सुधनकिन्नर्यवदान · अध्याय 64
सुधनकिन्नर्यवदान
fरोम्: क्षेमेन्द्र: अवदानकल्पलता (अवदान 64) = कव्क्_64
अभिनवकिसलयकोमलमनसाम् अपि कुलिशकठिनधैर्याणाम् ।
महतां मणिविमलानां अपि भवति न रागसंक्रान्तिः
शाक्यालये दर्शनम् एव पित्रा सर्वानुकम्पी भृशम् अर्थ्यमानः
यदा यदानन्दसुधारसेन्दुर् विवेश शास्ता निजराजधानीं
तदा तदा हर्म्यगता मृगाक्षी कर्णावतंसीकृतनेत्रकान्तिः ।
कान्त्या दिशां विस्मयम् उल्लिखन्तं यशोधरा तं दयितं विलोक्य
तत्संगमालिङ्गनयोर् निराशा भ्रान्ताखिलाशा विषमूर्च्छितेव ।
धृतिं वयस्याम् इव वारयन्तीं निरस्य सौधात् तनुम् उत्ससर्ज
यदा यदा पल्लवपेशलाङ्गी देहं समुत्सृष्टवती सती सा ।
तदा तदा मन्मथमोहितां तां दयार्द्रचक्षुर् भगवान् ररक्ष
ततः कदा चिद् भगवान् वनान्ते तत्कौतुकाद् भिक्षुगणेन पृष्टः ।
जगाद दन्तद्युतिचन्द्रिकाभिर् निवारयन् रागम् इवाधरस्य
यशोधरा मद्विरहेण नित्यं करोति यत् साहसम् एतद् आर्ता ।
हरन्ति धैर्यं वितरन्ति मोहं एष स्वभावः स्मरविभ्रमाणां
मयापि तस्या विरहेण पूर्वं जन्मान्तरे मारविमोहितेन ।
संसक्तसंतापनिमित्तभूतः खेदः प्रभूतव्यशनो ऽनुभूतः
पुरा जितामरपुरे सत्पुरे हस्तिनापुरे ।
राजा धनाभिधानो ऽभून् निधानं गुणसंपदां
भुजेनालिङ्गिता भूमिः कृता कण्ठे सरस्वती ।
लक्ष्मीः प्रसाधिता येन कीर्तिर् एव प्रवासिता
रामायां तस्य जायायां तनयः सुधनाभिधः ।
अभवत् सहसंजातनिधानशतविश्रुतः
सर्वविद्याकुमुदिनीविकासरसिकः सदा ।
कलावान् निर्मलरुचिर् यः पूर्णेन्दुर् इवाबभौ
बभूव तस्य भूभर्तुर् भूपतिर् भूम्यनन्तरः ।
मानी महेन्द्रसेनाख्यः प्रख्यातपृथुविक्रमः
तेन दुःसहदण्डेन सर्वसर्वस्वहारिणा ।
अकालकालकल्पेन पीडिताः शुशुचुः प्रजाः
तस्याधर्मप्रवृत्तस्य निवृत्तसुकृतोत्सवे ।
तीव्रोपतापसंतप्ते पुरे न ववृषुर् घनाः
प्रतिकूले महीपाले तत्र दुर्भिक्षविप्लवः ।
बभूव व्यसनेष्व् एव भवन्ति व्यसनोदयाः
ततः क्लेशविशेषार्ताः सर्वे पुरनिवासिनः ।
कुपतिव्यसनोद्वेगाद् एकीभूता व्यचिन्तयन्
राज्ञा दोषाकरेणेयं जडेन जनता परम् ।
प्रत्यग्रकरपातेन नलिनीव निमीलिता
एष दुर्व्यसनी नित्यम् असत्यामात्यसंमतः ।
अस्मान् निपीड्य पुष्णाति विटचेटकगायनान्
कष्टा तत्राप्य् अनावृष्टिः पापशापेन भूपतेः ।
दुर्भिक्षजननी जाता जनसंक्षयसाक्षिणी
सुतीक्ष्णः क्ष्मापालः खरमुखरमूर्खः परिजनः
कदर्याश् चामात्याः कटुकपटकौटिल्यपटवः ।
पदस्थाः कायस्था विषममुखरोगाः प्रकुपिताः
कथं सह्यः सो ऽयं कृपणदलनो दारुणगणः
धनः श्रिमान् क्षितिपतिः श्रूयते राष्ट्रवर्धनः ।
गच्छामस् तत्पुरं सो ऽस्मान् वत्सलः पालयिष्यति
अपत्यम् इव राष्ट्रं यः सदा पश्यति भूपतिः ।
विषये जीव्यते तस्य जनकस्येव वेश्मनि
इति निश्चयम् आधाय ययुस् ते हस्तिनापुरं ।
त्याज्यः कायो ऽपि सापायः किं पुनर् देशसंश्रयः
ज्ञात्वा महेन्द्रसेनो ऽपि स्वपुरं निर्जनं नृपः ।
तीव्रानुतापः सामर्षं महामात्यान् अभाषत
धनस्य धनिनो राज्ञः पुरं मत्पुरवासिनः ।
प्रयाता इति नश् चारैः कथितं गूढचारिभिः
दुर्भिक्षखिन्ना यदि ते याता मम रिपोः पुरम् ।
तत् सर्वत्र भवन्त्य् एव पर्यायैर् देवविप्लवाः
अथ वा राजदोषेन गतास् ते सुखवाञ्छया ।
विष्टिदण्डकरोन्मुक्तः कस्य राज्ञः पुरे जनः
प्रायः परिचितद्वेषात् सदा नवनवैषिणः ।
दूरस्थ एव सर्वस्य सर्वो भवति वल्लभः
अस्मदभ्यधिकः को ऽसौ तस्य भूमिपतेर् गुणः ।
परेषां हरते येन मुग्धा जाया इव प्रजाः
उपायश् चिन्त्यतां तावत् तस्य दर्पप्रशान्तये ।
समृद्धिकारणं यच् च तद्विघातो विधीयतां
इति राजवचः श्रुत्वा महामात्या बभाषिरे ।
श्रूयतां देव येनासौ राजा धनजनोर्जितः
विषये नागराजो ऽस्ति चित्रो नाम बहूदकः ।
तस्य क्षितिपतेर् मूर्तः पुण्यबद्ध इवोदयः
अकाले सस्यनिष्पत्तिस् तत्प्रभावेण जायते ।
कृषिसंपत्तिमूलाश् च भूभुजां सर्वसंपदः
तस्माद् विद्याबलान् नागः स हर्तुं यदि शक्यते ।
तदा यान्ति स्वयं तस्य प्रजास् त्वाम् एव संश्रयम्
दीप्तमन्त्रबलं कं चित् तस्माद् अन्विष्य साधकम् ।
नागराजस्य हरणे क्रियतां तूर्णम् उद्यमः
इत्य् अमात्यवचः श्रुत्वा तथेत्य् आह महीपतिः ।
स्वगुणाधानविकलाः परदोषोद्यताः खलाः
ततः प्रभूतकनकप्रदानपणघोषणाम् ।
कृत्वा ते मन्त्रिणः प्रापुर् नागबन्धनमन्त्रिणम्
स तैर् विद्याधरो नाम सुवर्णार्पणसंविदा ।
प्रार्थितश् चित्रम् आनेतुं प्रययौ हस्तिनापुरम्
तत्र काननपर्यन्ते स्निग्धश्यामलपादपे ।
भवनं भोगिनां भर्तुः स ददर्श नभःप्रभम्
वलद्बकुलमालाया विलसत्तिलकश्रियः ।
वनलक्ष्म्या इवासन्नमण्डनं मणिदर्पणम्
तद् विलोक्यामलजलं स्पृहामलिनमानसः ।
मन्त्रानुध्यानसंनद्धः सिद्ध्यै दिग्बन्धम् आदधे
दिग्बन्धे विहिते तेन व्रतेनात्युग्रतेजसा ।
शिरोव्यथा नागपतेर् अभूत् तप्तफणामणेः
अथादृश्यः समुत्थाय तं दृष्ट्वा मन्त्रसाधकम् ।
कम्पमानः फणिपतिर् बन्धत्रासाद् अचिन्तयत्
बभ्रुभ्रूश्मश्रुशबलस् तडित्कपिललोचनः ।
अकालकालसंकाशः कुलं हन्तुं ममागतः
वने संप्रति दिग्बन्धः कृतो ऽनेन दुरात्मना ।
बध्नात्य् एष न यावन् मां तावद् युक्तिक्रमः क्षमः
तीरोपान्ते वसत्य् अस्मिन् महर्षिर् वल्कलायनः ।
जाने सो ऽपि न मे साधु परित्राणे प्रगल्भते
तस्याश्रमपदे यो ऽसौ परिचर्यापरः सदा ।
लुब्धकः पद्मको नाम स मे संरक्षणक्षमः
इति निश्चित्य मनसा स गत्वा लुब्धकान्तिकम् ।
स्ववृत्तान्तं निवेद्यास्मै बन्धरक्षाम् अयाचत
साधकस्य वधायैव नागराजेन सो ऽर्थितः ।
धन्वी तं देशम् अभ्येत्य मन्त्रधीरं व्यलोकयत्
अस्मिन्न् अवसरे मन्त्रसाधको ऽपि हुतानलः ।
आकृष्टिं नागराजस्य विदधे बन्धनोत्सुकः
मन्त्राकृष्टे फणिपतौ क्षणं तद्भवनोदकम् ।
सविषादं रुरोदेव प्रोद्यद्बुद्बुदगद्गदम्
संत्रासविह्वलभुजङ्गवधूविषादनिश्वासवेगविहितोज्ज्वलफेनमालम् ।
रक्षार्थनाम् इव चकार तरङ्गहस्तसक्ताञ्जलि प्रबलकम्पविलोलम् अम्भः
आत्ते विद्याबलात् तेन नागे गरुदतेजसा ।
संकोचकुटिलाभोगे क्षिप्ते च जलभाजने
तं हेमलुब्धं बाणेन त्राससंदिग्धलोचनम् ।
विव्याध धनुर् आकृष्य विषदिग्धेन लुब्धकः
मग्नबाणं तम् अभ्येत्य भूयस्त्यक्तभुजङ्गमं ।
करालकरवालेन विशिरस्कं चकार सः
सा विद्याबन्धकी तस्य लोभाद् अन्योपयोगिनी ।
अभूत् सिद्धापि मुग्धस्य स्वविनाशाय केवलम्
युक्ताः परोपतापाय विद्याविभवशक्तयः ।
सहसैव विमूढानां विनश्यन्ति सहासुभिः
ततः प्रहर्षसंपूर्णः कृतज्ञः फणिनायकः ।
तं निनाय स्वभवनं लुब्धकं स्नेहलुब्धधीः
तत्र रत्नलतोद्यानविमानमणिवेश्मसु ।
अभ्यर्च्यमानश् चित्रेण कं चित् कालम् उवास सः
कदा चिद् अथ नागेन पूज्यमानं सविस्मयः ।
विद्युद्दामोपमं पाशम् अमोघाख्यं ददर्श सः
तं दृष्ट्वा तत्प्रभावं च श्रुत्वा नागनिवेदितम् ।
यत्नात् तदर्थनां चक्रे लुब्धको लुब्धमानसः
अजय्यं समरोद्योगे सुराणाम् अपि बन्धनं ।
तं जीविताधिकं तस्मै ददौ प्रीत्या फणीश्वरः
ततस् तं पाशम् आदाय चित्रम् आमन्त्र्य लुब्धकः ।
उत्तीर्य नागभवनाल् लब्धार्थः स्वपदं ययौ
नागप्रभावसंप्राप्तां चिरं भुक्त्वा स संपदम् ।
पुत्रायोत्पलकाख्याय पाशं दत्त्वा व्यपद्यत
पालयन् पितुर् आचारं सो ऽपि लुब्धकुमारकः ।
मुनेस् तस्य कुलस्थित्या परिचर्यापरो ऽभवत्
ततः कदा चित् स मुनेर् विश्रान्तस्य स्थितः पुरः ।
शुश्राव काकलीगीतं कीर्णं कर्णरसायनम्
गीतश्रवणनिष्पन्दनिलीनहरिणं वनम् ।
चित्रन्यस्तम् इवालोक्य सो ऽपृच्छद् विस्मितो मुनिम्
कमलाबन्धसंरुद्धमधुपध्वनिसोदरः ।
कुतो ऽयं कोकिलालापललितः श्रूयते स्वनः
इति लुब्धकपुत्रेण पृष्टस् तं मुनिर् अब्रवीत् ।
गायन्ति मधुरालापम् एतं किन्नरकन्यकाः
द्रुमस्य किन्नरपतेः कन्या कन्याशतैर् वृता ।
पञ्चभिर् नागभवने क्रीडत्य् एषा मनोहरा
श्रुत्वैतत् कौतुकाक्रान्तः स पुनर् मुनिम् अभ्यधात् ।
अपि शक्नोति पुरुषः प्राप्तुं किन्नरकन्यकाम्
तम् उवाच मुनिर् यस्य भवेत् पाशः कराग्रगः ।
अमोघाख्यः स शक्नोति हर्तुं किन्नरकामिनीम्
एतद् आकर्ण्य सोत्साहस् तं प्रणम्याथ लुब्धकः ।
प्रययौ पाशम् आदाय भोगीन्द्रभवनान्तिकम्
तत्र केलिविलासाङ्कं सो ऽपश्यत् किन्नरीगणम् ।
बिभ्राणम् अनिलालोलहेमवल्लीवनश्रियम्
मद्ब्ये स्नानोत्थितां तासां स ददर्श मनोहराम् ।
स्मरस्येव त्रिनेत्राग्निनिर्वाणजलदेवताम्
अनङ्गविभ्रमारम्भनिर्भरोर्मिणि यौवने ।
मज्जतः शैशवस्येव कुर्वाणाम् अवलम्बनम्
मेखलाबद्धसंनद्धदिव्याम्बरमनोरमाम् ।
जलकेलिकलासक्तस्फारफेनावलीम् इव
लावण्यप्रसृतेनेव प्रवाहेन महीयसा ।
हरन्तीं तारहारेण शशिशुभ्रनिशाश्रियम्
कलयन्तीं जलोल्लीढां लीलापत्त्रलतां पुनः ।
कर्णाभरणरत्नांशुकलापेन कपोलयोः
कस्तूरीलेखया सख्या लिख्यमानललाटिकाम् ।
कलङ्ककलनाक्लैब्यं शमयन्तीं हिमत्विषः
तां दृष्ट्वा विस्मयावेशपाशेनाकृष्टमानसः ।
चक्रे पाशम् अमोघाख्यं सज्जं सपदि लुब्धकः
ततः संत्रासतरलाः सहसा हरिणेक्षणाः ।
किन्नर्यो दिवम् उत्पेतुः पाशहस्तं विलोक्य तं
लघुहस्ततया क्षिप्त्वा पाशं चकितलोचनाम् ।
मनोहरां स जग्राह हरिणीम् इव लुब्धकः
सा पाशविवशा तेन कृष्टा कष्टदशां श्रिता ।
किम् एतद् इति नाज्ञासीत् क्षणमूर्च्छानिमीलिता
यूथभ्रष्टेव हरिणी स्वजनालोकनाशया ।
निरीक्षमाणा ककुभः सा संभ्रान्ता तम् अभ्यधात्
मुञ्च मुञ्च दृढाक्षिप्तां मा स्प्राक्षीः परिरक्ष माम् ।
क्रूरा अपि भवन्त्य् एव शोकार्तिषु कृपालवः
लोभाद् अनुत्तमपदप्रयुक्ता दिव्यकन्यका ।
सद्यः प्रदीप्ता विद्येव निर्दहत्य् एव साधकम्
मां विचार्य धिया धीमन्न् उचिताय प्रयच्छतः ।
भविष्यति तवावश्यम् महान् धर्मधनागमः
पीडां पाशकृताम् एतां न सहे मुञ्च बन्धनम् ।
स्वयं व्रजाम्य् अहं तत्र यत्र ते ऽभिमता गतिः
दिवम् उत्प्लुत्य गच्छामि न त्व् अहं मुक्तबन्धना ।
यद्वशान् मे गतिर् व्योम्नि चूडारत्नं गृहाण तत्
इत्य् उक्तः स तया सास्रं प्रयातः करुणार्द्रताम् ।
चूडामणिं समादाय पाशं मुक्त्वा जगाद ताम्
समाश्वसिहि कल्याणि न शोकं कर्तुम् अर्हसि ।
न नामानुचिताय त्वां प्रयच्छामि निजेच्छया
अस्ति राजसुतः श्रीमान् गुणरत्नमहोदधिः ।
पूरिताः ककुभः सर्वा येन कीर्त्यमृतोर्मिभिः
स विद्यावदनादर्शः कलाकेलिविभूषणः ।
सुवृत्तः सुधनो नाम निजवंशविशेषकः
स ते समुचितः सुभ्रु विभ्रमाभरणं भुवः ।
त्यागोपभोगसुभगः सुखोत्सव इव श्रियः
सुरकिन्नरगन्धर्वविद्याधरविलासिनाम् ।
यः खर्वीकुरुते गर्वम् उर्वराशर्वरिपतिः
इति तेन कृताश्वासा बन्धुवर्गवियोगिनी ।
कुररीवातिकरुणं विललाप मनोहरा
अत्रान्तरे विन्ध्यतटीं मृगयाकेलिकौतुकी ।
प्रस्थितः सुधनो धन्वी शनैस् तं देशम् आययौ
रथनेमिस्वनैस् तस्य प्रनृत्तशिखिमण्डली ।
वनलक्ष्म्याः क्षणं लेभे लोलनीलदुकूलताम्
स कपोलप्रणयिभिर् बभौ स्वेदोदबिन्दुभिः ।
संक्रान्तैः कुण्डलप्रान्ते कान्तमुक्ताफलैर् इव
स्यन्दनाश्वखुरोद्धूतं दन्तदीधितिभिः पुरः ।
हरन्न् इव रजःपुञ्जं व्याजहार स सारथिम्
अहो मनोरथेनेव रथेनानिलरंहसा ।
दूरोज्झिता स्वसैन्येन कियती लङ्घिता क्षितिः
एता बालानिलोल्लासलोलपिप्पलपल्लवाः ।
हरन्ति हरितच्छायां हरिणाभरणा भुवः
एता बालप्रवालोष्ठ्यः स्तबकस्तनबन्धुराः ।
सोत्कण्ठा इव जृम्भन्ते मञ्जर्यः श्वसनाकुलाः
इमा मरकतश्यामशष्पसंचयकञ्चुकाः ।
राजन्ते कौसुमरजोरञ्जिता वनराजयः
एता विवलितग्रीवा हरिण्यस् त्रासविद्रुताः ।
नीलोत्पलवनानीव सृजन्ति तरलेक्षितैः
एते निशाकरकराङ्कुरकान्तदन्ताः पल्लीपतिप्रणयिणीस्तनतुल्यकुम्भाः ।
पश्यन्ति दन्तिशिशवः परितो रथं मे नेमिस्वनापःर्तचापललीनकर्णाः
एते निर्मलनर्मदापरिसरव्याजृम्भिवल्लीवलत्-
पुष्पोद्दाममधूत्सवप्रणयिनः क्षीबा इवाघूर्णिताः ।
संनद्धाः शबरीनितम्बविलसन्मायूरपत्त्रावली-
लीलान्दोलननर्मविभ्रमकलाबन्धेषु विन्ध्यानिलाः
इति ब्रुवाणः कलयन् वनलक्ष्मीं नृपात्मजः ।
शुश्राव निर्जने कीर्णं किन्नर्याः करुणं स्वनम्
श्रुत्वैव कौतुकाकृष्टस् तत्समीपं कृपानिधिः ।
सो ऽभ्येत्य सद्गुणादर्शस् तां ददर्श मृगीदृशम्
याचमानाम् परित्राणं लुब्धकं साश्रुलोचनाम् ।
वनेचरभयोद्विग्नाम् इव काननदेवतां
अन्वेष्टुं लुब्धकाकृष्टं स्वम् अङ्कंर्गम् आगताम् ।
खिन्नाम् इव वनभ्रान्त्या लक्ष्मीं हरिणलक्ष्मणः
तां विलोक्य स साश्चर्यरूपातिशयविस्मितः ।
अभिलाषपटे क्षिप्रं चित्रन्यस्त इवाभवत्
सो ऽचिन्तयद् अहो रम्यनिर्माणाभ्यासकारिणः ।
अस्मिन् मुखसमुल्लेखे रेखापरिणतिर् विधेः
दुर्लभा भोगिभवने मर्त्यलोके कथैव का ।
मन्ये लावण्यमुद्रेयं स्वर्गे ऽप्य् अभिनवोदिता
तारुण्येन निपीतशैशवतया सानङ्गशृङ्गारिणी
तन्वङ्ग्या सकलाङ्गसंगमसखी भङ्गिर् नवाङ्गीकृता ।
निःसंरम्भपराक्रमः पृथुतरारम्भाभियोगं विना
सांराज्ये जगतां यया विजयते देवो विलासायुधः
इति विस्मयगर्भेण साभिलाषेण चक्षुष ।
तां पिबन्तम् इवाभ्येत्य प्रणम्य प्राह लुब्धकः
कुलकल्पद्रुमस्येयं द्रुमस्य दयिता सुता ।
देव किन्नरराजस्य पाशेनापःर्ता मया
आनीता त्वत्कृते दिव्यकन्यैषा प्रतिगृह्यताम् ।
त्वम् एवास्या गुणोदार भर्ता भुव इवोचितः
अस्याश् चूडामणिर् अयं मया स्वेच्छागतिप्रदः ।
गृहीतस् तद्विरहिता नेयं याति विहायसा
रक्ष्यो मणिर् अयं नास्ति दत्ते ऽस्मिन् संगमो ऽनया ।
इत्य् उक्त्वास्मै ददौ कन्यारत्नं रत्नं च लुब्धकः
गृहीता राजपुत्रेण सा महींर्गलक्ष्मणा ।
सुधासिक्तेव तत्याज स्वदेशविरहानलम्
उत्कण्ठालोकनालोलां तां बालहरिणीम् इव ।
बबन्ध लुब्धकत्यक्तां रागवागुरया स्मरः
किन्नरीं रथम् आरोप्य रत्नैर् आपूर्य लुब्धकम् ।
हर्षपूर्णः स्वनगरं प्रतस्थे पार्थिवात्मजः
स हस्तिनापुरं प्राप्य निवेद्य स्वकथां पितुः ।
हर्षाद् विस्मयिना तेन विवाहे विहितोत्सवः
सुकृतैर् भोग्यतां यातां मूर्ताम् इव शशिश्रियम् ।
अन्तःपुरप्रणयिणीं चक्रे किन्नरकन्यकाम्
दधता मधुपेनेव तेनाधरमधुस्पृहाम् ।
स्पृष्टा नतमुखाम्भोजा चकम्पे नलिनीव सा
मौने ऽपि कथितोत्कण्ठां मुहुः कम्पे ऽपि निश्चलाम् ।
वैलक्ष्ये ऽपि स्फुटल्लक्ष्मीं तस्याः प्रीतिं ततान सः
स शनैर् अधरास्वादे दत्त्वा दन्तविभीषिकाम् ।
विनिद्राब्जदृशस् तस्या मौनमुद्रां अवारयत्
नीवीमोक्षे निषेधे च दम्पत्योः पणिपद्मयोः ।
विवाद इव सोत्कम्पं कङ्कणस्वनयोर् अभूत्
स रागपल्लवस् तस्य विलासस्मितपुष्पितः ।
कान्ताकुचफलाङ्को ऽभूद् भोग्यः संभोगपादपः
अत्रान्तरे दाक्षिणात्यौ विप्रौ कपिलपुष्करौ ।
आजग्मतुर् वृत्तिकामौ धनस्य नृपतेः सभाम्
तौ विद्यातिशयश्लाघ्यौ पौरोहित्यम् अवापतुः ।
कपिलः क्षितिपालस्य राजपुत्रस्य चापरः
तयोः स्पर्धानुबन्धेन सदा विवदमानयोः ।
एकद्रव्याभिलाषेण विद्वेषः समजायत
द्वेषदोषेण मातङ्गयोग्यनिर्घातयोस् तयोः ।
विदधे मदलेखेव विद्या मलिनताम् मुखे
येषां वस्तुविवेकिनी गुणसखी लोकप्रकाशोन्मुखी
विद्यादीपशिखा करोति विषमं द्वेषान्धकारं पुरः ।
ते मोहोपहता विचाररहिताः सौजन्यजन्याहिता
दग्धाश् चन्दनचन्द्रकान्तकमलस्यन्दोद्गतेनाग्निना
श्रुतिस्मृतिविवादेषु पुष्करेण पदे पदे ।
निगृह्यमाणः कपिलः कोपतापाद् अचिन्तयत्
मन्दाभ्यासं दृढाभ्यासस् तीक्ष्णस् तीव्रमदोद्धतः ।
सदा संसदि माम् एव नयत्य् एष विलक्षताम्
प्रज्ञा वञ्चकवृत्ताय श्रुतं दर्पज्वराय च ।
धनं धर्मनिषेधाय भवत्य् अधमचेतसाम्
दृप्तः परिभवत्य् एष राजपुत्राश्रयेण माम् ।
तस्माद् आश्रयम् एवास्य श्रीमूलम् प्रहराम्य् अहम्
निधने राजपुत्रस्य युक्त्युपायेन केन चित् ।
युक्तः कर्तुं प्रयत्नो मे मानम्लानिं कथं सहे
इत्य् उग्रपापसंकल्पस् तस्य द्वेषात् समुद्ययौ ।
नास्ति तत् पातकं लोके यन् न कुर्वन्ति मत्सराः
कथं पश्यति सद्वर्त्म स सदा व्यथिताशयः ।
दत्तं नयनयोर् येन तीव्रामर्षविषाञ्जनम्
रागः पापं परमम् अधिकं दर्पपापं ततो ऽपि
क्रोधात् पापं जगति न परं दुःसहं लोभपापम् ।
यावान् एष व्यसनिनि जने गण्यते पापवर्गः
पापांशस्य स्पृशति न तुलां सो ऽपि विद्वेषसूतेः
ततः कदा चिन् मेघाख्यं क्रूरं कर्वटवासिनम् ।
विसृष्टसैन्यहन्तारं सामन्तम् अपकारिणम्
श्रुत्वा नरपतिः कोपाच् चतुर्थोपायनिश्चये ।
अमात्यानां अनुमते कुमारम् इदम् अब्रवीत्
कुमार गम्यतां तूर्णम् उच्छेत्तुं तरसा रिपुम् ।
क्रमोपपन्नं सांराज्यं निःशल्यम् इदम् अस्तु ते
अयं ते समरारम्भे प्रभावाभरणो भुजः ।
आलानस्तम्भतां यातु जगद्विजयदन्तिनः
मेघे भूभृत्कुलाक्रान्तिसंरम्भाभ्यधिकोदये ।
हते तव प्रतापस्य निर्विघ्नावरणा दिशः
दुर्बलैः किं हतैर् अन्यैः सामन्तैर् अन्तवासिभिः ।
दृप्तः स एव हन्तव्यस् तद्वधे सर्वसिद्धयः
किं कौतुकं यदि हरिः करिचक्रवालं
आहन्ति दैवविहितम् निजम् एव भोज्यम् ।
पञ्चाननं यदि भिनत्ति नखाट्टहासं
तत् तस्य पौरुषकथापथम् एति शौर्यम्
इति पित्रा समादिष्टः समीहितरणोत्सवः ।
किन्नरीविरहालोलः सो ऽभूद् दोलाकुलः क्षणम्
अचिरागमनाख्यानैर् यत्नैर् आश्वास्य वल्लभाम् ।
जननीं स्वैरम् अभ्येत्य प्रणिपत्य जगाद सः
दुहिता शक्रकल्पस्य किन्नरेन्द्रस्य मानिनी ।
पाल्या विरहशोकार्ता मद्वात्सल्यधिया त्वया
अस्याश् चूडामणिर् अयं रक्ष्यः स्वेच्छागतिप्रदः ।
दातव्यः सर्वथा मातर् नान्यत्र प्राणसंशयात्
इत्य् उक्त्वा जननीहस्ते कान्तं कान्ताशिखामणिम् ।
निक्षिप्य स ययौ तूर्णं सैन्याच्छादितदिङ्मुखः
तस्य वाजिव्रजोद्धूतरजःपुञ्जघनोदयः ।
प्रययौ राजहंसानां संत्रासायासहेतुताम्
दूरं प्रयाते दयिते विरहेण मनोहरा ।
बभूव बालनलिनीपलाशशयनाश्रया
सोत्कण्ठाया दिवसगणनारम्भनित्याभियोगे
संख्यालेखासरणिम् अवनौ कम्पलोलं लिखन्त्याः ।
तस्याः पाणौ निपतितरणत्कङ्कणे तानवेन
क्षिप्रं मुक्तावलयकलनाम् अश्रुधारा चकार
द्वेषः पुष्पशरे सुखे विमुखता देहे ऽपि निःस्नेहता
पत्यौ ध्यानपरायणत्वम् अनिशं तन्नाममन्त्रो जपः ।
शय्या भूमितलं तथापि सुतनोस् तापक्षतिर् नाभवन्
नूनं निश्चललीनरागमनसां मुक्तिर् न तीव्रव्रतैः
लीना स्फटिकपर्यङ्के हरिचन्दनपाण्डुरा ।
चन्द्रलेखेव सा तन्वी ज्योत्स्नामध्यगता बभौ
कदा चिद् अथ भूपालः स्वप्नदर्शनशङ्कितः ।
पुरोहितं समाहूय पप्रच्छ कपिलं रहः
दृष्टं अद्य मया स्वप्ने निरुद्धं शत्रुभिः पुरम् ।
पाटितोदरकृष्टैश् च ममान्त्रैः परिवेष्टितम्
स्वप्नस्यास्य विपाकार्हं फलं ब्रूहि महामते ।
विचिन्तय शुभोदर्काम् उचितां च प्रतिक्रियाम्
इति पृष्टः क्षितीशेन क्षणम् अन्तः पुरोहितः ।
भक्तिदम्भधृतध्यानः समीहितम् अचिन्तयत्
उपायो ऽयं मया दिष्ट्या प्राप्तः सुचिरचिन्तितः ।
पुष्करस्याश्रयोच्छित्त्यै राजपुत्रविनाशने
प्रिया मनोहरा ज्येष्ठं जीवितं तस्य किन्नरी ।
अभावे नियतं तस्या न स जीवति दुःखितः
इति संचिन्त्य शनकैर् मिथ्याखेदविषादवान् ।
अभ्यधाद् वसुधाधीशम् अहितैषी पुरोहितः
दुःस्वप्नो ऽयं त्वया देव हृदयाकम्पनः परम् ।
दृष्टः स्पष्टं फलं तस्य दुःसहं कथम् उच्यते
प्रभुभक्तिव्रतस्थानां दोषेष्व् अविहितात्मनाम् ।
न कर्णकटुकं वक्तुं निषेधो ऽस्ति हितैषिणाम्
राज्यात् भ्रंशः शरीराद् वा स्वप्नस्यास्य फलं स्फुटम् ।
शङ्काविरहितैः कार्यः प्रतीकारो ऽत्र भूतये
पुष्करिण्यां क्रतुक्षेत्रे पूर्णायां पशुशोणितैः ।
स्नातस् त्वं मार्जितो विप्रैर् भूरिरत्नसुवर्णदः
किन्नरीमेदसा वह्निं हुत्वा कुशलम् आप्स्यसि ।
अन्तःपुरे स्नुषा ते ऽस्ति किन्नरी न तु दुर्लभा
इति तस्य वचः श्रुत्वा क्रूरं पातककूणितः ।
नृशंसवृत्तसंत्रस्तस् तम् अभाषत भूपतिः
निजजीवितरक्षायै कथं स्त्रीवधम् उत्सहे ।
किन्नरीविरहे ऽवश्यं न च जीवति मे सुतः
इति भूमिभुजा तस्य प्रत्याख्याते समीहिते ।
तं पापाभिनिवेशेन पुनः प्राह पुरोहितः
अहो राजन् न जानीषे धीमान् अपि जनस्थितिम् ।
त्रिवर्गसाधनं त्याज्यम् न राज्यं न च जीवितं
अर्था इव स्वजनमित्रकलत्रपुत्रा नष्टाः स्थितस्य पुरुषस्य पुनर् भवन्ति ।
उच्छ्वासमात्रविरहे गतजीवितस्य तत्कालसंनिहितम् अप्य् असद् एव सर्वम्
त्यज्यन्ते जीवितस्यार्थे निजदेशप्रियात्मजाः ।
जीविताद् अपरं राजञ् जीवलोके ऽस्ति न प्रियम्
इति जीवितलोभाय तेन नानानिदर्शनैः शनैः ।
प्रतारितः पापं राजा युक्तम् अमन्यत
ततः सुसम्भृतारम्भे प्रवृत्ते यज्ञकर्मणि ।
कृतायां पुष्करिण्यां च पूर्णायां पशुशोणितैः
राज्ञा कथितवृत्तान्ता निजपत्नी स्वयं रहः ।
पुत्रप्रवासशोकार्ता पापत्रस्ता व्यचिन्तयत्
अहो मूर्खतरो राजा मोहान्धेन पुरोधसा ।
स्नुषावधविधाने ऽस्मिन् प्रेरितः पृथुपातके
यत्नैर् अपरिहार्ये ऽपि निबद्धे निधनावधौ ।
परप्राणापहारेण मूढा वाञ्छन्ति जीवितम्
यदि जीवितलुब्धेन मुग्धा मृगवधूर् इव ।
स्नुषापि हन्यते राज्ञा तत् किं वक्ष्याम्य् अहं सुतम्
मातस् त्वयेयं वात्सल्यात् पाल्या मम मनोहरा ।
इत्य् उक्त्वा सुधनः सूनुर् गतो निक्षिप्य मे वधूम्
तस्माच् चूडामणिम् मत्तः प्राप्य व्योम्ना प्रयातु सा ।
भविष्यति तया पत्युर् जीवन्त्या संगमः पुनः
इति संचिन्त्य सा गत्वा साश्रुनेत्रा स्नुषान्तिकम् ।
राजवृत्तं निवेद्यास्यै सोत्कम्पा पुनर् अब्रवीत्
वत्से चूडामणिं बद्ध्वा गच्छ तूर्णं विहायसा ।
नृपः पापप्रवृत्तो ऽयं न सदाचारम् ईक्षते
यज्ञभूमिं त्वया गत्वा गन्तव्यं व्योमवर्त्मना ।
अन्यथा त्वाम् असौ वेत्ति गूढन्यस्तां मया क्व चित्
इति भर्तृप्रवासार्ता वचः श्रुत्वा मनोहरा ।
तत्संगमाय रक्षन्ती यत्नात् प्रियतरं वपुः
श्वश्र्वा दत्तं समादाय बद्ध्वा मूर्ध्नि शिखामणिम् ।
नृपाहूता क्रतुक्षेत्रं गत्वा व्योम व्यगाहत
राजन् नैतत् तव समुचितं यत् प्रियस्यापि सूनोर्
वध्या पत्नी निजपदम् इयं स्वस्ति तुभ्यं गताहम् ।
रक्ष्यश् चासौ प्रतिहतधृतिर् मद्वियोगे कुमारस्
तत्रेत्य् उक्त्वा तनुतरतदिद्विभ्रमैः सा जगाम
।
तस्यां गतायां नृपतिर् यज्ञविघ्नेन शङ्कितः
पुरोहितस् तम् अवदद् देव मा संशयं कृथाः
मन्त्रैर् मया समाकृष्टः क्रूराख्यो ब्रह्मराक्षसः ।
निर्विघ्नस् ते क्रतुः सिद्धः सा हता तेन किन्नरी
इति मिथ्यावचस् तस्य राजा सत्यम् अमन्यत ।
नर्त्यन्ते कुटिलैर् मुग्धा यन्त्रपुत्रकलीलया
पितुर् भवनम् अभ्येत्य कीर्णहर्षा मनोहरा ।
न्यवेदयत् स्ववृत्तान्तं वहन्ती वल्लभं हृदि
सा पितुः शासनान् मर्त्यसङ्गसौरभशान्तये ।
हेमकुम्भशतैः स्नानं पञ्चभिः प्रत्यहं व्यधात्
मर्त्यामोदः प्रतनुतां क्षालितायाः शनैर् ययौ ।
सुधनस्नेहसंयोगी न तु रागो मृगीदृशः
दिव्योद्यानोपभोगेषु न सा निर्वृतिम् आययौ ।
अन्यत्र बद्धरागाणां रतिर् नान्यत्र देहिनाम्
सा कान्तविरहक्लान्ता कदा चिद् व्योमगामिनी ।
तां नागभवनोपान्तवनान्तवसुधां ययौ
तत्राश्रमस्थलीसक्तं महर्षिं वल्कलयनम् ।
अवदत् सा समभ्येत्य प्रणामविनमन्मुखी
लुब्धकस्योपदिशता भवता मम बन्धनम् ।
त्वम् एव ब्रूहि भगवन् यदि युक्तम् इदं कृतम्
इति तस्या वचः श्रुत्वा किंचिल्लज्जानताननः ।
ताम् उवाच मुनिर् मुग्धे तवैषा भवितव्यता
अमोघपाशस् तस्यास्तीत्य् अज्ञात्वा कथितं मया ।
उपलभ्य कथां धूर्तस् त्वां बबन्ध स लुब्धकः
दुष्टात्मनां न जानीमः कौटिल्यं क्रूरचेतसाम् ।
सत्यप्रवादमुखराः स्वभावसरला वयम्
इत्य् उक्ता मुनिना तन्वी प्रणयात् तम् अभाषत ।
भगवन् क्षम्यताम् एतद् बालावचनचापलम्
इदं तु भवताम् अग्रे यन् मया किं चिद् उच्यते ।
ललनासुलभः सो ऽयं सदाचारव्यतिक्रमः
कथातिथित्वम् आयान्ति चापले गुरवो ऽपि यत् ।
सा वियोगाग्नितापस्य ज्वालायोगासहिष्णुता
दुःखोद्धरणसंनद्धाः संतप्तानां दयालवः ।
कार्यान्तरङ्गाः प्रायेण भवन्त्य् अनुचितेष्व् अपि
पाशबन्धाद् विमुक्ताहं लुब्धकेन प्रलापिनी ।
निबद्धा राजपुत्रेण स्नेहपाशेन हारिणा
सुभगः सुधनाख्यो ऽसौ मद्वियोगानलाकुलः ।
अमुना यदि मार्गेण समेष्यति तवान्तिकम्
तद् इदं भवता वाच्यं कारुण्याद् वचसा मम ।
स्थिता त्वद्विरहायासनिःसुखाहं गृहे पितुः
उत्कण्ठाम् अनुकम्पां वा सहजां वा कृतज्ञताम् ।
दाक्षिण्यं वा पुरस्कृत्य तूर्णम् आगम्यताम् इतः
दुर्गमः किन्नरपुरे मार्गः क्लेशशताश्रयः ।
अभूमिर् एव मर्त्यानाम् अल्पवीर्यबलौजसाम्
दीप्ता तपोवनान्ते ऽस्मिन् सुधा नाम महौषधिः ।
दृश्यते हविषा पक्त्वा पातव्या सा स्वयं त्वया
तत्प्रभावात् समुत्तीर्य क्लेशं सत्त्वसहायवान् ।
कैलासहासशुभ्रेण पथा मत्पुरम् एष्यसि
इदं च तस्मै दातव्यम् मदभिज्ञाङ्गुलीयकम् ।
इत्य् उक्त्वा विषमं वर्त्म कथयित्वा क्रमेण सा
विघ्नप्रतिक्रियोपायान् संदिश्याश्चर्ययुक्तिभिः ।
आशाबन्धधृतप्राणा ययौ दत्त्वाङ्गुलीयकम्
तया कथितम् आकर्ण्य दूराध्वतरणाद्भुतम् ।
अङ्गुलीयकम् आदाय तद् एवाचिन्तयन् मुनिः
अत्रान्तरे राजसूनुर् जित्वा मेघं महीपतिम् ।
आययौ कोशम् आदाय दयितादर्शनोत्सुकः
स विवेश स्वनगरीं सामन्तच्छत्त्रमण्डलैः ।
फुल्लफेनस्मितस्याब्धेः कुर्वाणः संनिभं नभः
स्नुषावैशसवृत्तान्तकथनक्लेशकम्पितम् ।
अथान्तःपुरम् अभ्येत्य जनकं प्रणनाम सः
अधोमुखाखिलजनं शोकशल्यहतोत्सवम् ।
पितुर् अन्तःपुरं दृष्ट्वा स विप्रियम् अशङ्कत
अपि जीवति सा तन्वी विरहार्ता मनोहरा ।
इति ब्रुवाणं न यदा तम् ऊचे कश् चिद् अप्रियम्
तदा जगाद जननी पुत्र जीवति ते प्रिया ।
गता चूडामणिं प्राप्य किं तु जीवितसंशये
इति श्रुत्वैव सहसा स पपात महीतले ।
कीर्णहारलतां कुर्वन् साश्रुधाराम् इव क्षितिम्
तुषारशीकरस्मेरहरिचन्दनवारिभिः ।
स लब्धसंज्ञः शनकैर् विललापाश्रुगद्गदः
अनाकाशशशाङ्कश्रीर् अमन्थामृतवाहिनी ।
अयत्नरत्नवडभी क्व सा कुसुमधन्वनः
गुरुशासनयन्त्रितेन दूरं व्रजता बाष्पनिरुद्धलोचनायाः ।
विहिता न धृतिर् मया मृगाक्ष्यास् तद् अयं मे पतितः स्मराभिशापः
देहि प्रतिवचः सुभ्रु क्व गतासि मनोहरे ।
मया प्रमादमूढेन हरिणाक्षी न रक्षिता
त्वत्समागमसौभाग्यश्लाघ्यस्य सुरसंसदि ।
ममेव मर्त्यलोकस्य त्वद्वियुक्तस्य का द्युतिः
इति ब्रुवाणः शनकैः कान्तासंभोगसाक्षिषु ।
उद्यानेषु प्रियतमां विचेतुं स्वयम् उद्ययौ
वञ्चयित्वा परिजनं स रजन्याम् अलक्षितः ।
गत्वा वनान्तं बभ्राम समेषु विषमेषु च
तीव्ररागपिशाचेन महता स विमोहितः ।
उन्मत्त इव पप्रच्छ चेतनाचेतनान् अपि
ब्रूहि सखे शुकशावक सख्युः प्राणसखीं निखिलेन्दुमुखीं ताम् । तद्दशनच्छदरागविभागे बिम्बफले ऽस्तु सदा तव भोगः
हंहो हंस सितांस शंस नलिनीलीलावतंसद्युते
दृष्टा सौरभसद्मपद्मवदना किं कान्तिकल्लोलिनी ।
यस्याः पीनपयोधराग्रविलुठन्मुक्ताकलापस्य सा
हंसस्येव विभाति रोमलतिका शैवालवल्ली च्युता
तस्येति तीव्रव्यसनानुबन्धात् प्रलापिनः प्रस्खलतः समे ऽपि ।
दिशन् प्रकाशं दययेव मार्गे शनैर् जगाहे गगनं सितांशुः
श्यामापतेर् मन्मथबान्धवस्य कान्तं स दृष्ट्वाम्बरचुम्बि बिम्बम् ।
संदर्शितं सस्मितम् इन्दुमुख्या मेने मुखं व्योमविमानश्र्ङ्गात्
मूकं कलङ्काङ्कम् अवाप्तदोषम् अविभ्रमं हासविलासहीनं ।
चिरेण निश्चित्य शशाङ्कम् एव पप्रच्छ गच्छन् नरनाथसूनुः
अपि त्वया कान्तिसखी सखे खे तुल्येक्षणा लक्ष्मंर्गस्य दृष्टा ।
तवोदिता यद्वदनोपमानसंबन्धलब्धा जगति प्रसिद्धिः
कथं न किं चित् कथयत्य् अयं मे गतस्य कान्ताकथनार्थिभावम् । परार्थसंपादनशीतलेन कलावता कस्य कृतो ऽनुरोधः
अपि त्वया स्निग्धतडित्प्रकाशा घनस्तनी क्वापि मयूर दृष्टा ।
त्वद्बर्हभारस्य सुहृत् स यस्या विचित्रमाल्यः कबरीकलापः
भुजंग कच् चिद् भवता भुजंगी दृष्टा क्व चित् सा वररत्नचूडा ।
विषच्छटाः पश्य यया विसृष्टा मां दुःसहे ऽस्मिन् विरहे दहन्ति
सारङ्ग सा रङ्गविलासिनी किं दृष्टा त्वया मन्मथपार्थिवस्य ।
यस्याः कटाक्षोत्पलसंविभागैर् विभान्ति मन्ये गहने हरिण्यः
अपि त्वया विभ्रमजन्मभुमिर् वनस्पते पल्लवपेशलोष्ठी ।
लीलाविलोला ललना वनान्ते लतेव दृष्टा स्तबकावनंरा
अनेन नूनं वनकुञ्जरेण सा राजरम्भा परिरम्भलोभात् ।
आकृष्य नीता घनसंनिभेन संच्छादिता वा शशिनः कलेव
इति काननकुञ्जेषु तस्योन्मादप्रलापिनः ।
शोकाद् इव विवर्णेन्दुवदना रजनी ययौ
स नागभवनासन्नतीरोपान्ततपोवनम् ।
शनैः प्रविश्य पप्रच्छ महर्षिं वल्कलायनं
इहविरहविचिन्ताशोकनिश्वासमूर्च्छन्मदनदहनधूमश्यामसक्तैकवेणी ।
अपि शमितशशाङ्कोद्दामसौन्दर्यदर्पा मुनिवर हरिणाक्षी किन्नरी कापि दृष्टा
इति कान्तावियुक्तस्य प्राप्तस्योन्मादिनीं दशाम् ।
मुनिः श्रुत्वा वचस् तस्य परिज्ञाय तम् अब्रवीत्
समाश्वसिहि विश्रम्य संतापस् त्यज्यताम् अयम् ।
दृष्टा सा तव कल्याणी मया मानसचन्द्रिका
यूथभ्रष्टेव हरिणी निरपेक्षापि जीविते ।
पाशाकृष्टेव करिणी धार्यते सा त्वदाशया
पाणौ शेते वदनकमलं प्रस्तरे पल्लवानां
तापक्लान्ता तरलवलनस्रंसिनी गात्रलेखा ।
आशाबन्धे धृतिर् इव मतेस् त्वद्वियोगाकुलायास्
तस्या नैव क्व चिद् अपि मनः किं तु विश्रान्तिम् एति
द्रुमस्य किन्नरपतेः स्थिताहं भवने पितुः ।
आगन्तव्यं त्वया तूर्णम् इति त्वां संदिदेश सा
वीर्यसत्त्वबलोपायधैर्योत्साहवताम् अपि ।
अगम्ये किन्नरपुरे क्रमाद् वर्त्म शशंस च
इदं च त्वत्कृते दत्तं तया रत्नाङ्गुलीयकम् ।
यस्य स्निग्धप्रभाभ्यङ्गैर् दिशो यान्ति पिशङ्गताम्
इत्य् आनन्दसुधासिक्तम् उक्त्वा धैर्यावलम्बनम् ।
अङ्गुलीयं ददौ तस्मै मार्गं चाकथयन् मुनिः
पथा तदुपदिष्टेन सोपायेन नृपात्मजः ।
धीरः प्रचक्रमे गन्तुं धनदाध्युषितां दिशम्
स सिद्धां घृतपाकेन सुधां पीत्वा महौषधिम् ।
लब्धर्द्धिबलमाहात्म्यः सायुधः प्रययौ शनैः
ऋद्ध्या संनिहितं तस्य सर्वोपकरणं पथि ।
अभूत् सत्त्वसहायानां स्वाधीनाः सर्वसंपदः
अथ विद्याधरवधूविलासहसितद्युतिम् ।
हिमवन्तम् अतिक्रम्य कुकूलाद्रिम् अवाप सः
फलोपहारैः स्वीकृत्य तत्र वानरयूथपम् ।
वायुवेगाख्यम् आरुह्य स तं शैलम् अलङ्घयत्
अथाजपथनामानम् अतिचक्राम भूधरम् ।
निहत्याजगरं घोरं विघ्नसंघम् इवेषुना
वीणास्वनैर् वशीकृत्य राक्षसीं कामरूपिणीम् ।
कामरूपाद्रिम् उल्लङ्घ्य प्रययौ किन्नरीप्रियः
बलवान् मुद्गराघातनिखातैः शस्त्रशङ्कुभिः ।
एकधारं ततः शैलम् आरुरोहातिसाहसः
अथोग्रतरम् आरुह्य वज्रकाख्यं स पर्वतम् ।
गृध्ररूपां समालोक्य राक्षसीं पिशितैषिणीम्
परिवृत्तेन संच्छन्नः समांसमृगचर्मणा ।
स पादमूले तस्याद्रेस् तस्थौ निश्चलविग्रहः
मांसलुब्धा तम् उत्क्षिप्य गृध्ररूपा निशाचरी ।
निदधे शिखरस्याग्रे भोक्तुं भीषणविग्रहा
मृगचर्म समुत्सृज्य तां निहत्य स वीर्यवान् ।
नीरन्ध्रखदिराकीर्णम् प्राप खादिरभूधरम्
प्रविश्य तद्गुहां लेभे शिलां व्यस्य महौषधिम् । शीतातपतमःसर्पराक्षसादिभयापहाम्
स यन्त्रपर्वतौ प्राप्य संघट्तैः प्राणहारिणौ ।
यन्त्रकीलं शराग्रेण छित्त्वा चक्रे विनिश्चलौ
यन्त्रकीलसमुच्छेदैर् यन्त्रद्वारं विदार्य सः ।
छेदनम् यन्त्रचक्रं च यन्त्रयुक्तौ तथायसौ
तीव्रप्रहारौ पुरुषौ यन्त्रमेषौ च दुःसहौ ।
यन्त्रोग्रदन्तनिष्पेषौ तथा मकरराक्षसौ
घोरान्धकारगम्भीरं गुहाकूपं विलङ्घ्य च ।
तुङ्गां सरितम् उत्तीर्य हत्वा तत्कूलराक्षसान्
आशीविषावृतजलां पतंगाख्यां च निम्नगाम् ।
रोदिनीं च नदीं तीरे यस्याः किन्नरचेटिकाः
कुर्वन्ति रोदनरवैर् विघ्नं तद्गतचेतसाम् ।
तद्विधां हासिनीं नाम हासापःर्तचेतसाम्
दिशन्ति पुलिने यस्या व्यसनं किन्नराङ्गनाः ।
लङ्घयित्वापगाश् चान्या वेत्रां प्राप्य नदीं ततः
कूलवेत्रलतालम्बी तस्याम् अथ तितीर्षया ।
पवनप्रेरितां पारवेत्रवल्लीम् अवाप सः
तया प्राप्य परं पारम् आशयेवातिदीर्घया ।
ददर्श किन्नरपुरं स्फारस्फटिकमन्दिरम्
प्रविश्य स शनैः प्रप्य कान्तां कनकपद्मिनीम् ।
तत्तीरतरुम् आरुह्य तस्थौ रत्नलतावृतः
स ददर्शाम्बुजरजःपुञ्जैः सुरभिपिञ्जरम् ।
हेमकुम्भैर् जलं तत्र नयन्तीः किन्नराङ्गनाः
कुम्भोत्क्षेपे श्रमार्तायास् तत्रैकस्याः समेत्य सः ।
हस्तालम्बेन साहाय्यं कृत्वा पप्रच्छ तार्न् शनैः
मातः कस्य कृते तोयं इदं यत्नेन नीयते ।
यद्भक्त्या गण्यते नायं भवतीभिः परिश्रमः
इति तेन प्रियगिरा सा पृष्टा तम् अभाषत ।
माधुर्यधुर्यसौन्दर्ये पक्षपातवती क्षणात्
मर्त्यामोदापनोदाय सदा सुरभिवारिभिः ।
पितुः किन्नरराजस्य गिरा स्नाति मनोहरा
तयेति कथितं श्रुत्वा सुधासिक्त इव क्षणात् ।
स हेमकुम्भे चिक्षेप तदभिज्ञाङ्गुलीयकम्
स्नान्त्यास् ततस् तद् अभिहारि मनोहरायाः कुम्भात् पपात कुचकुम्भयुगे ऽङ्गुलीयम् ।
यस्यांशुमत्प्रतिमरत्नमयूखलेखाः क्षिप्रं नखक्षतविलासतुलाम् अवापुः
मूर्तं ततः स्वं अनुरागम् इवाकलय्य
रत्नाङ्गुलीयकम् अनङ्गकथान्तरङ्गम् ।
सा कान्तम् आगतम् अवेत्य कुतस् त्वयेदं
संप्राप्तम् इत्य् अवदद् उच्छलितेव दासीम्
ततस् ताम् अवदद् दासी देवि पुष्करिणीतटे ।
स्थितः को ऽपि युवा कान्तः प्रत्यक्ष इव मन्मथः
निक्षिप्तं हेमकुम्भे ऽस्मिन्न् इदं तेनाङ्गुलीयकम् ।
भजते यत्प्रभागर्भम् पयः कुङ्कुमकान्तताम्
इति तद्वचनं तन्वी प्रियं श्रुत्वा मनोहरा ।
निश्चित्य दयितं प्राप्तम् आनिनाय तयैव तम्
तया गुप्ततरे न्यस्तं कान्तम् उद्यानमन्दिरे ।
कुमुद्वतीव शशिनं गत्वापश्यन् मनोहरा
परस्परालोकनविभ्रमेण वियोगसंतापनिवेदनेन ।
तयोः प्रहर्षानुभवेन लेभे शोभाम् अशेषाङ्गवतीम् अनङ्गः
यद् यत् किं चिद् विरहसमये चिन्तयाभ्यस्तम् अन्तर्
यद् यत् प्रौढप्रमदसुहृदा मन्मथेनोपदिष्टम् ।
यद् यत् प्रेम्णः सदृशम् उचितं यद् यद् औत्सुक्यराशेस्
तत् तत् सर्वं प्रणयसुभगं दम्पती चक्रतुस् तौ
ततः प्रच्छन्नवृत्तान्तं लज्जमाना मनोहरा ।
निवेद्यादर्शयत् पित्रोः पतिं भूमिमनोभवम्
ततः किन्नरराजस् तां कोपप्रस्फुरिताधरः ।
उवाच दर्शनपथं परिहृत्यात्मजापतेः
अहो प्रमादपतिता दैवाद् अनुचिते जने ।
न विमुञ्चसि दुर्वृत्ते क्षाल्यमानापि रक्तताम्
यौवनावनिलावण्यं स्पृहणीयं दिवौकसाम् ।
बत प्रयातम् एतत् ते मर्त्यस्नेहेन शोच्यतां
उदग्रगोत्रप्रभवा घनयौवननिर्भरा ।
निम्नगे क्षोभविभ्रष्टा यातासि सुतराम् अधः
विद्वदुद्वेगजननी कुलवैलक्ष्यकारिणी ।
मलिना खलविद्येव संमतासि न कस्य चित्
रूपमात्रेण तुष्टा त्वं यदि मर्त्यवशं गता ।
तत् किं न रमसे हेमनिर्माणपुरुषत्विषा
प्रभावगुणहीनस्य पुंसश् चारुतराकृतेः ।
आलेख्यपुरुषस्येव सौन्दर्यं भित्तिरञ्जनम्
वध्यो मे त्वत्पतिः पापे हीनसंबन्धलज्जया ।
मुखं द्रष्टुं न शक्नोमि त्वद्याच्ञाप्तदिवौकसाम्
सत्यं उत्साहयुक्तस्य कुलस्योन्नतिशालिनः ।
जरेव किल कायस्य कन्या संकोचकारिणी
इति सा भर्त्सिता पित्रा तम् उवाच नतानना ।
असूत्रहारं कुर्वाणा कुचयोर् बाष्पबिन्धुभिः
कोपाद् अनुचितं तात नैतन् मां वक्तुम् अर्हसि ।
न श्रूयन्ते प्रभावेण किं नराः किन्नराधिकाः
गरुडस्यापि दुर्लङ्घ्याम् इमाम् उल्लङ्घ्य यः क्षितिम् ।
प्रभावभूमिर् आयाति मनुष्यः स कथं भवेत्
गुणसंवादिनी मूर्तिर् भवत्य् एव शरिरिणाम् ।
करोत्य् आनन्द संवादं द्युतिर् एव हिमत्विषः
जात्या किं क्रियते तात स्वभावानुगुणा गुणाः ।
पूर्णेन्दुर् अमृतस्यन्दी कालकूटस्य सोदरः
भवन्त्य् अन्तर्गुणाः के चिच् छन्नदोषास् तथापरे ।
अपरीक्ष्य न कर्तव्या मणीनां मूल्यलङ्घना
श्रुत्वैतत् किन्नरपतिस् तत् तथेति विचिन्त्य च ।
जामातरं समाहूय गुणजिज्ञासयाब्रवीत्
त्वया कान्त्या जितास् तावद् एते किन्नरदारकाः ।
संदर्शितप्रभावस् तु दिव्यसंबन्धम् अर्हसि
अत्यायतं शरवनं कृत्वोद्धृतशरं क्षणात् ।
व्युप्तम् अन्यूनम् उच्चित्य पुनर् देहि तिलाधकम्
संदर्शय धनुर्वेदे दृढलक्ष्यादिकौशलम् ।
ततः कीर्तिपताकेयं तवायत्ता मनोहरा
इत्य् अशक्ये ऽपि कौटिल्यात् प्रेरितस् तेन कर्मणि ।
सर्वं कान्तानुरागेण कुमारः कर्तुम् उद्ययौ
मिथ्याश्रमक्लेशफले प्रवृत्तं शरपाटने ।
तं विज्ञाय सहस्राक्षः पक्षपाताद् अचिन्तयत्
किं भाद्रकल्पिको बोधिसत्त्वो ऽयं पार्थिवात्मजः ।
नियुक्तः किन्नरेन्द्रेण निष्फले क्लेशकर्मणि
अस्यास्मिन् समयायासे कार्यं साहाय्यकं मया ।
इति संचिन्त्य शक्रो ऽस्य कर्मनिष्पत्तिम् आदधे
शतक्रतुसमादिष्टैर् यक्षैः सूकररूपिभिः ।
उत्पाटिते शरवने समे व्युप्तं तिलाधकम्
एकीकृतं समुच्चित्य शक्रसृष्टैः पिपीलकैः ।
कुमारः किन्नरेन्द्राय विस्मिताय न्यवेदयत्
स सप्तकनकस्तम्भान् सप्ततालान् बलोर्जितः ।
सूकरीचक्रसंयुक्तान् विद्ध्वा निशितपत्त्रिणा
शस्त्रास्त्रविक्रमकलाशिल्पशक्तिम् अदर्शयत् ।
ययास्य पेतुर् मुकुटे दिव्याः कुसुमवृष्टयः
विस्मितो ऽपि प्रभावेण तस्य किन्नरभूपतिः ।
पुनस् तद्वञ्चनायैव तां तां युक्तिम् अचिन्तयत्
दधति विपुलाश्चर्ये मौनं हसन्ति सतां स्तुतौ
मलिनवदनाः कीर्त्युत्कर्षे व्रजन्ति विवादिताम् ।
अपि गुणशतैर् नाराध्यन्ते विरुद्धधियः परं परपरिभवक्षोभारम्भस्थिराभिनिवेशिनः
स तम् ऊचे प्रभावो ऽयं दिव्यः प्रकटितस् त्वया ।
प्रज्ञाप्रकर्षम् अधुना संदर्शयितुम् अर्हसि
अभिन्नवर्णरूपाणां तुल्याभरणवाससाम् ।
किन्नरीणां स्थितां मध्ये गृहाण निजवल्लभाम्
इत्य् उक्तस् तेन स पुनः किन्नरीशतपञ्चकम् ।
तुल्यवर्णवयोवेशं ददर्शाव्यग्रम् अग्रतः
तासां मध्ये परिज्ञाय स जग्राह मनोहराम् ।
वल्लरीवनसंच्छन्नां भ्र्ङ्गश् चूतलताम् इव
देवो ऽयम् इति निश्चित्य ततस् तं किन्नरेश्वरः ।
तुष्टस् तस्मै ददौ दिव्यरत्नैः सह मनोहराम्
श्लाघ्योपभोगविभवैः पूजितस् तेन सादरम् ।
जायासखस् तम् आमन्त्र्य कुमारः स्वपुरं ययौ
मनोहराग्रगं पुत्रं प्राप्तम् आलोक्य भूपतिः ।
राकेन्दुदर्शनोद्भूतः सुधाम्बुधिर् इवाबभौ
पुत्रं ततश् चरितचन्द्रसितातपत्रे राज्ये ऽभिषिच्य परितापहरं प्रजानां ।
संतोषशीतलविवेकसुखाभिरामां छायाम् असेवत नृपः प्रशमद्रुमस्य
प्राप्ताभिषेकं सुधनम् प्रभाते तं सप्तरत्नानि पृथुप्रतापम् । नवप्रभावप्रभुभावभीत्या सेवानिवासार्थम् इवोपजग्मुः
स बोधिसत्त्वः सुधनो ऽहम् एव यशोधरा सापि मनोहराभूत्
तद्विप्रयोगव्यसनानलार्तिः कामानुबन्धाद् इयती मयाप्ता
तस्मात् कामः कमलवदनानेत्रपर्यन्तवासी
वर्ज्यः सद्भिः शमंर्गवधूबन्धकेलिः किरातः । स्फूर्जत्पुष्पप्रसरजरजःपुञ्जहालाहलाग्रैर्
लोकः शोकव्यसनविशिखैर् मोहनैर् येन विद्धः
इति भिक्षुगणः स्वयं जिनेन स्वकथां तां विनिवेदितां निशम्य ।
सरसं पृथुमूलम् एव मेने शतशाखस्य मनोभवम् भवस्य
मूल पाठ: Sudhanakinnaryavadāna · Edition: Martin Straube: Prinz Sudhana und die Kinnarī - Eine buddhistische Liebesgeschichte von Kṣemendra. Texte, Übersetzung, Studie. Marburg 2006 (Indica et Tibetica, 46) · Data entry Klaus Wille · GRETIL (Göttingen) · CC BY-NC-SA 4.0