सुश्रुतसंहिता · अध्याय 1.37
अथातो मिश्रकमध्यायं व्याख्यास्यामः ॥
यथोवाच भगवान् धन्वन्तरिः ॥
मातुलुङ्गाग्निमन्थौ च भद्रदारु महौषधम् ।
अहिंस्रा चैव रास्ना च प्रलेपो वातशोफजित् ॥
दूर्वा च नलमूलं च मधुकं चन्दनं तथा ।
शीतलाश्च गणाः सर्वे प्रलेपः पित्तशोफहृत् ॥
आगन्तुजे रक्तजे च ह्येष एव विधिः स्मृतः ।
विधिर्विषघ्नो विषजे पित्तघ्नोऽपि हितस्थथा ॥
अजगन्धाश्वगन्धा च काला सरलया सह ।
एकैषिकाजश्र्ङ्गी च प्रलेपः श्लेष्मशोफहृत् ॥
एते वर्गास्त्रयो लोध्रं पथ्या पिण्डीतकानि च ।
अनन्ता चेति लेपोऽयं सान्निपातिकशोफहृत् ॥
स्निग्धाम्ललवणो वाते कोष्णः शीतः पयोयुतः ।
पित्ते चोष्णह् कफे क्षारमूत्राढ्यस्तत्प्रशान्तये ॥
शणमूलकशिग्रूणां फलानि तिलसर्षपाः ।
शक्तवः किण्वमतसी द्रव्याण्युष्णानि पाचनम् ॥
चिरबिल्वोऽग्निको दन्ती चित्रको हयमारकः ।
कपोतगृध्रकङ्काणां पुरीषाणि च दारणम् । ^
क्षारद्रव्याणि वा यानि क्षारो वा दारणं परम् ॥
द्रव्याणां पिच्छिलानां तु त्वङ्नूलानि प्रपीडनम् ।
यवगोधूममाषाणां चूर्णानि च समासतः ॥
शङ्खिन्यङ्कोठसुमनःकरवीरसुवर्चलाः ।
शोधनानि कषायाणि वर्गश्चारग्वधादिकः ॥
अजगन्धाजशृङ्गी च गवाक्षी लाङ्गलाह्वया ।
पूतीकश्चित्रकः पाठा विडङ्गैलाहरेणवः ॥
कटुत्रिकं यवक्षारो लवणानि मनःशिला ।
कासीसं त्रिवृता दन्ती हरितालं सुराष्ट्रजा ॥
संशोधनीनां वर्तीनां द्रव्याण्येतानि निर्दिशेत् ।
एतैरेवौषधैः कुर्यात्कल्कानपि च शोधनान् ॥
कासीसकटुरोहिण्योर्जातीकन्दहरिद्रयोः ।
पूर्वोद्दिष्टेषु चाङ्गेषु कुर्यात्तैलघृतानि वै ॥
अर्कोत्तमां स्नुहीक्षीरं पिष्ट्वा क्षारोत्तमानपि ।
जातीमूलं हरिद्रे द्वे कासीसं कटुरोहिणीम् ॥
पूर्वोद्दिष्टानि चान्यानि कुर्यात् संशोधनं घृतम् ।
मयूरको राजवृक्षो निम्बः कोशातकी तिलाः ॥
बृहती कण्टकारी च हरितालं मनःशिला ।
शोधनानि च योज्यानि तैले द्रव्याणि शोधने ॥
कासीसे सैन्धवे किण्वे वचायां रजनीद्वये ।
शोधनाङ्गेषु चान्येषु चूर्णं कुर्वीत शोधनम् ॥
सालसारादिसारेषु पटोलत्रिफलासु च ।
रसक्रिया विधातव्या शोधनी शोधनेषु च ॥
श्रीवेष्टके सर्जरसे सरले देवदारुणि ।
सारेष्वपि च कुर्वीत मतिमान् व्रणधूपनम् ॥
कषायाणामनुष्णानां वृक्षाणां त्वक्षु साधितम् ।
शृतं शीतं कषायं वा रोपणार्थेषु शस्यते ॥
सोमामृताश्वगन्धासु काकोल्यादौ गणे तथा ।
क्षीरिप्ररोहेष्वपि च वर्तयो रोपणाः स्मृताः ॥
समण्गा सोमसरला सोमवल्कः सचन्दनः ।
काकोल्यादिश्च कल्कः स्यात् प्रशस्तो व्रणरोपणे ॥
पृथक्पर्ण्यात्मगुप्ता च हरिद्रे मालती सिता ।
काकोल्यादिश्च योज्यः स्याद्भिषजा रोपणे घृते ॥
कालानुसार्यागुरुणी हरिद्रे देवदारु च ।
प्रियङ्गवश्च रोध्रं च तैले योज्यानि रोपणे ॥
कङ्गुका त्रिफला रोध्रं कासीसं श्रवणाह्वया ।
धवाश्वकर्णयोस्त्वक् च रोपणं चूर्णमिष्यते ॥
प्रियङ्गुका सर्जरसः पुष्पकासीसमेव च ।
त्वक्चूर्णं धवजं चैव रोपणार्थं प्रशस्यते ॥
त्वक्षु न्यग्रोधवर्गस्य त्रिफलायास्तथैव च ।
रसक्रियां रोपणार्थे विदधीत यथाक्रमम् ॥
अपामार्गोऽस्वगन्धा च तालपत्री सुवर्चला ।
उत्सादने प्रशस्यन्ते काकोल्यादिश्च यो गणः ॥
कासीसं सैन्धवं किण्वं कुरुविन्दो मनःशिला ।
कुक्कुटाण्डकपालानि सुमनोमुकुलानि च ॥
फले शैरीषकारञ्जे धातुचूर्णानि यानि च ।
व्रणेषूत्सन्नमांसेषु प्रशस्तान्यवसादने ॥
समस्तं वर्गमर्धं वा यथालाभमथापि वा ।
प्रयुञ्जीत भिषक् प्राज्ञो यथोद्दिष्टेषु कर्मसु ॥
मूल पाठ: Suśrutasaṃhitā · Edition: ed. Yādavaśarman Trivikrama Ācārya (Nirnaya Sagar Press); e-text by SARIT · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0