भाषा

ENहिગુ
ग्रंथ पाठ

स्तवचिन्तामणि · श्लोक 79-paus-98-paus

79-paus

वस्तुतत्त्वम्+पदार्थानाम्+प्रायेण+अर्थक्रियाकरम् ।
भवतस्+तु+ईश नाम+अपि मोक्षपर्यन्तसिद्धिदम् ॥

80-paus

मुहुस्+मुहुस्+जगच्चित्रस्य+अन्यान्याम्+स्थितिम्+ऊहितुम् ।
शक्तिस्+या ते तया नाथ कस्+मनस्वी न विस्मितः ॥

81-paus

दुष्करम्+सुकरीकर्तुम्+दुःखम्+सुखयितुम्+तथा ।
एकवीरा स्मृतिस्+यस्य तम्+स्मरामस्+स्मरद्विषम् ॥

82-paus

जयन्ति गीतयस्+यासाम्+स गेयस्+परमेश्वरः ।
यन्नाम्ना+अपि महात्मानस्+कीर्यन्ते पुलकाङ्कुरैः ॥

83-paus

भवान्+इव भवान्+एव भवेत्+यदि परम्+भव ।
स्वशक्तिव्यूहसंव्यूढत्रैलोक्यारम्भसंहृतिः ॥

84-paus

मन्त्रस्+असि मन्त्रणीयस्+असि मन्त्री त्वत्तस्+कुतस्+अपरः ।
स मह्यम्+देहि तम्+मन्त्रम्+त्वन्मन्त्रस्+स्याम्+यथा प्रभो ॥

85-paus

भारूपस्+सत्यसंकल्पस्+त्वम्+आत्मा यस्य सस्+अपि+अहम् ।
संसारी+इति किम्+ईश+एष स्वप्नस्+सस्+अपि कुतस्+त्वयि ॥

86-paus

तत्+अभङ्गि तत्+अग्राम्यम्+तत्+एकम्+उपपत्तिमत् ।
त्वयि कर्मफलन्यासकृताम्+ऐश्वर्यम्+ईश यत् ॥

87-paus

क्षमस्+काम्+न+आपदम्+हन्तुम्+काम्+दातुम्+सम्पदम्+न वा ।
यस्+असौ स दयितस्+अस्माकम्+देवदेवस्+वृषध्वजः ॥

88-paus

मायामयमलान्धस्य दिव्यस्य ज्ञानचक्षुषः ।
निर्मलीकरणे नाथ त्वद्भक्तिस्+परमाञ्जनम् ॥

89-paus

निर्भयम्+यत्+यत्+आनन्दमयम्+एकम्+यत्+अव्ययम् ।
पदम्+देहि+एहि मे देव तूर्णम्+तत्+किम्+प्रतीक्षसे ॥

90-paus

अहो निसर्गगम्भीरस्+घोरस्+संसारसागरः ।
अहो तत्तरणोपायस्+परस्+कस्+अपि महेश्वरः ॥

91-paus

नमस्+कृतकृतान्तान्त तुभ्यम्+मदनमर्दिने ।
मस्तकन्यस्तगङ्गाय यथायुक्तार्थकारिणे ॥

92-paus

ऐश्वर्यज्ञानवैराग्यधर्मेभ्यस्+अपि+उपरि स्थितिम् ।
नाथ प्रार्थयमानानाम्+त्वत्+ऋते का परा गतिः ॥

93-paus

त्वयि+अनिच्छति कस्+शम्भो शक्तस्+कुब्जयितुम्+तृणम् ।
त्वदिच्छानुगृहीतस्+तु वहेत्+ब्राह्मीम्+धुरम्+न कः ॥

94-paus

हरप्रणतिमाणिक्यमुकुटोत्कटमस्तकाः ।
नमेयुस्+कम्+परम्+कम्+वा नमयेयुस्+न धीधनाः ॥

95-paus

सर्वविभ्रमनिर्मोकनिष्कम्पम्+अमृतह्रदम् ।
भवज्ज्ञानाम्बुधेस्+मध्यम्+अध्यासीय+अपि धूर्जटे ॥

96-paus

चित्रम्+यत्+चित्रदृष्टस्+अपि मनोरथगतस्+अपि वा ।
परमार्थफलम्+नाथ परिपूर्णम्+प्रयच्छसि ॥

97-paus

कस्+गुणैस्+अधिकस्+त्वत्तस्+त्वत्तस्+कस्+निर्गुणस्+अधिकः ।
इति नाथ नुमस्+किम्+त्वाम्+किम्+निन्दामस्+न मन्महे ॥

98-paus

कीर्तने+अपि+अमृतौघस्य यत्प्रसत्तेस्+फलम्+तव ।
तत्+पातुम्+अपि कस्+अन्यस्+अलम्+किम्+उ दातुम्+जगत्पते ॥

मूल पाठ: Stavacintāmaṇi · Edition: Mukunda Rama Shastri: The StavaChintamani of Bhatta Narayana with commentary by Kshemaraja. Srinagar 1918 (Kashmir Series of Texts and Studies X) · Data entry Harunaga Isaacson · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc