भाषा

ENहिગુ
ग्रंथ पाठ

श्रीअगस्त्यकृत श्रीशिवाष्टकम् · अध्याय 1

1

अद्य मे सफलं जन्मः चाद्य मे सफलं तप: ।
अद्य मे सफलं ज्ञानम् शंभो त्वत्पाददर्शनात्

2

कृतार्थोऽहं कृतार्थोऽहं कृतार्थोऽहं महेश्वर ।
अद्य ते पादपद्मस्य दर्शनात्भक्तवत्सल

3

शिवश्शंभु: शिवश्शंभु: शिवश्शंभु: शिवश्शिव: ।
इति व्याहरतो नित्यम् दिनान्यायान्तु यान्तु मे

4

शिवे भक्तिश्शिवे भक्तिश्शिवे भक्तिर्भवेभवे ।
सदा भूयात् सदा भूयात्सदा भूयात्सुनिश्चला

5

आजन्म मरणं यस्य महादेवान्यदैवतम् ।
मा जनिष्यत मद्वंशे जातो वा द्राग्विपद्यताम्

6

जातस्य जायमानस्य गर्भस्थस्याऽपि देहिन: ।
मा भून्मम कुले जन्मः यस्य शंभुर्नदैवतम्

7

वयं धन्या वयं धन्या वयं धन्या जगत्त्रये ।
आदिदेवो महादेवो यदस्मत्कुलदैवतम्

8

हरश्शंभो महादेव विश्वेशामरवल्लभ ।
शिवश्शङ्कर सर्वात्मन्नीलकण्ठ: नमोऽस्तु ते

9

अगस्त्याष्टकमेतत्तु य: पठेच्छिवसन्निधौ ।
शिवलोकमवाप्नोति शिवेनस्सह मोदते

॥ इति श्रीअगस्त्यरचितम् श्रीशिवाष्टकम् सम्पूर्णम् ॥
---

मूल पाठ: śrīagastyakṛta śrīśivāṣṭakam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc