सुश्रुतसंहिता · अध्याय 3.2
अथातः शुक्रशोणितशुद्धिं शारीरं व्याख्यास्यामः॥
यथोवाच भगवान् धन्वन्तरिः॥
वातपित्तश्लेष्मशोणित-कुणपग्रव्थिपूतिपूयक्षीणमूत्रपुरीषरेतसः[ऽकुणपगन्धिऽइति पा] प्रजोत्पादने न समर्था भवन्ति॥
तेषु वातवर्णवेदनं वातेन, पित्तवर्णवेदनं पित्तेन, श्लेष्मवर्णवेदनं श्लेष्मणा, शोणितवर्णवेदनं कुणपगन्ध्यनल्पं च रक्तेन, ग्रन्थिभूतं श्लेष्मवाताभ्यां, पूतिपूयनिभं पित्तश्लेष्मभ्यां, क्षीणं प्रागुक्तं पित्तमारुताभ्यां, मूत्रपुरीषगन्धि सन्निपातेनेति। तेषु कुणपग्रन्थिपूतिपूयक्षीणरेतसः कृच्छ्रसाध्याह्, मूत्रपुरीषरेतसस्त्वसाध्याः (साध्यमन्यच्च[अयं पाठो हस्तलिखितपुस्तके नोपलभयते])इति॥
आर्तवमपि त्रिभिर्दोषैः शोणितचतुर्थैह् पृथग्द्वन्द्वैः समस्तैश्चोपसृष्टमबीजं भवति; तदपि दोषवर्णवेदनादिभिर्विज्ञेयम्। तेषु कुणपग्रन्थिपूतिपूयक्षीणमूत्रपुरीषप्रकाशमसाध्यं साध्यमन्यच्चेति॥
भवन्ति चात्र। तेष्वाद्यान् शुक्रदोषांस्त्रीन् स्नेहस्वेदादिभिर्जयेत्॥ क्रियाविशेषैर्मतिमांस्तथा चोत्तरव्(ब्)अस्तिभिः॥
पाययेत नरं सर्पिर्भिषक् कुणपरेतसि॥ धातकीपुष्पखदिरदाडिमार्जुनसाधितम्॥
पायतेदथवा सर्पिः शालसारादिसाधितम्॥ ग्रन्थिभूते शटीसैद्धं पालाशे वापि भस्मनि॥
परूषकवटादिभ्यां पूयप्रख्ये च साधितम्॥ प्रागुक्तं वक्ष्यते यच्च तत् कार्यं क्षीणरेतसि॥
विट्प्रभे पाययेत् सिद्धं चित्रकोशीरहिङ्गुभिः॥ [अस्याग्रेऽस्नेहादिश्च क्रमः कार्यः षट्स्वेतासु विजानताऽ इत्यधिकः पाठः क्वचिदुपलभ्यतेऽ] स्निग्धं वान्तं विरिक्तं च निरूढमनुवासितम्॥
योजयेच्छुक्रदोषार्तं सम्यगुत्तरबस्तिना॥ स्फटिकाभं द्रवं स्निग्धं मधुरं मधुगन्धि च॥
शुक्रमिच्छन्ति केचित्तु तैलक्षौद्रनिभं तथा॥ विधिमुत्तरबस्त्यन्तं कुर्यादार्तवशुद्धये॥
स्त्रीणां स्नेहादियुक्तानां चतसृष्वार्तवार्तिषु॥ कुर्यात्कल्कान् पिचूंश्चापि पथ्यान्याचमनानि च॥
ग्रन्थिभूते पिबेत् पाठां त्र्यूषणं वृक्षकाणि च॥ दुर्गन्धिपूयसङ्काशे मज्जतुल्ये तथाआर्तवे॥ [ऽदुर्गन्धे पूयसङ्काशेऽइति पा]
पिबेद्भद्रश्रियः क्वाथं चन्दनक्वाथमेव च ॥ शुक्रदोषहराणां च यथास्वमवचारणम्॥
योगानां शुद्धिकरणं शेषास्वप्यार्तवार्तिषु॥अन्ने(न्नं) शालियवं मद्यं हितं मांसं च पित्तलम्॥
शशासृक्प्रतिमं यत्तुय् यद्वा लाक्षारसोपमम्॥ तदार्तवं प्रशंसन्ति यद्वासो न विरञ्जयेत्॥
तदेवातिप्रसङ्गेन प्रनृत्तमनृतावपि॥ असृग्दरं विजानीयादयोऽन्यद्रक्तलक्षणात्[ऽविजानीयादुक्तं लक्षणलक्षितम्ऽइति पा]॥
असृग्दरो भवेत् सर्वः साङ्गमर्दः सवेदनः॥ तस्यातिवृत्तौ दौर्बल्यं भ्रमो मूर्च्छा तमस्तृषा॥
दाहः प्रलापः पाण्डुत्वं तन्द्रा रोगाश्च वातजाः॥ तरुण्या हितसेविन्यास्तमल्पोपद्रवं भिषक्॥
रक्तपित्तविधानेन यथावत् समुपाचरेत्॥ दोषैरावृतमार्गत्वादार्तवं नश्यति स्त्रियाः॥
तत्र मत्स्यकुलत्थाम्लतिलमाषसुरा हिताः॥ पाने मूत्रमुदश्विच्च दधि शुक्तं च भोजने॥
क्षीणं प्रागीरितं रक्तं सलक्षणचिकित्सितम्॥ तथाप्यत्र विधातव्यं विधानं नष्टरक्तवत्॥
एवमदुष्टशुक्रः शुद्धार्तवा च॥
ऋतौ प्रथमदिवसात् प्रभृति ब्रह्मचारिणी दिवास्वप्नाञ्जनाश्रुपातस्नानानुलेपनाभ्यङ्गनखच्छेदनप्रधावनहसनकथनातिशब्दश्रवणावलेखनानिलायासान् परिहरेत्। किं कारणं दिवा स्वपन्य्ताः स्वापशीलः, अञ्जनादन्धः, रोदनाद्धिकृतदृष्टिः, स्नानानुलेपनाहुःखशीलः, तैलाभ्यङ्गात् कुष्ठी, नखापकर्तनात् कुनखी प्रधावनाच्चञ्चलः, हसनाच्छ्यावदन्तौष्ठतालुजिह्वाः, प्रलापी चातिकथनात्, अतिशब्दश्रवणाद्बधिरः, अवलेखनात् खलतिः, मारुतायाससेवनादुन्मत्तो गर्भो भवतीत्येवमेतान् परिहरेत्। दर्भसंस्तरशायिनीं करतलशरावपर्णान्यतमभोजिनीं हनिष्यं, त्र्यहं च भर्तुः संरक्षेत्। ततः शुद्धस्नातां चतुर्थेऽहन्यहतवासां समलङ्कृतां कृतमङ्गलस्वस्तिवाचनां भर्तारं दर्शयेत्। तत् कस्य हेतोः॥
पूर्वं पश्येदृतुस्नाता यादृशं नरमङ्गना॥ तादृशं जनयेत् पुत्रं भर्तारं दर्शयेदतः॥
ततो विधानं पुर्तीयमुपाध्यायः समाचरेत्॥ कर्मान्ते च क्रमं ह्येनमारभेत विचक्षणः॥
ततोऽपराह्णे पुमान् मासं ब्रह्मचारी सर्पिःस्निग्धः सर्पिःक्षीराभ्यां शाल्योदनं भुक्त्वा मासं ब्रह्मचारिणीं तैलस्निग्धां तैलमाषोत्तराहारां नारीमुपेयाद्रात्रौ सामादिभिर्-अभिविश्वास्य ; विकल्पयैवं चतुर्थ्यां षाष्ठ्यामष्टम्यां दशम्यां द्वादश्यां चोपेयादिति पुत्रकामः॥
एषूत्तरोत्तरं विद्यादायुरारोग्यमेव च ॥ प्रजासौभाग्यमैश्वर्यं बलं च दिवसेषु वै॥
अतः परं पञ्चम्यां सप्तम्यां नवम्यामेकादश्यां च स्त्रीकामः; त्रयोदशीप्रभृतयो निन्द्याः॥
तत्र प्रथमे दिवसे ऋतुमत्यां मैथुनगम(नम)नायुष्यं पुंसां भवति, यश्च तत्राधीयते गर्भः स प्रसवमानो विमुच्यते ; द्वितीयेऽप्येवं सूतिकागृहे वा; तृतीयेऽप्येवमसंपूर्णाङ्गोऽल्पायुर्वा भवति; चतुर्थे तु संपूर्णाङ्गो दीर्घायुश्च भवति। नच प्रवर्तमाने रक्ते बीजं प्रविष्टं गुणकरं भवति, यथा नद्यां प्रतिस्रोतः प्लाविद्रव्यं प्रक्षिप्तं प्रतिनिवर्तते नोर्ध्नं गच्छति तद्वदेव द्रष्टव्यम्। तस्मान्नियमवतीं त्रिरात्रं परिहरेत्। अतः परं मासादुपेयात्॥
लब्धगर्भायाश्चैतेष्वहःसु लक्ष्मणावटशुङ्गासहदेवाविश्वदेवानामन्यतमं क्षीरेणाभिषुत्य त्रींश्चतुरोवा बिन्दून् दद्याद्दक्षिणे नासापुटे पुत्रकामायै[अस्याग्रेऽवामे दुहितृकामायैऽ इत्यधिकं पथ्यते क्वचित्पुस्तके।], न च तान्निष्ठीवेत्॥
ध्रुवं चतुर्णां सान्निध्याद्गर्भः स्याद्विधिपूर्वकः॥ ऋतुक्षेत्राम्बुबीजानां सामग्र्यादङ्कुरो यथा॥
एवं जाता रूपवन्तः सत्त्ववन्तश्चिरायुषः ॥ भवन्त्यृणस्य मोक्तारः सत्पुत्राः पुत्रिणे(णो) हिताः॥
तत्र तेजोधातुः सर्ववर्णानां प्रभवः, स यदा गर्भोतोअत्तावब्धातुप्रायो भवति तदा गर्भं गौरं करोति, पृथिवीधातुप्रायः कृष्णं, पृथिव्याकाशधातुप्रायः कृष्णश्यामं, तोयाकाशधातुप्रायो गौरश्यामम्। यादृग्वर्णमाहारमुपसेवते गर्भिणी तादृग्वर्णप्रसवा भव्तीत्येके भाषन्ते। तत्र दृष्टिभागमप्रतिपन्नं तेजो जात्यन्धं करोति, तदेव रक्तानुगतं रक्ताक्षं, पित्तानुगतं पिङ्गाक्षं, श्लेष्मानुगतं शुक्लाक्षं, वातानुगतं विकृताक्षमिति॥
भवन्ति चात्र। घृतपिण्डो यथैवाग्निमाश्रितः प्रनिलीयते॥ विसर्पत्यार्तवं नार्यास्तथा पुंसांसमागमे॥
बीजेऽन्तर्वायुना द्नौ जीवौ कुक्षिमागतौ॥ यमावित्यभिधीयेते धर्मेतरपुरःसरौ॥
पित्रोरत्यल्पबीजत्वादासेक्यः पुरुषो भवेत्॥ स शुक्रं प्राश्य लभते ध्वजोच्छ्रायमसंशयम्॥
यः पूतियोनौ जायेत स सौगन्धिकसंज्ञितः॥ स योनिशेफसोर्गन्धमाध्राय लभते बलम्॥
स्वे गुदेऽब्रह्मचर्याद्यः स्त्रीषु पुंवत् प्रवर्तते॥ कुम्भीकः स च विज्ञेय, ईर्ष्यकं शृणु चापरम्॥
दृष्ट्वा व्यवायमन्येषां व्यवाये यः प्रवर्तते॥ ईर्ष्यकः स च विज्ञेयः,षण्डकं शृणु पञ्चमम्॥
यो भार्यायामृतौ मोहादङ्गनेव प्रवर्तते॥ ततः स्त्रीचेष्टिताकारो जायते षण्डसंज्ञितः॥
ऋतौ पुरुषवद्वापि प्रवर्तेताङ्गना यदि॥ तत्र कन्या यदि भवेत् सा भवेन्नरचेष्टिता॥
आसेक्यश्च सुगन्धी च कुम्भीकश्चेर्ष्यकस्तथा॥ सरेतसस्त्वमी ज्ञेया अशुक्रः षण्ड(ण्ढ)संज्ञितः॥
अनया विप्रकृत्या तु तेषां शुक्रवहाः सिराः॥ हर्षात् स्फुटत्वमायान्ति ध्वजोच्छ्रायस्ततो भवेत्॥
आहाराचारचेष्टाभिर्यादृशीभिः समन्वितौ॥ स्त्रीपुंसौ समुपेयातां तयोः पुत्रोऽपि तादृशः॥
यदा नार्यावुपेयातां वृषस्यन्त्यौ कथंचन॥ मुञ्चन्त्यौ शुक्रमन्योन्यमनस्थिस्तत्र जायते॥
ऋतुस्नाता तु या नारी स्वप्ने मैथुनमावहेत्॥ आर्तवं वायुरादाय कुक्षौ गर्भं करोति हि॥
मासि मासि विवर्धेत गर्भिण्या गर्भलक्षणम्॥ कललं जायते तस्या वर्जितं पैतृकैर्गुणैः॥
सर्पवृश्चिककूष्माण्डविकृताकृतयश्च ये॥ गर्भास्त्वेते स्त्रियाश्चैव ज्ञेयाः पापकृता भृशम्॥
गर्भो वातप्रकोपेण दौहृदे वावमानिते॥ भवेत् कुब्जः कुणिः पङ्गुर्मूको मिन्मिन एव वा॥
मातापित्रोस्तु नास्तिक्यादशुभैश्च पुराकृतैः॥ वातादीनां च कोपेन गर्भो विकृतिमाप्नुयात्॥
मलाल्पत्वादयोगाच्च वायोः प्क्वाशयस्य च ॥ वातमूत्रपुरीषाणि न गर्भस्थः करोति हि॥
जरायुणा मुखे च्छन्ने कण्ठे च कल्हवेष्टिते॥ वायोर्मार्गनिरोधाच्च न गर्भस्थः प्ररोदिति॥
निःश्वासोच्छ्वाससङ्क्षोभस्वप्नान् गर्भोऽधिगच्छति॥ मातुर्निश्वसितोच्छ्वाससङ्क्षोभस्वप्नसंभवान्॥
सन्निवेशः शरीराणां दन्तानां पतनोद्भवौ॥ तलेष्वसंभवो यश्च रोम्णामेतत् स्वभावतः॥
भाविताः पूर्वदेहेषु सततं शास्त्रबुद्धयः॥ भवन्ति सत्त्वभूयिष्ठाः पूर्वजातिस्मरा नराः॥
कर्मणा चोदितो येन तदाप्नोति पुनर्भवे ॥ अभ्यस्ताः पूर्वदेहे ये तानेव भजते गुणान्॥
मूल पाठ: Suśrutasaṃhitā · Edition: ed. Yādavaśarman Trivikrama Ācārya (Nirnaya Sagar Press); e-text by SARIT · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0