं विस्तरेणावेदितं । तच् छ्रुत्वा ते ऽपि पौरा निराशीभूताः । समुद्विग्नाः परस्परम् ऊचुः । भवन्तो ऽपि कलिराजेन तादृशः पिता धार्मिको धर्मराजा जीविताद् व्यवरोपितः । इदानीम् आरब्ध एवंविधान् अपि प्रख्यातगुणान् महाजनवल्लभान् पुरुषविशेषान् असंदृश्यान् प्रघातयितुं । अहो नैर्घृण्यम् अहो गुणाज्ञता । अहो ऽविशेषज्ञता मन्त्रिणां यो नामैवम् अत्यन्तरूपौदार्यसम्पन्नत्वाच् च विनीतत्वाच् च पूजाम् अर्हति स एव गुणवान् पुरुषविशेषः कथम् अविचार्य बधाय परित्यज्यते । अथवा काल एवायम् ईदृशः समुपस्थितो यद् असन्तो विवर्द्धन्ते । एवं गुणयुक्तस्य जनस्यैवंविधो वियोगो भविष्यतीति । कालोपकर्ष्य दौरात्म्यम् उद्भावयन्तो दिवाकरस्य सार्थवाहस्य एतत् प्रकरणं विस्तरेणाख्यातवन्तः ।
स्व रोय् 99,2 - 101,102
[43] तच् छ्रुत्वा विहताशो दिवाकरः सार्थवाहस् तीव्र शोकदुःखाभ्याहतो मूर्च्छितो भूमौ पतितः । ततो जलपरिषेकप्रत्यागतप्राणो विषण्णमना निरानन्दः सांप्रतं पुत्रको मे प्रघात्यत इति । उच्चैर् विक्रोष्टुम् आरब्धः ।
लोचनानन्द हा पुत्र हा मे कुलविभूषण ।
मग्दभाग्यस्य मे तात निराक्रन्दः प्रपात्यसे ।1।
विमुह्यते मे हृदयं भ्रमन्ति च दिशो ऽधुना ।
त्वद्वियोगाग्निसंतप्तं दह्यते वत मे मनः ।2।
पण्डितस्य विनीतस्य कारुण्यनिरतस्य च ।
हा कथं दारुणं तात तव व्यसनम् आगतं ।3।
त्वज्जन्मजनितां प्रीतिं पुत्र प्राप्यातुलाम् अहं ।
सत्पुत्र त्वद्वियोगेन सोकाग्नौ पतितः पुनः ।4।
निर्घृणाश् चाविशेषज्ञा अहो राज्ञो ऽस्य मन्त्रिणः ।
यैर् एवं विनयोपेतस् त्वं पुत्र न विचारितः ।5।
अहो नृपतिना तेन नैर्घृण्यं प्रकाशितं ।
येनैवम् अविचार्याद्य परित्यक्तो ऽसि पुत्रक ।6।
विशेषो धिक् साधुजनो नूनम् अस्तङ्गतो हृदि ।
गुणवान् अपि यत् पुत्र निराक्रन्दः प्रघात्यसे ।7।
तत् किं विप्रोषिताः सर्वा नगरस्यास्य देवताः ।
घात्यमानम् उपेक्षन्ते यद् एवं गुणिनं जनं ।8।
सेन्द्राः सलोकपालाश् च देवा ये च महर्द्धिकाः ।
अनुकम्पाम् उपादाय ते मे रक्षन्तु पुत्रकं ।9।
सिद्धव्रता महात्मानो मुनयः सन्ति ये ऽधुना ।
ते ऽनुकम्पां पुरस्कृत्य परिरक्षन्तु मे सुतम् इति ।10।
स्व रोय् 102,1 - 105,4
[44] तस्य बुद्धिर् उत्पन्ना किम् अर्थम् अहं विषीदामि यन् न्व् अहं बुद्धं भगवन्तं सकलजगद् एकबान्धवं महाकारुणिकं समुनस्मरेयं स हि भगवान् अनाथानान् नाथः । अत्राणानां त्राणं । अशरणानां शरणं । अपरायणानां परायणं । तथा हि तेन भगवता कृच्छ्रसङ्कटसम्बाधप्राप्ता बहवः सत्त्वास् तेभ्यस् तेभ्यो महाभयेभ्यः परिमोचिता । तथा महासमुद्रम् अध्यगता वणिजो मकरस्य भयसन्त्रस्ताः समनुस्मरणमात्रेणैव तस्मान् मरणभयात् परित्राताः । तथा नैक पुरुषघातकेनैकरभसेनोद्यतशस्त्रेणाङ्गुलीमालेन घात्यमाना तज्जननी तस्माज् जीवितोपच्छेदभयात् परित्राता । तथा च पूर्वजन्मवैरानुबन्न्धसामर्थ्याद् अनेकप्राणिशतसहस्त्रोपघातथम् अभिप्रज्वालितक्रूरहुताशनस्य मानुषमांसरसास्वादलोभात् श्रवल्लालावलेलिहान_जिह्वा_विकटदीर्घतीक्ष्णदंष्ट्राकरालभीषणमुखस्य यक्षस्याहारार्थम् उपनामितस् तद्वद्वनसमीपस्थो हस्तक आटवकस् तस्मान् मरणभयात् परित्राता ॥ समर्थः स भगवान् मे पुत्रम् अस्मात् सङ्कटात् परिमोचयितुं । यन् न्व् अहं तम् एव भगवन्तं महाकरुणिकं पर्मवत्सलस्वभावं समनुस्मरेयम् इति । समीपस्थम् अन्यतम् उपासकं पृष्टवान् इदानीं भगवान् कुत्र विहरतीति । ततो ऽसव् उपासको भगवन्तम् अनुस्मृत्य बाष्पोपरुध्यमानगद्गदकण्ठम् उवाच । सार्थवाहः
यः सार्थवाहो लोकस्य यो लोके सुखदायकः ।
निर्वृतः स महाशास्ता सर्वलोकैकबान्धवः ।1।
यः प्रदीपो ऽप्रदीपानां शरणं यः परायणं ।
निर्वृतः स जिनो लोके दीपः स्नेहक्षयाद् इति ।2।
स्व रोय् 105,4 - 111,2
[45] तच् छ्रुत्वा दिवाकरः सार्थवाहो भगवद्वियोगाद् द्विगुणीकृतशोकशल्याभ्याहतो मूर्च्छितो भूमौ निपपात । ततो जलपरिषेकप्रत्यागतप्राण उत्थाय यस्यां दिशि भगवान् परिनिर्वृतस् तदभिमुखो उच्चैर् विक्रोष्टुम् आरब्धः ।
हा धर्मराज सर्वज्ञ दोषारिगणसूदन ।
अनाथं जनमुत्सृज्य लोकनाथ गतो ऽसि किं ।1।
हा विभो ख्यातचारित्र सर्वसत्त्वैकबान्धव ।
सर्वयोगाविसंयुक्त निर्वाणपथदेशक ।2।
हा कथं वत लोको ऽयम् अविद्यावृतलोचनः ।
त्वया नाथेन रहितः संसारे विभ्रमिष्यति ।3।
परानुकम्पशौटीर्ये त्वयि निर्वृतिम् आगते ।
अनाथः खल्व् अयं लोकः कं नाथं संश्रयिष्यति ।4।
ये च ते धर्मतो जाता विनेयजनपुत्रकाः ।
त्वया विहीनास् ते सर्वे करिष्यन्ति कम् आश्रयं ।5।
बहूनां सफलाम् आशां कृत्वा दुःखनिषूदन ।
विहताशं जनं कृत्वा काम् आशां त्वं गतो मुने ।6।
यदि पौराः समेष्यन्ति त्वद्वाक्यश्रवणोत्सुका ।
को नु वक्ष्यति सद्धर्मम् अधुना निर्वृते त्वयि ।7।
हा हतो ऽयम् अन्य लोको लोकः सामरकिन्नरः ।
सुदुल्लर्भेन नाथेन वियुक्तो यत्त्वया मुने ।8।
कथन् नाम करिष्यन्ति प्राणिनो धर्मलालसाः ।
श्रुत्वा तवैकनाथस्य निर्वाणं शासनाप्रियाः ।9।
करुणैकरसम् धीरं त्वाम् आश्रित्यानुकम्पकं ।
ये गुणाः समवाप्यन्ते कस् तन् भूयो न ऽभिधास्यति ।10।
कथन् नाम त्रिलोकार्थे समुत्पाद्य महाकृपां ।
कृपालोकतत्वज्ञ त्वं ह्य् उपेक्षां समाश्रितः ।11।
कष्टं भो गुणरत्नाढ्या कल्पकोटिसमाहित ।
मृत्युपातालम् आसाद्य धर्मनौर् विनिपातिता ।12।
कष्टं भो यद् अविद्यान्धो बुद्धदैशिकवर्जितः ।
लोको ऽयं जन्मकान्तारे प्रणष्टं श्रयम् एष्यति ।13।
महती वतलोकानां परिहाणिर् उपस्थिता ॥
बुद्धरत्नेन महता वियुक्तानाम् इहाधुना ।14।
त्वया भिक्षुगणं शून्यं ऋषभेनेव गोगणं ।
कथं न विदुषां दृष्ट्वा हृदयन् न विदीर्यते ।15।
भक्त्यानतोत्तमाङ्गा हि कस्य भूयो दिवौकसः ।
शिरसा धारयिष्यन्ति पदाग्रविहितं रजः ।16।
सर्वसत्त्वसमा प्राप्ता नृशंसा खल्व् अनित्यता ।
यया त्वय्य् अपि नामाद्य पक्षपातो न दर्शितः ।17।
अष्टाङ्गमार्ग्गभैषज्यक्लेशव्याधिचिकित्सतः ।
महाकारुणिकः शास्ता वैद्यराजो निपातितः ।18।
हा नृशंसम् अतिक्षिप्रं निर्वृतो लोकनायकः ।
अन्धभूतस्य लोकस्य चक्षुर्दाता ह्य् अनुत्तरः ।19।
निर्वृते त्वयि को मे ऽद्य पुत्ररत्नम् अनागसं ।
घात्यमानम् इहागत्य सहसा मोचयिष्यति ।20।
त्रातरि त्वय्य् अनाथानां गते तु परमाङ् गतिम् ।
हा जातः सांप्रतम् अहं निराशः सुतजीविते ।21।
अद्य मे तत् सुविहितं यत् त्वयोक्तं महात्मने ।
सर्वैः प्रियैर् विनाभावो भवतीत्य् उत्तमं वच इति ।22।
स्व रोय् 111,2 - 115,2
[46] स एवम् बहुविध परिदेव्य तम् उपासकम् उवाच । भोः कश्चिन् महाश्रावको ऽपि तावत् तस्य भगवतो ऽवशिष्यते । कस्य भगवान् शासनम् अनुपरीक्ष्य परिनिर्वृत इति । ततस् तेनोपासकेनोक्तं सार्थवाह श्रूयते भगवान् स्थविरमहाकाश्यपस्य शासनम् अनुपरीक्ष्य परिनिर्वृतः । स्थविरमहाकाश्यपो ऽपि भगवदाज्ञयैव स्थविरानन्दस्य शासनम् अनुपरीन्द्य परिनिर्वृतः । स इदानीं स्थविराननन्दो महात्मा शासनधूर्धरः । स इदानीं तथागत इव कारुण्यात् तांस् तान् ग्रामनगरनिगमपल्लीपत्तनादीन् गत्वा विनेयं जनानुग्रहं करोति । तथानवरोपितकुशलमूलानां सत्त्वानां कुशलमूलावरोपणङ् करोति । समुचितकुशलसन्ततीनां परिपाचनङ् करोति । परिपक्वकुशलमूलसन्ततीनां परिमोचयति । तथा क्लेशव्याधिग्रस्तानां सत्त्वानां धर्मदेशनाभैषज्यप्रदानेन विचिकित्सं करोति सुवैद्यवत् । क्लेशान्धकारावष्टब्धानां सत्त्वानां सद्धर्म्देशनारश्मिनिकरेण क्लेशान्धकारं विधमयति सूर्यवत् । वचनकरसमूहेन वैनेयकुमुदवनप्रबोधनं करोति चन्द्रवत् । वैनेयकोट्टराजसहस्त्राणि सद्धर्मदेशनया समनुशास्ति चक्रवर्त्तिवत् । स्वप्रज्ञप्रतिभाननादेन कुतीर्थ्यमृगगणविद्रावणङ् करोति सिंहवत् । समुपदेशवैनेयसार्थनिस्तारणं करोति दैशिकवत् । सद्धर्मपाण्यावतारणं करोति सार्थवाहवत् । कुशलबीजप्ररोहणं करोति महामेघवत् । हिताहितोपदेशं करोति मातापितृवत् । अदान्तान् सत्त्वान् दमयत्य् अमुक्तान् मोचयत्य् अनाश्वस्तान् आश्वसयत्य् अपरिनिर्वृतान् परिनिर्वापयति । तथा कृच्छ्रसङ्कटसम्वाधप्राप्तान् सत्त्वान् महाभयेभ्यो मोचयति । संक्षेपात् स महात्मा बुद्धकार्यङ् करोति । तम् एव समनुस्मर । समर्थः स ते ऽद्य सुतम् अस्मात् सङ्कटात् परिमोचयतुम् इति ।
स्व रोय् 115,2 - 118,4
[47] तच् छ्रुत्वा दिवाकरः सार्थवाहो गतप्रत्यागतप्राण इव ससंभ्रमस् तम् उपासकम् उवाच । कुत्रेदानीं स आनन्दो विहरतीति । तेनोक्तं सार्थवाह श्रुतं मया स्थविरानन्द एतर्हि वैशाल्याम् विहरत्य् आम्रपालीवन इति । अथ दिवाकरः सार्थवाहः सहसैवोत्थाय जानुमण्डले पृथिव्यां प्रतिष्ठाप्य येन वैशाली तेनाञ्जलिं प्रणम्य सुतवियोगशोकदुःखाभ्याहतो बाष्पोर्मितरङ्गापूर्यमाणवदनकमलः साश्रुपर्याकुलेक्षणस् तीव्रेणाशयेन स्थविरानन्दम् आयाचितुं प्रवृत्तः ॥
यदि त्वं परमाचार्य सत्त्वाशयविदुत्तमः ।
आशयानुशयं ज्ञात्वा इमम् अभ्यर्थनां शृणु ।1।
निर्वृतो भगवान् बुद्धः शिष्याश् चास्य महर्द्धिकाः ।
अवशिष्टस् त्वम् एको हि तेषां शासनवर्धनः ।2।
त्वम् समाश्वासभूतोभूतो ऽस्य जगतस् त्वं परायणः ।
व्यवलोक्याधुना कार्यं सर्वसत्त्वहितं त्वया ।3।
तद् अद्यैवंविधे नाथे तिष्ठत्य् आरक्षके त्वयि ।
निराक्रन्दः सुतो ऽस्माकं कथम् एवं प्रघात्यते ।4।
न भवेद् यदि सत्त्वार्थो न तिष्ठेयुर् भवद्विधाः ।
घात्यमानं जनं श्राद्धम् एवं कथम् उपेक्षसे ।5।
सत्त्वार्थञ् चेच् छरीरं हि त्वं धारयसि सुव्रत ।
तत् कृपां सम्मुखीकृत्य समन्वाहर मे सुतं ।6।
हतसर्वप्रतीकारम् अत्राणम् अपरायणम् ।
शोकपङ्कावलग्नम् मां सपत्नीकं समुद्धर ।7।
कम् वा विज्ञपयाम्य् अन्यं को ऽन्यो ऽप्य् एवं जगद्धिते ।
निर्दिष्टः शाक्यमुनिना यथा त्वम् अधुना प्रभो ।8।
त्वदृते पुत्रकस्यान्यस् त्राता नास्ति विभो यतः ।
तस्मात् त्वरितम् आगम्य पुत्रम् मे त्रातुम् अर्हसि ।9।
पुत्रशोकारिणा ग्रस्तं दुःसहेन दुरात्मना ।
सपत्नीकं निरानन्दम् आनन्दानन्दयाद्य मां ।10।
इत्य्
स्व रोय् 118,4 - 121,122
[48] अथैतस्मिन्न् अन्तरे स्थविरानन्दः करुणयापूर्य्यमाणश् चिन्तयंस् त्रिरात्रेस्त्रिदिवसस्य श्रावकचक्षुषा लोकं व्यवलोकयति । को हीयते को वर्द्धते कः कृच्छ्रप्राप्तः कः सङ्कटप्राप्तः कः सम्बाधप्राप्तः कः कृच्छ्रसङ्कटसम्बाधप्राप्तः । को ऽपायनिम्नः को ऽपायप्रवणः को ऽपायप्राप्तारः । कम् अहम् अपायमार्गाद् उद्धृत्य स्वर्गे मोक्षे च प्रतिष्ठापयेयं । कस्य कामपङ्कनिमग्नस्य हस्तोद्धारम् अनुप्रदद्यां । कम् आर्यधनविरहितं आर्यधनैश्वर्याधिपत्ये प्रतिष्ठापयेयम् इत्य् अद्राक्षीत् स्थविरानन्दः स्थविरशारद्वतीसुतसमेन चक्षुषा सुवर्णवर्णं कुमारमुपचितकुशलमूलसम्भारं कृच्छ्रसङ्कटसम्बाधप्राप्तं च दृष्ट्वा पुनस् तत्रस्थ एव ऋद्ध्या गजभुजसदृशम् बाहुम् अभिप्रसार्य सहसैव राजानम् अजातशत्रुम् उपरिप्रासादतलगतम् अतिप्रमत्तविहारिणम् अच्छटाशब्देन प्रबोध्य व्यापिना स्वरेणोवाच । महाराज न शोभनं ते कृतं यत सुवर्णवर्णः कुमारः स्वयम् एव न विचारितस् तथाद्यैष न सांप्रतम् अत्राप्य् अनपकारी राजगृहान् निष्काश्य महाश्मशानं नीयते प्रघातयितुं । निवारयेत्य् अथैतत् स्थविरानन्दवचनम् उपश्रुत्य राजा ससम्भ्रमं त्वरितम् अभिनम्य स्थविरनन्दम् उपरिधवलगृहस्थ उत्थाय महता स्वरेण चतुर्दिशम् उक्तं भोः श्रूयतां यो महाश्माशानं त्वरित मभिगम्यास्मद्वचनात् सुवर्णवर्णं कुमारं घात्यमानं प्रतिमोचयति तस्याहं सुवर्णपेटकमनु प्रयच्छामि पञ्च च ग्रामवराणि। महाजनवल्लभो ऽसौ कुमारः। तद् राज्ञो वचनम् उपश्रुत्य प्राणिसहस्राणि प्रधावितानि ॥
स्व रोय् 122,1 - 123,4
[49] अथैतस्मिन्न् अन्तरे वध्यघातकास् तै राजपुरुषैर् अधिष्ठिताः सुवर्णवर्णं कुमारम् आदाय महाश्मशानम् अनुप्राप्ताः । काशिसुन्दरी दारिका स्वकैर् ज्ञातिभिर् नीलपीतलोकहितावदातैर् वस्त्रैः समलङ्कृतायां शिविकायाम् आरोप्य महाश्मशानम् अभिनिर्हृता तस्या ज्ञातयस् ताम् एकस्मिन् प्रदेशे स्थापयित्वा काष्ठानि समुदानीय चिताम् उपरचयितुम् आरब्धाः । तैश् च वध्यघातकैर् उक्ताः । एतावद् एषा युष्माभिश् चितायाम् आरोपयितव्या मुहूर्तं तावद् उदीक्षध्वं । यावद् वयं सुवर्णवर्णं कुमारं शूले प्रोतं कृत्वा प्रघातयामो यत् कारणम् एष सुवर्णवर्णः कुमारो ऽनया काशिसुन्दर्या दारिकया सह एकां चिताम् आरोप्य ध्यापयितव्य इत्य् उक्त्वा शूलं पृथिव्यां प्रतिष्ठापयितुम् आरब्धाः ॥
स्व रोय् 123,2 - 125,3
[50] अथ सुवर्णवर्णः कुमारः शूलं पृथिव्यां प्रतिष्ठाप्य मानम् आलोक्य मातरम् अनुस्मृत्य तीव्रमन्युद्रवीकृतसन्तानो ऽश्रूणि प्रपातयितुम् आरब्धः । सांप्रतं मातुर् मद्वियोगं श्रुत्वा का ऽवस्था भविष्यति । या हि नाम पूर्वं यामार्द्धमात्रम् अपि माम् अपश्यन्ती परापीडाप्रवेदितवती सा मयाद्यैकपुत्रेण वियुक्ता कथं प्राणान् धारयिष्यति । हा कष्टम् ईदृशो ऽप्य् अहम् एवम् अधन्यो यन् माम् आगम्य माता मद्वियोगदुःखं प्रत्यनुभविष्यतीति । ततस् तैर् वध्यघातकैः तत् शूलं पृथिव्यां निखातं परपराङ् च सङ्जल्पङ् कर्तुम् आरब्धः । को ऽस्माकं कुमारं शूले समारोपयति । तत्र चैकैको ऽपि व्याजं कर्तुम् आरब्धो यूयम् आरोपयत । मम शिरोरुजात्यर्थम् बाधते । मम पृष्ठशूलम् मम पार्श्वशूलम् इति न तेषां कश्चिद् उत्सहते स्म तद् अकार्यङ् कर्तुं ॥
स्व रोय् 125,3 - 127,128
[51] ततः सुवर्णवर्णः कुमारस् तेषां सञ्जरुपं श्रुत्वा शूलञ् च पृथिव्यां निखातम् उद्वीक्ष्य हा साम्प्रतम् अहं न भविष्यामीति । संसार दोषोद्विग्नो मोक्षमार्ग्गाभिलाषी निरानन्दमात्मानमवगम्य परम् अभयविषाद विह्वलेक्षणो विक्रोष्टुम् आरब्धः । हा कष्टम् इदानीं मया सुदुर्ल्लभं सद्धर्ममहोत्सवं मनुष्यत्वम् आसाद्याकृतार्थे नैव मर्त्तव्यम् भविष्यतीति । हा पुनर् अपि संसारे संसरिष्यामि । पुनर् अपि मया संसारचारके वस्तव्यं भविष्यति । पुनः संसाराटव्यां परिभ्रमितव्यं भविष्यति । पुनः संसारमहागहनं प्रवेष्टव्यम् भविष्यति । पुनः संसारमहाप्रपाते पतितव्यम् भविष्यति । पुनः संसारमहाजम्बालमध्ये स्थातव्यम् भविष्यति । पुनर् मया सञ्जीवनकालसूत्रसंघातरौरवमहारौरवप्रतापनावीच्यादिषु नरकेषूपपत्तव्यं भविष्यति । पुनर् अपि मया गजगवयमहिषशशशरभमृगरुरुचमरबिडालचित्रासु योनिषूपपत्तव्यम् भविष्यति । पुनर् अपि मया सततं क्षुत्तृष्णादिमहद्दुःखदौर्मनस्यपरीतेषु निर्नष्टपानभोजनशब्देषु मूत्रपुरीषखेटसिंहाणकाद्याहारेषु गलगण्डकादिषु प्रेतेषूपपत्तव्यम् भविष्यति ॥
स्व रोय् 128,1 - 130,1
[52] श्रूयते च कदाचित् कर्हिचित् तथागता अर्हन्तः सम्यक्सम्बुद्धा लोक उत्पद्यन्ते । तद् यथोदुम्बरे पुष्पं कदाचित् कर्हिचित् तथागतप्रवेदितस्य धर्मविनयस्य लोकेषु दर्शनार्थं प्रज्ञायते । दुर्ल्लभा क्षणसम्पद् दुर्ल्लभम् मनुष्यत्वम् आर्यायतने प्रत्याजातिर् इन्द्रयैर् विकलता ऽजडता ऽनेडमूकता ऽहस्तसम्वार्तिकता प्रतिबलता सुभाषितदुर्भाषितानां धर्माणाम् अर्थम् आज्ञातुं । अहञ् चात्र विरतितो ऽद्य न भविष्यामि । तद् इदम् अष्टाक्षणविनिर्मुक्तम् मे मनुष्यत्वं विफली भविष्यति । तत किम् इदानीङ् करोमि । किं भगवान् महाकारुणिको बुद्धस् तिष्ठति यं समनुस्मारामि यो माम् आस्याम् अवस्थायाम् अनाथम् अत्राणम् अशरणं अपरायणं निरालोकं कृच्छ्रसङ्कटसम्बाधप्राप्तं महाकारुणिकत्वाद् आगत्य परित्रास्यते । स च भगवान् मम भाग्यापराधेन लघु लघु एव परिनिर्वृतः । तत् किम् इदानीम् अस्याम् अवस्थायां समनुस्मरामि । को मे तथागत इव कारुण्याद् आगत्य परित्राणङ् करिष्यतीति । निराशीभूतः कम्पितुम् आरब्धः ॥
स्व रोय् 130,1 - 133,134
[53] तस्य बुद्धिर् उत्पन्ना स्थविरानन्दो महात्मा तिष्ठति । तं समनुस्मरामि । सो ऽपि महात्मा श्रूयते सर्वसत्त्वहितावहितचित्तसन्तानः । तस्य भगवता स्थविर्महाकाश्यपेन च सकलं शासनम् अनुपरीन्दितं । तेनाधुनावलोक्यावलोक्य सर्वसत्त्वहितं करणीयं महार्द्धिकश् चासौ महानुभावः समर्थश् च स्थविरानन्दो माम् अस्माद् व्यसनात् परित्रातुं तम् एव समनुस्मरामीति विदित्वा वाष्पाम्बुपरिप्लुतेक्षणः । संसारभयोद्विग्नः । परमसम्वेगप्राप्तस् तीव्रेणाशयेन स्थविरानन्दम् आयाचितुं प्रवृत्तः ॥
संसारभयभीतस्य निरानन्दस्य मे सतः ।
स्थविरानन्द विज्ञप्तिं त्वम् इदानीं श्रोतुम् अर्हसि ।1।
सत्त्वार्थभारं निक्षिप्य सर्वज्ञः करुणात्मकः ।
अयि निर्वृतिम् आयातः काश्यपे तु महात्मनि ।2।
स्थविरो ऽपि कृतार्थो ऽसौ काश्यपः परिनिर्वृत्तः ।
त्वय्य् एव भारं निक्षिप्य जगतो ऽस्य विभूतये ।3।
इदानीं निर्वृतिं याते सम्बुद्धे लोकबान्धवे ।
सर्वसत्त्वहितोद्युक्ते काश्यपे च यशस्विनि ।4।
अनाथानां भवान् नाथो भीतानाम् अभयप्रदः ।
विश्रामभूमिं श्रान्तानां शरणं शरणार्थिनां ।5।
शास्तृकृत्यं त्वया कार्यं त्वं लोकस्यैकबान्धवः ।
अग्रयस् त्वं बुद्धशिष्याणां त्वञ् च शासनधूर्द्धरः ।6।
त्वम् अद्य दुःखपातालाद् यदि मां नोद्धरिष्यसि ।
हतो ऽस्मि यस्माद् धेतो ऽन्यं नाथं नानवैमि सांप्रतं ।7।
न बिभेमि तथा मृत्योर् जातस्य मरणं ध्रुवं ।
निःसृतिं त्वं विजानानो यथा संसारसागरत् ।8।
तथाष्टाक्षणनिर्मुक्तं क्षणम् आसाद्य दुर्लभं ।
अकृतार्थेन मर्तव्यम् इति मे महती व्यथा ।9।
दुर्ल्लभः खलु बुद्धानाम् उत्पादः सर्वदर्शिनां ।
त्वाम् आगम्य यथा नीति वन्ध्यताम् मे तथा कुरु ।10।
तव कारुण्यम् अचलं सर्वप्राणिषु विद्यते ।
तन् मां नोपेक्षितुं युक्तं मोक्षमार्गाभिलाषिणं ।11।
यदि च त्वम् महाभाग सर्वसत्त्वहितोद्यतः ।
कृच्छ्रसङ्कसम्बाधप्राप्तम् माम् अवलोकय ।12।
तद् एवम् अपरित्राणं वीक्ष्य दिव्येन चक्षुषा ।
त्वम् अद्य क्षिप्रम् आगम्य मां परित्रातुम् अर्हसी त्य् ।13।
स्व रोय् 134,1 - 137,5
[54] अथास्मिन्न् अन्तरे स्थविरानन्दो महात्मा सकलजगदर्थसम्पादनावबद्धपरिकरः कारुण्याच् चानेन तथानन्तसत्त्वचेष्टावलोकनाहितचित्तसन्तानपरमदुःखादिव्येन चक्षुषा सुवर्णवर्णं कुमारम् अस्याम् अवस्थायां वर्त्तमानम् आलोक्य करुणया सञ्चोद्यमानचित्तवृत्तिर्दिव्येनावभासेन भुवनमण्डलम् अवभास्य पञ्चार्हच्छतपरिवारः सहसैव ऋद्ध्या नभस्तलम् सन्ध्याभ्रपटलैर् इव गगनतलम् आपूरयन् सकलभुवनलक्ष्मीपुञ्ज इव देदीप्यमानविग्रहः श्मशानाभिमुखः संप्रस्थितः । अद्राक्षीद् राजा ऽजातशत्रुर् उपरिधवलगृहस्यावस्थितः । स्थविरानन्दं महताभिक्षुसंघेन सार्द्धम् अर्द्धचन्द्राकारोपगूढम् उपरि विहायसा ऋद्ध्या सन्ध्याभ्रपटलैर् इव गगनतलम् अलङ्कृत्य महाश्मशाणाभिमुखम् आगच्छन्तं दृष्ट्वा च पुनर् अस्याभवन् नियतं स्थविरानन्दः सुवर्णवर्णं कुमारम् उद्दिश्यागतस् तञ् चागम्य महद् आश्चर्याद्भुतन् धर्मं देशयितुकामो भविष्यतीति । गच्छाम्य् अहम् महाश्मशानम् इति । ततश् च सहसैव स्थविरानन्दं सपरिवारं नमस्कृत्य शरणपृष्ठात् त्वरितत्वरितम् अवतीर्य पदभ्याम् एव नैक प्राणिशतसहस्रपरिवारो महाश्मशानं संप्रस्थितः । अस्मिंश् चानन्तरे वध्यघातकास् तै राजपुरुषैर् उद्यता शस्त्रैस् तर्जिताः किम् अर्थम् एव विलम्बध्वं शीघ्रम् एनं कुमारं शूले समारोपयतेति । ततस् ते वघ्यघातकाः संत्रस्ताः सुवर्णवर्णं कुमारं शूले समारोपयामः । इत्य् उक्त्वा क्षेप्तुम् आरब्धा । सुवर्णवर्णः कुमारः संसारदोषोद्विग्नचेता निराशीभूतो विक्रोष्टुम् आरब्धः । हा कष्टम् आर्यानन्देनाहं परित्यक्तो यन् नाम समन्वाकृत्य न परित्रात इत्य् ॥
स्व रोय् 137,3 - 141,3
[55] अथास्मिन्न् अन्तरे स्थविरानन्दो महात्मा दूरत एवागच्छन् व्यापिना स्वरेण दिशः सर्व्वाः समापूरयन् सुवर्णवर्णं कुमारं समाश्वासयन्न् उवाच । मा भैर् वत्स युष्मद्विधानम् एव विनेयानाम् अर्थे इमम् आशीविषप्रख्यं कायम् अहम् धारयामीति तद् वत्स मा भैर् अहं त्वाम् अद्यास्मात् संङ्कटात् परिमोचयिष्यामि अद्य भगवतो बुद्धस्य मनोरथं परिपूरयामि । अद्य यत् तेन भगवता जानता पश्यता तथागतेनार्हता सम्यक्सम्बुद्धेन स्थविरमहाकाश्यपेन च शासनम् अपि विन्यस् तं तत् सफली करिष्यामि । अद्य तथाग्रश्रावकमहात्म्यम् उद्भावयिष्यामि । अद्य ते मनोरथं परिपूरयामि । अद्य तवेदम् मरणभयं संसारिकञ् च भयम् अपनयामि । अद्य विचिकित्साकथं कथाशल्यम् उत्पाटयामि । अद्य ते कुदर्शनपटलावष्टब्धे नेत्रे ज्ञानाञ्जनशलाकया शोध्यामि । अद्य ते क्रोधाग्निं नाशयामि । अद्य त्वां विगतरागत्वेनाच्छादायामि । अद्य ते कुशलबीजं प्ररोहयामि । अद्य त्वां संसारपङ्काद् उद्धरामि । अद्य त्वां दुःखसमुद्रात् उत्तारयामि । अद्य त्वां संसारकान्तारपर्यन्तम् उपनयामि ॥ अद्य ते क्लेशबन्धनानि च्छिनद्मि । अद्य ते निवरणकपाटपटलं भिनद्मि । अद्य ते हं तथा करिष्यामि यथा त्वम् अनन्तकोटिनियुतशतसहस्रदुर्ल्लभतरम् अशेषक्लेशोपक्लेशप्रहाणाद् अर्हत्वं प्राप्स्यसि ।
अद्य क्लेशान्धनं कृत्स्नं धक्ष्यसे ज्ञानवह्निना ।
अद्य निःशंसयमतिर् भविष्यसि गतज्वर ।1।
अद्य त्वं वत्स सहसा जन्मवृक्षञ् चिरायितुं ।
ज्ञानवज्रेण महता दुश्छेद्यं छेत्स्यसे भृशं ।2।
रागतोयमदावर्त्तं मानोर्म्भिभवसागरं ।
वीर्य प्लवं समारुह्य त्वम् अद्य प्रतरिष्यसि ।3।
जन्मभोगं जरालिङ्गं मृत्युकन्दरसंकुलं ।
प्रज्ञावज्रेण महता भेत्स्यसे दुःखपर्वतं ।4।
कल्पकोटिसहस्रेषु यन् न लब्धं त्वया पदं ।
तद् वत्स दुर्लभतरं प्राप्स्यस्य् अद्य निरास्रवम् इति ।5।
स्व रोय् 141,3 - 144,145
[56] अथैतत् स्थविरानन्दाद् उपश्रुत सुवर्णवर्णः कुमारो गतप्रत्यागतप्राण इवाश्वसितः संहृषिततनुरुहो गगनतलासक्तदृष्टिः स्थविरानन्दावर्जितैकमनसो ऽभवत् । ततस् तै राजपुरुषैस् ते वध्यघातका उक्ताः । भवन्त एते भिक्षवो गगनतलम् अवगाह्यागच्छन्ति । कारुणिका एते कदाचिद् आगत्य विघ्नं कुर्वन्ति । तच्छीघ्रम् एनं कुमारं शूले समारोपयत । मा वो राजशासनातिक्रमान् महान् अनर्थो भविष्यतीति । ततस् ते वध्यघातकाः पुत्रदारस्वजनबन्धुजीवितविनाशभयभीताः सुवर्णवर्णं कुमारम् उत्क्षिप्य शूले प्रतिष्ठापयितुम् आरब्धाः । ततः स्थविरानन्देन सहसैव तथाधिष्ठितं यथा तस्य शूलस्योपरि चन्द्रमण्डलप्रतिस्पर्द्धि विस्तीर्णकर्णिअकम् महाप्रमाणं पद्मं प्रादुर्भूतं । तस्य च पद्मस्योपरि कर्णिकायां सुवर्णवर्णः कुमारः प्रर्यङ्केण निषन्नः तञ् च पद्मकर्णिकायाम् उपरि पर्यङ्केन निषन्नम् उद्वीक्ष्य गगनतलगतैर् अनेकैर् देवतानियुतशतसहस्रैर् हाहाकारो मुक्तः ।
अहो शासनममाहात्म्यं सर्वज्ञा(ज्ञस्या)द्भुतं हि यत ।
श्रावको पि करोत्य् एवं तथागतविकुर्वितं ।1।
आर्यानन्देन चाद्योच्चैर् माहात्म्यं संप्रकाशितं ।
कुर्व्वता सुगतेनेव सम्यग् अत्यद्भुतं महत् ।2।
अस्तङ्गते जिनादित्ये सर्वापत्तिमिरापःअः ।
अहो ऽयम् उदितः श्रीमान् स्थविरानन्दभास्करः ।3।
स्वप्रज्ञागुणमाहात्म्यं रश्मिभिः समलङ्कृतं ।
स्थविरानन्दचन्द्रेण जगद्गगनमण्डलं ।4।
सुगतालोकविरहाद् अन्धकारावृतं जगत् ।
आर्यानन्दप्रदीपेन सम्यग् अद्य प्रकाशितं ।5।
अन्तर्हिते बुद्धरत्ने सर्वाचिन्त्यगुणान्विते ।
जगच्चूडामणिः श्रीमान् आर्यानन्दः समुद्गत इति ।6।
स्व रोय् 145,1 - 146,3
[57] अथ स्थविरानन्दः शरदमलशाङ्कमण्डलातिरेकद्युतिः सन्ध्याब्भ्रपटलावरुद्ध इव भास्करः सकलभुवनलक्ष्मीपुञ्ज इव देदीप्यमानमूर्त्तिः स्वतेजसा सूर्यप्रभान् निर्भर्त्सयंश् पञ्चार्हच्छतपरिवारः समनुप्राप्तो गगतलस्थ एव सुवर्णवर्णं कुमारम् आमन्त्रयाम् आस ।
वत्स
कदाचित् कर्हिचित् लोके उत्पद्यन्ते तथागताः ।
शास्तारो नरदेवानाञ् चक्षुष्मन्तो रणातिगाः ।1।
प्रकाशयन्ति ये धर्मं सर्वदुःखविनोदनं(नम्) ।
दुःखं दुःखसमुत्पादं दुःखस्य समतिक्रमं (मम्) ॥
आर्याष्टाङ्गिकं मार्ग्गं क्षेमं निर्वाणगामिनं(नम्) ।2।
अस्मिन्धर्मे देश्यमाने सर्वदुःखविनोदने ।
ज्ञानेन हत्वा ह्य् अज्ञानं नागच्छन्ति पुनर्भवम् इत्य् ।3।
स्व रोय् 146,3 - 148,149
[58] अथास्य वचनस्य समनन्तरम् एव सुवर्णवर्णेन कुमारेण विंशतिशिखरसमुद्गतं सत्कामदृष्टिशैलं ज्ञानवज्रेण भित्वा स्रोतआपत्तिफल साक्षात् कृतं । अथ सुवर्णवर्णः कुमारो वणिग् इव लब्धलाभः सस्यसम्पन्न इव कर्षकः । शूर इव विजितसंग्रामश् चक्रवर्तिराज्यप्रतिलम्भाद् इव परमप्रीतिप्रामोद्यजातः । तत्रस्थ एव कृतकरपुटः स्थविरानन्दं प्रतिष्टोतुम् आरब्धः ।
नमस् ते स्थविरानन्द नमस् ते स्थविरोत्तम ।
नमस् ते जिनपुत्राणां केतुभृत महामुने ।1।
अहो ते करुणा स्फीता अहो कारुण्यम् उत्तमं ।
महतः सङ्कटाद् अस्माद् येनाहं परिमोचितः ।2।
लोकनाथ इति स्थाने शब्दस् ते विसृतो भुवि ।
भयार्त्तो यद् अनाथो ऽहं त्वया नाथेन मोचितः ।3।
दुःखधर्माभिसंतप्तं लोकं ह्लादयितुं भवान् ।
मैत्रीकारुण्यशीतांशुरुदितो मुनिचन्द्रमाः ।4।
तत् कृतं न च मे मात्रा न पित्रा नापि बान्धवैः ।
कल्याणमित्रम् आगम्य त्वाम् अहं यद् अवाप्तवान् ।5।
पिहिता दुर्गतिः सर्वा मोक्षद्वारम् अपावृतं ।
शोषिता सागरा सर्वे लङ्घिता अस्थिपर्वताः ।6।
संसारो ऽनादिमध्यान्तः संक्लेशभयसङ्कुलः ।
धिया समेन गुणितः पर्यन्ते स्थापितस् त्वया ।7।
अनादिकालसंलग्नो दृष्टिशल्यः समुद्दृतः ।
भिषग्वरम् इह प्राप्य सुखजातो ऽस्मि निर्ज्वर इति ।8।
स्व रोय् 149,1 - 150,4
[59] ततो देवताभिः स्थविरानन्दस्य मानसम् अवलोक्य तत्क्षणाद् एव महाश्मशानम् अपगतपाषाणशर्करकठल्लं व्यवस्थापितं चन्दनवारिपरिषिक्तं सुरभिधूपधूपितं समुच्छ्रितध्वजपताकातोरणम् आमुक्तपट्टदामकलापम् अतिविचित्रसुरभिकुसुमावकीर्णं अतिरमणीयं देवानाम् इव नन्दनोद्यानं तत्र च स्थविरानन्दस्यार्थे नानारत्नविन्यासविचित्रितभक्तिप्रकाररचितं दिव्यं सर्वसौवर्णं सपादपीठं महत् सिंहासनं प्रज्ञप्तं तेषाम् अपि पञ्चानाम् अर्हच्छतानाम् अर्थे दिव्यान्य् आसनानि प्रज्ञप्तानि । ततः स्थविरानन्दो गगतलाद् अवतीर्य सिंहासने निषण्णः । तान्य् अपि पञ्चार्हच्छतान्य् अवतीर्य प्रज्ञप्तेष्व् आसनेषु निषण्णानि ॥
स्व रोय् 150,4 - 153,3
[60] राजा चाजातशत्रुर् अनेकप्राणिशतसहस्रपरिवारः समनुप्राप्तो यावत् पश्यति ताम् विभूतिं सुवर्णवर्णञ् च कुमारं चन्द्रमण्डलप्रतिस्पर्द्धिनं पद्मस्योपरि कर्णिकायां निषण्णं घनपटलनिर्मुक्तम् इव शरतकालपूर्णचन्द्रं सुवर्णयूपम् इव श्रिया ज्वलन्तम् उद्वीक्ष्य परमविस्मयावर्त्तितचित्तसन्ततिः । समुद्दण्डरोमकूपः परमप्रहर्षोर्म्मितरङ्गापूर्यमाणवदनकमलः परमप्रसादवेगावर्जितचित्तसन्ततिः । सर्वशरीरेण स्थविरानन्दस्य पादयोः पतितः ततश् च मुखतुण्डकेन चरणाव् अनुपरिमार्ज्योत्थायोभे जानुमण्डले पृथिव्यां प्रतिष्ठाप्य कृतकरपुटः स्थविरानन्दम् उद्वीक्षमाण उवाच ।
नमस् ते परमाचार्य येनाद्यैवं प्रकुर्वता ।
जनस्य परित्राणम् अहम् अभ्युद्धृतः स्वयं ।1।
न समन्वाहृतश् चेत् स्याद् अहञ् चायञ् च ते जनः ।
धिक्शब्दाशनिपातेन नाशितः स्याद् अहं मुनेः ।2।
यदित्वन् न भवेस् त्राता समासत्त्व हितो मुनिः ।
अहम् अद्यैव दग्धः स्यां पश्चात् तापदवाग्निमा ।3।
अहो ज्ञानमहत्वन् ते करुणा चेयम् उत्तमा ।
अद्भुतञ् चारितं चेदम् अहो सम्यक् प्रकाशितं ।4।
इदम् अत्यद्भुतं दृष्ट्वा प्रातिहार्यन् तवानघ ।
प्रशान्तिम् परमां यातो मन्ये नैवं तथागतः ।5।
कृच्छ्रप्राप्तस्य लोकस्य त्वन् नाथस् त्वं परायणं ।
त्वं हितः सर्वसत्वानां वत्सलो भगवानिव ।6।
भगवन्तं समालोक्य या मे प्रीतिर् अभूत् पुरा ।
स एवाद्य त्वां समालोक्य जिनशासनधूर्धरम् इति ।7।
स्व रोय् 153,3 - 156,5
[61] अथ स राजा स्थविरानन्दनम् एवम् अभिस्तुत्य समुत्थाय च परमप्रहर्षपूर्णमनास् त्वरितत्वरितं शूलसमीपम् उपगम्य ततो हस्तौ प्रसार्य सुवर्णवर्णं कुमारं प्रियपुत्रम् इव नष्टोपलब्धं परेण प्रेम्णा स्वयम् एव तस्मात् पद्मासनाद् अवतार्य गाढं परिष्वज्य मुहुर् मुहः शिरसि परिचुम्बते स्म । हर्षाश्रुपर्याकुलेक्षणश् च सुवर्णवर्णं कुमारम् अनिमिषम् अभिवीक्षमाण उवाच ।
राज्यलाभाद् इव पुरा न सा प्रीतिर् अभून् मम
मुक्तं त्वां सङ्कटाद् अस्माद् दृष्ट्वा या वर्द्धते ऽधुना ।1।
पूर्णचन्द्रद्युतिहरन् नीलोत्पलदलेक्षणं ।
मुखाबुजम् इदं पुत्र दिष्ट्या पश्यामि ते ऽधुना ।2।
उत्तप्तवर्णलावण्यगुणसम्पद्विभूषितं ।
सर्वावयवसम्पन्नं दिष्ट्वा पश्यामि ते वपुः ।3।
दौरात्म्यं ख्यापितं केन निर्घृणेन दुरात्मना ।
वधायासि परित्यक्तो येन त्वं वल्लभो नृणां ।4।
चरितं विनयोपेतं श्रोत्रानन्दकरम् वचः ।
रूपम् अत्यद्भुतञ् चेदं वद कस्य न वल्लभं ।5।
गुणेषु कस्य प्रद्वेषः को दोषानुगुणः सदा ।
वज्रसारसमङ् कस्य हृदयं को विशेषवित् ।6।
ध्रुवञ् चाश्ममयं तस्य चेतनारहितं कृतं ।
व्याहृतं हृदयं तस्य त्वं पुत्रक न वल्लभः ।7।
प्रदीप्तम् वज्रम् आरब्धं प्रक्षेप्तुम् मम मस्तके ।
कण्ठे वा निशितं शस्त्रं शक्तिं वक्ष्यसि वा धृढां ।8।
प्रपातयितुम् आरब्धः केन मे ह्य् अयशो ऽशनिः ॥
वधो येनाभ्यनुज्ञातस् तव सर्वजनप्रिय ।9।
हा केन दारुणञ् वाचा कर्मेदं तव कारितं ।
को मे वैरानुबद्धः स्यात् कस्याहं न प्रियो भवेत ।10।
मृत्युनालिङ्गितः को ऽसौ प्राणाः कस्य न वल्लभाः ।
येन ते वध आज्ञप्तः शीघ्रम् आख्यातुम् अर्हसीति ।11।
स्व रोय् 156,5 - 158,159
[62] अथ सुवर्णवर्णः कुमारश् चिन्तयितुं प्रवृत्तः । स चेद् अस्य राज्ञ एवं कथयामि प्रचण्डेनामात्येन ममेदं कर्म कारितम् इति । चण्डोयं राजा स्थानम् एतद् विद्यते । यतः सांप्रतम् एव प्रचण्डम् अमात्यं प्रघातयति । तत् कथम् अत्र प्रतिपत्तव्यं ॥ अथ वाक्कर्मस्वकतावलम्बयितव्या । ध्रुवञ् च मया पूर्व्वेषु जन्मान्तरेषु पापकम् अकुशलं कर्म कृतं यस्यायं विपाको न च पूर्वकर्मविपाकं मुक्त्वा एवम् अनागसो वधाय परित्यज्यत इति निश्चयम् उपगम्य राजानम् उवाच ।
मयैवं तत् कृतं कर्म पापकं पूर्वजन्मसु ।
यस्यायम् ईदृशो देव विपाकः समुपस्थितः ।1।
तद् अनिष्टञ् च नामाद्य स्वकानाम् एव कर्मणां ।
विपाकं परिभुञ्जानो प्य् आदेक्ष्यामि कम् न्व् अहं ।2।
इत्य् उक्त्वा स्थविरानन्दसमीपम् उपगम्य सर्वशरीरेण स्थविरानन्दस्य पादयोर् निपतितः । स्थविरानन्देन चोक्तो वत्स एषा काशिसुन्दरी दारिका विषवेगेनावष्टब्धा तद् उत्तिष्ठैनां सत्याधिष्ठानेन स्वस्थी कुरु महाजनकायश् च प्रत्याय्य इति ।
स्व रोय् 159,1 - 162,3
[63] अथ सुवर्णवर्णः कुमारः स्थविरानन्दस्य प्रतिश्रुत्य सर्वसत्त्वाध्याशयप्रवृत्तेन चेतसा सत्याधिष्ठानं कर्तुम् आरब्धः । येन मे सत्येन सत्यवचनेनास्याः काशिसुन्दर्या दारिकाया अन्तिके मन सूक्ष्मो ऽपि क्लेशो नोत्पन्नो रागो वा द्वेषो वा मोहो वा विहिंसा वान्यतम् अन्यतमो वा चैतसिक उपक्लेशो ऽनेन सत्येन सत्यवचनेन चास्याः शरीरविषम्विलयम् उपगच्छत्व् इत्य् अथैतस्मिन् सत्याधिष्ठानसमनन्तरम् एव काशिसुन्दरीदारिकायाः शरीराद् विषं विलयम् उपगतं स्वस्थीभूतशरीरा च सुप्तप्रबुद्धा इवोत्थिता । तां स्वस्थीभूतशरीराम् उत्थिताम् आलोक्य तेन महाजनकायेनानेकैश् च देवताशतसहस्त्रैर् एकरवेनोच्चैर् नादो मुक्तः । अहो आश्चर्यम् अहो कुमारस्याशयविशुद्धता । महर्द्धिको ऽयं कुमारो महानुभावो यत्रेदानीं सत्याधिष्ठानबलाद् इयम् अनेन काशिसुन्दरी दारिका समुत्थापिता प्रियेण जीवितेनाच्छादितेति । ततः काशिसुन्दरी दारिका समन्तान् निरीक्षितुम् आरब्धा यावत् पश्यति महाश्मशाने स्थविरानन्दं महता भिक्षुसङ्घेन सार्द्धम् अर्द्धचन्द्राकारोपगूढं । नानारत्नप्रद्योतिते दिव्ये महति सिंहासने निषण्णं राजामं अजातशत्रुम् अनेकप्राणिशतसहस्रपरिवारम् आत्मानञ् च नीलपीतलोहितावदातायां शिविकायाम् आरोपितं दृष्ट्वा च पुनः सम्भ्रान्ता चिन्तयितुं प्रवृत्ता । किम् अयं स्वप्नम् आहो स्विच् चित्तविभ्रमः । अथ वा केनचिद् एतन् मायाकर्मविदर्शितं भवतीति । यावत् तस्या ज्ञातिभिर् एतद् विस्तरेण समाख्यातं । उक्ता च सर्वथा यद् एतत् तव जीवितं तत् सर्वं स्थविरानन्दम् आगम्येति
स्व रोय् 162,3 - 167,5
[64] तच् छ्रुत्वा काशिसुन्दरी दारिका स्थविरानन्दे समुपजातबहुमाना परं प्रसादं प्रवेदयितुम् आरब्धा । अथ काशिसुन्दरी दारिका उद्यानं समनुस्मृत्य प्रचण्डञ् चामात्यं उद्विग्नमनसा मरणभयविषादविह्वलेक्षणावस्थान् ताम् एव परां प्रवेदयन्ती स्त्रीभावम् अनुशोचितुम् आरब्धा । अहो स्त्रीत्वं नामातिजघन्यतरं सर्वदुष्खास्पदभूतं । यद् आगम्य् आहम् इमाम् अवस्थाम् अनुप्राप्तेति सम्विग्नमानसा त्वरितम् उत्थायैकञ् च वस्त्रम् आदाय स्थविरानन्दसमीपम् उपगम्य तद् एकं वस्त्रं स्थविरानन्दाय निर्यात्य पादयोर् निपत्य तीव्रेन प्रसादवेगेन स्थविरानन्दगुणानुस्मरणपूर्व्वकं सत्याधिष्ठानं कर्तुम् आरब्धा ॥ येन सत्येन सत्यवचनेन त्वं विदेहमुने । सर्वेषां बुद्धशिष्याणाम् अग्रप्राप्तो ऽतिश्रेष्ठो विशिष्टः प्रवर उत्तरो ऽनुत्तरः श्रावकनागः । श्रावकसिंहः । श्रावकऋषभः । श्रावकजानेयः । श्रावकपद्मः । श्रावककुमदः । श्रावकपुण्डरीकं । श्रावकसारथिः । श्रावकसार्थवाहः । श्रावकचन्द्रः । श्रावकभास्करः । श्रावकरत्नं । श्रावकचूडामणिः । शासनकर्णधारः । शासनधूर्द्धरः । अर्हन् क्षीणास्त्रवः । कृतकृत्यः कृतकरणीयो ऽपहृतभारो ऽनुप्राप्तस्वकार्थः परिक्षीणभवसंयोजनः सम्यगाज्ञासुविमुक्तचित्तो महर्द्धिको महानुभावो महादक्षिणीयो ऽनेन सत्येन सत्यवचनेनाद्यैव मे स्त्रीन्द्रियम् अन्तर्द्धातु पुरुषेन्द्रियं प्रादुर्भवतु । अथैतत् सत्याधिष्ठानसमनन्तरम् एव तस्याः स्त्रीन्द्रियम् अन्तर्हितं पुरुषेन्द्रियं प्रादुर्भूतं । पुरुषो बभूव अतिरुपो दर्शनीयः प्रासादिको विचित्रवस्त्रालङ्कृतशरीरो गगनतलाच् चास्या दिव्यन्विचित्रं मनोरमं वस्त्रवर्यम् पतितुम् आरब्धं । अपीदानीं वस्त्रवर्येण पतता तथा गगनमण्डलं संच्छन्नं यदा तस्मिन् मुहुर्ते तस्मिन् महाश्मशाने सूर्यरश्मयो न प्रज्ञायन्ते स्म । ततस् तद् अत्यद्भुतं देवमनुष्यावर्जनकरं स्थविरानन्दस्यगुणमाहात्म्यं दृष्ट्वा गगनतलगतैर् अनेकैर् देवताकोटिनियुतशतसहस्त्रैर् हाहाकारो मुक्तः । अहो आश्चर्यम् अहो ऽत्यद्भुतं । अहो स्थविरानन्दस्य गुणमाहात्म्यं । अहो उदारता । अहो सुविशुद्धं दक्षिणीयं क्षेत्रं यत्र हि नामैकवस्त्रप्रदानमात्रेण प्रणिधानसमनन्तरम् एव काशिसुन्दरीदारिकायाः स्त्रीन्द्रियम् अन्तर्हितं । पुरुषेन्द्रियं प्रादुर्भूतमियञ् चेदृशी विभूतिर् इति । ततस् ताभिर् देवताभिः प्रसन्नमनस्काभिर् दिव्यं पुष्पवर्षं पातितं । दिव्यानि न वाद्यानि च पराहतानि ॥
स्व रोय् 167,5 - 170,3
[65] ततः काशिसुन्दरः पुरुषः स्थविरानन्दगुणमाहात्म्यसामर्थ्याद् अभिमनोहरम् आत्मनो यथाभिलषितं सद्यो विपाकफलम् उद्वीक्ष्य परमविस्मयावर्जितचित्तसन्ततिः परमप्रीतिप्रामोद्यजातप्रहर्षरोमाञ् चकर्कसीकृतमूर्त्तिर् उत्थायजानुमण्डलद्वयम् उपनिक्षिप्य भूमौ कृतकरपुटः स्थविरानन्दम् अभिष्टोतुम् आरब्धः ।
नमस् ते दुर्लभाचिन्त्य सुविशुद्धगुणैश् चित ।
येनाद्यैवम् अनाथुस्य दत्तम् ये जीवितं त्वया ।1।
यदि त्वन् न भवेस् त्राता विशुद्धज्ञानलोचनः ।
कथं प्राणवशिष्टं स्यां त्वम् मे प्राणप्रदो मुने ।2।
अहो ते गुणमाहात्म्यमहो सत्त्वहितैषिता ।
यद् एवं सङ्कटाद् घोरात् परित्रातस् त्वया जनः ।3।
अहो ते दक्षिणीयत्वं सुविशुद्धं सुदुर्लभं ।
यत्रैकवस्त्रत्यागो ऽपि प्रयात्य् एवम् महार्घतां ।4।
तथैकवस्त्रम् आदाय मया त्वयि महामुने ।
यथाभिलषितं प्राप्तम् अद्य फलम् इदं शुभं ।5।
आधारम् इव यन् मन्ये दोषाणाम् महताम् अपि ।
तत् स्त्रीत्वं त्यक्तम् अद्यैव पुंस्त्वं चाधिगतं मया ।6।
तच् चैष दिव्यसदृशो दिव्यालङ्कारभूषितः ।
गगनाद् वस्त्रवर्यञ् च पतत्य् अतिमनोहरं ।7।
एवं गुणिनि सुक्षेत्रे ये वै कारान् न कुर्वते ।
अधन्या वञ्चितास् ते मोहाद्यैः क्लेशशत्रुभिर् इति ।8।
स्व रोय् 170,3 - 171,3
[66] स एव स्थविरानन्दम् अभिष्टुत्य कर्मफलप्रत्यक्षदर्शी चिन्तयाम् आस । न मम प्रतिरूपं स्याद् यद् अहम् इष्टानिष्टकर्मफलप्रत्यक्षदर्शी पुनर् अप्य् आगारम् अध्यावसेयम् इति ॥ स स्थविरानन्दस्य पादयोर् निपत्योवाच ॥ लभेयाहम् आर्य स्वाख्याते धर्मविनये प्रव्रज्याम् उपसम्पदं भिक्षुभावञ् चरेयम् अहं स्थविरस्यान्तिके ब्रह्मचर्यम् इति । स स्थविरानन्देन प्रव्राजितस् तथा च समनुशिष्टो यथा यावत् सर्वक्लेशप्रहाणाद् अर्हत्वं साक्षात्कृतं ।
स्व रोय् 171,3 - 176,3
[67]अथास्मिन्न् अन्तरे दिवाकरः सार्थवाहः सपत्नीको ऽपि पुत्रवियोगशोकदुःखाभ्याहतो राजगृहस्य नगरस्य मध्ये शृङ्गाटकस्य पृथिव्याम् उत्थायोत्थायात्मानं पातयति । पुनः पुनः पृथिव्याम् आवर्तनपरिवर्तनं करोति । उभाभ्यां पाणीभ्याम् आत्मानं ताडयति । हा पुत्र हा पुत्रेति चार्त्तस्वरं विरौति स्म । अश्रौषीद् दिवाकरः सार्थवाहः स्थविरानन्देन गगनतलेनागत्य सुवर्णवर्णः कुमारः परित्रातो महाश्मशाने आश्चर्या भूतानि वर्तन्त इति । श्रुत्वा च पुनः सपत्निको ऽप्य् अमृता चाभिषेकाभिसिक्त इव परमानन्दितमनाश् चक्रवर्त्तिराज्याभिषेकाभिषिक्त इव परमप्रीतिप्रामोद्यजातः सहसैवोत्थाय त्वरितगतिप्रचारया राजगृहान् नगरान् निर्ग्गत्य महाश्मशानम् अनुप्राप्तो यावत् पश्यति सुवर्णवर्णं कुमारं राहुग्रस्तविनिर्मुक्तं शरतकालपूर्णचन्द्रं स्थविरानन्दसमीपे निषण्णं ताञ् च स्थविरानन्दगुणसामर्थ्यजनितां विभूतिं ततस् तस्य तद् अत्यद्भुतं देवमनुष्यावर्जनकरं प्रातिहार्यं दृष्ट्वा स्थविरानन्दे समुपजातबहुमानः परमप्रसादवेगावर्जितचित्तसन्तानः सर्वशरीरेण स्थविरानन्दस्य पादयोः पतितः । उत्थाय चोभे जानुमण्डले पृथिव्याम् उपनिक्षिप्य हर्षाद् अश्रूर्मिभिर् आपूर्यमाणवदनकमलः । कृताञ्जलिपुटः स्थविरानन्दमभिष्टोतुम् आरब्धः ।
अहो त्वया महाभाग माहात्म्यं सम्प्रकाशितं ।
यन् महासङ्कटाद् घोरात् परित्रातस् त्वया जनः ।1।
अहो ऽनुकम्पामाहात्म्यम् अहो ज्ञानस्य सम्पदः ।
सर्वज्ञेनैव भवता विशुद्धा सम्प्रकाशिताः ।2।
तथायं पुत्रको ऽस्माकं महतो व्यसनार्णवात् ।
दयाज्ञानप्रभावाभ्यां सम्यग् उत्तारितस् त्वया ।3।
यदि वायं त्वयाद्यैव न समन्वाहृतो भवेत् ।
निमग्नो दुःखजम्बाले सपत्नीको ह्य् अहञ् चिरं ।4।
त्वाम् आगम्याहम् अद्याग्रं महाकारुणिकात्मजं ।
पुत्रशोकार्णवोत्तीर्णः शोकाटव्याश् च निःसृतः ।5।
मुक्तः शोकमयैः पाशैर् निर्गतः शोकचारकात् ।
शोकायसभयाद् भ्रष्टो विमुक्तः शोकपञ्जरात् ।6।
न लग्नः शोकपङ्के ऽद्य न क्षतः शोककण्टकैः ।
न दष्टः शोकसर्पेण न विद्धः शोकसायकैः ।7।
न च्छिनः शोकनिस्त्रिङ्शैर् न प्राप्तः शोकशत्रुभिः ।
न ग्रस्तः शोकमकरैर् न दग्धः शोकवह्निना ।8।
त्वयैवं कुर्वता चाद्य भासितो ऽयम् महाजनः ।
उन्मीलितानि नेत्राणि प्रीणितानि मनांसि च ।9।
आनन्द इति नामेदम् अहो स्वन्वर्थताङ् गतं ।
येनैवं कुर्वता त्राणं परमानन्दिता वयम् इति ।10।
स्व रोय् 176,3 - 177,4
[68] अथ दिवाकरः सार्थवाहः स्थविरानन्दम् अभिष्टुत्योत्थाय च सुवर्णवर्णस्य कुमारस्य समीपम् उपगम्य सपत्नीको ऽपि सहगाढं कण्ठे परिष्वज्य मुहुर्मुहुः परिष्वजते स्म । प्रहर्षजातो ऽश्रुपर्याकुलेक्षणश् च सुवर्णवर्णं कुमारं अनिमिषेन समवलोकयन्न् उवाच ।
शरत्पूर्णेन्दुबिम्बश्रीकान्तिद्युतिहरम्ब्वपुः ।
मनोरथशतैर् लब्धं दिष्ट्या पश्यामि ते पुनः ।1।
स्निग्धनीलायताताम्रपर्यन्तेक्षणशालिनं ।
स्थविरानन्दम् आगम्य पुनः पश्यामि ते मुखम् इति ।2।
स्व रोय् 177,4 - 181,4
[69] अथ सुवर्णवर्णः कुमारः संसारदोषोद्विग्नचेता मातापितराव् अनुज्ञाप्य स्थविरानन्दस्य पादयोर् निपत्योवाच । स्थविर लभेयाहं स्वाख्याते धर्मविनये प्रव्रज्याम् उपसम्पदं भिक्षुभावञ् चरेयम् अहं स्वाख्यातधर्मविनये ब्रह्मचर्यम् इति । स स्थविरानन्देन प्रव्राजितस् तथा च समनुशिष्टो यथानेन तस्मिन्न् एव मुहूर्ते सर्वक्लेशप्रहाणाद् अर्हत्त्वं प्राप्तं । सो ऽर्हत्त्वप्राप्तः पूर्वैकां जन्मपरम्पराम् अवलोकितुम् आरब्धो यावत् पश्यत्य् आत्मानम् अतीव पुण्यमहेशाख्यं तस्यैतद् अभवत् । क्षुणो ऽहं स चेन् मया विज्ञातुम् अभविष्यद् इत्य् अहम् एव पुण्यमहेशाख्य इति । मया यावद् आप्तं दानानि दत्तानि पुण्यानि कृतान्य् अभविष्यन् । तद् इदानीम् अपि सत्त्वानां पुण्येषु गौरवोत्पादनार्थं स्वं पुण्यमहात्म्यं प्रकाशयेयम् इति । ततस् तेन तानि वस्त्राणि स्वशरीराद् अवतारितानि तत्समनन्तरम् एव चापराणि तादृशान्य् एव प्रादुर्भूतानि । पुनः पुनर् अवतारयितुम् आरब्धस् तथैव चास्य पुनः पुनः प्रादुर्भवन्ति । तेनावतार्यावतार्य स्थविरानन्दस्य पुरस्तान् महान् वस्त्रराशिः कृतः । तञ् च तेषाम् अपि महार्हाणाम् वस्त्राणां राशिम् अभिनवोदितदिवाकरकिरण्विच्छुरितम् इव जाम्बुनदसुवर्णराशिं कनकायमानम् उद्वीक्ष्य स महाजनकायः परमविस्मयावर्जितचित्तसन्ततिर् उवाच । अहो आश्चर्यम् अहो ऽद्भुतम् अहो पुण्यानां माहात्म्यम् अहो सुकृतानि पुण्यानि अनेन महात्मना । यत्र हि नामैवम् अव्यवच्छिन्नम् अवतारयतो ऽपि चैषाम् अतिमहार्हाणां पर्यन्तम् अपि नाधिगम्यत इति । ततस् तेन मातापित्रोस् तानि वस्त्राणि निर्यातितानि ताभ्याम् अपि स्थविरानन्दप्रमुखं भिक्षुसंघम् आदिं कृत्वा यावान् असौ जनकायो महाश्मशानं सन्निपतितः । तत्र च एकैकः प्राणीवस्त्रयुगलेनाच्छादितः । सुवर्णवर्णस्य तु भिक्षोः पुण्यानुभावेनासौ वस्त्रराशिर् नैव क्षीयते ।
स्व रोय् 181,4 - 184,185
[70] ततः सुवर्णवर्णो भिक्षुर् उपरि विहायसम् अभ्युद्गम्य ऋद्ध्या राजगृहन् नगरं गत्वा मध्ये शृङ्गाटकस्य सुवर्णवर्णानां वस्त्राणां स्वशरीराद् अव(6)तार्यावतार्य महाप्रमाणं राशिं कृत्वा स्वरेण राजगृहन् नगरम् आपूरयन्न् उवाच । भवन्तो मयैतानि वस्त्राणि परित्यक्तानि यस्य वो यावद्भिः प्रयोजनं स तावन्ति प्रतिगृह्णात्व् इति । श्रुत्वा तत्क्षणाद् एवानेकानि प्राणिशतसहस्त्राणि सन्निपातितानि । यावत् पश्यन्ति नगरमध्ये शृङ्गाटकस्य तेषां सुवर्णपीतानां वस्त्राणां अतिमहाप्रमाणं राशिं अरुण्किरणपरामृष्टम् इव जाम्बूनदसुवर्णराशिम् इव मिलिमिलायमानम् आयुष्मान्तं च सुवर्णवर्णम् उत्तप्तकाञ्चनगिरिशृङ्गम् इव परमया श्रिया ज्वलन्तं गगनतलगतम् उद्वीक्ष्य स महाजनकायः परमविस्मयावर्जितचित्तसन्ततिः परमप्रहर्षोर्मितरङ्गापूर्यमाणवदनकमलश् चिन्तयाम् आस अहो आश्चर्यम् अहो ऽद्भुतं तत् किं पुनर् अनेन महात्मना कृतं भवेद् येनायम् एवं महर्द्धिको महानुभावो यदि च वयं जानीमो वयम् अपि तत् कुर्यामहे येन वयम् अप्य् एवं महर्द्धिकां स्याम इति । समुत्पन्नाभिलाषाः सन्देहदोलारुढाश् च परस्परं संजल्पं कर्तुम् आरब्धाः । तेषाम् एतद् अभवद् एष एव महात्मा महर्द्धिको महानुभावः सिद्धव्रतो दिव्यज्ञानसमन्वागतश् च एतम् एव परिपृच्छाम इति । ततो ऽसौ जनकायः परमविस्मयोत्फुल्ललोचनः कृतकरपुटो गगनतलासक्तदृष्टिर् आयुष्मन्तं सुवर्णवर्णम् एकरवेण प्रणम्योवाच ।
उपेतस् त्वं महाभाग दिव्येन ज्ञानचक्षुषा ।
येनैवं त्वं महेशाख्यस् त्वं समाख्यातुम् अर्हसि ।1।
येन प्राप्नोति सम्पत्तिम् इह लोके परत्र च ।
भोगानाञ् च गुणानाञ् च तान् स्वयं ख्यातुम् अर्हसी ति ।2।
स्व रोय् 185,2 - 196,3
[71] ततस् तान् स महासत्त्वः करुणाक्षिप्तमानसः ।
ह्लादयन् महता वाचा स्वरेणापूरयन् दिश ।1।
अमुम् एवार्थम् उद्दिश्य मयेदं दर्शितं हि वः ।
अनुपूर्वेण वक्ष्यामि शृणुतेदं वचो मम ।2।
पुण्यैर् आप्नोति सम्पत्तिम् इह लोके परत्र च ।
भोगानाञ् च गुणानाञ् च पुण्यैश् चाहम् महर्द्धिकः ।3।
यदि वो न प्रियं दुःखं प्रियाश् च सुखसम्पदः ।
क्षिप्रं कुरुध्वं पुण्यानि सुखं पुण्यस्य सञ्चयः ।4।
या काचित् सुखसम्पत्तिर् इह लोके परत्र च ।
प्राप्यते निवृत्तिश् चापि पुण्यानाम् एव तत् फलं ।5।
धनिनः श्रेष्ठिनो विप्राः सार्थवाहादयश् च यान् ।
भुञ्जते विपुलान् भोगान् पुण्यानाम् एव तत् फलं ।6।
मनोऽभिरामा स्त्रीभृत्यपुत्रमित्रादिसम्पदः ।
यद् भवन्ति मनुष्याणां पुण्यानाम् एव तत् फलं ।7।
रूपलावण्यसम्पत्तिर्मनोनयनहाररिणीं ।
लब्ध्वा यद् राजन्ते मर्त्याः पुण्यानाम् एव तत् फलं ।8।
अभेद्यं परिवारत्वम् अक्षयां दानसम्पदः ।
लभन्ते खलु यन् मर्त्याः पुण्यानाम् एव तत् फलं ।9।
जातिस्मरत्वं सौभाग्यं श्रुतम् आदेयवाक्यतां ।
प्राप्नुवन्ति मनुष्या यत् पुण्यानाम् एव तत् फलं ।10।
विस्तीर्णा भोगसम्पत्ति ज्ञातिभिः सहिताः सदाः
यन् मर्त्या मुञ्जते हृष्टाः पुण्यानाम् एव तत् फलं ।11।
यद्भवन्ति मनुष्याणाम् असंख्या धनसम्पदः ।
निःसपत्नाः स्थिराश् चैव पुण्यानाम् एव तत् फलं ।12।
यद् उत्तरकुरौ द्वीपे ह्य् अममा अपरिग्रहाः
मनुष्या नियतायुष्काः पुण्यानाम् एव एव तत् फलं ।13।
यत् तण्डुलफलं शालिम् अकृष्टोप्तम् महार्हं ।
मनुष्या भुञ्जते तत्र पुण्यानाम् एव तत् फलं ।14।
कल्पदूष्याणि चित्राणि यत् तत्राभरणानि च ।
आच्छादयन्ति मनुजाः पुण्यानाम् एव तत् फलं ।15।
यत् तद् उत्तरकुरौ द्वीपे मनुष्यास् तद् अनन्तरं ।
च्युता देवा भविष्यन्ति पुण्यानाम् एव तत् फलं ।16।
सुधाभक्तादिसम्पति यन् नागा देवपुत्रवत् ।
पाताले भुञ्जते दिव्याः पुण्यानाम् एव तत् फलं ।17।
यत् प्रभावादिराजश्रीसम्पदं प्राप्य देववत् ।
मनुजेन्द्रा विराजन्ते पुण्यानाम् एव तत् फलं ।18।
बलेन चक्रवर्त्तित्वं यद् अवाप्य महीभुजाः ।
देवेन्द्रवद्विराजन्ते पुण्यानाम् एव तत् फलं ।19।
अशेषमनुजां कृत्सां सप्तरत्नादिसम्पदम् ।
बुङ्क्ते यच् चक्रवर्ती च पुण्यानाम् एव तत् फलं ।20।
त्रिदशेन्द्र समां लक्ष्मीं प्राप्य यत् परिभुङ्क्ते ।
वेमचित्रादयो दैत्याः पुण्यानाम् एव तत् फलं ।21।
चत्वारो लोकपाला यां विभूतिं धनदादयः ।
भुञ्जते मुदिताश् चित्रां पुण्यानाम् एव तत् फलं ।22।
नन्दनादिवनोद्यानविभूतिं भुञ्जते सुराः ।
यत् सार्द्धं देवकन्याभिः पुण्यानाम् एव तत् फलं ।23।
विचित्रां देवराज्यादिसम्पदं त्रिदशाधिपः ।
यत् सदा मुदितो भुङ्क्ते पुण्यानाम् एव तत्फलम् ।24।
यथाभिलषितान् दिव्यान् भोगान् यत् परिभुञ्जते ।
विमानवासिनो देवाः पुण्यानाम् एव तत् फलं ।25।
यत् केचिद् दशभिः स्थानैर् आयुर्वर्णबलादिभिः ।
देवेभ्यो ऽप्य् अधिका देवा पुण्यानाम् एव तत् फलं ।26।
कामधातूत्तमाञ् चित्रां यद् दिव्यां भोगसम्पदः ।
कामधात्वीश्वरो भुङ्क्ते पुण्यानाम् एव तत् फलं ।27।
यथाभिलषितान् कामान् देवेषु मनुजेषु च ।
लभन्ते यद् अयत्नेन पुण्यानाम् एव तत् फलं ।28।
यद् ब्रह्मादयो देवा ध्यायिनो ध्यानभूमिषु ।
प्राप्नुवन्त्य् उत्तमं सौख्यं पुण्यानाम् एव तत् फलं ।29।
ध्यायिनो ध्यानजं यच् च तृष्णाक्षयसुखञ् च यत् ।
प्राप्नुवन्ति सुखं शान्तिं पुण्यानाम् एव तत् फलं ।30।
सम्बुद्धश्रावका ये च भवन्त्य् उग्रगुणान्विताः ।
महर्द्धिका महात्मानः पुण्यानाम् एव तत् फलं ।31।
प्राप्नुवन्ति महात्मानो ये ऽपि कल्पशतात्ययात् ।
बोधिं प्रत्येकसम्बुद्धाः पुण्यानाम् एव तत् फलं ।32।
अप्रमेयैर् निरुपमैर् गुणैर् यत् समलङ्कृताः ।
भवन्ति सम्यक्सम्बुद्धाः पुण्यानाम् एव तत् फलं ।33।
रूपयौवनशालिन्यः पुंभिः कुलविभूषणाः ।
स्त्रियः पुण्यैर् अवाप्यन्ते पुण्यानाम् एव तत् फलं ।34।
पुण्यैर् अवाप्यते स्वर्गः पुण्यस्य अप्सरसः फलं ।
प्राप्यन्ते ऽभिमताः पुण्यैः सर्वकामसमृद्धयः ।35।
पुण्यैर् अवाप्यते तीक्ष्णा तथा च विमला मतिः ।
पुण्यैर् आयतनैः श्रद्धाः पुण्यैः पटुतरा स्मृतिः ।36।
पुण्यैः प्रियत्वं वक्तृत्वं सुस्वरत्वं यशस्वता ।
सर्वाः पुण्यैर् अवाप्यन्ते शुभा गुणविभूतयः ।37।
न तद् अस्ति सुखं लोके यत् पुण्यैर् नाधिगम्यते ।
तस्मात् सुखार्थिभिर् नित्यं कर्त्तव्यः पुण्यसंचयः ।38।
स्वल्पं पुण्यं मया कृत्वा विपश्यिनि तथागते ।
यथाभिलाषितं प्राप्तम् अत्यन्तविपुलं फलं ।39।
षट्सु देवनिकायेषु राज्यैश्वर्याधिपत्यतां ।
जातिकोटिसहस्त्राणि सुखं संभुक्तवान् अहं ।40।
अमितान्य् असपत्नानि मनुष्येषूत्तमास् तथा ।
चक्रवर्त्त्यादिभूतेन भुक्ता मे भोगसम्पदः ।41।
तस्य पुण्यस्य माहात्म्याद् यत्र यत्रोपपन्नवान् ।
तत्र तत्र बभूवाहं महेशाख्यः सुखान्वितः ।42।
रूपवान् गुणसम्पन्नो मुखेनोत्पलगन्धिना ।
प्रियश् चादेयवाक्यश् च सुमनोज्ञाः सुरान्वितः ।43।
इदानीम् अपि तस्यैव पुण्यस्याभिमताम् इमां ।
रूपादिगुणसम्पत्तिं पश्यतेमां मनोरमां ।44।
महाधने महाभोगे जातो ऽस्मि विपुले कुले ।
वस्त्रैर् जाम्बूनदाकारैर् अवगुण्ठित विग्रहः ।45।
कायाद् वहति सर्वस्माद् गन्धाश् चन्दनसन्निभः ।
गन्धो नीलोत्पलस्यैव तथा वाति मुखाच् च मे ।46।
यत् किञ्चिद् अभिकाङ्क्षामि वस्त्ररत्नादिसम्पदां ।
तच् च संङ्कल्पमात्रेण मम सर्वं समृध्यति ।47।
प्रव्रज्या च मया लब्धा साक्यसिंहस्य शासने ।
अर्हत्वञ् च मया प्राप्तं शीतीभूतो ऽस्मि निर्वृतः ।48।
इयम् मे पश्चिमा जातिर् म्मम नास्ति पुनर्भवः ।
पुनर् नाभ्यागामिष्यामि निवास्यामि निराश्रयं ।49।
यस् तेन कर्मणा क्षिप्तो विपाकफलविस्तरः ।
तस्य नावैमि पर्यन्तम् अद्याप्य् एवंविधो ऽपि सन् ।50।
स्व रोय् 196,3 - 197,3
[72] तदत्यद्भुतम् अपरिमितम् अचिन्त्यं च तस्य सकाशात् पुण्यमाहात्म्यं श्रुत्वानेकैः प्राणिकोटिनियुतशतसहस्त्रैः परमप्रसादवेगावर्जितचित्तसन्ततिभिर् भगवच्छासनसत्कारपराङ्मिखैर् अपि यथेच्छं दानानि दत्त्वा पुण्यानि कृत्वा प्रणिधानानि कृतानि । अथायुष्मान् सुवर्णवर्णास्य महाजनकायस्यैवम् अनेक प्रकारं पुण्येषु गौरवोत्पादनार्थञ् च पुण्यमाहात्म्यं प्रकाश्य
स्व रोय् 197,3 - 199,5
[73] तत एवोपरि विहायसा सद्यो महाश्मशानम् आगत्य स्थविरानन्दप्रमुखम् भिक्षुसंघम् अनुपरिपाटिकया वन्दित्वैकान्ते निषण्णः । राज्ञा चाजातशत्रुणा श्रुतं यथा किल प्रचण्डेनामात्येनेर्ष्याप्रकृतेनोद्याने काशिसुन्दर्या दारिकाया अयञ् चायञ् चानर्थः कृतः । सुवर्णवर्णस्याभ्याख्यानं दत्त्वा निरपराध एव वधाय परित्यक्त इति । श्रुत्वा च पुनस् तीव्रक्रोधपर्याकुलेक्षणो भृत्यान् आमन्त्रयते भवन्तः । कथन् नामानेन दुरात्मनैवं व्यवहर्त्तव्यं सवर्था परित्यक्तो मे प्रचण्डो ऽमात्य इति । प्रचण्डश् चामात्यस् तत्रैव सन्निपतितो ऽभूत् । अथ प्रचण्डो ऽमात्य एतद् राज्ञो वचनम् उपश्रुत्य मरणभयविषादविहवलेक्षणः प्रवेपमानः सर्वाङ्गावयवः सहसैवोत्थाय निष्पलायितुम् आरब्धो महाजनप्रद्विष्टो ऽसौ तस्योपर्य् अनेकानि प्रणिशतसहस्राणि प्रधावितानि समन्ताच् च परिवार्य महाजनकायेन गृहीतो गृहीत्वा च खरचपेटपार्ष्णिप्रहारादिभिस् तं ताडयितुम् आरब्धाः । स ताड्यमानः प्रगाढदुःखवेदनाभ्याहतो विक्रोष्टुम् आरब्धः आर्यानन्द परित्रास्यस्व माम् अनाथम् अत्राणम् अशरणम् अपरायणं निरालोकं प्रियेण जीवितेनाच्छादयेति ॥
स्व रोय् 200,1 - 203,204
[74] स्थविरानन्देन चासौ महाजनकायो ऽभिहितो भवन्तो मैनं प्रघातयताहं राजानम् अजातशत्रुम् अनुसंज्ञापयिष्यामीति । ततस् तेन महाजनकायेनासौ स्थविरानन्दवचनम् उपश्रुत्य प्रतिमुक्तः स्थविरानन्दश् च राजानं निरीक्षितुम् आरब्धः । राजोवाच । किम् आज्ञापयसीति । स्थविरानन्देनोक्तं । महाराज मुञ्चैनम् इति 200,5-201,1 राजोवाच । समयतो मुञ्चामि यदि स्वाख्याते धर्मविनये प्रव्रज्य स्थविरानन्दस्यं यावज्जीवम् उपस्थानं करोतीति । स्थविरानन्देनोक्तम् एवम् अस्त्व् इति । स च तेन जनकायेन निर्दयं ताडितः । प्रगाढदुःखवेदनाभ्याहतो मुर्च्छितस् तिष्ठति । स्थविरानन्देन चायुष्मान् सुवर्णवर्णो ऽभिहितः सत्याधिष्ठानेन प्रचण्डस्यामात्यस्य शरीराद् दुःखवेदनां प्रस्तम्भयेति । अथायुष्मान् सुवर्णवर्णः सर्वसत्त्वहिताध्याशयप्रवृत्तेन चेतसा सत्याधिष्ठानं कर्तुम् आरब्धः । येन सत्येन सत्यवचनेनास्य प्रचण्डस्यामात्यस्यैवम् अत्यन्तापकारिणो ऽप्य् अन्तिके मम सूक्ष्मो ऽप्य् आघातो नोत्पन्नः । तेन सत्येन सत्यवचनेनास्य शरीराद् दुःखवेदना प्रतिप्रश्रभ्यताम् इति । सत्याधिष्ठानसमनन्तरम् एव प्रचण्डस्यामात्यस्य शरीराद् दुःखवेदना प्रविगता स्वस्थीभूतशरीरश् च समुत्थाय भगवच्छासने समुपजातबहुमानः स्थविरानन्दसमीपम् उपगम्य पादयोर् निपत्योवाच । लभेयाहं स्थविरानन्द स्वाख्याते धर्मविनये प्रव्रज्याम् उपसम्पदं भिक्षुभावञ् चरेयम् अहं स्थविरानन्दस्यान्तिके ब्रह्मचर्यम् इति । स स्थविरानन्देन प्रव्राजितस् तथा च स्वम् अनुशिष्टो यथा तेन तस्मिन्न् एव मुहूर्ते सर्वक्लेशप्रहाणाद् अर्हत्वं प्राप्तं । सो ऽर्हत्वप्राप्तो गगनतलम् अभ्युद्गम्य विचित्रैः प्रातिहार्यम् महाजनमनान्सि प्रह्लादयन् गगनतलाद् अवतीर्य स्थविरानन्दप्रमुखं भिक्षुसंघं अनुपरिपाटिकया वन्दित्वैकान्ते निषण्णः ।
स्व रोय् 204,1 - 205,5
[75] ततस् तद् अत्यद्भुतं स्थविरानन्दस्य महात्म्यं दृष्ट्वा सा परत् स्थविरानन्दे ऽत्यर्थम् अभिप्रसन्ना । ततस् तां पर्षदं तथाभिप्रसन्न्मनस्काम् आलोक्य स्थविरानन्देन तथा विधा धर्मदेशना कृता यां श्रुत्वानेकैः प्राणिशतसहस्रैस् महान् विशेषो ऽधिगतः । कैश्चित् स्रोतआपत्तिफलं प्राप्तं । यावद् अर्हत्त्वं साक्षात्कृतं । कैश्चिच् छ्रावकबोधौ चित्तान्य् उत्पादितानि । कैश्चिद् यावद्बुद्धनिम्ना धर्मप्रवणा संघप्राग्भरा व्यवस्थिता दिवाकरेण च सार्थवाहेन सपत्नीकेन सत्यानि दृष्टानि । अनेकैश् च देवताशतसहस्त्रैस् ततस् ताभिर् देवताभिः प्रसन्नमनस्मभिः दिव्यं वस्त्रवर्यं पातितं । दिव्यानि च वाद्यानि पराहतानि दिव्यैश् चोत्पलपद्मकुमुदपुण्डरीकमान्दारकाद्यैर् जानुमात्रेणोच्छ्रेन सर्वं महाश्मशानं विचित्रैः पुष्पैर् अवकीर्णं ।
स्व रोय् 205,5 - 208,5
[76] अथ राजा ऽजातशत्रुस् तद् अत्यद्भुतं देवमनुष्यावर्जनकरं प्रातिहार्यं दृष्ट्वा परमप्रसादावर्जितचित्तसन्तान उदानम् उदानयाम् आस । अहो आश्चर्यम् अहो ऽत्यद्भुतं अहो आर्यानन्देन स्वगुणमाहात्म्यं प्रकाशितं अहो तथागतशासनमाहात्म्यम् उद्भावितं अहो यत् तेन भगवता जानता पश्यता तथागतेनार्हता सम्यक्सम्बुद्धेन स्थविरमहाकाश्यपेन चास्य शासनं विनयस् तं तत् सफलीकृतं ॥ अहो तथागतादित्य ऽस्तङ्गते आर्यानन्दभास्करेण स्वगुणकिरणजालैर् उद्योतिता दिशः । अहो तथागतशशिन्य् अनित्यतासुरेन्द्रराहुणा ग्रस्ते आर्यानन्दचन्द्रेण स्वम् अतिमयूखविसरैर् वैनेयकुमुदवनानि प्रबोधितानि । अहो तथागतवियोगतीक्ष्णदुःखार्ककिरणसन्तपितः स्थविरानन्द_महामेघेन स्ववचनामृतवर्येण प्रह्लादितो लोकः । अहो तथागतस्य मनोरथाः सम्यक्परिपूरिताः । अहो तथागतशासनकर्णधारत्वं प्रकाशितं । अहो तथागतशसनधूर्द्धरत्वं प्रकाटीकृतं । अहो अग्रः श्रावकः शब्दः सफलीकृतः । अनेनैवात्यद्भुतेन स्वगुणमाहात्म्यं सामर्थ्याद् अन्तसत्त्वहितसम्पादनेन सर्वज्ञगुणमाहात्म्यं प्रतिविवृतं । अहो दर्शितानेन महात्मना तस्य भगवतो महाकारुणिकस्य प्रत्युपकारबुद्धिर् इत्य् ॥
स्व रोय् 208,5 - 211,5
[77] अथ राजा स्थविरानन्देन प्रशादवेगावर्जितचित्तसन्ततिः । स्थविरानन्दसमीपम् उपगम्य सर्वशरीरेण स्थविरानन्दस्य पादयोर् निपतितः । उत्थाय उभे जानुमण्डले पृथिव्याम् उपनिक्षिप्य प्रसादरोमाञ्चकर्कशीकृतमूर्तिः कृतकरपुटः स्थविरानन्दम् अभिष्टोतुम् आरब्धाः ।
नमस् ते पुरुषश्रेष्ठ नमस् ते श्रुतशागराः ।
नमस् ते ऽत्यद्भुताचिन्त्य जिनशासनधूर्द्धर ।1।
बुद्धशासनमाहात्मयम् अहो सम्यक् प्रकाशितं ।
अचिन्त्यम् अद्भुतं ते ऽद्य कुर्वता जगते हितं ।2।
यत् तद् भगवता चार्यकाश्यपेन च धीमता ।
शासनं त्वयि विन्यस्तं तद् अद्य सफलीकृतं ।3।
इदम् अत्यद्भुताचिन्त्यं सत्त्वार्थं कुर्वता महत् ।
सर्वज्ञगुणमाहात्म्यं अद्य ते प्रतिबिम्बितं ।4।
किञ् चित्रं यदि सम्बुद्धः सर्वार्थं कृतवांस् तथा ।
सर्वज्ञः सर्वदर्शी च महाकरुणिको ह्य् असौ ।5।
इदञ् चित्रतरं मन्ये श्रावकेण सता त्वया ।
महाकारुणिकेनैव यत् सत्त्वार्थं महत् कृतं ।6।
अहो सुलब्धलाभो ऽहं मागधश् च जनो ह्य् अयं ।
येषाम् एवं प्रमत्तानां त्वं हितावहितः सदा ।7।
स्थाने तथागतेनेदं त्वयि शासनम् अर्पितं ।
येनाद्य सुगतेनेव कृतम् अत्यद्भुतं महत् ।8।
ततो ऽसौ स्थविरानन्द गुणमाहात्म्यविस्मितः
सम्बुद्धं समनुस्मृत्य नमस्कारं सदाकरोत् ।9।
नमो ऽस्तु ते महावीर सम्बुद्ध द्विपदोत्तम ।
यस्य ते श्रावको ऽप्य् एवं सदा सत्त्वहितोद्यतः ।10।
तथागतेन माहात्म्यम् उच्चैः सम्यक् प्रकाशितं ।
अशून्यम् इव मन्यामस् त्वयैनां जनतां यथेति ।11।
स्व रोय् 211,5 - 213,214
[78] ततो राजा स्थविरानन्दं पप्रच्छ स्थविर किं दिवाकरेण सार्थवाहेन सपत्नीकेन कर्म कृतं । यस्य कर्मणो विपाकेनाढ्यो महाधनो महाभोगः ससंवृत्तः । भगवच्छासने च सत्यदर्शनः कृतः । काशिसुन्दरेण प्रचण्डेन च भिक्षुणा किं कर्म कृतं येनाढ्यो महाधने महाभोगे कुले जातो भगवच्छासने च प्रव्रज्य सर्वक्लेशप्रहाणाद् अर्हत्वं साक्षात्कृतं । सुवर्णवर्णेन च भिक्षुणा किं कर्म कृतं । यस्य कर्मणो विपाके नाद्य महाधने महाभोगे कुले जातः । एवमभिरुपो दर्शनीयः । प्रासादिकः सर्वाङ्गप्रत्यङ्गोपेत उत्तप्तसुवर्णवर्णया वर्णपुष्कलतया समन्वागतः । सर्वजनमनोनयनहरः सुवर्णवर्णैर् वस्त्रैर् अवगुण्ठितविग्रहः । कायाच् चास्य चन्दनगन्धो वाति । मुखाच् च नीलोत्पलगन्धो जन्मनि चास्य वस्त्रवर्यं कर्णिकारकुसुमवर्यं च पतितं । तानि च वस्त्राणि सुवर्णवर्णानि एवम् अत्यार्थ महर्द्धिको महानुभावो भगवच्छासने प्रव्रज्य सर्वक्लेशप्रहाणाद् अर्हत्वं साक्षात्कृतम् इति ।
स्व रोय् 214,1-3
[79] स्थविरानन्दः कथयति । महाराजा एभिर् एव पूर्वम् अन्यासु जातिषु ।
कर्माणि कृतानि यावत् फलन्ति खलु देहिनां ॥
स्व रोय् 214,3 - 215
[80] भूतपूर्वं महाराज इत एकनवते कल्पे भगवां विपश्यी नाम तथागतो लोक उदपादि विद्याचरणसमम्पन्नः सुगतो लोकविद् अनुत्तरः पुरुषदम्यसारथिः शास्ता देवमनुष्याणां बुद्धो भगवान् । स बन्धुमतीं राजधानीम् उपनिःसृत्य विहरति बन्धुमतीयके दावे ।
स्व रोय् 215,1 - 216,1
[81] तेन खलु समयेन बन्धुमत्यां राजधान्यां कर्णो नाम सार्थवाहः प्रतिवसत्य् आढ्यो महाधनो महाभोगो विस्तीर्णविशालपरिग्रहो वैश्रवणधनसमुदितो वैश्रवणप्रतिस्पर्द्धी बन्धुमत्यां राजधान्यां अग्रकुलिकस् तेन सदृशात् कुलात् कलत्रम् आनीतं । स तया सार्द्धं क्रीडति रमते परिचारयति । तस्य क्रीडतो रममाणस्य परिचारयतः पत्नी आपन्नसत्त्वा सम्वृता यावत् कर्णः सार्थवाहः पञ्चवणिकशतपरिवारो महासमुद्रम् अवतीर्णः ॥
स्व रोय् 216,1 - 218,2
[82] स च गर्भो यथा वृद्धिसु गच्छति । तथा कर्णस्य सार्थवाहस्य यद् आवारीगतं क्षेत्रगतं देशान्तरगतं वार्थजातं तत्र किञ्चिद् अग्निना दग्धं किञ्चिच् चौरैर् अपहृतं किञ्चित् पौरुषेया गृहीत्वा निःपलानाः । यावत् सार्थवाहपत्नी परिपूर्णे काले प्रसूता दारको जातः कृष्णच्छविर् अत्यन्तविरूपो ऽष्टादशभिर् अवलक्षणैर् दूषितगात्रस् तस्य कायान् मुखाच् च तादृशो ऽत्यन्तविरसो गन्धः प्रवातुम् आरब्धो यं घ्रात्वा तद्गृहस्थाः परिजनाः परं वैमुख्यम् उपगताः । तस्य दारकस्य जातमात्रस्य तस्मिन् गृहे ऽग्निः प्रादुर्भूतो येन तद् गृहं निरवशेषञ् च स्वापतेयं दग्धं । सार्थवाहपत्नी कथञ्चिद् दारकम् आदाय तस्माद् गृहान् निर्गता । यदा च सो ऽग्निस् तद् गृहं निरवशेषञ् च स्वापतेयं दग्ध्वा स्वयम् एव निर्वाणः । तदा सार्थवाहपत्नी तत्रार्द्धभग्ने खण्डाववरके प्रविश्य पटार्द्धं पृथिव्यां प्रसार्य दारकं शायित्वा दीर्घम् उष्णञ् च निःश्वस्य कर्णं सार्थवाहम् अनुस्मृत्य रोदितुं प्रवृत्ता । हा कष्टम् ईदृशो मे विपर्ययः समुपस्थित इति ।
स्व रोय् 218,2 - 219,4
[83] कर्णस्य सार्थवाहस्य ये दासीदासकर्मकरपौरुषेयास् ते तां विपत्तिं दृष्ट्वा यामो मा वयम् अपि विनङ्क्ष्याम इति भीताः कर्णस्य सार्थवाहस्य पत्नीम् अपहाय निःपलानाः । तत्रैका प्रेष्यदारिका संलक्षयति । मया कर्णस्य सार्थवाहस्य गृहे नैकप्रकारा सम्पद् अनुभूता । न मम प्रतिरूपं स्याद् यद् अहम् अस्याम् अवस्थायां सार्थवाहपत्नीम् अनाथम् एकाकिनीं च्छोरयित्वा निःपलायेयम् इति । सैवैका सार्थवाहपत्न्याः पार्श्वे ऽवस्थिता । तस्याश् च सार्थवाहपत्न्याः सर्वन् तत् स्वापतेयम् अग्निना दग्धम् एकदैवसिकम् अपि भोक्तव्यन् नास्ति ।
स्व रोय् 219,4 - 221,3
[84] ततः सा प्रेष्यदारिका ककर्णस्य सार्थवाहस्य ये सुहृत्सम्बन्धिबान्धवास् तेषां सकाशङ् गत्वा कथयति भवन्तः । कर्णस्य सार्थवाहस्य पत्न्या इदृश्य् अवस्था वर्त्तते । योगोद्वहनं कुरुतेति । यत एव ते तस्या योगोद्वहनं कर्तुम् आरब्धास् तत एवैतेषाम् अपि कुलेष्व् अनर्थशतानि प्रादुर्भूतानि । तैर् उपलक्षितम् अयङ् कर्णस्य सार्थवाहस्य पुत्रो ऽत्यन्तं न मङ्गलो ऽस्यापुण्यसामर्थ्यात् कर्णस्य सार्थवाहस्य सर्वो गृहविभवादिविस्तरो विनाशङ् गतस् तद् यदि वयम् अप्य् अस्य योगोद्वहनं करिष्यामो ऽस्माकम् अपि गृहेषु न चिराद् एवेयम् ईदृश्य् अवस्था भविष्यति । तद्यथा कर्णस्य सार्थवाहस्य । सर्वथा न तस्य युक्तं नामापि ग्रहीतुम् अपि तु तैः सा प्रेष्यदारिकाभिहिता न भूयस् त्वयास्मन्निवेशनान्य् उपसंक्रमितव्यानीति ॥
स्व रोय् 221,3 - 222,4
[85] सा तैर् निर्भत्सिता चिन्तयाम् आस । इदानीं सार्थवाहपत्नी सर्वेण सर्वनिशक्रन्दा जाता । कथम् अत्र प्रतिपत्तव्यम् । अथवा गृहीतो ऽयं मया भारः सुतराम् एवाधुना सार्थवाहस्य पत्नी परिपालयितव्येति । ततः परगृहाणि गत्वा भृतकया कर्म कर्तुम् आरब्धा । तत्र च यन् मूल्यं लभते तेन सार्थवाहपत्नीम् आत्मानञ् च दारकञ् च पोषयितुम् आरब्धा । तस्य च दारकस्य परमविरूपत्वाद् विरूप इति नाम व्यवस्थापितं । दैवात् सा प्रेष्यदारिका प्रतिदिवसम् अपचीयमानं मूल्यं प्रतिलभते । ततस् ते त्रयः प्राणिनो ऽति कृच्छ्रेण यापयितुम् आरब्धाः ॥
स्व रोय् 222,4 - 224,5
[86] सार्थवाहपत्नी संलक्षयति । अहं हि सर्वैर् दासीदासकर्मकरपौरुषेयैः सुहृत्सम्बन्धिबान्धवैश् च परित्यक्ता यत किञ्चिन् मम जीवितं सर्वं तदेनां प्रेष्यदारिकाम् आगम्य । एषा हि मे मातृकल्पा स्नेहेन । तत् कियन्तं कालम् एकाकिनी कर्म कुर्वाणा सा परिखेदं गमिष्यति । यावच् च मूल्यं लभते । तावता न शक्यते यापयितुं । तद् अहम् अपि स्वकर्मापराधम् अनुभवाम्य् अहम् अपि भृतिकया कर्म करोमीति विचिन्त्य तया प्रेष्यदारिकया सह परगृहाणि गत्वा भृतिकया कर्म कर्तुम् आरब्धा सा परमसुकुमारा क्षुद्दुःखादिपरिपीडिता च कर्म कुर्वाणा मुहुर् मुहुर् मोहम् उपगच्छति । ततश् च परिखिन्ना दीर्घम् उष्णञ् च निःश्वस्य कर्णं सार्थवाहम् अनुस्मृत्य रोदितुं प्रवृत्ता । हा कष्टम् ईदृशो मे विपर्ययः समुपस्थितो यन् नाम सकलनगरोत्कृष्टा श्रीसम्पदम् अनुभूयेदानीम् इहैव जन्मनि सकलनगर-उत्तमा भूत्वा परगृहेषु भृतिकया कर्म कुर्वाणा महद् दुःखदौर्मनस्यं प्रत्यनुभवामीति ।
स्व रोय् 224,5 - 227,228
[87] ताञ् च तथा दुःखपरिपीडितां रुदन्तीम् आलोक्य सा प्रेष्यदारिका रोदितुं प्रदत्ता । हा कष्टम् इहैव जन्मनि सार्थवाहपत्नी काशिशूक्ष्मातिविचित्राम् वरधारणी विविधसुरभिगन्धकुसुममालाविभूषितगात्री । नैकसुगन्धद्रव्ययोजितमुखवासकावासितकपोला अप्सरस इव नन्दनवनोद्यानगता । अन्नपानवस्त्रालङ्कारादिभिर् दासीदासकर्मकरपौरुषेयसुहृत्सम्बन्धिबान्धवादीन् यथार्हं सम्विभज्य_ इदानीम् इहैव जन्मनि उद्धृतशिरस्का मलपटलदिग्धगात्री क्षुद्दुःखादिदुःखेन परिशुष्कसर्वगात्रावयवा सटितसाटकात्यन्तमलिनेन खण्डचोटकेन यूकाशतनिकेतभूतेन प्रच्छादितकटिप्रदेशा सकलनगराधमा भूत्वा परगृहेषु भृतिकया कर्म कुर्वाणा महद् दुःखदौर्मनस्यं प्रत्यनुभवत्य् अहो भाग्यविपर्ययः । अहो चञ्चला भोगसम्पदः । अहो कर्मणां वैचित्र्यम् इत्य् आह च ।
पटंशुकादीन् प्रावृत्य सर्वालङ्कारभूषिता ।
अप्सरा इव या पूर्वम् इदं रथ्यामुखङ् गता ।1।
तद् एवं साम्प्रतं याता सैव भाग्यविपर्ययात् ।
निवास्य मलदग्धाङ्गी सटितं खण्डचोटकं ।2।
देवकन्येव या पूर्वं पुंसां नेत्रामृतं ह्य् अभूत् ।
प्रेतीं वा सांप्रतं दृष्ट्वा ताम् एवोद्विजते मनः ।3।
या पूर्वन् धनसम्पत्त्या नगरस्योत्तमाभवत् ।
कृपणानाम् अपि गता सैवाद्यात्यन्तहीनतां ।4।
परिभुक्तवती हृष्टा या महासम्पदं पुरा ।
इमाम् अद्य दशां प्राप्य सैव शोचति दुःखिनी ।5।
अहो संसारदौरात्म्यम् अहो सम्पदनित्यता ।
यद् एवं सुखिता भूत्वा दुःखभाजनताङ् गतेति ।6।
स्व रोय् 228,1 - 231,5
[88] ततः सार्थवाहपत्नी तया प्रेष्यदारिकाया सह अनयानुपूर्व्या परगृहेषु भृतिकया कर्म कर्तुम् आरब्धा । विरूपस्य च कुमारस्यापुण्याधिपत्येन प्रातिदिवसम् अपचीयामानं मूल्यं लभते । यावद् अपरेण समयेना सूर्यास्तं दिवसं कर्म कारयित्वा न किञ्चिल् लभ्यते । यावत् कर्म ऽपि न कश्चित् कारयति । यावत् सार्थवाहपत्नी तत्या प्रेष्यदारिकया सह सञ्जल्पं कर्तुम् आरब्धा । अपीदानीं कर्मापि न कश्चित् कारयति । सर्वथा भिक्षाम् अटाम इति । ते मल्लकम् आदाय भिक्षाम् अटितुम् आरब्धा । यदा च विरूपः कुमारः पर्यटितुं समर्थो जातः तदा तस्य मात्राभिहितं पुत्र त्वम् इदानीं स्वयम् एव भिक्षाम् अटित्वा भुङ्क्ष्वेति । तया तस्य मल्लको दत्तः । स तं मल्लकम् आदाय वीथीम् अवतीर्णः । तञ् चातिकृष्णं विरसच्छविम् अत्यन्तविरूपम् अष्टादशभिर् अवलक्षणैर् विदूषितगात्रम् अवलोक्य लोको ऽत्यन्तविमुखो जातो ऽधोमुखः प्रक्रामति । स येषां गृहद्वारं गच्छति ते तस्य तद् अतिविरसं कायाद् गन्धम् आघ्राय सहसैव नाशापुटद्वयं पिधाय काष्ठपाषाणशर्करादिभिस् ताडयित्वा निष्काशयन्ति शीघ्रम् अस्माद् गच्छेति । स जङ्गम इव नगरविस्तारजम्बाले यत्र यत्र गच्छति तत्र तत्र काष्ठपाषाणशर्करादिभिस् ताडयित्वा निष्काश्यते । सैकभिषाम् अप्य् अलब्ध्वा काष्ठपाषाणशर्करादिभिस् ताडितस् तेन मल्लकेन भग्नेन क्रन्दमानो मातुर् अन्तिकम् आगत्य भृशतरमन्युमान् भूत्वा विक्रोष्टुम् आरब्धः । ततः सा तं दृष्ट्वोद्विग्ना उरसि प्रहारं दत्त्वा कथयति ।
हा कष्टं कस्य ते पुत्र अपराद्धन् तु किम् भवेत् ।
कृपाम् अपास्य येनैवं प्रहृतं त्वयि दुःखिते ।1।
ततो विरूपः कुमारः सस्वरः प्ररुदन्न् उवाच ।
येषां येषां गृहद्वारम् अहं गच्छामि याचितुं ।
ते ते कठल्लपाषाणैः काष्ठाद्यैस् ताडयन्ति माम् इति ।2।
स्व रोय् 231,5 - 234,235
[89] तच् छ्रुत्वा सार्थवाहपत्नी विरूपं कुमारं कण्ठे परिष्वज्य सस्वरं प्ररुदन्ती प्रोवाच ।
नूनं कृतं त्वया घोरं पापं पुत्रान्यजन्मषु ।
भृशन् निराधो ऽपि येनैवं ताड्यसे परैः ।1।
धिक् कष्टं भोः ।
इमम् अत्यन्तविरसं सौख्यविवर्जितं ।
दीनं याचन्तम् आलोक्य कृपोत्पन्ना न चेतसि ।2।
हा हतास्मि विनष्टाहं केन ते पुत्र मल्लकः ।
भग्नो भग्नशरीरेण भिक्षामात्रोपजीविनः ।3।
पित्रा मात्रा विमुक्तस्य मुक्तस्य च गृहाश्रमात् ।
केन पुत्र दयां हित्वा तव भग्नो ऽद्य मल्लकः ।4।
उत्सन्नसर्वतन्त्रस्य वर्जितस्य सुहृज्जनैः ।
मित्रन् नाथो गुरुश् चैव भग्नस् ते केन मल्लकः ।5।
हा पुत्र केन वा वीर्यं त्वयि दर्शितम् आतुरे ।
दीने च हा हतो ऽसि पुत्रक हतः पूर्वकर्मणा स्वेन ।6।
हा पुत्र मृदु शूरः कः कस्य कृपा नावगाहतेहृदयं ।
पाषाणोपलक्ठिनं हृदयं कस्य कथय मे ऽद्य ।7।
हा कथं त्वां पराहन्तुं दीनं मुखशतैर् हतं ।
भिक्षाम् अटन्तं दुःखार्तं लोकस्योत्सहते मनः ।8।
क्षुत्पिपासापरिक्लान्तं सर्वसम्पद्विंवर्जितं ।
रोगदुःखाभितप्तं हा हतं को हन्तुम् उद्यतः ।9।
कृपणं दीनवदनं रुदन्तं क्षुतप्रपीडितं ।
संशुष्ककण्ठं दृष्ट्वाद्य कृपा केन कृता न ते ।10।
ताडितो ऽसि कथं पुत्र जातिगर्वमदाकुलैः ।
रुजाभिभूते केनाद्य कृपा त्यक्तातिदुःखिते ।11।
हा त्वया यत् क्षुधार्तेन भिक्षया समुपार्जितं ।
स्तोकम् अन्नं तद् अप्य् अद्य श्वभिः काकैश् च भक्षितं ।12।
हा पुत्र मन्दभाग्याहम् अधुना किं करोमि ते ।
कृतपूर्वेण पापेन विधात्रानिष्टकर्मणेति ।13।
स्व रोय् 235,1 - 244,2
[90] एवं सा ऽनेकप्रकारम् आत्मननम् अनुशोचन्ती तस्यैव खण्डाववरकस्याग्रतस् तं पुत्रं विरूपं रुधिरधारावशिक्ताङ्गं परिष्वज्यातिबहुसङ्कारशर्करामेध्यस्थाणुकण्टकान्वितायां भूमौ निषाद्य शनैः शनैः पाणिना मदयितुम् आरब्धाः । यावत् सा वीथीमध्येन गच्छतः पश्यत्य् अनेकान् श्रेष्ठिपुत्रान् सार्थवाहपुत्रांश् चान्यांश् चोत्सदान् ब्राह्मणगृहपतीन् काशिकदुकूलकोटम्बककौशेयसूक्ष्मातिमहार्हविचित्रवस्त्रहर्षकटककेयूराङ्गदकुण्डलहारार्द्धहारविचित्रालङ्कारसमलङ्कृतशरीरान् विविधविकचसुरभिकुसुमकलापविभूषितविग्रहांस् तांश् चात्मीयम् अनतिकष्टाम् अवस्थाम् आलोक्य तञ् च विरूपं पुत्रं तथातिदीनवदनं दीर्घम् उष्णञ् चाभिनिश्वस्य साश्रेक्षणातिदीनैर् वचोभिर् उच्चैं प्रोवाच ।
सम्पन्नैकसताकीर्णे रत्नैः सागरसन्निभैः ।
कुले सुविप्रुले भूत्वाप्य् अनुभूय सुखं परं ।1।
विपत्तिभागिनौ जातौ सङ्कारोदरवासिनौ ।
सुकृच्छ्रेणापि याव् आवां नाप्नुवो ऽन्नं बुभुक्षितौ ।2।
शोकार्णवं दुःखजालोर्मिभीमं सन्तापनक्रोग्रशताभिकीर्णं ।
हा हा हता वेति विमुक्तनादं दारिद्रतोयौघनिधिं प्रविष्टौ ।3।
विपत्तनानक्रसहस्त्रसंकुलं विपत्तिभीमोर्मितरङ्गचञ्चलां ।
महारुजाविद्धभयप्रचण्डां नदीं हि दारिद्रमयीं प्रपन्नौ ।4।
दुःखोपलव्याधिखरावकीर्णं सन्तापसिंहध्वनिपूर्णकुञ्जं ।
शोकाण्डजावासशताभिकीर्णं दारिद्रदुःखालयम् अभ्युपेतौ ।5।
नूनं पुरा साधुजने न दत्तं दानं प्रमादस्खलिताशयाभ्यां ।
दीनाव् इदानीम् इह मन्दभाग्यौ पश्याव यद् दृप्तमुखानि नित्यं ।6।
प्रायेण याचनकायाचनकं न दत्तं क्लीबेसु भाग्यरहितेषु विमोहिताभ्यां ।
आवासमात्रविकलाव् अपि येन जातौ क्लीबौ यतो व्यसनम् उग्रतरं प्रपन्नौ ।7।
नूनं पृथिव्यां गुरुसम्मतान् यान् संप्राप्य सत्कृत्य विमानितास् ते ।
येनाधुनावान् तु विमाननीयौ जातौ जनास्याद्य विपत्तिभाजौ ।8।
ताडिता बहवो नूनं पूर्वजन्मसु संयता ।
येनावान् ताडयत्य् एष जनः पाषाणलोष्टकैः ।9।
परिभाषापथं नीतो नूनं गुरुजनः पुरा ।
यदेवं परिभवः कष्टमनुजातो सुदारुपः ।11।
अतिथिभ्यो न दत्तानि आवाभ्यां पूर्वजन्मनि ।
वस्त्राणि येन वासांसि न भवन्त्य् अधुनावयोः ।12।
रोदनानादबहुला बहवः कारिता जनाः ।
येन बन्धुविहीनौ हि चिरं रोदिव दुःखितौ ।13।
चित्रसंव्यानसंवीतं न दत्तं शयनं पुरा ।
शर्करोपलसंकीर्णे स्वपिवो येन भूतले ।14।
आसनानि विचित्राणि न च दत्तानि साधुषु ।
आसनं पृथिवी येन बहुकण्टसङ्कटा ।15।
पूर्वं नोपानहौ दत्तौ न च यानं सुखावहं ।
येन वा कण्टकाकीर्णे विचरावो महीतले ।16।
आवासमत्स्रतया खलु नैव दत्तं प्रायेण चार्थिनि जने गृहवासमात्रं ।
उग्रांशुपङ्क्तिपरिराजितमध्यभागं संकारकूटम् इह येन वयं प्रपन्नाः ।17।
संशुष्ककण्ठपरिशुष्ककपोलवक्त्रान् पानाभिलाषमनसः समुपदीक्ष्य पूर्वं ।
नूनन् न दत्ताम् इति तेषु जालं सुशीतं येनाधुना वयम् अतीव विशुष्कवक्त्राः ।18।
नैव्á_अन्नम् अथिर्नि जने कृपणे प्रदत्तन्ं न ज्ञातयो न च सुहृन् न च बन्धुवर्गाः ।
सत्कृत्य वान्नविधिना परिभोजिताश् च तेनेह भक्ष्यरहितौ विपरिभ्रामवः ।19।
आरोषिताः परहितप्रतिपत्तिदक्षा नूनं भवान्तरगतैः सुबहुप्रकारं ।
येनेह साम्प्रतम् अपि तु इतरे ऽपि लोके आक्रोशभाजनपरत्वम् उपागताः स्मः ।20।
आवाभ्यां बहवो नूनं जातिगर्वमदाश्रयात् ।
ताडिता गुणवन्तो ऽपि जाता येनाधुना खराः ।21।
संसारसागरे चेतः सर्वव्याधिभयापहं ।
भैषज्यं न पुरा दत्तं येन रोगाभि पीडितौ ।22।
न स्नापिता पितृवयस्यजना न माता आप्यपिता न गुरवो न च दीनलोकः ।
आस्नानपानरहितौ विधिना प्रजातौ येनेह दुःखशतभाग्यहताव् अनाथौ ।23।
क्षुतपिपासपरिक्लान्तौ भक्ताच्छादनवर्जितौ।
रोगदुःखाभिसन्तप्तौ को न्व् आवां पालयिष्यति ।24।
कस्य दासौ भवावो ऽद्य कस्य वा परिचारकौ ।
यो नो ऽद्य जीवितं दद्याद् अस्मिन् लोके सुदुर्लभं ।25।
अहो दुःखं हि दारिद्रयम् अहो ऽप्य् अकृतपुण्यता ।
एवं स्फीते ऽपि नगरे नाथो नास्ति यथावयोर् इति ।26।
एवम् अन्यथा च सा सार्थवाहपत्नी क्षुधापरिगतहृदयात्मानम् अनुशोचन्ती तिष्ठति ॥
स्व रोय् 244,3 - 246,4
[91] कर्णश् च सार्थवाहो महासमुद्राद् भग्नयानपात्रः कथञ्चित् फलकम् आसाद्य दारकसहायो जलात् स्थलम् उत्तीर्यायातः । महता कृच्छ्रेण भिक्षाम् अटन् बन्धुमतीं राजधानीम् आगतः । स तत्र बहिः क्षेत्रके रात्रिम् वासम् उपगतः । तत्र चान्यतमो भृतकपुरुषः क्षेत्रपालकस् तेनासौ प्रत्यभिज्ञातः । तस्यैतद् अभवद् एष सार्थवाहो ऽतिक्षामशरीरो विपन्नसर्वस्वन् द्रविणसञ्चयो दारकसहायो ऽभ्यागतः । तत् कथम् अस्य गृहप्रवृत्तिम् आरोचयिष्याम्य् अपि तु स्वयम् एव ज्ञास्यतीति विदित्वा तेन तस्य हस्तप्रक्षालनोदकं दत्वा माषपूपवद्वयम् अनुप्रदत्तं । ततः कर्णेन सार्थवाहेन एकं माषपूपकं स्थापितं । मा रिक्तहस्तको गृहं प्रवेक्ष्यामीति विदित्वा दारकस्य हस्ते स्थापितं । एवं त्व् अर्द्धार्द्धिकं कृत्वानाहारशरीरेण तेन दारकेन सार्द्धं भक्षितम् । अथापरस्मिन् दिवसे कर्णः सार्थवाहस् तं माषपूपकम् आदायातिपरमरुक्षक्षामशरीरो ऽतिमलिनैकशाटकमात्रसारो बन्धुमतीं राजधानीं प्रविश्य गृहं संप्रस्थितः ॥
स्व रोय् 246,4 - 247,2
[92] विरूपो ऽपि प्रभातकाल एव क्षुत्तृष्णापरिक्षामवदनः किम् मया मन्दभाग्येनात्र तिष्ठता जीवता वा प्रयोजनं । गच्छाम्य् आत्मानं प्रघातयामीति ताम् मातरम् उवाच । अम्ब गच्छामि पैतृकम् उद्यानम् इत्य् उक्त्वा तद् उद्यानं संप्रस्थितः ।
स्व रोय् 247,1 - 251,5
[93] कर्णो ऽपि सार्थवाहः स्वगृहसमीपङ् गतो यावत् पश्यति चिराद् धवस्तं शान्तालयवर्णं मृत्तिकापुञ्जशेषं दृष्ट्वा च पुनः किम् इदम् इति विचिन्त्य तं खण्डाववरकं प्रवृष्टो यावत् पश्यति तां भार्यां तस्मिन् खण्डाववरके दास्या सार्द्धम् अवस्थिताम् अतिक्षाम दीनवदनां मलिनखण्डचोटकावच्छादितकटिप्रदेशां मलपटलदग्धाङ्गीं दृष्ट्वा च पुनः हा किम् इदम् इत्य् उक्त्वा मूर्च्छितः पृथिव्यां निपतितः शीतेन वायुना संस्पृष्टश् चिराच् च चेतनां लब्ध्वा तत्या भार्यया सार्द्धं किम् इदम् इत्य् उच्चैर् विक्रोष्टुम् आरब्धः । ततो भार्यासकाशाद् उपलब्धवृत्तान्तो दीर्घम् उष्णञ् चाभिनिश्वस्य कथयति । नूनम् मया दक्षिणीयक्षेत्रे न काराः कृता येन मे ईदृशी विपत्तिस् । तत् किम् इदानीम् अहाम् अधुना करिष्यामि कं शरणम् अनुव्रजामि । कस्य मुखावलोकको भविष्यामि । को लोके हीनदीनानुकम्पकः । कम् आगम्याहम् इदं दारिद्रमहासमुद्रम् उत्तरिष्यामि कम् आगम्य विपत्तिपङ्कं प्रक्षालयिष्यामि कम् आगम्येमाम् अनन्तां शोकनदीम् उत्तरिष्यामि । कम् आगम्येमम् दारिद्रशत्रु पराजेष्ये कम् आगम्येमां सर्वदुःखमातृकां दारिद्रलताम् उत्पाटयिष्यामि कम् आगम्येमम् दारिद्रवृक्षम् उन्मूलयिष्यामि । कम् आगम्येमम् क्षुदुःखदंष्ट्राकरालवदनं हाहाकारभैरवमहारावं दारिद्रमहाराक्षसं निर्वासयिष्यामि । कम् अहम् आगम्येमं दारिद्रमहामल्लं पराजिष्ये । कम् आगम्येमं क्षुत्तृष्णादिप्रदीप्तज्वालं दारिद्रवर्द्धनं निर्वापयिष्यामि । कम् अहम् आगम्येमं विषदावलिप्तदारिद्रमहाहस्तिनं दमयिष्यामि । कम् अहम् आगम्येमं अनेकदुःखविषमविषस्वासं दारिद्रमहाप्रन्नगं निर्विषीं करिष्यामि । कम् आगम्याहम् इमं सर्वस्यापहारिणं दारिद्रमहावीरं निवारयिष्यामि । कम् आगम्याहम् इमं सर्वदुःखदुःस्वभावं दारिद्रनिगडं भेत्स्यामि । कम् अहम् आगम्येमं दारिद्रचारकम् अतिक्रमिष्यामि । कम् अहम् आगम्येमं दारिद्रकपाटं पाटयिष्यामि । कम् अहम् आगम्येमं दारिद्रान्तकं निरासीकरिष्यामि । कम् अहम् आगम्येमं विषादौघं प्रतरिष्यामि । कम् अहम् आगम्येमं दारिद्रमहाकान्तरं निष्तरिष्यामीत्य् एवम् अनेकप्रकारकरुणदीनविलम्बितैर् अक्षरैर् विक्रोशति स्म ।
स्व रोय् 251,5 - 259,2
[94] अत्र चान्तरे नास्ति किञ्चिद् बुद्धानाम् भगवताम् अज्ञातम् अदृष्टम् अविदितम् अविज्ञातं । धर्मतां खलु बुद्धानाम् भगवतां शरदरुणकरनिकरविसरपरिखचितपरिकपिलमणिगुणतरुणदिवसकरसकलामलकिशलयकलापकुवलयमरकतेन्दुकोमलायुधविमलसौदामिनीवलयघृतधाराभिषेकसुसमृद्धधारानलज्वालाकलापमङ्गलयूखकिरणबहलामिततिमिरनिकरविजर्जरीकृतजरामरणभवपञ्जराणाम् अनेककुशलशतसमाधानबलभूतकुमुदशङ्खकुदामलतारहारतुषारमृणालामलकरिदशनसंकलितजाम्बूनदाचविकटकोटकोटिस्थितदशशतनयनरुचिरचापवक्रीकृतविसृतविमलकरभासुरानन्तगगनैकशतनयनशशाङ्कधवलमृदुस्निग्धप्रदक्षिणव्यामप्रभामणिनिबिडभ्रुवद्वयोद्गीर्णोर्णानां विराजितप्रबुद्धनवजलजसदृशवदनानां । त्रिभिः कल्पासंख्येयैः करचरणनयनवदनौत्तमाङ्गस्वमांसरुधिरबालाब्जसदृशवदनैकपुत्रदारगजतुरगरथालङ्कारवस्त्रान्नासनशयनमणिकनकरजतसर्वस्वराज्यादिपरित्यागसंवर्धितानुत्तरबोधिसंभाराणां निसङ्गानाम् अनङ्गबलप्रमथनाद् अमलशरत्कालेन्दुमण्डलावदातस्फुट्यशोनिकरसहस्रमालिनाम् उदयाचलेन्द्रोद्गीर्नचन्द्रमरीचिलताजटिलमण्डलतरुणदिवसकरगभस्तिसंघातजलदविनिःसृततडिद्गुणसहस्रसुरपतिद्विरददन्तकुन्ताघातभिन्नकनकगिरि- रुचकक्षुभितपातालक्षीरोदतरलाविरलपल्लवेन्दुकार्मुकशिखिशिखाखरमकरतमणिदलेन्दुसकलकमलदलफणीन्द्रोदरवैदूर्यशिलोत्कृष्टचम्पकोत्करामलतलप्रभामण्डलावगुण्ठितविग्रहाणां स्वयम् अधिगतज्ञानानलभस्मीकृताशयगहनानां प्रणिपतितसुरसहस्रचरणोन्मौलिविलग्नमणिकनकमुञ्जरीप्रसेकान्तरञ्जितचरणारविन्दानां तरुणगजतालुसान्द्रालक्तकपद्मसरसन्ध्याभ्रपुञ्जशोककुसुमभस्तस्तबकताम्रचरणानां । तनुताम्रनखचन्द्रिकाहासविमलपादपद्मानां । उत्पाटिततृष्णालतानां विध्वस्ताशेषमोहान्धकाराणां । सकलजगद्बन्धुभूतानां । निष्कारणपरमवत्सलस्वभावानां । अचिन्त्यज्ञानगोचराणां । उद्गृहीतमहारागोरगविषाणं दुष्करशतसहस्रोपात्तोत्तमगुणसमूहसम्भराणां । पुण्यसम्भारोपार्जितप्रज्ञाबलोद्धृताशेषक्लेशतरुमूलानां । ब्रह्मेन्द्रोपेन्द्रानलनिलयमवरुणकुबेरशानाद्भिर् देवैर् अभिष्टुतशासनानां । महाकारुणिकानां । लोकानुग्रहप्रवृत्तानां । एकारक्षाणाम् अद्वितीयानां । अद्वयवादिनां । शमथविपश्यनाविहारिणां त्रिदमथवस्तुकुशलानां । चतुरोघोत्तीर्णानां । चतुऋद्धिपादचरणतलसुप्रतिष्ठितानां । चतुर्षु सङ्ग्रहवस्तुषु दीर्घरात्रकृतपरिचयानां पञ्चाङ्गविप्रहीणानां पञ्चगतिसमतिक्रान्तानां । षडङ्गसमन्वागतानां । षट्पारमितापरिपूर्णानां । सप्तबोध्यङ्गकुसुमआढ्यानां । अष्टाङ्गमार्गदेशिकानां । नवानुपूर्वविहारसमापत्तिकुशलानां । दशबलबलिनां । दशदिक्समापूर्णयशसां । दशशतवशवर्तिप्रतिविशिष्टानां । त्री रात्रेस् त्रिर् दिवसस्य बुद्धचक्षुषा लोकं व्यवलोकयन्ति ।
स्व रोय् 259,2 - 261,3
[95] को हीयते । को वर्द्धते । कः कृच्छ्रप्राप्तः कः शङ्कटप्राप्तः । कः सम्बाधप्राप्तः । कः कृच्छ्रशङ्कटसम्बाधप्राप्तः । को ऽपायनिम्नः । को ऽपायप्रवणः । को ऽपायप्राप्तः । को ऽपायप्राग्भारः । के ऽद्य मया संसारमहासमुद्राद् उद्धर्त्तव्यः । को ऽद्य मया क्लेशमहारक्षसावलुप्यमानो मोचितव्यः । को ऽद्य मया दारिद्रपन्नगैर् उपद्रूयमाणः परित्रातव्यः । को ऽद्य मया द्वेषानलसन्तप्यमानमूर्तिः सद्धर्मवत्षेणाभिषिक्तव्यः । को ऽद्य मया महामोहान्धकारान्तरप्रविष्टसन्तानो तिमिरतरालोकम् अनुत्तरं समाधिवरशिखरम् आरोपयितव्यः । कस्याद्य मया सर्वदुःखक्षयकरं सन्मार्गाष्टाङ्गभैषज्यम् उपदेष्टव्यं । कस्याद्य मया दारिद्रकपाटपुटानन्तपाटनं वक्तव्यं । कस्याद्य मया ज्ञानतिमिरावष्टब्धनयनस्य ज्ञानाञ्जनम् अनुप्रदेयं । को ऽद्य महानिगडबबन्धनान् मोचयितव्य इत्य् आह च ॥
अप्य् एवातिक्रमेद् वेलां सागरो मकरालयः ।
न तु वैनेयवत्सानां बुद्धो वेलाम् अतिक्रमेत् इत्य् ।1।
स्व रोय् 261,3 - 262,5
[96] अथ भगवान् विपश्यी सम्यक्सम्बुद्धः सकलम् इमं लोकम् अवलोकयति स्म । अद्राक्षीद् भगवां कर्णं सार्थवाहम् अतिदरिद्रव्यसनपङ्के निमग्नम् अतीवात्मानम् अनुशोचन्तं दृष्ट्वा च पुनर् महाकरुणासञ्चोद्यमानहृदयः पात्रचीवरम् आदाय बन्धुमतीयकाद् दावान् निष्क्रमय बन्धुमतीं संप्रस्थितः । बन्धुमत्यां राजधान्याम् विपश्यिनं सम्यक्सम्बुद्धं पिण्डाय प्रविशन्तम् अवलोक्य राजामात्यश्रेष्ठिब्राह्मणगृहपतिपौरजनपदसार्थवाहाः । अयं भगवान् विपश्यी सम्यक्सम्बुद्धः पिण्डाय प्रविशतीत्य् अहम् एवेदं भगवतः पात्रं पूरयिष्यामीत्य् अनेकानि प्राणिशतसहस्राणि खादनीयभोजनीयं गृहीत्वावस्थितानि ।
स्व रोय् 262,5 - 265,2
[97] अथ भगवान् विपश्यी सम्यक्सम्बुद्धः कर्णस्य सार्थवाहहस्यानुकम्पया वीथीमध्येन प्रशान्तमतिर् अभिनवोदितदिवसकराधिकतररुचिरदीप्ततनुः सन्ध्याभ्ररेखावगुण्ठित इव शकलशरचन्द्रमाः कल्पद्रुम इव सुरपुरोपवनाद् अमृतविद्रुमलतालङ्कृत इव सुवर्णयूपः काञ्चनस्थालोपनिहित इव तैलप्रद्योतः । समुद्गतानेकविविधरत्नाङ्कुरखचित इव रत्नपर्वतः कनकमलरेणुधूसारित इव राजहंसः । ऐरावत इव मन्दाकिनीकम(6)लरेणुविभूषितः सिंह इव मनःशिलाधातुदिग्धः सकलभुवनलक्ष्मीपुञ्ज इव देदीप्यमानमूर्तिर् इव पादाभ्याम् अतिपरमसुहृतरथचरणसुरुचिररचिततलाभ्यां प्रतिनवविकचकमलसुकुमारकोमलतलाभ्यां श्रीवत्सस्वस्तिकनन्द्यावर्त्तवर्धमानमीनविभूषिततलाभ्यां तरुणशशाङ्कबिम्बताम्रसुपरिगतार्चिसुरुचिरनखाभ्यां । सुनिर्मलैकप्रकाशसुनिविष्टदर्शनीयुतुङ्गनखाभ्यां नखतिलकपङ्क्तिखचित्ताप्रतिमसुजातदीर्घवृत्तायतां गुलिभ्यां मृदुसुकुमारतूलसंस्पर्शपार्ष्णिभ्यां श्रिया देदीप्यमानो गगनतल इव भास्करः सकलम् इदं दिग्मण्डलम् अवभासयन् कर्णस्य सार्थवाहस्य तं खण्डाववरकम् अनुप्राप्तः ।
स्व रोय् 265,2 - 268,2
[98] ततो विपश्यिना सम्यक्सम्बुद्धेन प्रतप्ततरकनकरसरागप्रचुरा । घृताहुतिवर्षासेकादीपिताननप्रफुल्लकिंशुक्_अआशोकरक्तोत्पलकुरण्टकरवीरसन्ध्याभ्रचम्पककुसुम्भमण्डगजतालुपद्मरागारुणतडित्सहस्रातिरेका प्रभा समुत्सृष्टा । यया सहसैव खण्डाववरकं सान्तर्ब हिर् विलीनकनकावभासं संवृत्तं । तद् आलोच्य कर्णः सार्थवाहः किम् इदम् इति समुत्थितः । पश्यति भगवन्तं विपश्यिनं सम्यक्सम्बुद्धं द्वात्रिङ्शम्महापुरुषलक्षणालङ्कृतमूर्तिं मूर्तिमन्तम् इव धर्मं हव्यावसिक्तम् इव हुतवहं । तप्तकनकरसरागकर्णिकारकुङ्कुमकुसुम्भहरितालमनःशिलारक्तोत्पलशरत्सन्ध्यानुरञ्जितजलदशिखिवलाहमेचककाञ्चनराजपट्ठिङ्गुलकातिमुक्तकुरण्टकप्रभामण्डलावगुण्ठितविग्रहं दृष्ट्वा च पुनः कर्णस्य सार्थवाहस्यातिमहाप्रसादो जातः ॥ किम् अहम् भगवते ऽनुप्रदास्यामीत्य् एवम् आत्मानो विभवम् अवलोकयन् पश्यति माषपूपकम् एकं स तं गृहीत्वा पत्न्याः कथयति भद्रे मया माषपूपको ऽयं मा खल्व् अहं रिक्तहस्तो गृहं प्रवेक्ष्यामीत्य् आनीतः । अयञ् च भगवान् विपश्यी सम्यक्सम्बुद्धः परमदक्षिणीयो हीनदीनानुकम्पको ऽत्र च स्वल्पम् अपि दानबीजम् उप्तं दारिद्रव्यसनोन्मूलकं भवति । तद् अहम् इमं माषपूपकं भगवते ऽनुप्रयच्छामीति । सा कथयत्य् आर्यपुत्र शोभनम् एवं क्रियतां । एतद् अपि तावत् कुशलमूलं संसारसुखहेतुभूतं भवतीत्य्
स्व रोय् 268,2 - 270,5
[99] एवम् उक्ते कर्णः सार्थवाहः संलक्षयति । परीत्तम् इमं माषपूपकं कथम् अहं तादृशो ऽस्मिन्न् एव पुरे भूत्वा अधुना ईदृशं यदि परीत्तं पश्याताम् एव राजामात्यब्राह्मणगृहपतिपौरजनपदसार्थवाहानां भगवते ऽनुप्रदास्याम्य् अपि तु पत्रे बध्वा दास्याम् एवम् अनभिलक्ष्यो भविष्यामीति विदित्वा तं खण्डाववरकं प्रविश्य पत्त्रं गवेष्टुम् आरब्धो न किञ्चित् पत्त्रम् आरागितवान् । अथ सः सार्थवाहः सुतरां सम्विग्नमानसः हा कष्टम् ईदृशो ऽहम् मन्दभाग्य इति दीर्घमुष्णञ् चाभिनिश्वस्य सहसैव तस्मात् खण्डाववरकान् निष्क्रम्य महता प्रमादवेगेन तं माषपूपकं विपश्यिनः सम्यक्सम्बुद्धस्य पात्रे प्रतिपादितवान् । प्रतिपाद्य च पादयोः प्रणिपत्य प्रणिधानं कर्तुम् आरब्धो ऽनेन अहं भगवन् कुशलमूलेन देयधर्मपरित्यागेन इत एव जन्म प्रभृति मा कदाचिद् एकदिवसम् अपि दरिद्रः स्यां । आढ्यतरः स्यां । परिपूर्णजीवितोपकरणः । समनन्तरम् एव कर्णस्य सार्थवाहस्य सहसैव विपश्यिनः सम्यक्सम्बुद्धस्य पादयो निपतत मात्रस्यैव या ऽतिपरमविरूपा क्षामता सान्तर्हिता सैव पूर्वका वर्णनिभाभिनिवृत्ता ।
स्व रोय् 270,5 - 272,273
[100] अथ कर्णः सार्थवाहः प्राणिधानं कृत्वोत्थितो विपश्यी सम्यक्सम्बुद्धस् तत एव प्रतिनिवृत्य बन्धुमतीयं दावं गतो ऽथ कर्णः सार्थवाहस् तैर् बन्धुमतीयकैः श्रेष्ठिभिः सार्थवाहैश् च प्रत्यभिज्ञातस् तत्रैकः सार्थवाहस् तान् पौरिकान् इदम् अवोचत् । न वयं भवन्तः कर्णं सार्थवाहम् अवसीदन्तम् अप्य् उपेक्षामहे पटञ् च प्रसार्याह ॥ भवन्तः शक्यं बहुभिर् एकः समुद्धतुं न त्व् एकेन बहवस् तद् येन वात्र यत् परित्यक्तव्यं तद् अस्मिन् पटे ऽनुप्रदीयताम् इत्य् उक्ते हर्षकटककेयूराङ्गदकुण्डलहारार्द्धहाराङ्गुलीयकान्य् अनेकालङ्कारशतसहस्राण्य् अनुप्रदत्तानि । अनेकानि च काशिदुकूलकोटाम्बकौशेयापरान्तकशूक्ष्मातिमहार्हविचित्रवस्त्रयुगलशतान्य् अनेकानि तस्य तस्मिन्न् एव क्षणे वस्त्राणाम् अलङ्काराणाञ् चातिमहान् राशिः सम्वृत्तः । ततः कर्णः सार्थवाहस् तां विभूतिम् अवलोक्य पत्न्याः कथयति । भद्रे पश्य सुक्षेत्रेदानवीजस्याङ्कुरः प्रादुर्भूत इति । सापि प्रीतिप्रामोद्यजाता विपश्यिनं सम्यक्सम्बुद्धं नमस्यन्ती तानि वस्त्राणि अलङ्काराणि चाववरकं प्रवेशयितुम् आरब्धा ।
स्व रोय् 273,1 - 274,2
[101] विरूपो ऽपि दारकस् तत् पैतृकम् उद्यानं प्रविश्य क्षुस्द्दुःखोपतप्तमानसस् ताम् आत्मीयां परमविरूपताम् एव पुनः पुनः संशोचयन् संलक्षयति । किम् मया पापकर्मकारिणा परमदुःखभागिना ऽतिविरूपेणाधन्यदर्शनेन जीविता प्रयोजनं सर्वथा प्रघातयाम्य् आत्मानम् इत्य् उद्विग्नमनः सहसैव पाटलावृक्षस्याग्रशाखाम् आरुढो वृक्षशाखा च भग्ना सहसैव सार्द्धं वृक्षशाखया पतितो वेदनार्त्तश् चावतिष्ठते ।
स्व रोय् 274,2 - 278,3
[102] अत्र चान्तरे नास्ति किञ्चिद्बुद्धानां भगवताम् अज्ञातम् अदृष्टम् । अविदितम् अवज्ञातम् अद्राक्षीद् विपश्यी सम्यक्सम्बुद्धो दिव्येन बुद्धचक्षुषा विशुद्धेनातिक्रान्ता मानुष्यकेन विरूपदारकं तथा दुःखितं दृष्ट्वा च पुनर् महाकरनीयो सञ्चोद्यमानो ऋद्धया तत् स्थानं गत्वा स्वशरीरप्रभाम् उत्सृष्टवान् । कल्पशतसम्भृताश् च भगवतो मैत्र्यांशव उत्सृष्टाः ॥ यैः स्पृष्टमात्रस्यैव विरूपस्य या शरीरे दुःखवेदना सा प्रतिविगता तच् च क्षुत्तृषदुःखं प्रतिप्रस्रब्धं । सहसैवोत्थितः पश्यति विपश्यिनं सम्यक्सम्बुद्धं कल्पकोटिनियुतशतसहस्रदुर्लभदर्शनम् उत्तप्तम् द्वात्रिङ्शन्महापुरुषलक्षणद्योतितविग्रहं सह दर्शनाच् चास्य भगवतो विपश्यिनः सम्यक्सम्बुद्धस्योपरि प्रसादो जातः । तेन च हरिद्रारक्तकं हस्तमात्रं वस्त्रखण्डं प्रावृतम् आसीत् तेन तत्प्रसादाविष्टेन शरीराद् अवतार्य महता प्रसादवेगेन सहसैव विपश्यिनः शास्तुर् उपरि निक्षिप्तम् एकञ् च कर्णिकारकुसुमन् तच् च भगवता विपश्यिना तथागतेनार्हता सम्यक्सम्बुद्धेन तथाधिष्ठितं यथा तद् वस्त्रखण्डकं तथागतस्य कायप्रमाणिकं भूत्वा कायं प्रतिच्छादितवान् । कर्णिकारकुसुमञ् चोपविशकटचक्रमात्रं भूत्वा च्छत्त्रवद् अवस्थितं । तच् च दृष्ट्वा विरूपस्य दारकस्यातिमहान् प्रसादो जातः । स महता प्रशादवेगेन विपश्यिनः सम्यक्सम्बुद्धस्य पादयोर् निपत्य महता स्वरेण प्रणिधानं कर्तुम् आरब्धः ।
अनेन द्विपदां श्रेष्ठ दानेनेह विरूपतां ।
अद्य प्रभृति संत्यज्य लभेयाहं सुरूपतां ।1।
सुवर्णवर्णवासो ऽति हैमवर्णैर् विगुण्ठितः ।
चन्दनोत्पलगन्धश् च कायाद् वक्त्राच् च मे भवेत् ।2।
सुवर्णवर्णसंकालः सर्वलोकमनोहरः ।
सर्वामयवि निर्मुक्तः सर्वशास्त्रार्थपारगः ।3।
सर्ववाचाथसंयुक्तः सर्वानर्थविवर्जितः ।
सर्वोत्तमः सर्वदर्शी सर्वाकारविभूषितः ।4।
सर्वार्थसिद्धः सम्बुद्धो भवेयं सत्त्ववत्सलः ।
सर्वामलगुणः श्रीमान् सर्वद्रव्यान्वितः सुखी ।5।
स्व रोय् 278,3 - 280,2
[103] अथैतत् प्राणिधानकरणसमकालम् एव विरूपस्य दारकस्य सहसैव सा विरूपतान्तर्हिता सुरूपः सम्वृत्तो दर्शनीयः प्रासादिकः सुवर्णवर्णगात्रच्छविः सहसैव चास्याकस्माद् आ काशाद् आगत्य सुवर्णवर्णैर् वस्त्रैः शरीराम् आच्छादितं । महार्हैश् चाङ्गदकुण्डलादिभिर् अलङ्कारविशेषैर् । देवताभिश् च कर्णिकारोत्पलचम्पकपद्मकुमुदमान्दारकादिकम् महत् कुसुमवर्षं पातितं । दिव्यञ् चन्दनागुरुकुङ्कुमतमालपत्रचूर्णवर्षं प्रमुक्तम् एवञ् चोद्घुष्टम् अहो तथागतावरोपितस्य दानबीजस्य्_इष्ठो विशिष्ठश् चाङ्कुरः समुत्पन्न इति । तेन च दिव्येन पुष्पचूर्णवर्षेण सर्वन् तद् उद्यानं जानुमात्रेणौघेनावस्थितम् अथ भगवान् विपश्यी सम्यक्सम्बुद्धस् तस्माद् उद्यानान् निष्क्रम्य बन्धुमतीयकं दावङ् गतः ।
स्व रोय् 280,2 - 283,2
[104] कर्णो ऽपि सार्थवाहो भार्याम् उवाच । भद्रे सो ऽस्माकं पुत्रः क्व गतो यम् आगम्यास्माकम् ईदृशी विपत्तिर् अभूद् इति । सा कथयत्य् उद्यानं गच्छामीति तेन समाख्यातं । तद् गच्छ शीघ्रं मा स तत्रोद्विग्नमना आत्मानं प्रघातयिष्यतीति । कर्णः सार्थवाहः कथयति । किन् नामासाव् अस्माकं पुत्रः कीदृशो वेति । सा कथयत्य् आर्यपुत्र परमविरूपदर्शनो विरूपाख्यश् चेति ॥ ततः सार्थवाहस् त्वरितगतिप्रचारतया तद् उद्यानं गतः पश्यति च विरूपकुमारं सुवर्णवर्णकायम् अतिमहार्हसूक्ष्मसुवर्णपीतवस्त्राच्छादितशरीरं सर्वालङ्कारविभूषितम् अतिमनोहरं दर्शनदेवकुमारम् इव परमयाश्रिया देदीप्यमानं दृष्ट्वा च पुनर् अहो धन्यः सः पुरुषो यस्यायं पुत्रः इत्य् एवम् उक्त्वा तं कुमारम् उवाच ॥ दारक कस्य त्वं पुत्र इति । स कथयति कर्णो नाम सार्थवाहस्तस्याहं पुत्र इति । कर्णः सार्थवाहः संलक्षयति । विहेठितो ऽहम् अनेन कुमारेएति विचिन्त्य समभिवृद्धकुतूहलो ऽनिमिषम् अभिवीक्ष्यमाणः पुनस् तं कुमारम् उवाच । भोः कुमारः सत्यं कथय कस्य त्वं पुत्र इति विरूपः कथयति किम् अत्र विचार्यते । सत्यम् एवाहं कर्णस्य सार्थवाहस्य पुत्र इति । स कथयत्य् अहो ऽहम् अनेन कुमारेण सुविडम्बितः कृत इति । मत्वा कथयति । कुमार श्रुतम् मयातिविरूप स इति त्वं चाभिरूपः । तत केनोपायेनाभिरूपता तवाभिनिवृत्तेति ॥
स्व रोय् 283,2 - 287,3
[105] विरूपः कुमारः प्रीतिविकसिताक्षो महता स्वरेणोवाच ।
अद्य दारिद्रदुःखाग्निपरितापितचेतसा ।
वृक्षशाखाम् आरुह्य मया ह्य् आत्मा निपातितः ।1।
पतितश् चाङ्गभङ्गार्तो मूर्छाम् अहम् उपागतः ।
निश्चेष्टो ऽहं निरुच्छ्वासः क्षणमात्रम् अवस्थितः ।2।
ततो विपश्यी सम्यक्सम्बुद्धः सत्वानां ह्य् अनुकम्पकः ।
ममानुकम्पया नाथ उद्यानम् इदम् आगतः ।3।
द्वात्रिंशल्लक्षणधरः सूत्तप्तकनकच्छविः ।
विलीनकनकाभाभिः पूरयन् दिशो दशा ।4।
प्रभया तस्य गात्रम् मे स्पृष्टमात्रं सुशीतया ।
प्रह्लादितम् इदं सर्वमतुलामृतधारया ।5।
क्षुत्तृष्णापातदुःखञ् च निःशेषम् अशिवम् मम ।
तत्क्षणं प्रशमं यातं चेतनाञ् चाप्तवान् अहं ।6।
किम् एतद् इति सोत्साहम् उत्थितो ऽहं मुनिन् तदा ।
पश्यामि कान्तम् अत्यन्तं जनलक्ष्मीनिकेतन ।7।
दृष्ट्वा द्रष्टव्यरत्नम् मे तन् नाथं परया श्रिया
विद्योतन्तं दिशः कृत्स्नाः प्रसादो ह्य् अभवत् पूरा ।8।
ततः प्रहृष्टचित्तेन वस्त्रखण्डलकम् मया
हारिद्रारक्तकं क्षिप्तं तस्यैव परया मुदा ।9।
कर्णिकारस्य मे पुष्पम् कं तस्यैव सद्यतेः ।
क्षिप्तं तच् चोपरि मुनेः छत्त्रवत् समवस्थितं ।10।
तत्रापि हृष्टचित्तेन प्रणिपत्य च पादयोः ।
मया प्रसादजातेन प्रणिधानम् इदं कृतं ।11।
अनेन नाथ दानेन अद्यैवाहम् विरूपतां ।
परित्यज्य सुरूपश् च भवेयं हि भवार्णवे ।12।
सुवर्णवर्णैर् वस्त्रैश् च हेमपीतैर् विगुण्ठितः ।
चन्दनोत्पलगन्धश् च कायाद् वक्त्राच् च मे भवेत् ।13।
इत्य् एतत् प्रणिधानञ् च मया कृतम् इदञ् च मे ।
रूपम् एवम्विधं वर्णं प्रादुर्भूतन् मनोरमं ।14।
महार्हाणि च वस्त्राणि पीतान्य् अतिमृदूनि च ।
सहसैवाद्य काये मे प्रादुर्भूतानि तत्क्षणात् ।15।
देवताभिर् इदं मुक्तं पुष्पवर्षन् नभस्तलात् ।
चन्दनागुरुचूर्णञ् च तमालतगरादिकं ।16।
हाहाकारो महांश् चैव दुन्धुभिश् च मनोहरः ।
नमस् ते भगवन् बुद्ध इति घोष उदीरितः ।17।
मूल पाठ: Suvarṇavarṇāvadāna · Edition: Sitaram Roy: Suvarṇavarṇāvadāna [Decipherment and historical study of a palm-leaf Sanskrit manuscripts-an unknown Mahāyāna(avadāna) text from Tibet.], Patna : K.P. Jayaswal Research Institute 1971 (Historical Research Series, vol. VII); compared with: Rajapatirana, Tissa (1974), Suvarṇavarṇāvadāna, translated and edited together with its Tibetan translation and the Lakṣacaityasamutpatti, A thesis · Data entry Jens Braarvig · GRETIL (Göttingen) · CC BY-NC-SA 4.0