स्तवचिन्तामणि · श्लोक 59-paus-78-paus
विसृष्टानेकसद्बीजगर्भम्+त्रैलोक्यनाटकम् ।
प्रस्ताव्य हर संहर्तुम्+त्वत्तस्+कस्+अन्यस्+कविस्+क्षमः ॥
नमस्+सदसताम्+कर्तुम्+असत्त्वम्+सत्त्वम्+एव वा ।
स्वतन्त्राय+अस्वतन्त्राय व्ययैश्वर्यैकशालिने ॥
त्रैलोक्ये+अपि+अत्र यस्+यावान्+आनन्दस्+कश्चित्+ईक्ष्यते ।
स बिन्दुस्+यस्य तम्+वन्दे देवम्+आनन्दसागरम् ॥
अहो ब्रह्मादयस्+धन्यास्+ये विमुक्तान्यसंकथम् ।
नमस्+नमस्+शिवाय+इति जपन्ति+आह्लादविह्वलाः ॥
निष्कामाय+अपि कामानाम्+अनन्तानाम्+विधायिने ।
अनादित्वे+अपि विश्वस्य भोक्त्रे भव नमस्+अस्तु ते ॥
स्तुमस्+त्रिभुवनारम्भमूलप्रकृतिम्+ईश्वरम् ।
लिप्सेरन्+न+उपकारम्+के यतस्+सम्पूर्णधर्मणः ॥
महत्सु+अपि+अर्थकृच्छ्रेषु मोहौघमलिनीकृताः ।
स्मृते यस्मिन्+प्रसीदन्ति मतयस्+तम्+शिवम्+स्तुमः ॥
प्रभो भवतस्+एव+इह प्रभुशक्तिस्+अभङ्गुरा ।
यदिच्छया प्रतायेते त्रैलोक्यस्य लयोदयौ ॥
कुकर्मा+अपि यम्+उद्दिश्य देवम्+स्यात्+सुकृतम्+परम् ।
सुकृतस्य+अपि सौकृत्यम्+यतस्+अन्यत्र न सस्+असि भोः ॥
एष मुष्ट्या गृहीतस्+असि दृष्टस्+एष क्व यासि नः ।
इति भक्तिरसाध्मातास्+धन्यास्+धावन्ति धूर्जटिम् ॥
स्तुमस्+त्वाम्+ऋग्यजुःसाम्नाम्+शुक्रतस्+परतस्+परम् ।
यस्य वेदात्मिकाज्ञेयम्+अहो गम्भीरसुन्दरी ॥
विधिस्+आदिस्+तथा+अन्तस्+असि विश्वस्य परमेश्वर ।
धर्मग्रामस्+प्रवृत्तस्+यस्+त्वत्तस्+न स कुतस्+भवेत् ॥
नमस्+ते भवसम्भ्रान्तभ्रान्तिम्+उद्भाव्य भिन्दते ।
ज्ञानानन्दम्+च निर्द्वन्द्वम्+देव वृत्वा विवृण्वते ॥
यस्यास्+प्राप्येत पर्यन्तविशेषस्+कैस्+मनोरथैः ।
मायाम्+एकनिमेषेण मुष्णन्+ताम्+पातु नस्+शिवः ॥
वैराग्यस्य गतिम्+गुर्वीम्+ज्ञानस्य परमाम्+श्रियम् ।
नैःस्पृह्यस्य पराम्+कोटिम्+बिभ्रताम्+त्वम्+प्रभो प्रभुः ॥
ब्रह्मणस्+अपि भवान्+ब्रह्म कस्य न+ईशस्+त्वम्+ईशितुः ।
जगत्कल्याणकल्याणम्+कियत्+त्वम्+इति वेत्ति कः ॥
किम्+अन्यैस्+बन्धुभिस्+किम्+च सुहृद्भिस्+स्वामिभिस्+तथा ।
सर्वस्थाने मम+ईश त्वम्+यस्+उद्धर्ता भवार्णवात् ॥
जयन्ति मोहमायादिमलसंक्षालनक्षमाः ।
शैवयोगबलाकृष्टास्+दिव्यपीयूषविप्रुषः ॥
गायत्र्या गीयते यस्य धियाम्+तेजस्+प्रचोदकम् ।
चोदयेत्+अपि कच्चित्+नस्+स धियस्+सत्पथे प्रभुः ॥
अष्टमूर्ते किम्+एकस्याम्+अपि मूर्तौ न नस्+स्थितिम् ।
शाश्वतीम्+कुरुषे यत्+वा तुष्टस्+सर्वम्+करिष्यसि ॥
मूल पाठ: Stavacintāmaṇi · Edition: Mukunda Rama Shastri: The StavaChintamani of Bhatta Narayana with commentary by Kshemaraja. Srinagar 1918 (Kashmir Series of Texts and Studies X) · Data entry Harunaga Isaacson · GRETIL (Göttingen) · CC BY-NC-SA 4.0