भाषा

ENहिગુ
ग्रंथ पाठ

श्रीराधाकृष्णसहस्रनामस्तोत्रम् · अध्याय 1

1

सनत्कुमार उवाच -
किं त्वं नारद जानासि पूर्वजन्मनि यत्त्वया । प्राप्तं भगवतः साक्षाच्छूलिनो युगलात्मकम्

2

कृष्णमन्त्ररहस्यं च स्मर विस्मृतिमागतम् । सूत उवाच - इत्युक्तो नारदो विप्राः कुमारेण तु धीमता

3

ध्याने विवेदाशु चिरं चरितं पूर्वजन्मनः । ततश्चिरं ध्यानपरो नारदो भगवत्प्रियः

4

ज्ञात्वा सर्वं सुवृत्तान्तं सुप्रसन्नाननोऽब्रवीत् । भगवन्सर्ववृत्तान्तः पूर्वकल्पसमुद्भवः

5

मम स्मृतिमनुप्राप्तो विना युगललम्भनम् ॥ तच्छ्रुत्वा वचनं तस्य नारदस्य महात्मनः

6

सनत्कुमारो भगवान् व्याजहार यथातथम् । सनत्कुमार उवाच - शृणु विप्र प्रवक्ष्यामि यस्मिञ्जन्मनि शूलिनः

7

प्राप्तं कृष्णरहस्यं वै सावधानो भवाधुना । अस्मात्सारस्वतात्कल्पात्पूर्वस्मिन्पञ्चविंशके

8

कल्पे त्वं काश्यपो जातो नारदो नाम नामतः । तत्रैकदा त्वं कैलासं प्राप्तः कृष्णस्य योगिनः

9

सम्प्रष्टुं परमं तत्त्वं शिवं कैलासवासिनम् । त्वया पृष्टो महादेवो रहस्यं स्वप्रकाशितम्

10

कथया मास तत्त्वेन नित्यलीलानुगं हरेः । ततस्तदन्ते तु पुनस्त्वया विज्ञापितो हरः

11

नित्यां लीलां हरेर्द्रष्टुं ततः प्राह सदाशिवः । गोपीजनपदस्यान्ते वल्लभेति पदं ततः

12

चरणाच्छरणं पश्चात्प्रपद्ये इति वै मनुः । मन्त्रस्यास्य ऋषिः प्रोक्तो सुरभिश्छन्द एव च

13

गायत्री देवता चास्य बल्लवीवल्लभो विभुः । प्रपन्नोऽस्मीति तद्भक्तौ विनियोग उदाहृतः

14

नास्य सिद्धादिकं विप्र शोधनं न्यासकल्पनम् । केवलं चिन्तनं सद्यो नित्यलीलाप्रकाशकम्

15

आभ्यन्तरस्य धर्मस्य साधनं वच्मि साम्प्रतम्

16

सङ्गृह्य मन्त्रं गुरुभक्तियुक्तो विचिन्त्य सर्वं मनसा तदीहितम् ।
कृपां तदीयां निजधर्मसंस्थो विभावयन्नात्मनि तोषयेद्गुरुम्

17

सतां शिक्षेत वै धर्मान्प्रपन्नानां भयापहान् । ऐहिकामुष्मिकीचिन्ताविधुरान् सिद्धिदायकान्

18

स्वेष्टदेवधिया नित्यं तोषयेद्वैष्णवांस्तथा । भर्त्सनादिकमेतेषां न कदाचिद्विचिन्तयेत्

19

पूर्वकर्मवशाद्भव्यमैहिकं भोग्यमेव च । आयुष्यकं तथा कृष्णः स्वयमेव करिष्यति

20

श्रीकृष्णं नित्यलीलास्थं चिन्तयेत्स्वधियानिशम् । श्रीमदर्चावतारेण कृष्णं परिचरेत्सदा

21

अनन्यचिन्तनीयोऽसौ प्रपन्नैः शरणार्थिभिः । स्थेयं च देहगेहादावुदासीनतया बुधैः

22

गुरोरवज्ञां साधूनां निन्दां भेदं हरे हरौ । वेदनिन्दां हरेर्नामबलात्पापसमीहनम्

23

अर्थवादं हरेर्नाम्नि पाषण्डं नामसङ्ग्रहे । अलसे नास्तिके चैव हरिनामोपदेशनम्

24

नामविस्मरणं चापि नाम्न्यनादरमेव च । सन्त्यजेद् दूरतो वत्स दोषानेतान्सुदारुणान्

25

प्रपन्नोऽस्मीति सततं चिन्तयेद्धृद्गतं हरिम् । स एव पालनं नित्यं करिष्यति ममेति च

26

तवास्मि राधिकानाथ कर्मणा मनसा गिरा । कृष्णकान्तेति चैवास्मि युवामेव गतिर्मम

27

दासाः सखायः पितरः प्रेयस्यश्च हरेरिह । सर्वे नित्या मुनिश्रेष्ठ चिन्तनीया महात्मभिः

28

गमनागमने नित्यं करोति वनगोष्ठयोः । गोचारणं वयस्यैश्च विनासुरविघातनम्

29

सखायो द्वादशाख्याता हरेः श्रीदामपूर्वकाः । राधिकायाः सुशीलाद्याः सख्यो द्वात्रिंशदीरिताः

30

आत्मानं चिन्तयेद्वत्स तासां मध्ये मनोरमाम् । रूपयौवनसम्पन्नां किशोरीं च स्वलङ्कृताम्

31

नानाशिल्पकलाभिज्ञां कृष्णभोगानुरूपिणीम् । तत्सेवनसुखाह्लादभावेनातिसुनिर्वृताम्

32

ब्राह्मं मुहूर्तमारभ्य यावदर्धनिशा भवेत् । तावत्परिचरेत्तौ तु यथाकालानुसेवया

33

सहस्रं च तयोर्नाम्नां पठेन्नित्यं समाहितः । एतत्साधनमुद्दिष्टं प्रपन्नानां मुनीश्वर

34

नाख्येयं कस्यचित्तुभ्यं मया तत्त्वं प्रकाशितम् । सनत्कुमार उवाच - ततस्त्वं नारद पुनः पृष्टवान्वै सदाशिवम्

35

नाम्नां सहस्रं तच्चापि प्रोक्तवांस्तच्छृणुष्व मे । ध्यात्वा वृन्दावने रम्ये यमुनातीरसंगतम्

36

कल्पवृक्षं समाश्रित्य तिष्ठन्तं राधिकायुतम् । पठेन्नामसहस्रं तु युगलाख्यं महामुने

37

देवकीनन्दनः शौरिर्वासुदेवो बलानुजः । गदाग्रजः कंसमोहः कंससेवकमोहनः

38

भिन्नार्गलो भिन्नलोहः पितृबाह्याः पितृस्तुतः । मातृस्तुतः शिवध्येयो यमुनाजलभेदनः

39

व्रजवासी व्रजानन्दी नन्दबालो दयानिधिः । लीलाबालः पद्मनेत्रो गोकुलोत्सव ईश्वरः

40

गोपिकानन्दनः कृष्णो गोपानन्दः सतां गतिः । बकप्राणहरो विष्णुर्बकमुक्तिप्रदो हरिः

41

बलदोलाशयशयः श्यामलः सर्वसुन्दरः । पद्मनाभो हृषीकेशः क्रीडामनुजबालकः

42

लीलाविध्वस्तशकटो वेदमन्त्राभिषेचितः । यशोदानन्दनः कान्तो मुनिकोटिनिषेवितः

43

नित्यं मधुवनावासी वैकुण्ठः सम्भवः क्रतुः । रमापतिर्यदुपतिर्मुरारिर्मधुसूदनः

44

माधवो मानहारी च श्रीपतिर्भूधरः प्रभुः । बृहद्वनमहालीलो नन्दसूनुर्महासनः

45

तृणावर्तप्राणहारी यशोदाविस्मयप्रदः । त्रैलोक्यवक्त्रः पद्माक्षः पद्महस्तः प्रियङ्करः

46

ब्रह्मण्यो धर्मगोप्ता च भूपतिः श्रीधरः स्वराट् । अजाध्यक्षः शिवाध्यक्षो धर्माध्यक्षो महेश्वरः

47

वेदान्तवेद्यो ब्रह्मस्थः प्रजापतिरमोघदृक् । गोपीकरावलम्बी च गोपबालकसुप्रियः

48

बालानुयायी बलवान् श्रीदामप्रिय आत्मवान् । गोपीगृहाङ्गणरतिर्भद्रः सुश्लोकमङ्गलः

49

नवनीतहरो बालो नवनीतप्रियाशनः । बालवृन्दी मर्कवृन्दी चकिताक्षः पलायितः

50

यशोदातर्जितः कम्पी मायारुदितशोभनः । दामोदरोऽप्रमेयात्मा दयालुर्भक्तवत्सलः

51

सुबद्धोलूखले नम्रशिरा गोपीकदर्थितः । वृक्षभङ्गी शोकभङ्गी धनदात्मजमोक्षणः

52

देवर्षिवचनश्लाघी भक्तवात्सल्यसागरः । व्रजकोलाहलकरो व्रजानदविवर्द्धनः

53

गोपात्मा प्रेरकः साक्षी वृन्दावननिवासकृत् । वत्सपालो वत्सपतिर्गोपदारकमण्डनः

54

बालक्रीडो बालरतिर्बालकः कनकाङ्गदी । पीताम्बरो हेममाली मणिमुक्ताविभूषणः

55

किङ्किणीकटकी सूत्री नूपुरी मुद्रिकान्वितः । वत्सासुरपतिध्वंसी बकासुरविनाशनः

56

अघासुरविनाशी च विनिद्रीकृतबालकः । आद्य आत्मप्रदः सङ्गी यमुनातीरभोजनः

57

गोपालमण्डलीमध्यः सर्वगोपालभूषणः । कृतहस्ततलग्रासो व्यञ्जनाश्रितशाखिकः

58

कृतबाहुशृङ्गयष्टिर्गुञ्जालङ्कृतकण्ठकः । मयूरपिच्छमुकुटो वनमालाविभूषितः

59

गैरिकाचित्रितवपुर्नवमेघवपुः स्मरः । कोटिकन्दर्पलावण्यो लसन्मकरकुण्डलः

60

आजानुबाहुर्भगवान्निद्रारहितलोचनः । कोटिसागरगाम्भीर्यः कालकालः सदाशिवः

61

विरञ्चिमोहनवपुर्गोपवत्सवपुर्द्धरः । ब्रह्माण्डकोटिजनको ब्रह्ममोहविनाशकः

62

ब्रह्मा ब्रह्मेडितः स्वामी शक्रदर्पादिनाशनः । गिरिपूजोपदेष्टा च धृतगोवर्द्धनाचलः

63

पुरन्दरेडितः पूज्यः कामधेनुप्रपूजितः । सर्वतीर्थाभिषिक्तश्च गोविन्दो गोपरक्षकः

64

कालियार्तिकरः क्रूरो नागपत्नीडितो विराट् । धेनुकारिः प्रलम्बारिर्वृषासुरविमर्दनः

65

मायासुरात्मजध्वंसी केशिकण्ठविदारकः । गोपगोप्ता धेनुगोप्ता दावाग्निपरिशोषकः

66

गोपकन्यावस्त्रहारी गोपकन्यावरप्रदः । यज्ञपत्न्यन्नभोजी च मुनिमानापहारकः

67

जलेशमानमथनो नन्दगोपालजीवनः । गन्धर्वशापमोक्ता च शङ्खचूडशिरो हरः

68

वंशी वटी वेणुवादी गोपीचिन्तापहारकः । सर्वगोप्ता समाह्वानः सर्वगोपीमनोरथः

69

व्यंगधर्मप्रवक्ता च गोपीमण्डलमोहनः । रासक्रीडारसास्वादी रसिको राधिकाधवः

70

किशोरीप्राणनाथश्च वृषभानसुताप्रियः । सर्वगोपीजनानन्दी गोपीजनविमोहनः

71

गोपिकागीतचरितो गोपीनर्तनलालसः । गोपीस्कन्धाश्रितकरो गोपिकाचुम्बनप्रियः

72

गोपिकामार्जितमुखो गोपीव्यजनवीजितः । गोपिकाकेशसंस्कारी गोपिकापुष्पसंस्तरः

73

गोपिकाहृदयालम्बी गोपीवहनतत्परः । गोपिकामदहारी च गोपिकापरमार्जितः

74

गोपिकाकृतसंनीलो गोपिकासंस्मृतप्रियः । गोपिकावन्दितपदो गोपिकावशवर्तनः

75

राधापराजितः श्रीमान्निकुञ्जेसुविहारवान् । कुञ्जप्रियः कुञ्जवासी वृन्दावनविकासनः

76

यमुनाजलसिक्ताङ्गो यमुनासौख्यदायकः । शशिसंस्तम्भनः शूरः कामी कामविजोहनः

77

कामाद्याः कामनाथश्च काममानसभेदनः । कामदः कामरूपश्च कामिनी कामसञ्चयः

78

नित्यक्रीडो महालीलः सर्वः सर्वगतस्तथा । परमात्मा पराधीशः सर्वकारणकारणः

79

गृहीतनारदवचा ह्यक्रूरपरिचिन्तितः । अक्रूरवन्दितपदो गोपिकातोषकारकः

80

अक्रूरवाक्यसङ्ग्राही मथुरावासकारणः (ओर्म्)। अक्रूरतापशमनो रजकायुःप्रणाशनः

81

मथुरानन्ददायी च कंसवस्त्रविलुण्ठनः । कंसवस्त्रपरीधानो गोपवस्त्रप्रदायकः

82

सुदामगृहगामी च सुदामपरिपूजितः । तन्तुवायकसंप्रीतः कुब्जाचन्दनलेपनः

83

कुब्जारूपप्रदो विज्ञो मुकुन्दो विष्टरश्रवाः । सर्वज्ञो मथुरालोकी सर्वलोकाभिनन्दनः

84

कृपाकटाक्षदर्शी च दैत्यारिर्देवपालकः । सर्वदुःखप्रशमनो धनुर्भङ्गी महोत्सवः

85

कुवलयापीडहन्ता दन्तस्कन्धबलाग्रणीः । कल्परूपधरो धीरो दिव्यवस्त्रानुलेपनः

86

मल्लरूपो महाकालः कामरूपी बलान्वितः । कंसत्रासकरो भीमो मुष्टिकान्तश्च कंसहा

87

चाणूरघ्नो भयहरः शलारिस्तोशलान्तकः । वैकुण्ठवासी कंसारिः सर्वदुष्टनिषूदनः

88

देवदुन्दुभिनिर्घोषी पितृशोकनिवारणः । यादवेन्द्रः सतांनाथो यादवारिप्रमर्द्दनः

89

शौरिशोकविनाशी च देवकीतापनाशनः । उग्रसेनपरित्राता उग्रसेनाभिपूजितः

90

उग्रसेनाभिषेकी च उग्रसेनदयापरः । सर्वसात्वतसाक्षी च यदूनामभिनन्दनः

91

सर्वमाथुरसंसेव्यः करुणो भक्तबान्धवः । सर्वगोपालधनदो गोपीगोपाललालसः

92

शौरिदत्तोपवीती च उग्रसेनदयाकरः । गुरुभक्तो ब्रह्मचारी निगमाध्ययने रतः

93

संकर्षणसहाध्यायी सुदामसुहृदेव च । विद्यानिधिः कलाकोशो मृतपुत्रप्रदस्तथा

94

चक्री पाञ्चजनी चैव सर्वनारकिमोचनः । यमार्चितः परो देवो नामोच्चारवशोऽच्युतः

95

कुब्जाविलासी सुभगो दीनबन्धुरनूपमः । अक्रूरगृहगोप्ता च प्रतिज्ञापालकः शुभः

96

जरासन्धजयी विद्वान् यवनान्तो द्विजाश्रयः । मुचुकुन्दप्रियकरो जरासन्धपलायितः

97

द्वारकाजनको गूढो ब्रह्मण्यः सत्यसङ्गरः । लीलाधरः प्रियकरो विश्वकर्मा यशःप्रदः

98

रुक्मिणीप्रियसन्देशो रुक्मशोकविवर्द्धनः । चैद्यशोकालयः श्रेष्ठो दुष्टराजन्यनाशनः

99

रुक्मिवैरूप्यकरणो रुक्मिणीवचने रतः । बलभद्रवचोग्राही मुक्तरुक्मी जनार्दनः

100

रुक्मिणीप्राणनाथश्च सत्यभामापतिः स्वयम् । भक्तपक्षी भक्तिवश्यो ह्यक्रूरमणिदायकः

101

शतधन्वाप्राणहारी ऋक्षराजसुताप्रियः । सत्राजित्तनयाकान्तो मित्रविन्दापहारकः

102

सत्यापतिर्लक्ष्मणाजित्पूज्यो भद्राप्रियङ्करः । नरकासुरघाती च लीलाकन्याहरो जयी

103

मुरारिर्मदनेशोऽपि धरित्रीदुःखनाशनः । वैनतेयी स्वर्गगामी अदित्य कुण्डलप्रदः

104

इन्द्रार्चितो रमाकान्तो वज्रिभार्याप्रपूजितः । पारिजातापहारी च शक्रमानापहारकः

105

प्रद्युम्नजनकः साम्बतातो बहुसुतो विधुः । गर्गाचार्यः सत्यगतिर्धर्माधारो धराधरः

106

द्वारकामण्डनः श्लोक्यः सुश्लोको निगमालयः । पौण्ड्रकप्राणहारी च काशीराजशिरोहरः

107

अवैष्णवविप्रदाही सुदक्षिणभयावहः । जरासन्धविदारी च धर्मनन्दनयज्ञकृत्

108

शिशुपालशिरश्छेदी दन्तवक्त्रविनाशनः । विदूरथान्तकः श्रीशः श्रीदो द्विविदनाशनः

109

रुक्मिणीमानहारी च रुक्मिणीमानवर्द्धनः । देवर्षिशापहर्ता च द्रौपदीवाक्यपालकः

110

दुर्वासोभयहारी च पाञ्चालीस्मरणागतः । पार्थदूतः पार्थमन्त्री पार्थदुःखौघनाशनः

111

पार्थमानापहारी च पार्थजीवनदायकः । पाञ्चालीवस्त्रदाता च विश्वपालकपालकः

112

श्वेताश्वसारथिः सत्यः सत्यसाध्यो भयापहः । सत्यसन्धः सत्यरतिः सत्यप्रिय उदारधीः

113

महासेनजयी चैव शिवसैन्यविनाशनः । बाणासुरभुजच्छेत्ता बाणबाहुवरप्रदः

114

तार्क्ष्यमानापहारी च तार्क्ष्यतेजोविवर्द्धनः । रामस्वरूपधारी च सत्यभामामुदावहः

115

रत्नाकरजलक्रीडो व्रजलीलाप्रदर्शकः । स्वप्रतिज्ञापरिध्वंसी भीष्माज्ञापरिपालकः

116

वीरायुधहरः कालः कालिकेशो महाबलः । वर्वरीषशिरोहारी वर्वरीषशिरःप्रदः

117

धर्मपुत्रजयी शूरदुर्योधनमदान्तकः । गोपिकाप्रीतिनिर्बन्धनित्यक्रीडो व्रजेश्वरः

118

राधाकुण्डरतिर्धन्यः सदान्दोलसमाश्रितः । सदामधुवनानन्दी सदावृन्दावनप्रियः

119

अशोकवनसन्नद्धः सदातिलकसङ्गतः । सदागोवर्द्धनरतिः सदा गोकुलवल्लभः

120

भाण्डीरवटसंवासी नित्यं वंशीवटस्थितः । नन्दग्रामकृतावासो वृषभानुग्रहप्रियः

121

गृहीतकामिनीरूपो नित्यं रासविलासकृत् । वल्लवीजनसङ्गोप्ता वल्लवीजनवल्लभः

122

देवशर्मकृपाकर्ता कल्पपादपसंस्थितः । शिलानुगन्धनिलयः पादचारी घनच्छविः

123

अतसीकुसुमप्रख्यः सदा लक्ष्मीकृपाकरः । त्रिपुरारिप्रियकरो ह्युग्रधन्वापराजितः

124

षड्धुरध्वंसकर्ता च निकुम्भप्राणहारकः । वज्रनाभपुरध्वंसी पौण्ड्रकप्राणहारकः

125

बहुलाश्वप्रीतिकर्ता द्विजवर्यप्रियङ्करः । शिवसङ्कटहारी च वृकासुरविनाशनः

126

भृगुसत्कारकारी च शिवसात्त्विकताप्रदः । गोकर्णपूजकः साम्बकुष्ठविध्वंसकारणः

127

वेदस्तुतो वेदवेत्ता यदुवंशविवर्द्धनः । यदुवंशविनाशी च उद्धवोद्धारकारकः

128

राधा च राधिका चैव आनन्दा वृषभानुजा । वृन्दावनेश्वरी पुण्या कृष्णमानसहारिणी

129

प्रगल्भा चतुरा कामा कामिनी हरिमोहिनी । ललिता मधुरा माध्वी किशोरी कनकप्रभा

130

जितचन्द्रा जितमृगा जितसिंहा जितद्विपा । जितरम्भा जितपिका गोविन्दहृदयोद्भवा

131

जितबिम्बा जितशुका जितपद्मा कुमारिका । श्रीकृष्णाकर्षणा देवी नित्यं युग्मस्वरूपिणी

132

नित्यं विहारिणी कान्ता रसिका कृष्णवल्लभा । आमोदिनी मोदवती नन्दनन्दनभूषिता

133

दिव्याम्बरा दिव्यहारा मुक्तामणिविभूषिता । कुञ्जप्रिया कुञ्जवासा कुञ्जनायकनायिका

134

चारुरूपा चारुवक्त्रा चारुहेमाङ्गदा शुभा । श्रीकृष्णवेणुसङ्गीता मुरलीहारिणी शिवा

135

भद्रा भगवती शान्ता कुमुदा सुन्दरी प्रिया । कृष्णक्रीडा कृष्णरतिः श्रीकृष्णसहचारिणी

136

वंशीवटप्रियस्थाना युग्मायुग्मस्वरूपिणी । भाण्डीरवासिनी शुभ्रा गोपीनाथप्रिया सखी

137

श्रुतिनिःश्वसिता दिव्या गोविन्दरसदायिनी । श्रीकृष्णप्रार्थनीशाना महानन्दप्रदायिनी

138

वैकुण्ठजनसंसेव्या कोटिलक्ष्मीसुखावहा । कोटिकन्दर्पलावण्या रतिकोटिरतिप्रदा

139

भक्तिग्राह्या भक्तिरूपा लावण्यसरसी उमा । ब्रह्मरुद्रादिसंराध्या नित्यं कौतूहलान्विता

140

नित्यलीला नित्यकामा नित्यशृङ्गारभूषिता । नित्यवृन्दावनरसा नन्दनन्दनसंयुता

141

गोपिकामण्डलीयुक्ता नित्यं गोपालसङ्गता । गोरसक्षेपणी शूरा सानन्दानन्ददायिनी

142

महालीला प्रकृष्टा च नागरी नगचारिणी । नित्यमाघूर्णिता पूर्णा कस्तूरीतिलकान्विता

143

पद्मा श्यामा मृगाक्षी च सिद्धिरूपा रसावहा । कोटिचन्द्रानना गौरी कोटिकोकिलसुस्वरा

144

शीलसौन्दर्यनिलया नन्दनन्दनलालिता । अशोकवनसंवासा भाण्डीरवनसङ्गता

145

कल्पद्रुमतलाविष्टा कृष्णा विश्वा हरिप्रिया । अजागम्या भवागम्या गोवर्द्धनकृतालया

146

यमुनातीरनिलया शश्वद्गोविन्दजल्पिनी । शश्वन्मानवती स्निग्धा श्रीकृष्णपरिवन्दिता

147

कृष्णस्तुता कृष्णवृता श्रीकृष्णहृदयालया । देवद्रुमफला सेव्या वृन्दावनरसालया

148

कोटितीर्थमयी सत्या कोटितीर्थफलप्रदा । कोटियोगसुदुष्प्राप्या कोटियज्ञदुराश्रया

149

मनसा शशिलेखा च श्रीकोटिसुभगाऽनघा । कोटिमुक्तसुखा सौम्या लक्ष्मीकोटिविलासिनी

150

तिलोत्तमा त्रिकालस्था त्रिकालज्ञाप्यधीश्वरी । त्रिवेदज्ञा त्रिलोकज्ञा तुरीयान्तनिवासिनी

151

दुर्गाराध्या रमाराध्या विश्वाराध्या चिदात्मिका । देवाराध्या पराराध्या ब्रह्माराध्या परात्मिका

152

शिवाराध्या प्रेमसाध्या भक्ताराध्या रसात्मिका । कृष्णप्राणार्पिणी भामा शुद्धप्रेमविलासिनी

153

कृष्णाराध्या भक्तिसाध्या भक्तवृन्दनिषेविता । विश्वाधारा कृपाधारा जीवधारातिनायिका

154

शुद्धप्रेममयी लज्जा नित्यसिद्धा शिरोमणिः । दिव्यरूपा दिव्यभोगा दिव्यवेषा मुदान्विता

155

दिव्याङ्गनावृन्दसारा नित्यनूतनयौवना । परब्रह्मावृता ध्येया महारूपा महोज्ज्वला

156

कोटिसूर्यप्रभा कोटिचन्द्रबिम्बाधिकच्छविः । कोमलामृतवागाद्या वेदाद्या वेददुर्लभा

157

कृष्णासक्ता कृष्णभक्ता चन्द्रावलिनिषेविता । कलाषोडशसम्पूर्णा कृष्णदेहार्द्धधारिणी

158

कृष्णबुद्धिः कृष्णसारा कृष्णरूपविहारिणी । कृष्णकान्ता कृष्णधना कृष्णमोहनकारिणी

159

कृष्णदृष्टिः कृष्णगोत्री कृष्णदेवी कुलोद्वहा । सर्वभूतस्थितावात्मा सर्वलोकनमस्कृता

160

कृष्णदात्री प्रेमधात्री स्वर्णगात्री मनोरमा । नगधात्री यशोदात्री महादेवी शुभङ्करी

161

श्रीशेषदेवजननी अवतारगणप्रसूः । उत्पलाङ्कारविन्दाङ्का प्रसादाङ्का द्वितीयका

162

रथाङ्का कुञ्जराङ्का च कुण्डलाङ्कपदस्थिता । छत्राङ्का विद्युदङ्का च पुष्पमालाङ्कितापि च

163

दण्डाङ्का मुकुटाङ्का च पूर्णचन्द्रा शुकाङ्किता । कृष्णान्नाहारपाका च वृन्दाकुञ्जविहारिणी

164

कृष्णप्रबोधनकरी कृष्णशेषान्नभोजिनी । पद्मकेसरमध्यस्था सङ्गीतागमवेदिनी

165

कोटिकल्पान्तभ्रूभङ्गा अप्राप्तप्रलयाच्युता । सर्वसत्त्वनिधिः पद्मशङ्खादिनिधिसेविता

166

अणिमादिगुणैश्वर्या देववृन्दविमोहिनी । सर्वानन्दप्रदा सर्वा सुवर्णलतिकाकृतिः

167

कृष्णाभिसारसङ्केता मालिनी नृत्यपण्डिता । गोपीसिन्धुसकाशाह्वा गोपमण्डपशोभिनी

168

श्रीकृष्णप्रीतिदा भीता प्रत्यङ्गपुलकाञ्चिता । श्रीकृष्णालिङ्गनरता गोविन्दविरहाक्षमा

169

अनन्तगुणसम्पन्ना कृष्णकीर्तनलालसा । बीजत्रयमयी मूर्तिः कृष्णानुग्रहवाञ्छिता

170

विमलादिनिषेव्या च ललिताद्यर्चिता सती । पद्मवृन्दस्थिता हृष्टा त्रिपुरापरिसेविता

171

वृन्तावत्यर्चिता श्रद्धा दुर्ज्ञेया भक्तवल्लभा । दुर्लभा सान्द्रसौख्यात्मा श्रेयोहेतुः सुभोगदा

172

सारङ्गा शारदा बोधा सद्वृन्दावनचारिणी । ब्रह्मानन्दा चिदानन्दा ध्यानानन्दार्द्धमात्रिका

173

गन्धर्वा सुरतज्ञा च गोविन्दप्राणसङ्गमा । कृष्णाङ्गभूषणा रत्नभूषणा स्वर्णभूषिता

174

श्रीकृष्णहृदयावासमुक्ताकनकनालि(ओर्सि)का । सद्रत्नकङ्कणयुता श्रीमन्नीलगिरिस्थिता

175

स्वर्णनूपुरसम्पन्ना स्वर्णकिङ्किणिमण्डिता । अशोषरासकुतुका रम्भोरूस्तनुमध्यमा

176

पराकृतिः परानन्दा परस्वर्गविहारिणी । प्रसूनकबरी चित्रा महासिन्दूरसुन्दरी

177

कैशोरवयसा बाला प्रमदाकुलशेखरा । कृष्णाधरसुधास्वादा श्यामप्रेमविनोदिनी

178

शिखिपिच्छलसच्चूडा स्वर्णचम्पकभूषिता । कुङ्कुमालक्तकस्तूरीमण्डिता चापराजिता

179

हेमहारान्विता पुष्पाहाराढ्या रसवत्यपि । माधुर्य्यमधुरा पद्मा पद्महस्ता सुविश्रुता

180

भ्रूभङ्गाभङ्गकोदण्डकटाक्षशरसन्धिनी । शेषदेवा शिरस्था च नित्यस्थलविहारिणी

181

कारुण्यजलमध्यस्था नित्यमत्ताधिरोहिणी । अष्टभाषवती चाष्टनायिका लक्षणान्विता

182

सुनीतिज्ञा श्रुतिज्ञा च सर्वज्ञा दुःखहारिणी । रजोगुणेश्वरी चैव शरच्चन्द्रनिभानना

183

केतकीकुसुमाभासा सदा सिन्धुवनस्थिता । हेमपुष्पाधिककरा पञ्चशक्तिमयी हिता

184

स्तनकुम्भी नराढ्या च क्षीणापुण्या यशस्विनी । वैराजसूयजननी श्रीशा भुवनमोहिनी

185

महाशोभा महामाया महाकान्तिर्महास्मृतिः । महामोहा महाविद्या महाकीर्तिर्महारतिः

186

महाधैर्या महावीर्या महाशक्तिर्महाद्युतिः । महागौरी महासम्पन्महाभोगविलासिनी

187

समया भक्तिदाशोका वात्सल्यरसदायिनी । सुहृद्भक्तिप्रदा स्वच्छा माधुर्यरसवर्षिणी

188

भावभक्तिप्रदा शुद्धप्रेमभक्तिविधायिनी । गोपरामाभिरामा च क्रीडारामा परेश्वरी

189

नित्यरामा चात्मरामा कृष्णरामा रमेश्वरी । एकानेकजगद्व्याप्ता विश्वलीलाप्रकाशिनी

190

सरस्वतीशा दुर्गेशा जगदीशा जगद्विधिः । विष्णुवंशनिवासा च विष्णुवंशसमुद्भवा

191

विष्णुवंशस्तुता कर्त्री विष्णुवंशावनी सदा । आरामस्था वनस्था च सूर्य्यपुत्र्यवगाहिनी

192

प्रीतिस्था नित्ययन्त्रस्था गोलोकस्था विभूतिदा । स्वानुभूतिस्थिता व्यक्ता सर्वलोकनिवासिनी

193

अमृता ह्यद्भुता श्रीमन्नारायणसमीडिता । अक्षरापि च कूटस्था महापुरुषसम्भवा

194

औदार्यभावसाध्या च स्थूलसूक्ष्मातिरूपिणी । शिरीषपुष्पमृदुला गाङ्गेयमुकुरप्रभा

195

नीलोत्पलजिताक्षी च सद्रत्नकवरान्विता । प्रेमपर्यङ्कनिलया तेजोमण्डलमध्यगा

196

कृष्णाङ्गगोपनाऽभेदा लीलावरणनायिका । सुधासिन्धुसमुल्लासामृतास्यन्दविधायिनी

197

कृष्णचित्ता रासचित्ता प्रेमचित्ता हरिप्रिया । अचिन्तनगुणग्रामा कृष्णलीला मलापहा

198

राससिन्धुशशाङ्का च रासमण्डलमण्डिनी । नतव्रता सिंहरीच्छा सुमूर्तिः सुरवन्दिता

199

गोपीचूडामणिर्गोपी गणेड्या विरजाधिका । गोपप्रेष्ठा गोपकन्या गोपनारी सुगोपिका

200

गोपधामा सुदामाम्बा गोपाली गोपमोहिनी । गोपभूषा कृष्णभूषा श्रीवृन्दावनचन्द्रिका

201

वीणादिघोषनिरता रासोत्सवविकासिनी । कृष्णचेष्टा परिज्ञाता कोटिकन्दर्पमोहिनी

202

श्रीकृष्णगुणनागाढ्या देवसुन्दरिमोहिनी । कृष्णचन्द्रमनोज्ञा च कृष्णदेवसहोदरी

203

कृष्णाभिलाषिणी कृष्णप्रेमानुग्रहवांछिता । क्षेमा च मधुरालापा भ्रुवोमाया सुभद्रिका

204

प्रकृतिः परमानन्दा नीपद्रुमतलस्थिता । कृपाकटाक्षा बिम्बोष्ठी रम्भा चारुनितम्बिनी

205

स्मरकेलिनिधाना च गण्डताटङ्कमण्डिता । हेमाद्रिकान्तिरुचिरा प्रेमाद्या मदमन्थरा

206

कृष्णचिन्ता प्रेमचिन्ता रतिचिन्ता च कृष्णदा । रासचिन्ता भावचिन्ता शुद्धचिन्ता महारसा

207

कृष्णादृष्टित्रुटियुगा दृष्टिपक्ष्मिविनिन्दिनी । कन्दर्पजननी मुख्या वैकुण्ठगतिदायिनी

208

रासभावा प्रियाश्लिष्टा प्रेष्ठा प्रथमनायिका । शुद्धा सुधादेहिनी च श्रीरामा रसमञ्जरी

209

सुप्रभावा शुभाचारा स्वर्णदी नर्मदाम्बिका । गोमती चन्द्रभागेड्या सरयूस्ताम्रपर्णिसूः

210

निष्कलङ्कचरित्रा च निर्गुणा च निरञ्जना । एतन्नामसहस्रं तु युग्मरूपस्य नारद

211

पठनीयं प्रयत्नेन वृन्दावनरसावहे । महापापप्रशमनं वन्ध्यात्वविनिवर्तकम्

212

दारिद्र्यशमनं रोगनाशनं कामदं महत् । पापापहं वैरिहरं राधामाधवभक्तिदम्

213

नमस्तस्मै भगवते कृष्णायाकुण्ठमेधसे । राधासङ्गसुधासिन्धौ नमो नित्यविहारिणे

214

राधादेवी जगत्कर्त्री जगत्पालनतत्परा । जगल्लयविधात्री च सर्वेशी सर्वसूतिका

215

तस्या नामसहस्रं वै मया प्रोक्तं मुनीश्वर । भुक्तिमुक्तिप्रदं दिव्यं किं भूयः श्रोतुमिच्छसि

॥ इति श्रीबृहन्नारदीयपुराणे पूर्वभागे बृहदुपाख्याने तृतीयपादे राधाकृष्णसहस्रनामकथनं नाम द्व्यशीतितमोऽध्यायः ॥

मूल पाठ: śrīrādhākṛṣṇasahasranāmastotram · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc