भाषा

ENहिગુ
ग्रंथ पाठ

सुधालहरी · श्लोक 1-20

1

पण्डितराजश्रीजगन्नाथविरचिता
सुधालहरी ।
उल्लासः फुल्लपङ्केरुहपटलतन्मत्तपुष्पंधयानां निस्तारः शोकदावानलविकलहृदां कोकसीमन्तिनीनाम् ।
उत्पातस्तामसानामुपहतमहसां चक्षुषां पक्षपातः संघातः को ऽपि धाम्नामयमुदयगिरिप्रान्ततः प्रादुरासीत्

2

पद्मद्रोहोद्धुराणां धवलितहरितामैन्दवीनां द्युतीनां दर्पं द्राग्द्रावयन्तो विदलदरुणिमोद्रेकदेदीप्यमानाः ।
दूरादेवान्धकारान्धितधरणैतलद्योतने बद्धदीक्षास्ते दैन्यध्वंसदक्षा मुदमुदयदिनोद्वेलदुस्रा दिशन्तु

3

त्रातामीवार्तलक्षाः प्रतिदिनविहितानेकगीर्वाणरक्षा भक्तानां कल्पवृक्षाः स्फुरदनलगतस्वर्णभासां सदृक्षाः ।
लोकक्षेमात्तदीक्षा नलिनपरिषदां दत्तसौभाग्यलाक्षा दुर्वृत्तध्वंसदक्षा मम रविकिरणाः सन्त्वघानां विपक्षाः

4

प्रालेयानां करालाः कवलितजगतीमण्डलध्वान्तजालाः स्त्रातस्वर्लोकपाला विदलदरुणिमक्षिप्तबालप्रवालाः ।
विश्लिष्यत्कोकबालाज्वरहरणभवत्कीर्तिजालैर्जटाला व्योमव्याप्तौ विशालास्त्वयि दधतु शिवं भास्वतो भानुमालाः

5

निर्भिद्ये क्ष्मारुहाणामतिघनमुदरं येषु गोत्रां गतेषु द्राधिष्ठस्वर्णदण्डभ्रमभृतमनसः संनिधित्सन्ति पादान् ।
यैः संभिन्ने दलाग्रप्रचलहिमकणे दाडिमीबीजबुद्ध्या चञ्चूचाञ्चल्यमञ्चन्ति च शुकशिशवस्तें ऽशवः पान्तु भानोः

6

अह्नि क्रीडोचितानां सरसिरुहलसन्मन्दिराणां प्रभाते प्रोद्घाट्य द्राक्कपाटान्यथ कुमुदगृहान्मुद्रयन्तो विमुक्तान् ।
सिञ्चन्तः किं च भूमीतलमखिलमपि क्षुण्णकाश्मीरनीरैः पायासुः श्रीसपर्याविरचनपटवः पद्मबन्धोः करा नः

7

आलेपा हिङ्गुलानामिव धरणिभुजामच्छसौधाग्रमौलिष्वग्रेषु क्ष्मारुहाणामभिनवविदलत्पल्लवोल्लासलीलाः ।
प्रौढप्रालेयपुञ्जोपरि चितस्वदिराङ्गारभारा इवारात्पारावारात्प्रयान्तो दिनकरकिरणा मङ्गलं नः कृषीरन्

8

कीलालैः कुङ्कुमानां निखिलमपि जगज्जालमेतन्निषिक्तं मुक्ताश्चोन्मत्तभृङ्गाविदलितकमलक्रोडकारागृहेभ्यः ।
उत्सृष्टं गोसहस्रं बहलकलकलः श्रूयते च द्विजानां भाग्यैर्वृन्दारकाणां हरिहयहरिता सूयते पुत्ररत्नम्

9

या सूते सवभूतेष्वनुदिनमुदये चेतनाया विलासान्यान्ती सायं निकायं जलनिधिजठरं संजरीहर्ति सद्यः ।
अत्यर्थं वर्धयन्ती मणिगणसुषमासंपदं रत्नसानोः सा नो भानोः प्रभा नो नयनसरणितो दूरतो जातु यातु

10

नीहारैर्नीरजानां निबिडतमतमोराशिभिर्लोचनानां श्रौतस्मार्तक्रियाणामपि खलु निशया नाशमालक्ष्य दूरात् ।
सद्यः सिन्धोः सकाशादधिकतरजवेनागता वासवाशामाशापाशानशेषानपहरतुतरां तीक्ष्णभानोः प्रभा नः

11

शीते शोकं शशाङ्के कृशतमरुचितामाशुनाशं निशायां धिक्कारं ध्वान्तवर्गे कुमुदपरिषदि प्रोद्गमं दीनतायाः ।
पाण्डित्यं पुण्डरीकेष्वनुदिनमधिकां कान्तिमाशासु तन्वन्नन्वञ्चत्यन्वहं द्यामुषसि करुणया विश्ववन्द्यो विवस्वान्

12

स्वापं स्वापाकुलानां गदमथ गदिनामन्धकारं त्रिलोक्याः पापं पापाविलानां सपदि परिहरन्नागतो वासवाशाम् ।
नित्यप्रस्थानलीलाकुपितकमलिनीनर्मनिर्माणकर्मा विश्वार्तित्राणधर्मा गगनमणिरसौ पातु शर्मानिशं वः

13

अन्तर्नीरं नदीनामनुदिनमुदये बिम्बिता ये समन्ताद्गीर्वाणाद्रेरुदञ्चन्मणिगणजटिलां मेदिनीं दर्शयन्ति ।
विप्रप्रोत्क्षिप्तसंध्याञ्जलिजलकणिकाजालमाकाशमध्ये माणिक्यव्रातयन्तो मम मिहिरकरा मान्द्यमुन्मूलयन्तु

14

प्रत्यग्रोढाः प्रगल्भा युवतिपरिषदः प्रोषितप्राणनाथा यस्मिन्नस्ताद्रिमौलेरुपरिमणिमयच्छत्रलीलां दधाने ।
सत्रासं सप्रसादं परिणतकरुणं लोचनान्युत्क्षिपन्ति स्थेमानं स प्रियाणां घटयतु भगवान्पद्मिनीवल्लभो वः

15

अन्तर्द्यावापृथिव्योरधिरजनि भृतानन्धकारानुदारान्विद्राव्य द्राक्तदीयैरिव जयदरुणं शोणितैर्यद्विधते ।
सायं प्रातश्च संध्याञ्जलिमवनिसुराः संप्रयच्छन्ति यस्मै तस्मै कस्मैचिदेतन्मम परमहंसे देवतायै नमो ऽस्तु

16

त्राणं त्रैविष्टपानां तरणमथ पयस्तोमताम्यत्तनूनां नद्यन्तानामतर्क्यं त्रिगुणमयतया यत्त्रयाणां तुरीयम् ।
तत्तादृक्तुन्दिलायास्तरुणतरतमःसंततेरन्तकृत्त्वां तेजस्त्रैलोक्यताम्रीकरणचतुरिम त्रायतां तीक्ष्णभानोः

17

गीर्वाणग्रामणीभिर्गगनतलगतैर्गीर्भिरुद्गीथगाभिर्गन्धर्वैश्चापि गीता गुणगणगारमोद्गारिगाथासहस्रैः ।
गाहं गाहं गृहालीरगतिकगदिनां गन्धयन्तो गदार्तिं ग्लानिग्रामं ग्रसन्तां ग्रहरुचिगुरवो गोपतेर्गोविलासाः

18

जीवातुर्जाड्यजालाधिकजनितरुजां तप्तजाम्बूनदाभं जङ्घालं जाङ्घिकानां जलधिजठरतो जृम्भमाणं जगत्याम् ।
जीवाधानं जनानां जनकमथ रुचो जीवजैवातृकादेर्ज्योतिर्जाज्वल्यमानं जलजहितकृतो जायतां वो जयाय

19

प्रातर्निर्गत्य गोभिः सह रुचिविषये संचरन्त्यो ऽह्नि ताभिः साकं सायं निकायं प्रति पुनरपि याः संप्रयातुं त्वरन्ते ।
यासां दिव्यप्रभावस्त्रिजगदघवनश्रेणिदाहैकदावः क्षेमं तन्वन्तु ता वः शिवमयवपुषो वासरेशस्य गावः

20

वृन्दैर्वृन्दारकाणां दनुतनुजनुषां रक्षसां च क्षपान्ते गन्धर्वाणां धुरीणैः प्रणतमहिवरैः किंनरैर्यन्नरैश्च ।
विद्यां हृद्यां निजेभ्यो वितरदविरतं दीप्तिभिर्दीपयद्द्यामद्यादाद्यामविद्यामिदमुदयगिरेरुद्यदर्कस्य बिम्बम्

मूल पाठ: Sudhālaharī · Edition: Pdt. Durgaprasad and Kasinath Pandurang Parab, Kavyamala [old, cumulative series], vol. 1, 1886 (3rd ed., 1929), pp. 16-22. · Data entry Dhaval Patel · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc