भाषा

ENहिગુ
ग्रंथ पाठ

सुश्रुतसंहिता · अध्याय 1.1

1.1.1

अथातो वेदोत्पत्तिमध्यायं व्याख्यास्यामः ॥

1.1.2

यथोवाच भगवान् धन्वन्तरिः ॥

1.1.3

अथ खलु भगवन्तममरवरमृषिगणपरिवृतमाश्रमस्थं काशिराजं दिवोदासं धन्वन्तरिमौपधेनववैतरणौरभ्रपौष्कलावत-करवीर्यगोपुररक्षितसुश्रुतप्रभृतय ऊचुः ॥

1.1.4

भगवन् शारीरमानसागन्तुव्याधिभिर्विविधवेदनाभिघातोपद्रुतान् सनाथानप्यनाथवद्विचेष्टमानान् विक्रोशतश्च मानवानभिसमीक्ष्य मनसि नः पीडा भवति तेषां सुखैषिणां रोगोपशमार्थमात्मनश्च प्राणयात्रार्थं प्रगाहितहेतोरायुर्वेदं श्रोतुमिच्छाम इहोपदिश्यमानं अत्रायत्तमैहिकमामुष्मिकं च श्रेयः तद्भगवन्तमुपपन्नाः स्मः शिष्यत्वेनेति ॥

1.1.5

तानुवाच भगवान् स्वागतं वः सर्व एवामीमांस्या अध्याप्याश्च भवन्तो वत्साः ॥

1.1.6

इह खल्वायुर्वेदो नामोपाङ्गमथर्ववेदस्यानुत्पाद्यैवप्रजाः श्लोकशतसहस्रमध्यायसहस्रं च कृतवान् स्वयम्भूः ततोऽल्पायुष्ट्वमल्पमेधस्त्वं चालोक्य नराणां भूयोऽष्टधा प्रणीतवान् ॥

1.1.7

तद्यथा शल्यं शालाक्यं कायचिकित्सा भूतविद्या कौमारभृत्यं अगदतन्त्रं रसायनतन्त्रं वाजीकरणतन्त्रमिति ॥

1.1.9

एवमयमायुर्वेदोऽष्टाङ्ग उपदिश्यते अत्र कस्मै किमुच्यतामिति ॥

1.1.10

त ऊचुः अस्माकं सर्वेषामेव शल्यज्ञानं मूलं कृत्वोपदिशतु भगवानिति ॥

1.1.11

स उवाचैवमस्त्विति ॥

1.1.12

त ऊचुर्भूयोऽपि भगवन्तम् अस्माकमेकमतीनां मतमभिसमीक्ष्य सुश्रुतो भगवन्तं प्रक्ष्यति अस्मै चोपदिश्यमानं वयमप्युपधारयिष्यामः ॥

1.1.13

स होवाचैवमस्त्विति ॥

1.1.14

वत्स सुश्रुत इह खल्वायुर्वेदप्रयोजनं व्याध्युपसृष्टानां व्याधिपरिमोकषः स्वस्थस्य रक्षणं च ॥

1.1.15

आयुरस्मिन् विद्यतेऽनेन वायुर्विन्दतीत्यायुर्वेदः ॥

1.1.16

तस्याङ्गवरमाद्यं प्रत्यक्षागमानुमानोपमानैरविरुद्धमुच्यमानमुपधरय ॥

1.1.17

एतद्ध्यङ्गं प्रथमं प्रागभिघातव्रणसंरोहात् यज्ञशिरःसन्धानाच्च । श्रूयते हि यथा रुद्रेण यज्ञस्य शिरश्छिन्नमिति ततो देवा अश्विनावभिगम्योचुः भगवन्तौ नः श्रेष्ठतमौ युवां भविष्यथः भवद्भ्यां यज्ञस्यशेरः सन्धातव्यमिति । तावूचतुरेवमस्त्विति । अथ तयोरर्थे देवा इन्द्रं यज्ञभगेन प्रासादयन् । ताभ्यां यज्ञस्य शिरः संहितम् इति ॥

1.1.18

अष्टास्वपि चायुर्वेदतन्त्रेष्वेतदेवाधिकमभिमतं आमाशुक्रियाकरणाद्यन्त्रशस्त्रक्षाराग्निप्रणिधानात् सर्वतन्त्रसामान्याच्च ॥

1.1.19

तदिदं शाश्वतं पुण्यं स्वर्ग्यं यशस्यमायुष्यं वृत्तिकरं चेति ॥

1.1.20

ब्रह्मा प्रोवाच ततः प्रजापतिरधिजगे तस्मादश्विनौ अश्विभ्यामिन्द्रः इन्द्रादःअं मया त्विह प्रदेयमर्थिभ्यः प्रजाहितहेतोः ॥

1.1.21

भवति चात्र

1.1.21

अहं हि धन्वन्तरिरादिदेवो जरारुजामृत्युहरोऽमराणाम् ।

1.1.21

शल्याङ्गमङ्गैरपरैरुपेतं प्राप्तोऽस्मि गां भूय इहोपदेष्टुम् ॥

1.1.22

अस्मिन् शास्त्रे पञ्चमहाभूतशरीरिसमवायः पुरुष इत्युच्यते । तस्मिन् क्रिया सोऽधिष्ठानं कस्मात् लोकस्य द्वैविध्यात् लोको हि द्विविधः स्थावरो जङ्गमश्च द्विविधात्मक एवाग्नेयः सौम्यश्च तद्भूयस्त्वात् पञ्चात्मको वा तत्र चतुर्विधो भूतग्रामः संस्वेदजरायुजाण्डजोद्भिज्जसंज्ञः तत्र पुरुषः प्रधानं तस्योपकरणमन्यत् तस्मात् पुरुषोऽधिष्ठानम् ॥

1.1.23

तद्दुःखसंयोगा व्याधय उच्यन्ते ॥

1.1.24

ते चतुर्विधाः आगन्तवः शारीराः मानसाः स्वाभाविकाश्चेति ॥

1.1.26

त एते मनःशरीराधिष्ठानाः ॥

1.1.27

तेषां संशोधनसंशमनाहाराचाराः सम्यक्प्रयुक्ता निग्रहहेतवः ॥

1.1.28

प्राणिनां पुनर्मूलमाहारो बलवर्णौजसां च स षट्सु रसेष्वायत्तः रसाः पुनर्द्रव्याश्रयाः द्रव्याणि पुनरोषधयः । तास्तु द्विविधाः स्थावरा जङ्गमाश्च ॥

1.1.29

तासां स्थावराश्चतुर्विधाः वनस्पतयो वृक्षा वीरुध ओषधय इति । तासु अपुष्पाः फलवन्तो वनस्पतयः पुष्पफलवन्तो वृक्षाः प्रतानवत्यः स्तम्बिन्यश्च वीरुधः फलपाकनिष्ठा ओषधय इति ॥

1.1.30

जङ्गमाः खल्वपि चतुविधाः जरायुजाण्डजस्वेदजोद्भिज्जाः । तत्र पशुमनुष्यव्यालादयो जरायुजाः खगसर्पसरीसृपप्रभृतयोऽण्डजाः कृमिकीटपिपीलिकाप्रभृतयः स्वेदजाः इन्द्रगोपमण्डूकप्रभृतय उद्भिज्जाः ॥

1.1.31

तत्र स्थावरेभ्यस्त्वक्पत्रपुष्पफलमूलकन्दनिर्यासस्वरसादयः प्रयोजनवन्तः जङ्गमेभ्यश्चर्मनखरोमरुधिरादयः ॥

1.1.32

पार्थिवाः सुवर्णरजतमणिमुक्तामनःशिलामृत्कपालादयः ॥

1.1.33

कालकृताः प्रवातनिवातातपच्छायाज्योत्स्नातमःशीतोष्णवर्षाहोरात्रपक्षमासर्त्वयनादयः संवत्सरविशेषाः ॥

1.1.34

त एते स्वभावत एव दोषाणां सञ्चयप्रकोपप्रशमप्रतीकारहेतवः प्रयोजनवन्तश्च ॥

1.1.35

भवन्ति चात्र श्लोकाः

1.1.35

शारीराणां विकाराणामेष वर्गश्चतुविधः ।

1.1.35

प्रकोपे प्रशमे चैव हेतुरुक्तश्चिकित्सकैः ॥

1.1.36

आगन्तवस्तु ये रोगास्ते द्विधा निपतन्ति हि ।

1.1.36

मनस्यन्ये शरीरेऽन्ये तेषां तु द्विविधा क्रिया ॥

1.1.37

शरीरपतितानां तु शारीरवदुपक्रमः ।

1.1.37

मानसानां तु शब्दादिरिष्टो वर्गः सुखावहः ॥

1.1.38

एवमेतत् पुरुषो व्याधिरौषधं क्रियाकाल इति चतुष्टयं समासेन व्याख्यातम् । तत्र पुरुषग्रहणात्तत्संभवद्रव्यसमूहो भूतादिरुक्तस्तदङ्गप्रत्यङ्गविकल्पाश्च त्वङ्नांसास्थिसिरास्नायुप्रभृतयः व्याधिग्रहणाद्वातपित्तकफशोणितसन्निपातवैषम्यनिमित्ताः सर्व एव व्याधयो व्याख्याताः ओषधग्रहणाद्द्रव्यरसगुणवीर्यविपाकानामादेशः क्रियाग्रहणाच्छेद्यादीनि स्नेहादीनि च कर्माणि व्याख्यातानि कालग्रहणात् सवक्रियाकालानामादेशः ॥

1.1.39

भवति चात्र ।

1.1.39

बीजं चिकित्सितस्यैतत्समासेन प्रकीर्तितम् ।

1.1.39

सविंशमध्यायशतमस्य व्याख्या भविष्यति ॥

1.1.40

तच्च सविंशमध्यायशतं पञ्चसु स्थानेषु सूत्रनिदानशारीरचिकित्सितकल्पेष्वर्थवशात् संविभज्य उत्तरे तन्त्रे शेषानर्थान् व्याख्यास्यामः ॥

1.1.41

भवति चात्र ।

1.1.41

स्वयम्भुवा प्रोक्तमिदं सनातनं पठेद्धि यः काशिपतिप्रकाशितम् ।

1.1.41

स पुण्यकर्मा भुवि पूजितो नृपैरसुक्षये शक्रसलोकतां व्रजेत् ॥

मूल पाठ: Suśrutasaṃhitā · Edition: ed. Yādavaśarman Trivikrama Ācārya (Nirnaya Sagar Press); e-text by SARIT · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc