सुश्रुतसंहिता · अध्याय 4.5
अथातो महावातव्याधिचिकित्सितं व्याख्यास्यामः॥
यथोवाच भगवान् धन्वन्तरिः॥
द्विविधं वातशोणितमुत्तानमवगाढं चेत्येके भाषन्ते; तत्तु न सम्यक्, तद्धि कुष्ठवदुत्तानं भूत्वा कालान्तरेणावगाढीभवति, तस्मान्न द्विविधम्॥
तत्र बलवद्विग्रहादिभिः प्रकुपितस्य वायोर्गुरूष्णाध्यशनशीलस्य प्रदुष्टं शोणितं मार्गमावृत्य वातेन सहैकीभूतं युगपद्वातरक्तनिमित्तां वेदनां जनयतीति वातरक्तम्। तत्तु पूर्वं हस्तपादयोरवस्थानं कृत्वा पश्चाद्देहं व्याप्नोति। तस्य पूर्वरूपाणितोददाहकण्डूशोफस्तम्भत्वक्पारुष्यसिरास्नायुधमनीस्पन्दनसक्थिदौर्बल्यानि श्यावारुणमण्डलोत्पत्तिश्चाकस्मात् पाणिपादतलाङ्गुलिगुल्फमणिबन्धप्रभृतिषु, तत्राप्रतिकारिणोऽपचारिणश्च रोगो व्यक्ततरः, तस्य लक्षणमुक्तं; तत्राप्रतिकारिणो वैकल्यं भवति॥
भवति चात्र प्रयशः सुकुमाराणां मिथ्याहारविहारिणाम्। स्थूलानां सुखिनां चापि वातरक्तं प्रकुप्यति॥
तत्र प्राणमांसक्षयपिपासाज्वरमूर्च्छाश्वासकासस्तम्भारोचकाविपाकविसरणसंकोचनैरनुपद्रुतं बलवन्तमात्मवन्तमुपकरणवन्तं चोपक्रमेत्॥
तत्र आदावेव बहुवातरूक्षम्लानाङ्गादृते मार्गावरणाद्दुष्टशोणितमसकृदल्पाल्पमवसिञ्चेद्वातकोपभयात्। ततो वमनादिभिरुपक्रमैरुपपाद्य प्रतिसंसृष्टभक्तं वातप्रबले पुराणघृतं पाययेत्। अजाक्षीरं वार्धतैलं मधुकाक्षययुक्तं, शृगालविन्नासिद्धं वा शर्करामधुमधुरं, शुण्ठीशृङ्गाटककशेरुकसिद्धं वा, श्यामारास्नासुषवीशृगालविन्नापीलुशतावरीश्वदंष्ट्राद्विपञ्चमूलीसिद्धं वा। द्विपञ्चमूलीक्वाथाष्टगुणसिद्धेन पयसा मधुकमेषशृङ्गीश्वदंष्ट्रासरलभद्रदारुवचासुरभिकल्कप्रतीवापं तैलं पाचयित्वा पानादिषूपयुञ्जीत, शतावरीमयूरककिणिह्यजमोदामधुकक्षीरविदारीबलातिबलातृणपञ्चमूलीक्वाथसिद्धं वा काकोल्यादिप्रतिवापं, बलातैलं शतपाकं वेति। वातहरमूलसिद्धेन च पयसा परिषेचनमम्लैर्वा कुर्वीत। यवमधुकैरण्डतिलवर्षाभूभिर्वा प्रदेहः कार्यः। तत्र चूर्णितेषु यवगोधूमतिलमुद्गमाषेषु प्रत्येकशः काकोलीक्षीरकाकोलीजीवकर्षभकबलातिबलाबिसमृणालशृगालविन्नामेषशृङ्गीप्रियालशर्कराकशेरुकसुरभिवचाकल्कमिश्रेषूपनाहार्थं सर्पिस्तैलवसामज्जदुग्धसिद्धाः पञ्च पायसा व्याख्याताः, स्नैहिकफलसारोत्कारिका वा, चूर्णितेषु यवगोधूमतिलमुद्गमाषेषु मत्स्यपिशितवेशवारो वा, बल्वपेशिकातगरदेवदारुसरलारास्नाहरेणुकुष्ठशतपुष्पैलासुरादधिमस्तुयुक्त उपनाहः, मातुलुङ्गाम्लसैन्धवघृतमिश्रं मधुशिग्रुमूलमालेपस्तिलकल्को वेति वातप्रबले॥
पित्तप्रबले द्राक्षारेवतकट्फलपयस्यामधुकचन्दनकाश्मर्यकषायं शर्करामधुमधुरं पाययेत्, शतावरीमधुकपटोलत्रिफलाकटुरोहिणीकषायं, गुडूचीकषायं वा, पित्तज्वरहरं वा चन्दनादिकषायं शर्करामधुमधुरं, मधुरतिक्तकषायसिद्धं वा सर्पिः; बिसमृणालभद्रश्रियपद्मककषायेणार्धक्षीरेण परिषेकः, क्षीरेक्षुरसैर्मधुकशर्करातण्डुलोदकैर्वा द्राक्षेक्षुकषायमिश्रैर्वा मस्तुमद्यधान्याम्लैः; जीवनीयसिद्धेन वा सर्पिषाभ्यङ्गः, शतधौतघृतेन वा, काकोल्यादिकल्ककषायविपक्वेन वा सर्पिषा; शालिषष्टिकनलवञ्जुलतालीसशृङ्गाटकगलोड्यगौरीगैरिकशैवलपद्मकपद्मपत्रप्रभृतिभिर्धान्याम्लपिष्टैः प्रदेहो घृतमिश्रः, वातप्रबलेऽप्येष सुखोष्णः प्रदेहः कार्यः॥
रक्तप्रबलेऽप्येवं, बहुशश्च शोणितमवसेचयेत्, शीततमाश्च प्रदेहाः कार्या इति॥
श्लेष्मप्रबले त्वामलकहरिद्राकषायं मधुमधुरं पाययेत्, त्रिफलाकषायं वा; मधुकशृङ्गवेरहरीतकीतिक्तरोहिणीकल्कं वा सक्षौद्रं, मूत्रतोययोरन्यतरेण गुडहरीतकीं वा भक्षयेत्; तैलमूत्रक्षारोदकसुराशुक्तकफघ्नौषधनिःक्वाथैश्च परिषेकः, आरग्वधादिकषायैर्वोष्णैः; मस्तुमूत्रसुराशुक्तमधुकसारिवापद्मकसिद्धं वा घृतमभ्यङ्गः; तिलसर्षपातसीयवचूर्णानि श्लेष्मातककपित्थमुधुशिग्रुमिश्राणि क्षारमूत्रपिष्टानि प्रदेहः; श्वेतसर्षपकल्कः, तिलाश्वगन्धाकल्कः, प्रियालसेलुकपित्थकल्कः, मधुशिग्रुपुनर्नवाकल्कः, व्योषतिक्तापृथक्पर्णीबृहतीकल्क इत्येतेषां पञ्च प्रदेहाः सुखोष्णाः क्षारोदकपिष्टाः, शालिपर्णी पृश्निपर्णी बृहत्यौ वा क्षीरपिष्टास्तर्पणमिश्राः॥
संसर्गे सन्निपाते च क्रियापथमुक्तं मिश्रं कुर्यात्॥
सर्वेषु च गुडहरीतकीमासेवेत; पिप्पलीर्वा क्षीरपिष्टा वारिपिष्टा वा पञ्चाभिवृद्ध्या दशाभिवृद्ध्या वा पिबेत् क्षीरौदनाहारो दशरात्रं, भूयश्चापकर्षयेत्, एवं यावत् पञ्च दश वेति; तदेतत् पिप्पलीवर्धमानकं वातशोणितविषमज्वरारोचकपाण्डुरोगप्लीहोदरार्शःकासश्वासशोफशोषाग्निसादहृद्रोगोदराण्यपहन्ति; जीवनीयप्रतीवापं सर्पिः पयसा पाचयित्वाभ्यज्यात्; सहासहदेवाचन्दनमूर्वामुस्ताप्रियालशतावरीकशेरुपद्मकमधुकशतपुष्पाविदारीकुष्ठानि क्षीरपिष्टः प्रदेहो घृतमण्डयुक्तः, सैरेयकाटरूषकबलातिबलाजीवन्तीसुषवीकल्को वा च्छागक्षीरपिष्टः, गोक्षीरपिष्टः काश्मर्यमधुकतर्पणकल्को वा; मधूच्छिष्टमञ्जिष्ठासर्जरससारिवाक्षीरसिद्धं पिण्डतैलमभ्यङ्गः; सर्वेषु च पुराणघृतमामलकरसविपक्वं वा पानार्थे; जीवनीयसिद्धं परिषेकार्थे, काकोल्यादिक्वाथकल्कसिद्धं वा; सुषवीक्वाथकल्कसिद्धं वा, कारवेल्लकक्वथमात्रसिद्धं वा; बलातैलं वा परिषेकावगाहबस्तिभोजनेषु; शालिषष्टिकयवगोधूमान्नमनवं भुञ्जीत पयसा जाङ्गलरसेन वा मुद्गयूषेण वानम्लेन; शोणितमोक्षं चाभीक्ष्णं कुर्वीत; उच्छितदोषे च वमनविरेचनास्थापनानुवासनकर्म कर्तव्यम्॥
(। पटोलत्रिफलाभीरुगुडूचीकटुकाकृतम्। क्वाथं पीत्वा जयत्याशु वातशोणितजां रुजम्॥)
भवन्ति चात्र एवमाद्यैः क्रियायोगैरचिरोत्पतितं सुखम्। वातासृक् साध्यते वैद्यैर्याप्यते तु चिरोत्थितम्॥
उपनाहपरीषेकप्रदेहाभ्यञ्जनानि च। शरणान्यप्रवातानि मनोज्ञानि महान्ति च॥
मृदुगण्डोपधानानि शयनानि सुखानि च। वातरक्ते प्रशस्यन्ते मृदुसंवाहनानि च॥
व्यायामं मैथुनं कोपमुष्णाम्ललवणाशनम्। दिवास्वप्नमभिष्यन्दि गुरु चान्नं विवर्जयेत्॥
अपतानकिनमस्रस्ताक्षमवक्रभ्रुवमस्तब्धमेढ्रमस्वेदनमवेपनमप्रलापिनमखट्वापातिनमबहिरायामिनं चोपक्रमेत्। तत्र प्रागेव स्नेहाभ्यक्तं स्विन्नशरीरमवपीडनेन तीक्ष्णेनोपक्रमेत शिरःशुद्ध्यर्थं; अनन्तरं विदारिगन्धादिक्वाथमांसरसक्षीरदधिपक्वं सर्पिरच्छं पाययेत्, तथा हि नातिमात्रं वायुः प्रसरति; ततो भद्रदार्वादिवातघ्नगणमाहृत्य सयवकोलकुलत्थं सानूपौदकमांसं पञ्चवर्गमेकतः प्रक्वाथ्य तमादाय कषायमम्लक्षीरैः सहोन्मिश्रच सर्पिस्तैलवसामज्जभिः सह विपचेन्मधुरकप्रतीवापं, तदेतत्त्रैवृतमपतानकिनां परिषेकावगाहाभ्यङ्गपानभोजनानुवासननस्येषु विदध्यात्; यथोक्तैश्च स्वेदविधानैः स्वेदयेत्, बलीयसि वाते सुखोष्णतुषबुसकरीषपूर्णे कूपे निदध्यादामुखात्, तप्तायां वा रथकारचुल्ल्यां तप्तायां वा शिलायां सुरापरिषिक्तायां पलाशदलच्छन्नायां शाययेत्, कृशरावेशवारपायसैर्वा स्वेदयेत्। मूलकोरुबूस्फूर्जार्जकार्कसप्तलाशङ्खिनीस्वरससिद्धं तैलमपतानकिनां परिषेकादिषूपयोज्यम्। अभुक्तवता पीतमम्लं दधि मरिचवचायुक्तमपतानकं हन्ति; तैलसर्पिर्वसाक्षौद्राणि वा। एतच्छुद्धावातापतानकविधानमुक्तं, संसृष्टे संसृष्टं कर्तव्यम्। वेगान्तरेषु चावपीडं दद्यात्; ताम्रचूडकर्कटकृष्णमत्स्यशिशुमारवराहवसाश्चासेवेत, क्षीराणि वा वातहरसिद्धानि, यवकोलकुलत्थमूलकदधिघृततैलसिद्धा वा यवागूः; स्नेहविरेचनास्थापनानुवासनैश्चैनं दशरात्राहृतवेगमुपक्रमेत; वातव्याधिचिकित्सितं चावेक्षेत; रक्षाकर्म च कुर्यादिति॥
पक्षाघातोपद्रुतमम्लानगात्रं सरुजमात्मवन्तमुपकरणवन्तं चोपक्रमेत्। तत्र प्रागेव स्नेहस्वेदोपपन्नं मृदुना शोधनेन संशोध्यानुवास्यास्थाप्य च यथाकालमाक्षेपकविधानेनोपचरेत्; वैशेषिकश्चात्र मस्तिष्क्यः शिरोबस्तिः, अणुतैलमभ्यङ्गार्थे, साल्वणमुपनाहार्थे, बलातिअलमनुवासनार्थे; एवमतन्द्रितस्त्रींश्चतुरो वा मासान् क्रियापथमुपसेवेत॥
मन्यास्तम्भेऽप्येतदेव विधानं, विशेषतो वातश्लेष्महरैर्नस्यै रूक्षस्वेदैश्चोपचरेत्॥
अपतन्त्रकातुरं नापतर्पयेत्, वमनानुवासनास्थापनानि न निषेवेत, वातश्लेष्मोपरुद्धोच्छ्वासं तीक्ष्णैः प्रध्मापनैर्मोक्षयेत्, तुम्बुरुपुष्कराह्वहिङ्ग्वम्लवेतसपथ्यालवणत्रयं यवक्वाथेन पातुं प्रयच्छेत्, पथ्याशतार्धे सौवर्चलद्विपले चतुर्गुणे पयसि सर्पिःप्रस्थं सिद्धं; वातश्लेष्मापनुच्च कर्म कुर्यात्॥
अर्दितातुरं बलवन्तमात्मवन्तमुपकरणवन्तं च वातव्याधिविधानेनोपचरेत्, वैशेषिकैश्च मस्तिष्क्यशिरोबस्तिनस्यधूमोपनाहस्नेहनाडीस्वेदादिभिः; ततः सतृणं महापञ्चमूलं काकोल्यादिं विदारिगन्धादिमौदकानूपमांसं तथैवौदककन्दांश्चाहृत्य द्विगुणोदके क्षीरद्रोणे निःक्वाथ्य क्षीरावशिष्टमवतार्य परिस्राव्य तैलप्रस्थेनोन्मिश्र्य पुनरग्नावधिश्रगेत्, ततस्तैलं क्षीरानुगतमवतार्य शीतीभूतमभिमथ्नीयात्, तत्र यः स्नेह उत्तिष्ठेत्तमादाय मधुरौषधसहाक्षीरयुक्तं विपचेत्, एतत् क्षीरतैलमर्दितातुराणां पानाभ्यङ्गादिषूपयोज्यं; तैलहीनं वा क्षीरसर्पिरक्षितर्पणमिति॥
घृध्रसीविश्वाचीक्रोष्टुकशिरःखञ्जपङ्गुलवातकण्टाकपाददाहपादहर्षवबाहुकबाधिर्यधमनीगतवातरोगेषु यथोक्तं यथोद्देशं च सिराव्यधं कुर्यात्, अन्यत्रावबाहुकात्; वातव्याधिचिकित्सितं चावेक्षेत॥
कर्णशूले तु शृङ्गवेररसं तैलम्धुसंसृष्टं सैधवोपहितं सुखोष्णं कर्णे दद्यात्, अजामूत्रमधुतैलानि वा, मातुलुङ्गदाडिमतिन्तिडीकस्वरसमूत्रसिद्धं तैलं, शुक्तसुरातक्रमूत्रलवणसिद्धं वा; नाडीस्वेदैश्द्च स्वेदयेत्, वातव्याधिचिकित्सां चावेक्षेत; भूयश्चोत्तरे वक्ष्यामः॥
तूनीप्रतून्योः स्नेहलवणमुष्णोदकेन पाययेत्, पिप्पल्यादिचूर्णं वा, हिङ्गुयवक्षारप्रगाढं वा सर्पिः, बस्तिभिश्चैनमुपक्रमेत्॥
आध्माने त्वपर्पणपाणिताप(दीपनचूर्ण)फलवर्तिक्रियापाचनीयदीपनीयबस्तिभिरुपाचरेत्; लङ्घनानन्तरं चान्नकाले धान्यकजीरकादिदीपनसिद्धान्यन्नानि। प्रत्याध्माने छर्दनापतर्पणदीपनानि कुर्यात्॥
अष्ठीलाप्रत्यष्ठीलयोर्गुल्माभ्यन्तरविद्रधिवत् क्रियाविभाग इति॥
हिङ्गुत्रिकटुवचाजमोदाधान्याजगन्धादाडिमतिन्तिडीकपाठाचित्रकयवक्षारसैन्धवविडसौर्वचलस्वर्जिकापिप्पलीमूलाम्लवेतसशटीपुष्करमूलहपुषाचव्याजाजीपथ्याश्चूर्णयित्वा मातुलुङ्गालेन बहुशः परिभाव्याक्षमात्रा गुटिकाः कारयेत्; ततः प्रातरेकैकां वातविकारी भक्षयेत्, एष योगः कासश्वासगुल्मोदरारोचकहृद्रोगाध्मानपार्श्वोदरबस्तिशूलानाहमूत्रकृच्छ्रप्लीहार्शस्तूनीप्रतूनीरपहन्ति॥
भवन्ति चात्र केवलो दोषयुक्तो वा धातुभिर्वाआवृतोऽनिलः। विज्ञेयो लक्षणोहाभ्यां चिकित्स्यश्चाविरोधतः॥
रुजावन्तं घनं शीतं शोफं मेदोयुतोऽनिलः। करोति यस्य तं वैद्यः शोथवत् समुपाचरेत्॥
कफमेदोवृतो वायुर्यदोरू प्रतिपद्यते। तदाङ्गमर्दस्तैमित्यरोमहर्षरुजाज्वरैः॥
निद्रया चार्दितौ स्तब्धौ शीतलावप्रचेतनौ। गुरुकावस्थिरावूरू न स्वाविव च मन्यते॥
तमूरुस्तम्भमित्याहुराढ्यवातमथापरे। स्नेहवर्जं पिबेत्तत्र चूर्णं षड्धरणं नरः॥
हितमुष्णाम्बुना तद्वत् पिप्पल्यादिगणैः कृतम्। लिह्याद्वा त्रैफलं चूर्णं क्षौद्रेण कटुकान्वितम्॥
मूत्रैर्वा गुग्गुलं श्रेष्ठं पिबेद्वापि शिलाजतु। ततो हन्ति कफाक्रान्तं समेदस्कं प्रभञ्जनम्॥
हृद्रोगमरुचिं गुल्मं तथाभ्यन्तरविद्रधिम्। सक्षारमूत्रस्वेदांश्च रूक्षाण्युत्सादनानि च॥
कुर्याद्दिह्याच्च मूत्राढ्यैः करञ्जफलसर्षपैः। भोज्याः पुराणश्यामाककोद्रवोहालशालयः॥
शुष्कमूलकयूषेण पटोलस्य रसेन वा। जाङ्गलैरघृतैर्मांसैः शाकैश्चालवणैर्हितैः॥
यदा स्यातां परिक्षीणे भूयिष्ठे कफमेदसी। तदा स्नेहादिकं कर्म पुनरत्रावचारयेत्॥
सुगन्धिः सुलघुः सूक्ष्मस्तीक्ष्णोष्णः कटुको रसे। कटुपाकः सरो हृद्यो गुग्गुलुः स्निग्धपिच्छिलः॥
स नवो बृंहणो वृष्यः पुराणस्त्वपकर्षणः। तैक्ष्ण्यौष्ण्यात्कफवातघ्नः सरत्वान्मलपित्तनुत्॥
सौगन्ध्यात् पूतिकोष्ठघ्नः सौक्ष्म्याच्चानलदीपनः। तं प्रातस्त्रिफलादार्वीपटोलकुशवारिभिः॥
पिबेदावाप्य वा मूत्रैः क्षारैरुष्णोदकेन वा। जीर्णे यूषरसैः क्षीरैर्भुञ्जानो हन्ति मासतः॥
गुल्मं मेहमुदावर्तमुदरं सभगन्दरम्। कृमिक्ण्ड्वरुचिश्वित्राण्यर्बुदं ग्रन्थिमेव च॥
नाड्याढ्यवातश्वयथून् कुष्ठदुष्टव्रणांश्च सः। कोष्ठसन्ध्यस्थिगं वायुं वृक्षमिन्द्राशनिर्यथा॥
मूल पाठ: Suśrutasaṃhitā · Edition: ed. Yādavaśarman Trivikrama Ācārya (Nirnaya Sagar Press); e-text by SARIT · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0