सुधालहरी · श्लोक 21-30
आ पाथोजासनायुः क्षणलवघटिकाद्यात्मकं कालचक्रं प्राहुः पूर्वे पुराणागमविषयविदो यस्य लीलाविलासम् ।
भावानां षड्विकारानथ खलु गतिभिर्यश्च नित्यं प्रसूते स प्रातः पौरुहूते परिलसति हरिन्मण्डले चण्डभानुः
अङ्गानि ब्राह्मणानामुषसि हिमभरासङ्गतो भङ्गुराणि व्यालक्ष्य द्राक्प्रपाता रिपुजनितरुषेवारुणा वासवाशाम् ।
धर्मध्वंसोद्धुराणामखिलमपि कुलं जक्षतः शोभितक्ष्मा यक्ष्माणं मे हरन्तु त्वरितमघभिदो भानवश्चण्डभानोः
विश्रान्तिं ब्राह्मणानां सुखमतिशयितं कामिनां स्थायिलीलामम्भोजानां प्रबोधं कुमुदपरिषदां यश्चिकीर्षन्दयार्द्रः ।
निर्यात्यन्तःसमुद्रं सकलमपि नृणां भारमाधाय वह्नावह्नायाह्नामधीशः स भवतु भवतां भूयसे मङ्गलाय
द्रागाहत्य प्रभाते रजनिहिमवतः कौमुदीः कौतुकेन प्रोद्यत्प्रौढानुकम्पाः पुनरपि खलु ये सायमुज्जीवयन्ति ।
आरुण्ये पल्लवानामथ गुरुचरणाः शक्रगोपावलीनां ते युष्मद्भावलीनां दिनकरकिरणाः क्लान्तिमुन्मूलयन्तु
द्रागद्वैतं वितन्वंस्त्रिभुवनमभितः कौङ्कुमीनां द्युतीनां न्यक्कुर्वन्मान्द्यमुद्रामथ रजनिरुजां कोकसीमन्तिनीनाम् ।
तन्द्रान्धानान्ध्यसिन्धोरिह वितततरैरुद्दधानं कराग्रैः स्वान्तध्वान्तं धुनीतामुदयगिरिशिरश्चुम्बि मार्तण्डबिम्बम्
शुद्धं ब्रह्मालवालं प्रकृतिशबलितं यस्य मूलं करास्तद्द्राधिष्टस्वर्णशाखा विकसदरुणिमा पल्लवानां विलासः ।
नीलं व्योमालिमाला सुरसफलभरो धर्मकामार्थमोक्षाः स श्रीमान्वाञ्छितार्थं वितरतु सततं सूर्यकल्पद्रुमो वः
नीहारं निम्नगाभ्यो निखिलनयनतो नीरजेभ्यश्च निद्रां नीडेभ्यो नीडजानां निकरमुषसि ये नित्यमुद्वासयन्ति ।
सायं तेष्वेव तेषां पुनरपि घृणया कल्पयन्ते च वासं ते वः सन्तु प्रयासं घृणिघनघृणयो हन्तुमाबद्धकक्षाः
संहृत्य द्राग्बहिःस्थं तिमिरकुलमथाभ्यन्तरं हर्तुकामा रन्ध्रालीभिर्गृहाणामुदरमनुदिनं ये विशङ्कं विशन्ति ।
भानोस्ते ऽमी हृषीकाण्यखिलतनुभृतां हर्षयन्तो हितेहा हृद्रोगं संहरन्तां हिममहिमहृतो हेमहृद्याः करा नः
ब्रह्माण्डं मण्डयन्तो वियति वलयिनो मण्डलैरण्डजानां पाखण्डान्दण्डयन्तो दनुतनुजनुषां शोभिताखण्डालाशाः ।
ये खण्डान्पौण्डरीकान्विदलयितुमथोद्दण्डपाण्डित्यभाजस्ते चण्डांशोरचण्डास्त्वरितमिह कराः पाण्डुतां खण्डयन्तु
ऊर्ध्वं पापावलिभ्यः स्थित इति जगदे यस्य वेदैरुदाख्या निन्युः के ऽप्यासनार्थं खलु सहचरतां नेत्रयोः पुण्डरीकम् ।
ओष्ठावृक्साम यस्य द्रुतकनकनिभश्मश्रुकेशाखिलाङ्गः सो ऽयं सर्वान्तरात्मा तव दिशतुतरां वासरेशः शिवानि
मूल पाठ: Sudhālaharī · Edition: Pdt. Durgaprasad and Kasinath Pandurang Parab, Kavyamala [old, cumulative series], vol. 1, 1886 (3rd ed., 1929), pp. 16-22. · Data entry Dhaval Patel · GRETIL (Göttingen) · CC BY-NC-SA 4.0