भाषा

ENहिગુ
ग्रंथ पाठ

स्तवचिन्तामणि · श्लोक 40-paus-58-paus

40-paus

वाच्यस्+एषाम्+त्वम्+एव+इति न+अभविष्यत्+इदम्+यदि ।
कस्+क्लेशम्+देव वाग्जालेषु+अकरिष्यत्+सुधीस्+तदा ॥

41-paus

क्रमेण कर्मणा केन कया वा प्रज्ञया प्रभो ।
दृश्यस्+असि+इति+उपदेशेन प्रसादस्+क्रियताम्+मम ॥

42-paus

नमस्+निरुपकार्याय त्रैलोक्यैकोपकारिणे ।
सर्वस्य स्पृहणीयाय निःस्पृहाय कपर्दिने ॥

43-paus

अहो क्षेत्रज्ञता सा+इयम्+कार्याय महते सताम् ।
यया+अनन्तफलाम्+भक्तिम्+वपन्ति त्वयि+अमी प्रभो ॥

44-paus

महती+इयम्+अहो माया तव मायिन्+यया+आवृतः ।
त्वद्ध्याननिधिलाभे+अपि मुग्धस्+लोकस्+श्लथायते ॥

45-paus

आरम्भे भव सर्वत्र कर्म वा करणादि वा ।
विश्वम्+अस्तु स्वतन्त्रस्+तु कर्ता तत्र+एककस्+भवान् ॥

46-paus

त्रिगुणत्रिपरिस्पन्दद्वन्द्वग्रस्तम्+जगत्त्रयम् ।
उद्धर्तुम्+भवतस्+अन्यस्य कस्य शक्तिस्+कृपा+अथवा ॥

47-paus

दोषस्+अपिदेव कस्+दोषस्+त्वाम्+आप्तुम्+यस्+समास्थितः ।
गुणस्+अपि च गुणस्+कस्+नु त्वाम्+न+आप्तुम्+यस्+समास्थितः ॥

47-paus

रागस्+अपि+अस्तु जगन्नाथ मम त्वयि+एव यस्+स्थितः ।
लोभाय+अपि नमस्+तस्मै त्वल्लाभालम्बनाय मे ॥

48-paus

अहो महत्+इदम्+कर्म देव त्वद्भावनात्मकम् ।
आब्रह्मक्रिमि यस्मिन्+नो मुक्तये+अधिक्रियेत कः ॥

49-paus

आरम्भस्+सर्वकार्याणाम्+पर्यन्तस्+सर्वकर्मणाम् ।
तदन्तर्वृत्तयस्+चित्रास्+तव+एव+ईशस्+धियस्+पथि ॥

50-paus

यावत्+उत्तरम्+आस्वादसहस्रगुणविस्तरः ।
त्वद्भक्तिरसपीयूषात्+नाथ न+अन्यत्र दृश्यते ॥

51-paus

उपसंहृतकामाय कामायतिम्+अतन्वते ।
अवतंसितसोमाय सोमाय स्वामिने नमः ॥

52-paus

किम्+अशक्तस्+करोमि+इति सर्वत्र+अनध्यवस्यतः ।
सर्वानुग्राहिका शक्तिस्+शांकरी शरणम्+मम ॥

53-paus

गुणातीतस्य निर्दिष्टनिःशेषातिशयात्मनः ।
लभ्यते भव कुत्र+अंशे परस्+प्रतिनिधिस्+तव ॥

54-paus

निर्द्वन्द्वे निरुपाधौ च त्वयि+आत्मनि सति प्रभो ।
वयम्+वञ्च्यामहे+अद्य+अपि मायया+अमेयया तव ॥

55-paus

अणिमादिगुणावाप्तिस्+सदा+ऐश्वर्यम्+भवक्षयः ।
अमी भव भवद्भक्तिकल्पपादपपल्लवाः ॥

56-paus

या या दिक्+तत्र न क्व+असि सर्वस्+कालस्+भवन्मयः ।
इति लब्धस्+अपि कर्हि त्वम्+लप्स्यसे नाथ कथ्यताम् ॥

57-paus

नमस्+प्रसन्नसद्वृत्तमानसैकनिवासिने ।
भूरिभूतिसिताङ्गाय महाहंसाय शम्भवे ॥

58-paus

हृतोद्धततमस्तान्तिस्+प्लुष्टाशेषभवेन्धना ।
त्वद्बोधदीपिका मे+अस्तु नाथ त्वद्भक्तिदीपिका ॥

मूल पाठ: Stavacintāmaṇi · Edition: Mukunda Rama Shastri: The StavaChintamani of Bhatta Narayana with commentary by Kshemaraja. Srinagar 1918 (Kashmir Series of Texts and Studies X) · Data entry Harunaga Isaacson · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc