भाषा

ENहिગુ
ग्रंथ पाठ

स्तवचिन्तामणि · श्लोक 99-paus-118-paus

99-paus

निःशेषप्रार्थनीयार्थसार्थसिद्धिनिधानतः ।
त्वत्तस्+त्वद्भक्तिम्+एव+आप्तुम्+प्रार्थये नाथ सर्वथा ॥

100-paus

नमस्+त्रैलोक्यनाथाय तुभ्यम्+भव भवज्जुषाम् ।
त्रिलोकीनाथतादाननिर्विनायकशक्तये ॥

101-paus

निःशेषक्लेशहानस्य हेतुस्+कस्+इति संशये ।
स्वामिन्+सस्+असि+इति निश्चित्य कस्+त्वाम्+न शरणम्+गतः ॥

102-paus

भुक्त्वा भोगान्+भवभ्रान्तिम्+हित्वा लप्स्ये परम्+पदम् ।
इति+आशंसा+इह शोभेत शम्भौ भक्तिमतस्+परम् ॥

103-paus

नाथ स्वप्ने+अपि यत्+कुर्याम्+ब्रूयाम्+वा साधु+असाधु वा ।
त्वदधीनत्वदर्पेण सर्वत्र+अत्र+अस्मि निर्वृतः ॥

104-paus

ज्योतिषाम्+अपि यत्+ज्योतिस्+तत्र त्वद्धाम्नि धावतः ।
चित्तस्य+ईश तमःस्पर्शस्+मन्ये वन्ध्यात्मजानुजः ॥

105-paus

मन्ये न्यस्तपदस्+सस्+अपि क्षेम्ये मोक्षस्य वर्त्मनि ।
मनोरथस्+स्थितस्+यस्य सेविष्ये शिवम्+इति+अयम् ॥

106-paus

स्थित्युत्पत्तिलयैस्+लोकत्रयस्य+उपक्रियासु+इह ।
एका+एव+ईश भवच्छक्तिस्+स्वतन्त्रम्+तन्त्रम्+ईक्षसे ॥

107-paus

त्रिलोक्याम्+इह कस्+त्रातस्+त्रिताप्या न+उपतापितः ।
तस्मै नमस्+अस्तु ते यस्+त्वम्+तन्निर्वाणामृतह्रदः ॥

108-paus

कृत्रिमा+अपि भवद्भक्तिस्+अकृत्रिमफलोदया ।
निश्छद्मा चेत्+भवेत्+एषा किंफला+इति त्वया+उच्यताम् ॥

109-paus

तत्+चक्षुस्+ईक्ष्यसे येन सा गतिस्+गम्यसे यया ।
फलम्+तत्+अज जातम्+यत्+त्वत्कथाकल्पपादपात् ॥

110-paus

श्रेयसा श्रेयस्+एव+एतत्+उपरि त्वयि या स्थितिः ।
तदन्तरायहृतये त्वम्+ईश शरणम्+मम ॥

111-paus

अहो स्वादुतमस्+शर्वसेवाशंसासुधारसः ।
कुत्र कालकलामात्रे न यस्+नवनवायते ॥

112-paus

मुहुस्+मुहुस्+अविश्रान्तस्+त्रैलोक्यम्+कल्पनाशतैः ।
कल्पयन्+अपि कस्+अपि+एकस्+निर्विकल्पस्+जयति+अजः ॥

113-paus

मलतैलाक्तसंसारवासनावर्तिदाहिना ।
ज्ञानदीपेन देव त्वाम्+कदा नु स्याम्+उपस्थितः ॥

114-paus

निमेषम्+अपि यदि+एकम्+क्षीणदोषे करिष्यसि ।
पदम्+चित्ते तदा शम्भो किम्+न सम्पादयिष्यसि ॥

115-paus

धन्यस्+अस्मि कृतकृत्यस्+अस्मि महान्+अस्मि+इति भावना ।
भवेत्+सालम्बना तस्य यस्+त्वदालम्बनस्+प्रभो ॥

116-paus

शुभाशुभस्य सर्वस्य स्वयम्+कर्ता भवान्+अपि ।
भवद्भक्तिस्+तु जननी शुभस्य+एव+ईश केवलम् ॥

117-paus

प्रसन्ने मनसि स्वामिन्+किम्+त्वम्+निविशसे किम्+उ ।
त्वत्प्रवेशात्+प्रसीदेत्+तत्+इति दोलायते जनः ॥

118-paus

निश्चयस्+पुनर्+एषस्+अत्र त्वदधिष्ठानम्+एव हि ।
प्रसादस्+मनसस्+स्वामिन्+सा सिद्धिस्+तत्+परम्+पदम् ॥

मूल पाठ: Stavacintāmaṇi · Edition: Mukunda Rama Shastri: The StavaChintamani of Bhatta Narayana with commentary by Kshemaraja. Srinagar 1918 (Kashmir Series of Texts and Studies X) · Data entry Harunaga Isaacson · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc