सुश्रुतसंहिता · अध्याय 2.16
अथातो मुखरोगाणां निदानं व्याख्यास्यामः॥
यथोवाच भगवान् धन्वन्तरिः॥
मुखरोगाः पञ्चषष्टिर्भवन्ति सप्तस्वायतनेषु। तत्रायतनानि ओष्ठौ, दन्तमूलानि, दन्ताः, जिह्वा, तालु, कण्ठः, सर्वाणि चेति। तत्राष्टावोष्ठयोः, पञ्चदश दन्तमूलेषु, अष्टौ दन्तेषु, पञ्च जिह्वायां, नव तालुनि, सप्तदश कण्ठे, त्रयः सर्वेष्वायतनेषु॥
तत्रौष्ठप्रकोपा वातपित्तश्लेष्मसन्निपातरक्तमांसमेदोभिघातनिमित्ताः॥
कर्कशौ परुषौ स्तब्धौ कृष्णौ तीव्ररुगन्वितौ। दाल्येते परिपाठ्येते ह्योष्ठौ मारुतकोपतः॥
आचितौ पिडाकाभिस्तु सर्षपाकृतिभिर्भृशम्। सदाहपाकसंस्रावौ नीलौ पीतौ च पित्ततः॥
सवर्णाभिस्तु चीयेते पिडकाभिरवेदनौ। कण्डूमन्तौ कफाच्छूनौ पिच्छिलौ शीतलौ गुरू॥
सकृत् कृष्णौ सकृत् पीतौ सकृच्छ्वेतौ तथैव च। सन्निपातेन विज्ञेयावनेकपिडिकाचितौ॥
खर्जूरफलवर्णाभिः पिडकाभिः समाचितौ। रक्तोपसृष्टौ रुधिरं स्रवतः शोणितप्रभौ॥
मासदुष्टौ गुरू स्थूलौ मांसपिण्डवदुद्गतौ। जन्तवश्चात्र मूर्च्छन्ति सृक्कस्योभयतो मुखात्॥
मेदसा घृतमण्डाभौ कण्डूमन्तौ स्थिरौ मृदू॥ अच्छं स्फटिकसङ्काशमास्रावं स्रवयो गुरू॥
क्षतजाभौ विदीर्येते पाठ्येते चाभिघाततः। ग्रथितौ च समाख्यातावोष्ठौ कण्डूसमन्वितौ॥
दन्तमूलगतास्तु शीतादो, दन्तपुप्पुटको, दन्तवेष्टकः, शौषिरो, महाशौषिरः, परिदर, उपकुशो, दन्तवैदर्भो, वर्धनः, अधिमांसो, नाड्यः पञ्चेति॥
शोणितं दन्तवेष्टेभ्यो यस्याकस्मात् प्रवर्तते। दुर्गन्धीनि सकृष्णानि प्रक्लेदीनि मृदूनि च॥
दन्तमांसानि शीर्यन्ते पचन्ति च परस्परम्। शीतादो नाम स व्याधिः कफशोणितसंभवः॥
दन्तयोस्त्रिषु वा यस्य श्वयथुः सरुजो महान्। दन्तपुप्पुटको ज्ञेयः कफरक्तनिमित्तजः॥
स्रवन्ति पूयरुधिरं चला दन्ता भवन्ति च। दन्तवेष्टः स विज्ञेयो दुष्टशोणितसंभवः॥
श्वयथुर्दन्तमूलेषु रुजावान् कफरक्तजः। लालास्रावी स विज्ञेयः कण्डूमाञ् शौषिरो गदः॥
दन्ताश्चलन्ति वेष्टेभ्यस्तालु चाप्यवदीर्यते। दन्तमांसानि पच्यन्ते मुखं च परिपीड्यते॥
यस्मिन् स सर्वजो व्याधिर्महाशौषिरसंज्ञकः। दन्तमांसानि शीर्यन्ते यस्मिन् ष्ठीवति चाप्यसृक्॥
पित्तासृक्कफजो व्याधिर्ज्ञेयः परिदरो हि सः। चेष्टेषु दाहः पाकश्च तेभ्यो दन्ताश्चलन्ति च॥
आघट्टिताः प्रस्रवन्ति शोणितं मन्दवेदनाः। आध्मायन्ते स्रुते रक्ते मुखं पूति च जायते॥
यस्मिन्नुपकुशः स स्यात् पित्तरक्तकृतो गदः। घृष्टेषु दन्तमूलेषु संरम्भो जायते महान्॥
भवन्ति च चला दन्ताः स वैदर्भोऽभिघातजः। मारुतेनाधिको दन्तो जायते तीव्रवेदनः॥
वर्धनः स मतो व्याधिर्जाते रुक् च प्रशाम्यति। हानव्ये पश्चिमे दन्ते महाञ्छोथो महारुजः॥
लालास्रावी कफकृतो विज्ञेयः सोऽधिमांसकः। दन्तमूलगता नाड्यः पञ्च ज्ञेया यथेरिताः॥
दन्तगतास्तु दालनः, क्रिमिदन्तको, दन्तहर्षो, भञ्जनकः, दन्तशर्करा, कपालिका, श्यावदन्तको, हनुमोक्षश्चेति॥
दाल्यन्ते बहुधा दन्ता यस्मिंस्तीव्ररुगन्विताः। दालनः स इति ज्ञेयः सदागतिनिमित्तजः॥
कृष्णश्च्छिद्री चलः स्रावी सस्ंरम्भो महारुजः। अनिमित्तरुजो वाताद्विज्ञेयः कृमिदन्तकः॥
शीतमुष्णं च दशनाः सहन्ते स्पर्शनं न च। यस्य तं दन्तहर्षं तु व्याधिं विद्यात् समीरणात्॥
वक्त्रं वक्रं भवेद्यस्मिन् दन्तभङ्गश्च तीव्ररुक्। कफवातकृतो व्याधिः स भञ्जनकसंज्ञितः॥
शर्करेव स्थिरीभूतो मलो द्नतेषु यस्य वै। सा दन्तानां गुणहरी विज्ञेया दन्तशर्करा॥
दलन्ति दन्तवल्कानि यदा शर्करया सह। ज्ञेया कपालिका सैव दशनानां विनाशिनी॥
योऽसृङ्निश्रेण पित्तेन दग्धो दन्तस्त्वशेषतः। श्यावतां नीलतां वापि गतः स श्यावदन्तकः॥
वातेन तैस्तैर्भावैस्तु हनुसन्धिर्विदंहतः। हनुमोक्ष इति ज्ञेयो व्याधिरर्दितलक्षणः॥
जिह्वागतास्तु कण्टकास्त्रिविधास्त्रिभिर्दोषैः, अलास, उपजिह्विका चेति॥
जिह्वानिलेन स्फुटिता प्रसुप्ता भवेच्च शाकच्छदनप्रकाशा। पित्तेन पीता परिदह्यते च चिता सरक्तैरपि कण्टकैश्च। कफेन गुर्वी बहला चिता च मांसोद्गमैः शाल्मलिकण्टकाभैः॥
जिह्वातले यः श्वयथुः प्रगाढः सोऽलाससंज्ञः कफरक्तमूर्तिः। जिह्वां स तु स्तम्भयति प्रवृद्धो मूले तु जिह्वा भृशमेति पाकम्॥
जिह्वाग्ररूपः श्वयथुर्हि जिह्वामुन्नम्य जातः कफरक्तयोनिः। प्रसेककण्डूपरिदाहयुक्ता प्रकथ्यतेऽसावुपजिह्विकेति॥
तालुगतास्तु गलशुण्डिका, तुण्डिकेरी, अध्रुषः, कच्छपः, अर्बुदं, मांससङ्घातः, तालुपुप्पुटः, तालुशोषः, तालुपाक इति॥
श्लेष्मासृग्भ्यां तालुमूलात् प्रवृद्धो दीर्घः शोफो ध्मातबस्तिप्रकाशः। तृष्णाकासश्वासकृत् संप्रदिष्टो व्याधिर्वैद्यैः कण्ठशुण्डीति नाम्ना॥
शोफः स्तब्धो लोहिंतस्तालुदेशे रक्ताज्ञेयः सोऽध्रुषो रुग्ज्वराढ्यः॥
कूर्मोत्सन्नोऽवेदनोऽशीघ्रजन्मारक्तो ज्ञेयः कच्छपः श्लेष्मणा स्यात्। पद्माकारं तालुमध्ये तु शोफं विद्याद्रक्तादर्बुदं प्रोक्तलिङ्गम्॥
दुष्टं मांसं श्लेष्मणा नीरुजं च ताल्वन्तःस्थं मांससङ्घातमाहुः। नीरुक् स्थायी कोलमात्रः कफात् स्यान्मेदोयुक्तात् पुप्पुटस्तालुदेशे॥
शोसोऽत्यर्थं दीर्यते चापि तालुः श्वासो वातात्तालुशोषः सपित्तात्। पित्तं कुर्यात् पाकमत्यर्थघोरं तालुन्येनं तालुपाकं वदन्ति॥
कण्ठगतास्तु रोहिण्यः पञ्च, कण्ठशालूकम्, अधिजिह्वो, बलयो, बलास, एकवृन्दो, वृन्दः, शतघ्नी, गिलायुः, गलविद्रधिः, गलौघः, स्वरघ्नो, मांसतानो, विदारी चेति॥
गलेऽनिलः पित्तकफौ च मूर्च्छितौ पृथक् समस्ताश्च तथैव शोणितम्। प्रदूष्य मांसं गलरोधिनोऽङ्कुरान् सृजन्ति यान् सासुहरा हि रोहिणी॥
जिह्वां समन्ताद्भृशवेदना ये मांसाङ्कुराः कण्ठनिरोधिनः स्युः। तां रोहिणीं वातकृतां वदन्ति वातात्मकोपद्रवगाढयुक्ताम्॥
क्षिप्रोद्गमा क्षिप्रविदाहपाका तीव्रज्वरा पित्तनिमित्तजा स्यात्। स्रोतोनिरोधिन्यपि मन्दपाका गुर्वी स्थिरा सा कफसंभवा वै॥
गम्भीरपाकाप्रतिवारवीर्या त्रिदोषलिङ्गा त्रयसंभवा स्यात्। स्फोटाचिता पित्तसमानलिङ्गासाध्या प्रदिष्टा रुधिरात्मिकेयम्॥
कोलास्थिमात्रः कफस्ंभवो यो ग्रन्थिर्गले कण्टकशूकभूतः। खरः स्थिरः शस्त्रनिपातसाध्यस्तं कण्ठशालूकमिति ब्रुवन्ति॥
जिह्वाग्ररूपः श्वयथुः कफात्तु जिह्वाप्रबन्धोपरि रक्तमिश्रात्। ज्ञेयोऽधिजिह्वः खलु रोग एष विवर्जयेदागतपाकमेनम्॥
बलास एवायतमुन्नतं च शोफं करोत्यन्नगतिं निवार्य। तं सर्वथैवाप्रतिवारवीर्यं विवर्जनीयं वलयं वदन्ति॥
गले तु शोफं कुरुतः प्रवृद्धौ श्लेष्मानिलौ श्वासरुजोपपन्नम्। मर्मच्छिदं दुस्तरमेतदाहुर्बलासस्ंज्ञं निपुणा विकारम्॥
वृत्तोन्नतो यः श्वयथुः सदाहः कण्ड्वन्वितोऽपाक्यमृदुर्गुरुश्च। नाम्नैकवृन्दः परिकीर्तितोऽसौ व्याधिर्बलासक्षतजप्रसूतः॥
समुन्नतं वृत्तममन्ददाहं तीव्रज्वरं वृन्दमुदाहरन्ति। तं चापि पित्तक्षतजप्रकोपाद्विद्यात् सतोदं पवनास्रजं तु॥
वर्तिर्घना कण्ठनिरोधिनी या चितातिमात्रं पिशितप्ररोहैः। नानारुजोच्छ्रायकरी त्रिदोषाज्ज्ञेया शतघ्नीव शतघ्न्यसाध्या॥
ग्रन्थिर्गले त्वामलकास्थिमात्रः स्थिरोऽल्परुक् स्यात् कफरक्तमूर्तिः। संलक्ष्यते सक्तमिवाशनं च स शस्त्रसाध्यस्तु गिलायुसंज्ञः॥
सर्वं गलं व्याप्य समुत्थितो यः शोफो रुजो यत्र च सन्ति सर्वाः। स सर्वदोषो गलविद्रधिस्तु तस्यैव तुल्यः खलु सर्वजस्य॥
शोफो महानन्नजलावरोधी तीव्रज्वरो वातगतेर्निहन्ता। कफेन जातो रुधिरान्वितेन गले गलौघः परिकीर्त्यतेऽसौ॥
योऽतिप्रताम्यन् श्वसिति प्रसक्तं भिन्नस्वरः शुष्कविमुक्तकण्ठः। कफोपदिग्धेष्वनिलायनेषु ज्ञेयः स रोगः श्वसनात् स्वरघ्नः॥
प्रतानवान् यः श्वयथुः सुकष्टो गलोपरोधं कुरुते क्रमेण। स मांसतानः कथितोऽवलम्बी प्राणप्रणुत् सर्वकृतो विकारः॥
सदाहतोदं श्वयथुं सरक्तमन्तर्गले पूतिविशीर्णमांसम्। पित्तेन विद्याद्वदने विदारीं पार्श्वे विशेषात् स तु येन शेते॥
सर्वसरास्तु वातपित्तकफशोणितनिमित्ताः॥
स्फोटैः सतोदैर्वदनं समन्ताद्यस्याचितं सर्वसरः स वातात्। रक्तैः सदाहैस्तनुभिः सपीतैर्यस्याचितं चापि स पित्तकोपात्॥
कण्डूयुतैरल्परुजैः सर्वणैर्यस्याचितं चापि स वै कफेन। रक्तेन पित्तोदित एक एव कैश्चित् प्रदिष्टो मुखपाकस्ंज्ञः॥
मूल पाठ: Suśrutasaṃhitā · Edition: ed. Yādavaśarman Trivikrama Ācārya (Nirnaya Sagar Press); e-text by SARIT · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0