सुवर्णप्रभाससूत्र · अध्याय 21
इति श्रीसुवर्णप्रभासोत्तमसूत्रेन्द्ररा ए सर्वतथागतस्तवपरिवर्तो नाम विंशतितमः ॥
॥ निगमनपरिवर्तः ॥
अथ खलु बोधिसत्त्वसंमुच्चया नाम कुलदेवता हृष्टतुष्टा तस्यं वेलायामिमाभिर्गाथाभिर्भगवन्तं तुष्टाव ॥
नमो ऽस्तु बुद्धाय सुविशुद्धबोधये विशुद्धधर्मा प्रतिभामुबुद्धये ।
सद्धर्मपुण्योपगतानुबुद्धये भवाग्रशून्याय विशुद्धबुद्धये
अहो अहो बुद्धमनक्षते असं अहो अहो सागरमेरुतुल्यम् ।
अहो अहो बुद्धमनन्तगोचरं औदुम्बरं पुष्पमिवातिदुर्लभम्
अहो अहो कारुणिकस्तथागतः शाक्यकुलकेतुनरेन्द्रसूर्यः ।
येन दृशं भाषित सूत्रमुत्तमं सर्वेषु सत्त्वामनुग्रहार्थम्
शान्तेश्वरः शाक्यमुनिस्तथागतः सत्त्वोत्तमः शान्तपुरे प्रविष्टः ।
गम्भीरशास्ता विर आ समाधिः यदनुप्रविष्टो इनबुद्धगोचरे
शून्याश्च कायास्तथ श्रावकाणां विहारशून्या द्विपदोत्तमानाम् ।
ते सर्वधर्माः प्रकृत्या च शून्याः सत्त्वापि शून्यात्म न आतु विद्यते
नित्यं च नित्यं च इन स्मरामि नित्यं च शोचामि इनस्य दर्शनम् ।
सततं च नित्यं प्रणिधिं करोमि संबुद्ध सूर्यस्य च दर्शनार्थम्
स्थाप्येह नित्यं धरणीषु आनु अतिशोकतप्तो ऽस्मि इनस्य दर्शने ।
रोदिमि कारुण्यविनायकत्वं अभिसंतृष्णास्मि सुगतस्य दर्शने
शोकाग्निना प्र वलितो ऽस्मि समन्त नित्यं ददाहि मे दर्शनतोय शीतलम् ।
सत्त्वाः सतृष्णास्तव रूपदर्शने प्रह्लादयेन्मां करुणोदकेन
कारुण्यभावं कुरु मह्य नायक ददाहि मे दर्शन सौम्यरूपं ।
त्वया हि त्राता अगदेव देशितः शून्याश्च कायस्तथ श्रावकाणाम्
आकाशतुल्या गगणस्वभावा मायामरीच्युदकचन्द्रकल्पा ।
सर्वे च सत्त्वाः सुपिन स्वभावा महान्तशून्याः स्वय नायकस्य
मूल पाठ: Suvarṇaprabhāsasūtra · Edition: S. Bagchi: Suvarnaprabhasasutram, Darbhanga: The Mithila Institute, 1967. (Buddhist Sanskrit Texts, 8) · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0