श्रावकभूमि · भाग 2126
स पुनर्विचिनोति । य एते त्रयः पक्षाः अदुःखा सुख(ता)ः । सुखकामास्ते सुखिता भवन्त्विति । तत्रोपकारलक्षणं मित्रं । अपकारलक्षणममित्रं । तदुभयपरीतलक्षणमुदासीनपक्षं (ण उदासीनपक्षः) । ये पुनरेते अदुःखासुखिताः पक्षाः सुखकामास्तेषां ( श्भ्_स्ह् 378 ) त्रिविधा सुखकामता प्रज्ञायते । एके कामसुखमिच्छन्त्येके रूपावचरं सप्रीतिकमेके निष्प्रीतिकं । तत्र ये कामसुखेन विहन्यन्ते । अमित्रं तदुभयविपरीतलक्षणा(णं)तेन कामसुखिनो भवन्त्वनवद्येन [।] एवं सप्रीतिकेन निष्प्रीतिकेन च सुखेन वेदितव्यम् । एवं स्वलक्षणतो मैत्रीं समन्वेषते ।
स पुनः प्रविचिनोति । यश्च मित्रपक्षो, यश्चामित्रपक्षो, यश्चोदासीनपक्षः । तुल्यचित्तता तु मया करणीयेति । समचित्तता । तत्कस्य हेतोः । यस्तावन्मित्र[पक्ष]स्तत्र मे न दुष्करः । सुखोपसंहारः । योप्ययमुदासीनपक्षः । तत्रापि ये (मे) नातिदुष्करः । यस्त्वयममित्रपक्षः । (तत्रायममित्रपक्षः ।) तत्रातिदुष्करः । तत्र तावन्मया सुखोपसंहारः करणीयः । कः पुनर्वादः । मित्रपक्षे वोदासीनपक्षे वा । तत्कस्य हेतोः । नात्र कश्चिद्यः आक्रोशते वा, आक्रुश्यते वा । रोषयति वा, रोष्यते वा । भण्डयति वा, भण्ड्यते वा । ताडयति वा, ताड्यते वा । अन्यत्राक्षराण्येतानि रवन्ति । शब्दमात्र[ं] माषमात्रमेतदपि च तथा संभूतोयं कायो रूपी औदारिकश्चातुर्महाभूतिको यत्र मे स्थितस्येमे एवं रूपाः स्पर्शाः क्रामन्ति । यदुत शब्दसंस्पर्शा वा । ( श्भ्_स्ह् 379 ) पाणिलोष्ठदण्डशस्त्रसंस्पर्शा वा अय[ं] मे कायः । अनित्य, एतेपि स्पर्शा ये ते अपकारकास्तेप्यनित्याः । अपि च । सर्व एव सत्त्वा जातिजराव्याधिमरणधर्माणस्ते प्रकृत्यैव दुःखिता स्तन् मे प्रतिरूपं स्यात् । यद्यहं प्रकृतिदुःखितेषु सत्त्वेषु भूयो दुःखोपसंहारमेव कुर्यां, न सुखोपसंहारं तदमित्रो (त्रं) मित्रस्य कुर्याद्यदेते सत्त्वा आत्मनैवात्मनः कुर्वन्ति ।
अपि चोक्तं भगवता । नाहं तं सुलभरूपं समनुपश्यामि । योनेन दीर्घस्याध्वनोत्ययान्माता वा भू[त्] पिता वा, भ्राता वा, भगिनी वा, आचार्यो वा, उपाध्यायो वा, गुरुर्वा, गुरुस्थानीयो वेति । तदनेनापि पर्यायेणामित्रपक्ष एव[ं] मे [अ]मित्रपक्षः । न चात्र कस्यचित् परिनिष्पत्तिः, मित्राभित्रभावो, मित्रोपि (त्रमपि) च कालान्तरेणामित्रो (त्रं) भवति । अमित्रो (त्रम)पि मित्रीभवति । तस्मान्न सर्वसत्त्वेषु समचित्तता । समतादृष्टिः करणीया । तुल्यश्च हिताशयः, सुखाध्याशयः, सुखोपसंहारः । सुखोपसंहाराधिमोक्ष इति । एवं सामान्यलक्षणेन मैत्रीं समन्वेषते ।
स पुनः प्रविचिनोति । यो मे पापकारिषु सत्त्वेषु व्यापादः मरण एष धर्म इति विस्तरेण पूर्ववत् । यो वा पुनरयमेतर्ह्यव्यापादः अ (म)रण एष धर्म इति विस्तरेण पूर्ववत् । यो वा पुनरयमेतर्ह्यव्यापादः ( श्भ्_स्ह् 380 ) एवं मैत्र्या(ः) कृष्णशुक्लशुक्लपक्षं पर्येषते ।
स पुनः प्रविचिनोति । ये तावदतीतमध्वानमुपादाय सुखकामाः सत्त्वाः ते अतीताः, तेषां किं पुनः सुखोपसंहारं करिष्यामः । ये पुनर्वर्त्तमानाः सत्त्वास्ते वर्त्तमानमध्वानमुपादाय । यावदनागतादध्वनो नित्यकालं सुखिनो भवन्ति (न्ती) त्येवं मैत्र्या(ः)कालं पर्येषते ।
स पुनः प्रविचिनोति । नास्ति कश्चिदात्मा वा, सत्त्वो वा य एष सुखकामो वा स्यात् । यस्य वा सुखमुपसंह्रियते । अपि तु स्कन्धमात्रमेतत् संस्कारमात्रकमेतद्यत्रैषा संज्ञा संज्ञप्तिर्व्यवहारः । ते पुनः संस्काराः कर्मक्लेशहेतुका इत्येवमपेक्षायुक्त्या मैत्रीम्पर्येषते । प्रसिद्धधर्मता खल्वेषा [अ]चिन्त्यधर्मता यन्मैत्रीव्यापादभावना प्रहाणाय सम्वर्त्तत इत्येवं धर्मतायुक्त्या मैत्रीम्पर्येषते ।
तत्र कथमिदं प्रत्ययता प्रतीत्यसमुत्पादालम्बना विपश्यनाप्रयुक्तार्थं पर्येषते । तदधिपतेयं धर्ममधिमतिं कृत्वा तेषां तेषां धर्माणामुत्पादात्ते ते धर्मा उत्पद्यन्ते, तेषां तेषां धर्माणां निरोधात्ते ते धर्मा निरुध्यन्ते [।] नास्त्यत्र धर्मी कश्चिदीश्वर, कर्ता स्रष्टा, निर्माता धर्माणां, न प्रकृतिर्न पुरुषान्तरं, प्रवर्त्तको धर्माणामित्येवमर्थप्रतिसंवेदी अर्थं पर्येषते । ( श्भ्_स्ह् 382 ) पुनः पुनः प्रविचिनोति । द्वादशभवांगानि । अध्यात्मबहिर्धा अधिमुच्यते । एवं वस्तु पर्येषते । पुनः प्रविचिनोति । अविद्या यत्त(त्)पूर्वान्ते अज्ञानमिति विस्तरेण यथा प्रतीत्यसमुत्पादविभंगे एवं स्वलक्षणं पर्येषते [।] पुनः (॥) प्रविचिनोति । एवं प्रतीत्यसमुत्पन्नाः संस्काराः सर्व एते अभूत्वा भावाद्, भूत्वा ( श्भ्_स्ह् 383 ) च प्रतिविगमात्पूर्वापर्येणानित्या जातिजराव्याधिमरणधर्मकत्वात् । दुःखा अस्वतन्त्रत्वादन्तः पुरुषानुपलम्भाच्च शून्या अनात्मानश्च ॥ एषां च सामान्यलक्षणं पर्येषते । स पुनः प्रविचिनोति । यो (य) एष्वनित्येषु दुःखशून्यानात्मकेषु संस्कारेषु यथाभूतं प्रतिसम्मोहः । मरण एष धर्मः कृष्णपक्ष्य[ः ।] असम्मोहः । पुनः शुक्लपक्ष इति विस्तरेण [।] एम्पक्षं समन्वेषते ।
स पुनः प्रविचिनोति । अस्ति कर्मास्ति विपाकः । कारकस्तु नोपलभ्यते । यः कर्त्ता वा प्रतिसंवेदको वा स्यान्नान्यत्र धर्मसंकेतात् । तेष्वेवाविद्याप्रत्ययेषु ( श्भ्_स्ह् 384 ) संस्कारेषु यावज्जातिप्रत्यये जरामरणे संज्ञा प्रज्ञप्तिर्व्यवहारः कारको वेदक इत्येवं नामा, एवं जात्य, एवं गोत्र, एवमाहार, एवं सुखदुःख प्रतिसंवेदी, एवं दीर्घायुरेवंचिरस्थितिक, एवमायुः पर्यन्त इति ।
अपि च द्विविधमेतत्फलं । द्विविधो हेतुरात्मभावफलं च, विषयोपभोगफलं च । आक्षेपकश्च हेतुरभिनिर्वर्त्तकश्च [।] तत्रात्मभावफलं यदेतद्विपाकजं षडायतनं विषयोपभोगफलं यो (या) इष्टानिष्टकर्माधिपतेया षट्स्पर्शसंभवा वेदना [।]
तत्राक्षेपको हेतुर्द्विविधे फले सम्मोहासम्मोहपूर्वकाश्च पुण्यापुण्यानिंज्याः, संस्कारपरिगृहीतं च (।) पुनर्भवविज्ञानांकुरप्रादुर्भावाय तद्बीजं, विज्ञानपरिगृहीतं पौनर्भविकनामरूपबीजं षडायतनबीजं स्पर्शवेदनाबीजमिति । य एवमायत्यां जातिसंज्ञकानां विज्ञा[न]नामरूपषडायतनस्पर्शवेदनानामुत्पत्तये । आनुपूर्व्या पूर्वंमेव बीजपरिग्रहः । अयमाक्षेप [को] हेतुः ।
यत्पुनरविद्यासंस्पर्शजांवेदना वेदयमानस्तदालम्बनया तृष्णया पौनर्भविकीं तॄष्णामुत्पादयति । तृष्णापक्ष्यं मोहपक्ष्यं चोपादानं । परिगृह्णाति । यद्बलेन यत्सांमुख्येन तत्कर्म विपाकदानदान समर्थं भवत्ययमभिनिर्वृत्तिहेतुः । इमं च द्विविधं हेतुमधिपतिं कृत्वा एवं अस्य त्रिविधः दुःखतानुपक्षस्य केवलस्यास्य दुःखस्कन्धस्य समुदयो भवतीति । एवमपेक्षायुक्तिं पर्येषते ।
इदं प्रत्ययता प्रतीत्यसमुत्पादः । आसेवितो भावितो मोहप्रहाणाय सम्वर्तते । आप्तागमोप्येष प्रत्यात्मिक आनुमानिकोप्येष विधिः । प्रसिद्धधर्मताप्येष ते (षेति) एवं कार्यकारणयुक्तिमुपपत्तिसाधनयुक्तिं धर्मतायुक्तिञ्च पर्येषते ॥
तत्र कथं धातुप्रभेदालम्बनविपश्यनाप्रयुक्तमर्थं पश्यन पर्येषते । गोत्रार्थो, धात्वर्थः, संज्ञार्थो, हेत्वर्थः । प्रकृत्यर्थ इत्येवमर्थप्रतिसम्वेदी अर्थं पर्येषते । पृथिव्यादीन्षड्धातून्न (न) ध्यात्मबहिर्धाधिमुच्यमानो वस्तु ( श्भ्_स्ह् 386 ) पर्येषते । खरलक्षणा पृथिवी । यावत्समुदीरणलक्षणो वायुः विजाननलक्षणं विज्ञानं । सौषिर्यलक्षणारूपगतास्फुटालक्षणश्चाकाशधातुरित्येवं स्वलक्षणं पर्येषते । सर्व एते धातवः । अनित्यतया समसमाः । यावन्निरात्मतयेत्येवं सामान्यलक्षणं पर्येषते । इति यः पिण्डसंज्ञिनो धातुनानात्वं अजानानस्या[ने]न कायेन नानाधातुकेन उन्नतिर्मन्य (न्वा) ना मरण एष धर्मः कृष्णपक्ष्यः विपर्ययाच्छुक्लपक्ष्य इत्येव[ं] पक्षं पर्येषते ।
अतीतानागतप्रत्युत्पन्नेष्वध्वसु षड्धातून्प्रतीत्य मातुः कुक्षौ गर्भस्यावक्रान्तिर्भवति । एवं कालं पर्येषते ।
तद्यथा तृणं वाप्रतीत्य, काष्ठम्वा चाकाशं परिवारितमगारो [अ]गार इति संख्यां गच्छत्येवमेव षड्धातूनुपादाय । अस्थि च प्रतीत्य स्नायु[श्] च । त्वङ्मान्स(मांस) शोणितं चाकाशे परिवारिते संज्ञा प्रज्ञप्तिर्व्यवहारो भवति । कायः काय इति । पौराणाश्च कर्मक्लेशाः स्वबीजं चैषां निदानमित्येवमपेक्षायुक्तिम्पर्येषते । धातुप्रभेद आसेवितो भावितो (तः) स्त्यानप्रहाणाय ( श्भ्_स्ह् 387 ) सम्वर्तते । आप्तागमोप्येष प्रत्यात्मज्ञानमनुमानिकोप्येष विधिः प्रसिद्धधर्मताचिन्त्यधर्मतेत्येवं कार्यकारणयुक्तिमुपपत्तिसानयुक्तिं धर्मतायुक्तिं च पर्येषते ॥
कथमानापानस्मृत्यालम्बननिचयप्रयुक्तार्थं पर्येषते । आश्वासप्रश्वासालम्बनोपनिबद्धा चित्तस्यासंप्रमोषोभिलपनता । आनापानस्मृतिरित्येवं पर्येषते । अध्यात्ममुपलभ्यते । आश्वासप्रश्वसाः कायप्रतिबद्धत्वाद्बाह्यायंतनसंगृहीताश्चेत्येवं वस्तु पर्येषते । द्वावाश्वासौ यश्च वायुः प्रविशति । य (स) आश्वासो [यश्च] निष्क्रामति । स नि[ः]श्वासः [।] अमी दीर्घा आश्वासप्रश्वासा, अमी ह्रस्वा इमान्सर्वकायेन प्रतिसंवेदयामि । इमान्नि(नि)त्येवं स्वलक्षणं पर्येषते । निरुद्धे आश्वासेप्रश्वास उत्पद्यते । निरुद्धे आश्वासे (प्रश्वासे) आश्वासः । आश्वासप्रश्वासप्रवृद्धिप्रतिसम्बद्धं च (॥) जीवितेन्द्रियमयं च कायः सविज्ञानक इत्यनित्या आश्वासप्रश्वासा महाश्रवणेत्येवं (णा इत्येवं) सामान्यलक्षणं पर्येषते । एवमाश्वासप्रश्वासेष्वनुपस्थितस्मृतेः यो वितर्ककृतः संक्षोभश्चेतसः मरण(धर्म) एषधर्मः कृष्णपक्ष्यः । विपर्ययाच्छुक्लपक्ष्य ( श्भ्_स्ह् 388 ) इति । विस्तरेणत्येवं पक्षं पर्येषते ।
अतीतानागत प्रत्युत्पन्नेष्वध्वस्वा [श्वासप्र]श्वासप्रतिबद्धः कायः कायचित्त (ः) प्रतिबद्धाश्चाश्वासप्रश्वासा इत्येवं कालं पर्येषते । नान्यत्र कश्चिद्य आश्वसिति प्रश्वसिति वा अस्य चैते आश्वासप्रश्वासाः । अपि तु हेतुसमुत्पन्नेषु, प्रतीत्यसमुत्पन्नेषु संस्कारेष्वियं संज्ञा । प्रज्ञप्तिर्व्यवहारः इत्येवमपेक्षायुक्तिं पर्येषते । आनापानस्मृतिरासेविता भाविता वितर्कोपच्छेदाय संवर्त्तते । आप्तागमो ऽप्येष, प्रत्यात्मज्ञानानुसारिको ऽप्येष विधिः । प्रसिद्धधर्मताचिन्त्य धर्मतेत्येवं कार्यकारणयुक्तिमुपपत्तिसाधनयुक्तिं धर्मतायुक्तिम्पर्येषते ।
एवं चरितविशोधनेनालम्बनेन षड्वस्तूनि पर्येष्य, अध्यात्मं चित्तं पुनः पुनः शमयतः (यन्), पुनः पुनरेतदेव यथापर्येषितं । विपश्यनाकारैः पर्येषते ।तस्य शमथं निश्रित्य विपश्यना विशुध्यते । विपश्यनां निश्रित्य शमथो वैपुल्यतां(विपुलतां) गच्छति । कौशल्यालम्बने च । क्लेशाविशोधने च या विपश्यना [।]
षड्वस्तुकर्मितां पश्चाद्वक्ष्मामि स्वस्थाने ।
तत्र नवविधः शुक्लसंगृहीतः (।) प्रयोगस्तद्विपर्ययेण ( श्भ्_स्ह् 389 ) च नव विधः कृष्णपक्षसंगृहीतो योगिना वेदितव्यः । तद्यथा [अ]नुरूपप्रयोगता, अभ्यस्तप्रयोगता, अविपरीतप्रयोगता । अशिथिलप्रयोगता । कालप्रयोगता । उपलक्षणप्रयोगता । असंतुष्टप्रयोगता । अविधुरप्रयोगता । सम्यक्प्रयोगता च । अनया नवविधया शुक्लपक्षसंगृहीतया त्वरितत्वरितं चित्तं समाधीयते । विशेषाय च समाधेः परैति । यावती चानेन भूमिर्गन्तव्या भवत्यनुप्राप्तव्या तां लघु लघ्वेवागन्ता भवत्यधन्धायमानः । कृष्णपक्षसंगृहीताभिर्नवविधाभिः प्रयोगताभिर्न त्वरितत्वरित[ं] चित्तं समाधीयते । नापि समाधिविशेषाय परैति । यावती चानेन भूमिर्गन्तव्या भवत्यनुप्राप्तव्या । तत्र धन्धायते गमनाय ।
कतमानुरूपप्रयोगता (च) । स चेद्रागचरितो ऽशुभायां चित्तमुपनिबघ्नाति । द्वेषचरितो मैत्र्यां, यावद्वितर्कचरित आनापानस्मृतौ, समभागचरितः मन्दरजस्कः पुनः यत्रालम्बने प्रियारोहता भवति । तेन प्रयुज्यते । इयमनुरूपप्रयोगता [।]
कतमा अभ्यस्तप्रयोग (प्रयोग)ता । अभ्यासो ऽनेन कृतो भवति यो अन्ततः परीत्तो ऽपि न ( श्भ्_स्ह् 390 ) सर्वेण सर्वमादिकर्मिक एव भवति । तथा ह्यादिकर्मिकस्यानुरूपे ऽप्यालम्बने न प्रयुक्तस्य निवारणानि नाभीक्ष्णं समुदाचरित(रन्ति) । कायचित्तदौष्ठुल्यं च । येनास्य तत् (च) चित्तं समाधीयते । इयमभ्यस्तप्रयोगता । तत्र कतमा अशिथिलप्रयोगता । सातत्यप्रयोगी भवति । सत्कृत्यप्रयोगी च । स चेत्पुनर्व्युत्तिष्ठते ।
समाधेः पिण्डपातहेतोश्च [गु]रुगौरवोपस्थानहेतोर्वा । ग्लानोपस्थानार्थम्वा, सामीचीकर्मणो वा अन्यस्यैवंभागीयस्येतिकरणं यस्यार्थाय स तन्निम्नेन चेतसा तत्प्रवणेन तत्प्रास्तारेण (भारेण) च सर्वं करोति । लघुलघ्वेव च कृत्वा, परिप्राप्य, पुनरेव प्रयुज्यते । नियम्य प्रतिसंलयनाय स चेद्भिक्षुभिक्षुण्युपासक क्षत्रियब्राह्मणपर्षद्भिः सार्धं समागच्छति । न चिरं संसर्गेणातिनामयति । मितं च संलपति । न च भाष्यप्रबन्धमुत्थापयति । नान्यत्र व्यपकर्षति । एवं च पुनरारब्धवीर्यो भवति । यन्न्वहमद्यैव प्राप्तव्यमधिगच्छेयं । तत्कस्य हेतोः । बहवो मे प्रत्यया मरणस्य- वातो वा मे कुप्येत, पित्तम्वा, श्लेष्मम्वा(श्लेष्म वा), भुक्तं वा विषम्येत, येन मे विषूचिका काये सन्तिष्ठेत । अहिर्वा मे (मां) दशेत(त्) । वृश्चिको वा शतपदी वा [।] मनुष्यादपि मे भयमित्येतानि स्थानानि नित्यकालस्य ( श्भ्_स्ह् 391 ) न- करोत्यप्रमत्तश्च विहरत्येवं च पुनरप्रमत्तो विहर[ति ।] अपि बत जीवेयं सप्ताहं षट् पञ्चचतुस्त्रिद्विरे (द्वये)काहयाममर्धयाममपि मुहूर्तमपि अर्धमुहूर्तमपि [।] अहो बत जीवेयं यावत्पिण्डपातं परिमुञ्जेयं । यावदाश्वसित्वा (स्य)प्रश्वसेयं । यावच्च जीवेयं तावद्योगमनसिकारेण शास्तुः शासने योगमापद्येयं । य इ(दि)यता मया बहुकृत्यं स्याद्यदुत शास्तुः शासने इतीयमशिथिलप्रयोगता ।
तत्र कतमा । अविपरीतप्रयोगता । कालेन कालं शमथनिमित्तं प्रग्रहनिमित्तमुपेक्षानिमित्तं भावयति । शमथं च जानाति । शमथनिमित्तं च । शमथकालञ्च [।] विपश्यनां विपश्यनानिमित्तं विपश्यनाकालं, प्रग्रहं प्रग्रहनिमित्तं, प्रग्रहकालं । उपेक्षामुपेक्षानिमित्तमुपेक्षाकालञ्च ।
तत्र शमथः नवाकारा चित्तस्थितिः । निर्निमित्तञ्च तच्चित्तं तत्र भवति, निर्विकल्पं, शान्त प्रशान्तं, शमथस्थितं, निष्केवलं, तेनोच्यते शमथ इति । तत्र शमथनिमित्तं द्विविधमालम्बननिमित्तं, ( श्भ्_स्ह् 392 ) निदाननिमित्तञ्च । ज्ञेयवस्तुसभागं प्रतिबिम्बमालम्बननिमित्तं । येनालम्बनेन तच्चित्तं शमयति, शमथपरिभाविते चेतसि उत्तरत्र शमथस्य पारिशुद्धये । यो विपश्यना प्रयोग इदं निदानं (न)निमित्तं [।] शमथकालः कतमः । आह । उद्धते चित्ते ऊर्ध्वम्वाभिशंकिनि शमथस्य कालो भावनायै । तथा विपश्यनापरिभाविते चित्ते इति करणीयव्याक्षेपोपहते शमथकालो भावनायै । तत्र विपश्यना चतुराकारात्रिमुखी षड्वस्तुप्रभेदालम्बनव्यवचारा ॥
तत्र विपश्यनानिमित्तं द्विविधमालम्बननिमित्त[ं] निदाननिमित्तञ्च । तत्रालम्बननिमित्तं विपश्यनानिमित्तं [शमथ]पक्ष्यं ज्ञेयवस्तुसभागं प्रतिबिम्बमालम्बननिमित्तं येनालम्बनेन प्रज्ञां व्यवचारयति । तत्र निदाननिमित्तं विपश्यनापरिभाविते चेतसि उत्तरत्र विपश्यनापरिशुद्धये चेतः शमथबिम्बयोगः [।]
तत्र विपश्यनाकालः शमथपरिभाविते चेतसि आदित एव चाज्ञेयवस्तुयथाभूतावबोधाय विपश्यनायाः कालो भावनायै ।
तत्र प्रग्रहः कतमः । यान्यतमान्यतमेन प्रसदनीयेनालम्बनेनोद्गृहीतेन ( श्भ्_स्ह् 393 ) चित्तसंहर्षणा संदर्शना समादापना [।] तत्र प्रग्रहनिमित्तं येन च प्रसदनीयेनालम्बनेन निमित्तेन चित्तं प्रगृह्णाति । यस्य वीर्यारम्भः तदानुलोमिकस्तत्र प्रग्रहकालः लीनं चित्तं लीनत्वाभिशंकिनि प्रग्रहस्य कालो भावनायै ।
तत्रोपेक्षाकतमा । या आलम्बने असंक्लिष्टचेतसः चित्तसमता शमथविपश्यनापक्षे । प्रस(श)ठस्वरसंवाहिता । कर्मण्यचित्तस्य च कर्मण्यता, चित्तस्यानुप्रदानमनाभोगक्रिया । तत्रोपेक्षानिमित्तं । येन चालम्बनेन चित्तमध्युपेक्षते । या च तस्मिन्नेवालम्बने वीर्योद्रेकाप्रतिकायता । तत्रोपेक्षाकालः शमथविपश्यना पक्षालयौ (लौ)द्धत्यविनिर्मुक्ते चेतसि ( श्भ्_स्ह् 394 ) उपेक्षायाः कालो भावनायै । इयं कालप्रयोगता ।
तत्र कतमा उपेक्षा लक्षणा (उपलक्षण)प्रयोगता [।] तान्येव निमित्तानि सुगृहीतानि भवन्ति । सुसंलक्षितानि येषां सूद्गृहीतत्वात् । यदा आकांक्षते । तदा व्युत्तिष्ठते समाधिगोचरं (।) प्रतिबिम्बमुत्सृज्य समाहितभूमिकाप्राकृतालम्बनमनसिकारेण [।] इयमुपलक्षणाप्रयोगता ।
तत्र कतमा असंतुष्टप्रयोगता । असंतुष्टो भवति कुशलै-कुशलैर्धमैः । अप्रतिवा (भा)णि(णी) च । प्रहासैरुत्तरं प्रणीततरं स्थानमभिप्रार्थयमानोरुपी बहुलं विहरतीति । नाल्पमात्रकेना (णा)वरमात्रकेना(णा)न्तरा विषादमापद्यते । अत्युत्तरे करणीये । इयमसंतुष्टप्रयोगता ।
तत्र कतमा अविधुरप्रयोगता । शिक्षापदसमादानम्वा न खण्डीकरोति, न छि(च्छि)द्रीकरोति । न च शिशुमुदारवर्णं रंजनीयं मातृग्रामं दृष्ट्वा निमित्तग्राही भवत्यनुव्यंजनग्राही, भोजने च समकारी भवति । जागरिकानुयुक्तश्चाल्पार्थोल्पकृत्योल्पव्यासकः । चिरकृतचिरभाषितमनुस्मर्त्ता भवत्यनुस्मारयिता । इत्येवंभागीया धर्मा अविधुरप्रयोगतेत्युच्यते । अनुकूला एते धर्माश्चित्तैकाग्रतायाः । अविदूरा, न च चित्तक्षेपाय सम्वर्त्तन्ते । तेन बहिर्धा व्यासंगाय, नाध्यात्मचित्ताकर्मण्यतायै । ( श्भ्_स्ह् 395 ) इयमुच्यते अविधुरप्रयोगता ।
तत्र सम्यक्प्रयोगता कतमा । अधिमुच्याधिमुच्यालम्बनस्य विभावनया सम्यक्प्रयोग इत्युच्यते । स चेदशुभाप्रयुक्तो भवत्यशुभां चाशुभाकारैर्मनसिकरोति । निमित्तमात्रानुसारिण्या विपश्यनया [।] तेन मनसिकारस्तदालम्बनो मुहुर्मुहुर्विभावयितव्यो, मुहुर्मुहुः संमुखीकर्तव्यः ।
विभावना पुनः पञ्चविधा अध्यात्मचित्ताभिसंक्षेपतः । अस्मृत्यमनसिकारतः । तदन्यमनसिकारतः । प्रतिपक्षमनसिकारतः । आनिमित्तधातुमनसिकारतश्च । तत्र नवाकारचित्तस्थित्या विपश्यना पूर्वंगमया अध्यात्मं चित्ताभिसंक्षेपतः । सर्वनिमित्तवैपुल्येन आदितः । अविक्षेपायोप निबध्नतो ऽस्मृत्यमनसिकारतः । समाहितभूमिकादालम्बनालम्बनान्तरं समाहितभूमिकमेव मनसिकुर्वतस्तदन्यमनसिकारतः । शुभताप्रतिपक्षेणाशुभांता (भतां) यावद्वितर्कप्रतिपक्षेण आनापानस्मृतिं । रूपप्रतिपक्षेणाकाशधातु[ं] मनसि कुर्वतः प्रतिपक्षमनसिकारतः । सर्वनिमित्तानाममनसिकारादानिमित्तस्य च धातोर्मनसिकारादानिनिमित्तधातुमनसिकारतः । अपि च । व्याप्य तदालम्बनं विभावनालक्षणं व्यवस्थापितमस्मिंस्त्वर्थे अध्यात्मं निमित्ताभिसंक्षेपतः । अस्मृत्यमनसिकारतश्चाभिप्रेता । ( श्भ्_स्ह् 396 ) तत्रादिकर्मिके(ण) तत्प्रथमकल्पिको (कर्मिकेण) आदित एव चित्तं न कञ्चि(क्वचि)दालम्बने उपनिबन्धितव्यं । अशुभायाम्वा, तदस्मिन्वा, नान्यत्र विक्षेपायैव । कच्चिन्मे चित्तं निर्निमित्तं, निर्विकल्पं शान्तं, प्रशान्तमविचलमविकम्प्यमनुत्सुकं, निर्व्यापापारमध्यात्ममभिरमत इति । तथा प्रयुक्त उत्पन्नोत्पन्नेषु सर्वबाह्यनिमित्तेषु अस्मृत्यमनसिकारं करोति । इयमस्यास्मृत्यमनसिकारेणालम्बनविभावना [।]
स तत्र योगं कुर्वन् प्रतिगृह्णाति, स निर्मिमित्ते चालम्बने सविकल्पमशुभादिके चरति । कथं च पुनश्चरति । निमित्तमात्रानुसारिण्या विपश्यनया पर्येषणाप्रत्यवेक्षणानुचारिण्या [।] न चैकांशेन विपश्यनाप्रयुक्तो भवति । पुनरेव विपश्यनानिमित्तं (।) प्रत्युदावर्त्य तदेवालम्बनं शमथाकारेण मनसि करोति । तेन तदालम्बनं तस्मिन्समये मुक्तं भवति, नोद्गृहीतं । यस्मात्तदालम्बनः शमथो वर्तते । तस्मान्न मुक्तः । यस्मान्न निमित्तीकरोति । न विकल्पयति । तस्मान्नोद्गृहीतमेवमध्यात्ममभिसंक्षेपतः । आलम्बनं विभावयति । ( श्भ्_स्ह् 397 ) तत्र विपश्यनानिमित्तमुद्गृहीतवतः । पुनर्ज्ञेयवस्तुनिमित्तालम्बनं स चेदयमेकांशेनालम्बनमधिमुच्यते । न पुनः पुनर्विभावयेत् । नास्याधिमोक्ष उत्तरोत्तरः । परिशुद्धः, पर्यवदातः । प्रवर्तते । यावज् ज्ञेयवस्तुप्रत्यक्षोपगमाय । यतश्च पुनः पुनरधिमुच्यते । पुनः पुनर्विभावयति । ततोस्योत्तरोत्तरोधिमोक्षः । परिशुद्धतरः, परिशुद्धतमः प्रवर्तते । यावज्ज्ञेयवस्तुप्रत्यक्षोपगमाय । तद्यथा चित्रकरश्चित्रकरान्तेवासी वा तत्प्रथमश्चित्रकर्मणि प्रयुक्तः स्यात् । स आचार्यस्यान्तिकाच्छिक्षापूर्वगमं रूपकमादाय दृष्ट्वा दृष्टवा प्रतिरूपकं करोति । कृत्वा कृत्वा विभावयति, विनाशयति । पुनरेव च करोति । य यथा यथा भङ्क्त्या भङ्क्त्या करोति । तथा तथास्योत्तरं रूपकं परिशुद्धतरं पर्यवदाततरं ख्याति । एवं हि सम्यक्प्रयुक्तः कालान्तरेणाचार्यसमतां गच्छति । तत्प्रतिविशिष्टताम्वा [।] सचेत्पुनरभं(नर्भं?) क्त्या तद्रूपकं तस्यैवोपरिष्टात्पौनःपुन्येन कुर्यात् । न जन्वन्धस्य तद्रूपकपरिशुद्धिं निगच्छेदेवमिहापि नयो वेदितव्यः । तत्र यावदालम्बनमधिमुच्यते । तावद्विभावयति । न त्ववश्यं यावद्विभावयति । तावदधिमुच्यते । परीत्तमधिमुच्यते, परीत्तमेव विभावयति । एवं यावन्महद्गतप्रमाणं । परीत्तं पुनर्विभावयित्वा (भाव्य) ( श्भ्_स्ह् 398 ) कदाचित्परीत्तमेवाधिमुच्यते । कदाचिन्महद्गतमेव । प्रमाणमेवं महद्गते । प्रमाणे वेदितव्यं । तत्र रूपिणां धर्माणां यन्निमित्तं प्रतिबिम्बं, प्रतिभासं(सः) तदौदारिकं निर्माणसदृशमरूपिणाम्वा पुनर्धर्माणां नामसंकेतपूर्वकं यथानुभावाधिपतेयं । प्रतिभासमियमुच्यते । सम्यक्प्रयोगता । सैषा नवविधा शुक्लपक्ष्या शमथविपश्यनानुलोमा प्रयोगता वेदितव्या । एवं पर्यायेण नवाकारैव विलोमता । स एष कृष्णशुक्लपक्षव्यवस्थानेनाष्टादशविधप्रयोगो भवतीयमुच्यते एकाग्रता ॥
तत्रावरणविशुद्धिः कतमा । आह । चतुर्भिः कारणैरेवं सम्यक्प्रयुक्तो योगी आवरणे स्वञ्चित्तं परिशोधयति । स्वभावपरिज्ञानेन, निदानेनादीनवपरिज्ञानेन, प्रतिपक्षभावनया च ।
तत्र कतम आवरणस्वभावः । आह । चत्वार्यावरणानि । परितमना, निवरणं, वितर्कः । ( श्भ्_स्ह् 399 ) आत्मसंप्रग्रहश्चेति । तत्र परितमना या नैष्क्रम्यप्राविवेक्यप्रयुक्तस्य क्लिष्टा उत्कण्ठा, अरतिः । स्पृहणा, दौर्मनस्यमुपायासः । तत्र निवरणं कामच्छन्दादीनि पञ्चनिवरणानि । तत्र वितर्कः कामवितर्कादयः । क्लिष्टा वितर्काः । तत्रात्मसंप्रग्रहो यदणुमात्रेका (णा)वरमात्रेकेन (ण) ज्ञानदर्शनस्पर्शमात्रकेना(णा)त्मानं संप्रगृह्णाति । अहमस्मि लाभी, अन्ये च न तथेति । पूर्ववद्विस्तरेण वेदितव्यमयमावरणस्वभावः ।
तत्र परितमना यावत्षण्निदानानि । तद्यथा पूर्वकर्माधिपत्या, व्याधिपरिक्लेशाद्वा आश्रयदौर्बल्यं । अतिप्रयोगः । अर्धप्रयोगः । आदिप्रयोगः । क्लेशप्रचुरता । विवेकानभ्यासश्च निवरणस्य, वितर्काणामात्मसंप्रग्रहस्य निवरणस्थानीये, अवितर्कस्थानीये, स्वात्मसंप्रग्रहस्थानीयेषु धर्मेष्वयोनिशोमनसिकारो बहुलीकारनिवरणवितर्कसंप्रग्रहाणां निदानं ( श्भ्_स्ह् 400 ) यदशुभताममनसि कृत्य शुभतां मनसिकरोत्ययमत्रायोनिशः । एवं मैत्रीं [ं] मनसिकृत्य, प्रहाय नैमित्त (त्ति) [की]मालोकसंज्ञा[ं] मनसिकृत्यान्धकारनिमित्तं शमथममनसिकृत्य, ज्ञातिजानपदामरवितर्कं पौराणक्रीडितहसितरसितपरिचारितं । इयं (दं) प्रत्ययता प्रतीत्यसमुत्पादममनसिकृत्य, त्रैयघ्विकेष्वहमिति वा, ममेति वा, अयोगविहितां संज्ञां मनसि करोत्ययमत्रायोनिशस्त(शः) ।
तत्रादीनवः कतमः । अस्मिन्नावरणे सति संविद्यमाने चतुर्विधेप्यनधिगतं नाधिगतात् परिहीयते । योगप्रयोगाद्भ्रश्यते । संक्लिष्टविहारी च भवति, दुःखविहारी च भवत्यात्मा चैतमववदति । परतश्चाववादंलभते । कायस्य च भेदात् परं मरणादपायेषूपपद्यते । अयमत्रादीनवः ।
तत्र प्रतिपक्षः कतमः । तत्र परितमना या समासतो ऽनुस्मृतयः । प्रतिपक्षः अनुस्मृतिमनसिकारेणायं चित्तं संहषयित्वा (संहर्ष्य) उत्पन्नां परितमनां प्रतिविनोदयत्यु(त्यनु)त्पन्नां च नोत्पादयति । तत्र यच्च कायदौर्बल्यं, यश्चाप्रतियोगो, यश्चादिप्रयोगः । तत्र वीर्यसमता प्रतिषे(वे)धः । प्रतिपन्नः योर्धप्रयोगः [।] तत्र शुश्रूषा, परिपृच्छा प्रतिपक्षः । या क्लेशप्रचुरता तस्या ( श्भ्_स्ह् 401 ) यथायोगमशुभाद्यालम्बनप्रयोगः । प्रतिपक्षः । यो ऽनभ्यासस्तस्यैवंविधं प्रतिसंख्यानं प्रतिपक्षः । पूर्वं मे (मया)विवेकाभ्यासो न कृतो, येन मे एतर्हि विवेकप्रयुक्तस्य परितमना उत्पद्यते [।] स चेदेतर्हि न करिष्याम्यभ्यासः (सं) एवमायति[ः] पुनर्भव एवंरूपो भविष्यति । प्रतिसंख्याय मया अरतिस्त्यक्तव्या । रतिः करणीयेत्येवमिष्टानां निवरणादीनामयोनिशोमनसिकारविपर्यर्येण योनिशोमनसिकारभावना प्रतिपक्षो वेदितव्यः ।
तत्र स्वभावं परिज्ञाय आवरणतः, संक्लेशतः, तावच्छमथबाहुल्यं [।] सा खल्वेषा विपश्यना ज्ञेया ( श्भ्_स्ह् 402 ) कृष्णपक्षतः । परिवर्जनीयमेतदिति । निदानपरिवर्जनाच्च पुनरस्य परिवर्जनेति । निदानं पर्येषते । अपरिवर्जनाच्च पुनरस्य परिवर्जनीयस्य को दोष इत्यत आदीनवं पर्येषते । परिवर्जितस्य चायत्यां कथमनुत्पादो भवतीत्यतः प्रतिपक्षं भावयत्येवमनेनावरणेभ्यश्चित्तं परिशोधितं भवति ।
स तत्र यावद्देशनाबाहुल्यं विपश्यनानुलोमिकं तावद्विपश्यनाबाहुल्यं, यावद्विवपश्यना बाहुल्यं नान्यादनन्ता वेदितव्या । यदुत एभिरेव त्रिभिर्मुखैः षण्णां वस्तूनामेकैकश्या (स्या अ)नन्ताकारप्रवेशनयेन, यथा च यथा विपश्यना सम्यक्प्रयुक्तस्य पृथुवृद्धिवैपुल्यतां (विपुलतां) गच्छत्यभ्यासपारिशुद्धिबलमधिपतिं कृत्वा, तथा, तथा, शमथपक्षस्यापि कायचित्तप्रश्रब्धिजनकस्य पृथुवृद्धिवैपुल्यता (विपुलता) वेदितव्या । तस्य यथा यथा कायः प्रश्रभ्यते, चित्तं च, तथा तथालम्बनचित्तैकाग्रतायाश्च यदुताश्रय[ं] विवर्द्धयते । यथा चित्तैकाग्रता विवर्धते तथा तथा कायः प्रश्रभ्यते, चित्तं च, इत्येतौ द्वौ धर्मावन्योन्यं निर्वृतावन्योन्यं प्रतिबद्धोयदुत चित्तैकाग्रता, प्रत्यक्षज्ञानोत्पत्तिः ।
तत्र कियता अशुभा प्रतिलब्धो(धा) भवति । कियता यावदानापानस्मृतिः प्रतिलब्धा भवतीति । ( श्भ्_स्ह् 403 ) पेयालं अतश्चास्य योगिनः अशुभाप्रयोगस्यासेवनान्वयात् भावनान्वयाद्बहुलीकारान्वयाच्चरतो वा, विहरतो वा, विषयसंमुखीभावे [अ]पि निमित्तप्रत्यवेक्षणयापि प्रकृत्यैवानभिसंस्कारेण बहुतराशुभतासंप्रख्यानं । यथापि तत्सुभावितत्वादशुभायाः कामरागस्थानीयेषु धर्मेषु चित्तं [न] प्रस्कन्दति । न प्रसीदति । नाधिमुच्यते । उपेक्षा संतिष्ठते । निर्वित्प्रतिकूलता वेदितव्यं(या) । योगिनानुप्राप्तो (प्तं)मे, अशुभाप्राप्तं मे, भावनाफलमियता अशुभा प्रतिलब्धा भवति । विपर्ययेण [अ]प्रतिलब्धा वेदितव्या । यथा अशुभा एवं मैत्री, इदंप्रत्ययताप्रतीत्यसमुत्पादः । धातुप्रभेदः । आनापानस्मृतिश्च वेदितव्या । तत्रायं विशेषः बहुतरं मैत्रचित्तता ख्याति । न प्रतिघनिमित्तं । व्यापादस्थानीयेषु धर्मेषु चित्तं न प्रस्कन्दतीति विस्तरः । बहुतरमनित्यता, दुःखता, नैरात्म्यं ख्याति, न नित्यसुखसत्त्वाय दृष्टिसहगतं सम्मोहनिमित्तं मोहपर्यवस्थानीयेषु धर्मेषु । चित्तं (न)प्रस्कन्दतीति ( श्भ्_स्ह् 404 ) विस्तरः । बहुतरं नानाधातुकता [त]देकधातुकता कायपि(चि)त्तप्रभेदसंज्ञा ख्याति । न त्वेव पि (चि)त्तसंज्ञा, मानपर्यवस्थानीयेषु धर्मेषु चित्तं न प्रस्कन्दतीति विस्तरः । बहुतरा अध्यात्ममुपशमसंज्ञा । शमथसंज्ञा । ख्याति । न त्वेव प्रपञ्चसंज्ञा वितर्कपर्यवस्थानीयेषु धर्मेषु चित्तं न प्रस्कन्दतीति विस्तरः ।
तत्र नियता(तं)शमथश्च विपश्यना चोभे मित्रीभूते समयुगम्वर्त्तेते । येन युगनद्धवाहीमार्ग इत्युच्यते । आह । यो लाभी भवति नवाकारायां ( श्भ्_स्ह् 405 ) चित्तस्थितौ नवमस्याकारस्य यदुत समाहिततायाः [।] स च तं परिनिष्पन्नं । समाधिं निश्रित्य अधिप्रज्ञं धर्मविपश्यनायां प्रयुज्यते । तस्य तस्मिन्समये धर्मान्विपश्यतः [।] स्वरसवाहन एव मार्गो भवत्यनाभोगवाहनः । अनभिसंस्कारेण विपश्यना परिशुद्धा, पर्यवदाता, शमथानुयोग(ता) कल्प(ल्पि)ता परिगृहीता प्रवर्त्तते । यथैव शमथमासते [ते] नोच्यते शमथश्चास्यविपश्यना चोभे मित्रीभूते समयुगम्वर्त्तेते । शमथविपश्यनायुगनद्धवाही च मार्गो भवतीति ॥ अनन्तरोद्दानं ॥
निमित्तग्राहपर्येष्टिः प्रत्यवेक्षामुखानुगा ।
अर्थतस्तु लक्षणौः पच्छैः (पक्षैः) कालैश्च सह युक्तिभिः ॥
अनुरूपं तथाभ्यासमाशैथिल्यं विपर्ययः ।
(अनुरूपस्तथाभ्यास आ शैथिल्याद् विपर्ययः)
कालोपलक्षणा तुष्टिरवैधुर्यं प्रयोगता ॥
सम्यक् प्रयोगता चैव नवाधारा द्विधा मता ।
स्वभावतो निदानाच्च तथादीनवदर्शनात् ॥
प्रतिभाविता चैव शुद्धिरावरणस्य हि ॥
तत्र मनस्कारभावना कतमा [।] आहादिकर्मिकस्तत्प्रथमकर्मिक एवं व्यापिनि लक्षणे व्यवस्थापिते एकाग्रतायामा (आ)वरणविशुद्धेश्च मिथ्याप्रयोगं च ( श्भ्_स्ह् 406 ) वर्जयति । सम्यक्प्रयोगे च शिक्षते । स तत्प्रथमत एकाग्रतां प्रहाणाभिरतिं चाधिगमिष्यामीति चतुर्भिर्मनस्कारैः प्रयुज्यते । कतमैश्चचतुर्भिश्चित्तसन्ता पनीयेन मनस्कारेण, चित्ताभिष्यन्दनीयेन, प्रश्रब्धिजनकेन, ज्ञानदर्शनविशोधकेन च मनस्कारेण [।]
तत्र चित्तसन्तापनो मनस्कारः कतमः [ः] [।] आह । येनायं मनस्कारेण । संवेजनीयेषु धर्मेषु चित्तं सम्वेजयत्ययं चित्तसन्तापनो मनस्कारः ।
तत्र कतमश्चित्ताभिष्यन्दनो मनस्कारः । येनायं प्रसदनीयेन मनस्कारेण चित्तमभिप्रमोदयत्ययं (।) चित्ताभिष्यन्दनो मनस्कारः ।
तत्र कतमः प्रश्रब्धिजनको मनस्कारः । आह । येनायं मनस्कारेण कालेन कालं चित्तं सम्वेजनीयेषु धर्मेषु संवेजयित्वा (संवेज्य) कालेन कालमभिप्रमोदनीयेषु धर्मेषु चित्तमभिप्रमोदयित्वा (मोद्याध्यात्मं शमथयति । निर्निमित्तायां । निर्विकल्पकतायामेवं स्थापयत्येकाग्रां स्मृतिं प्रवर्त्तयति येनास्य हेतुना, ( श्भ्_स्ह् 407 ) येन प्रत्ययेन कायचित्तदौष्ठुल्यप्रतिपक्षेण कायचित्तह्लादनकरी कायप्रश्रब्धिश्चित्तप्रश्रब्धिश्चोत्पद्यते । अयमुच्यते प्रश्रब्धिजनको मनस्कारः ।
तत्र ज्ञानदर्शन विशोधनो मनस्कारः कतमः । येन मनस्कारेण कालेन कालं चित्तेन तथाध्यात्मं संशयमिति (संशमयति) तेन पुनः पुनरभीक्ष्णं अधिप्रज्ञं धर्मविपश्यनायां योगं करोति । यदुत तमेवाध्यात्मं चेतःशमथं निश्रित्य [।] अयमुच्यते ज्ञानदर्शनविशोधनो मनस्कारः ।
कतमः कालेन कालं संवेजनीयेषु धर्मेषु चित्तं सम्वेजयत्येवमस्य तच्चित्तं तप्तं भवति । सन्तप्तमुद्विग्नं संविग्नं यदुतास्रवस्थानीयेषु च धर्मेषु । सर्वसंवेजनीयानि स्थानानि । कतमानि । आह [।] चत्वारि । तद्यथा आत्मविपत्तिः, परविपत्तिश्च, वर्तमाने समवहिते संमुखीभूते योनिशो मनसिकारान्वयात्सम्वेजनीयं स्थानं भवति । तत्रात्मसम्पत्तिः । परसम्पत्तिश्च । अभ्यतीते क्षणे निरुद्धे विगते विपरिणते योनिशो मनसिकारान्वयात्सम्वेजनीयं ( श्भ्_स्ह् 408 ) स्थानं भवति । स कालेन कालमभिप्रमोदनीयेषु धर्मेषु चित्तमभिप्रमोदयति । तस्याभिप्रमोदयतः । एवमस्य तच्चित्तं स्निग्धं भवत्यार्द्रं च, द्रवञ्चाच्छं च, प्रसन्नं च ।
तत्राभिप्रमोदनीयाः धर्माः कतमे ॥ आह । त्रिविधा[ः] अ (चत्वारो ऽभिप्रमोनाधिष्ठानं, रत्नानि, शिक्षापदपारिशुद्धिः । आत्मनि च । विशेषाधिगमसंभावनाजातस्य चेतसो [अ]संकोचः । स एवं रत्नान्यनुसरंश्चित्तमभिप्रमोदयति लाभा मे सुलब्धाः । यस्य मे शास्ता तथागतोर्हन् सम्यक्संबुद्धः । लाभा मे सुलब्धा यो (अ)हं स्वाख्याते धर्मविनये प्रव्रजितः । लाभा मे सुलब्धाः । यस्य मे सब्रह्मचारिणः शीलवन्तो गुणवन्तः पेशलाः । कल्याणधर्माणः । भद्रकं मे मरणं भविष्यति । भद्रिका कालक्रिया, भद्रको [अ]भिसंपरायः । एवं चत्वार्यनुस्मरंश्चित्तमभिप्रमोदयति ।
कथं शिक्षापदपारिशुद्धिं शीलपारिशुद्धिं अनुस्मरत(रं)श्चित्तमभिप्रमोदयति । लाभा मे सुलब्धा[ः] सो [अ]हं शास्तरि तथागते [अ]र्हति सम्यक्संबुद्धे, तस्य च स्वाख्याते धर्मविनये, तत्र च सुप्रतिपन्ने श्रावकसंघे, अहमेभिः सब्रह्मचारिभिः शीलसामान्यगतः । शिक्षासामान्यगतो, मैत्रकायवाङ्मनस्कर्मान्तः, दृष्टिसामान्यगतः । साधारणपरिभोगी [।] एवं शिक्षापदपारिशुद्धिं, ( श्भ्_स्ह् 409 ) शीलपारिशुद्धिमनुस्मरन्(रं)श्चित्तमभिप्रमोदयति । यदुत विप्रतिसारपूर्वकेण प्रामोद्येन ।
तत्र कथमात्मनः अधिगमसंभावनामधिष्ठाय भव्यो [अ]हमस्म्येव[ं] परिशुद्धशीलः । प्रतिबलश्च भाजनभूतश्च । एभिः सब्रह्मचारिभिः शीलसामान्यगतो, दृष्टिसामान्यगतः, सद्भिः सामान्यगतैः (सम्यग्गतैः) सत्पुरुषैः, भव्यो [अ]हमस्म्येवंभूत, एवं प्रतिपन्नो, दृष्ट एव धर्मे अप्राप्तस्य प्राप्तये, अनधिगतस्याधिगमाय, आसाक्षात्कृतस्य साक्षात्क्रियायै । इति प्रामोद्यमुत्पादयत्येवमात्मनो [अ]धिगमसंभावनाधिष्ठानेन चित्तमभिप्रमोदयति ।
अपि च । यदनेन पूर्वेणापरमारब्धवीर्येण विहरता विशेषाधिगमः कृतो भवति । तदनुस्मरन्नुत्तरि च विशेषाधिगममभिश्रद्ध्यादधं श्चित्तमभिप्रमोदयत्ययमपरः । संवेजनीयेषु धर्मेषु चित्तमभिसंतापयन्नास्रवमास्रवस्थानीयेभ्यो धर्मेभ्यश्चित्तं विमुखी करोति । विगुणी करोति । प्रातिमुख्येनावस्थापयति । विश्लेषयत्यभिप्रमोदनीयेषु धर्मेष्वभिप्रमोदयन्नमिष्यन्दयन्नैष्क्रम्यप्रविवेकजेषु धर्मेषु सस्नेहं चित्तमभिमुखीकरोत्युपश्लेषयति । रमयति । संयोजयत्येवमस्य तच्चित्ते(त्तं) याभ्यां द्वाभ्यां धर्माभ्यां । सर्वकृष्णपक्षविमुखं सर्वकृष्ण(शुक्ल)पक्षाभिमुखं च ( श्भ्_स्ह् 410 ) प्रवर्त्तते । यदुत संवेगप्रहर्षाभ्यां यतश्चित्तमेवं कृष्णपक्ष विमुखं च । कृत्वा चित्तसन्तापनीयेन मनस्कारेण शुक्लपक्षाभिमुखं कृत्वा, अभिष्यन्दनीयेन मनस्कारेण कालेन कालमध्यात्मं च प्रदधाति । यदुत चेतःशमथेन प्रश्रब्धिजनकेन मनस्कारेण कालेन कालं धर्मान्विचिनोति । प्रविचिनोति । परिवितर्कयति । परिमीमान्स(मांसा)मापद्यते । ज्ञानदर्शनविशोधके(ने)न मनस्कारेण [।] एवमस्य तच्चित्तं कालेन कालं शमथविपश्यनापरिगृहीतं । सर्वाकारसर्वगुणहेतूपकृतः (तं) तेषां तेषां रात्रिदिवसानामत्ययात् । क्षणलवमुहूर्त्तानां (णां) [।] विशेषाय परैति ।
तद्यथा जातरूपरजतं दक्षेण कर्मारेण वा, कर्मा[रा]न्तेवासिना वा कालेन कालं यदा संतापितं च भवति । विगतमलकषाये भावे नाभिष्यन्दितं च भवति । तत्र तत्रालंकारकर्मणा मृदुकर्मण्यतायोगेनाभिमुखीकृतं भवति । तमेनं दक्षः कर्मारो वा, कर्मा[रा]न्तेवासी वा तदुपमेन शिल्पज्ञानेन कर्मान्तवस्तुना यत्रेष्टा(म)लंकारविकृतिस्तत्र परिणमयत्येन (व)मेव योगिना यदा तच्चित्तमभिध्यादिमलकषाये विमुखीभावेनोद्वेजितं च भवति । क्लिष्टदौर्मनस्यविमुखीभावेन चाभिप्रमोदितं भवति । ( श्भ्_स्ह् 411 ) तमेनं योगी यत्र यत्र नियोजयति । शमथपक्षे वा विपश्यनापक्षे वा तत्र तत्र सूपश्लिष्टं च भवति । सुलग्नं चाविकलं चाविकम्प्यं च । यथाभिप्रेतार्थसम्पत्तये च परैति ।
तत्र कथमादिकर्मिकः तत्प्रथमकर्मिको मनस्कारभावनायां विनियुज्यते । यथायं विनियुज्यमानः प्रतिपद्यमानश्च स्पृशति । तत्प्रथमतः प्रहाणाभिरतिं चित्तस्यैकाग्रतां । इह योगज्ञो योगप्रयुक्ते नादिकर्मि(तमादिकर्मि)कः (कं) । तत्प्रथमत एवमववदते । एहि, त्वं, भद्रमुख, त्रीणि निमित्तोद्ग्राहकानि (णि) कारणानि निश्रित्य यदुत दृष्टम्वा श्रुतम्वा, चिन्तानुमानाधिपतेयं वा । परिकल्पं पञ्च निमित्तान्युद्गृह्णीष्व [।] सम्वेजनीयं, प्रसदनीयमादीनवनिमित्तमालोकनिमित्तं वस्तुरूपणानिमित्तञ्च [।] स चेत्स योगप्रयुक्त आदिकर्मिको रागचरितो भवत्यशुभाविनेयः कथं स पञ्चानां निमित्तानामुद्ग्रहणाया[व]बोध्यते । एवम[व]बोध्यते । एहि, त्वं, भद्रमुख । यं यमेव ग्रामम्वा निगमम्वोपनिश्रित्य विहरसि । स चेदन्यत्र ग्रामे, निगमे वान्यतमं पुरुषम्वा, स्त्रियम्वा आबाधिकं श्रृणोषि । दुःखितम्बाढग्लानं, मृतम्वा कालगतं, पुरुषम्वा स्त्रियम्वा [।] अपि तु तस्य पुरुषस्य वा, स्त्रिया वान्यतमान्यतमं मित्रामात्यज्ञातिसालोहितं, ( श्भ्_स्ह् 412 ) परचक्रकृतम्वा तद्ग्रामपर्यापन्नस्य जनकायस्य भोजनव्यसनमग्निदाहकृतम्वा, उदकापहरणकृतम्वा, कुविहितप्रविणाशकृतम्वा, कुप्रयुक्तकर्मान्तप्रलुज्यनाकृतम्वा, अप्रियदायादाधिगमकृतम्वा, कुलांगार विप्रणाशकृतम्वा [।] नो चेच्छृणोषि । अपितु प्रत्यक्षं पश्यसि । नो वान्यस्मिं (स्मिन्) ग्रामनिगमे, नो च तस्मिन्नेव ग्रामनिगमे, न परेषाम (रैर)पि त्वात्मनैव स्पृष्टो भवसि । शारीरिकाभिर्वेदनाभिर्दुःखाभिस्तीव्राभिरिति विस्तरेण पूर्ववत् ।
सर्वं दृष्ट्वा श्रुत्वा चैवं चित्तं संवेजय । दुःखो बतायं संसारः, कृच्छ्र आत्मभावप्रतिलब्धो यत्रेमा एवं रूपात्ममश्च (रूपा आत्मनश्च) परेषाञ्च विपत्तय उपलभ्यन्ते । यदुतारोग्यविपत्तिरपि, जातिविपत्तिरपि, भोगविपत्तिरपि, व्याधिर्व्याधिधर्मता च । मरणं, मरणधर्मता च । अपि चैकेषां शीलविपत्तिरपि, दृष्टिविपत्तिरपि यतो निदानं सत्त्वा दृष्टे च धर्मे दुःखविहारिणो भवन्ति । सम्पराये च दुर्गतिगामिनः । याश्च सम्पत्तयो दृष्टधर्मसुखविहाराय, अभिसम्पराये च, सुगतिगमनाय ता अप्यनित्या[ः], तासामपि अनित्यता प्रज्ञायते । विपत्तिश्चेत् संमुखीभूता, विमुखीभूता तस्मिन्समये सम्पत्तिः । असंमुखीभूतायामपि विपत्तौ दुर्लभा सम्पत्तिर्विनाशधर्मिणी च, एवं च पुनश्चित्तमुद्वेजयित्वा(ज्य) साधु च, ( श्भ्_स्ह् 413 ) सुष्ठु च, योनिशः प्रदधत्स्व । अनाश्वास्यमेतत्स्थानमविश्वास्यं । यत्संसारे मे संसरतः, अपरिनिर्वृतस्याविमुक्तचेतसः एता विपत्तिसम्पत्तयो, न मे संमुखीभावं, विमुखीभावं च गच्छेयुः । न वा अतोनिदानं मे दुःखमुत्पद्यते (द्येत) । तीव्रं, खरं, कटुकमनालापमलभ्यमेतत्स्थानं तस्मादेतत्सर्वार्थमधिपतिं कृत्वा प्रहाणरतिरतेन मे भवितव्यमप्रमत्तेन, एवं बहुलविहारिणो मे अप्येवास्यानर्थस्याक्रिया स्यादित्येवं योनिशः प्रदधत्स्व, एवं त्वं संवेजनीयं निमित्तमुद्गृह्य, पुनः प्रसदनीयं निमित्तमुद्गृह्णीष्व [।] एवं च पुनरुद्गृह्णीष्व [।] आत्मनः शीलानि प्रत्यवेक्षस्व । किं परिशुद्धानि मे शीलान्यपरिशुद्धानि [वा], या (यो) मे स्मृतिसंप्रमोषाद्वा, अनादराद्वा क्लेशप्रचुरतया वा, अव्युत्पन्नतो वास्ति कश्चिच्छिक्षाव्यतिक्रमः । व्यतिक्रान्ते वा, मे (मया) शिक्षा[ं] यथाधर्मं प्रतिकृत्याध्याशयेन च पुनरकरणाय चित्तमुत्पादितं । कश्चि(कच्चि)न्मे कर्तव्यं कृतमकर्त्तव्यञ्च (व्यं वा) । न कृतं समासतः । कच्चिदध्याशयसम्पन्नो [अ]स्मि प्रयोगसम्पन्नश्च । यदुत । शिक्षापदेषु । एवं न ते प्रत्यवेक्षमाणेन । स चेत्परिशुद्धः शीलस्कन्धः, न पुनस्ते चेतना करणीया । कच्चिन्मेविप्रतिसाः र उत्पद्येतापि तु धर्मंतैवेयं । यदेवं विशुद्धशीलस्याविप्रतिसार ( श्भ्_स्ह् 414 ) उत्पद्यते । एवं चाविप्रतिसारिणा न चेतना करणीया, कच्चिन्मे प्रामोद्यं उत्पद्येत । अपि तु धर्मतैवेयं यदविप्रतिसारिणः प्रामोद्यमुत्पद्यते । अनेन तावदेकेन प्रामोद्याधिष्ठानेन द्वयाविप्रतिसारपूर्वकं प्रामोद्यमुत्पादयितव्यः (म्) । उत्पाद्य परेण संप्रहर्षाधिष्ठानेन मानसं संप्रहर्षय । स चेत् पुनर्भवसि पूर्वेणापरं परीत्तस्यापि विशेषाधिगमे प्रीतिर्जनयितव्या, भव्योहमस्मि, प्रतिबलः । एवं परिशुद्धशीलो भगवतः शिक्षासु सुप्रतिष्ठितः । दृष्टे धर्मे प्राप्तस्य प्राप्तये, अनधिगतस्याधिगमाय । असाक्षात्कृतस्य साक्षात्क्रियायै । अनेनाप्यधिष्ठानेन मानसं संप्रहर्षय ॥ स चेत्पुनर्लाभी भवति पूर्वेणापरं परचित्तस्यापि विशेषाधिगमस्य [।] स त्वं तमधिपतिं कृत्वा परेषां च परिपूर्णे विशेषाधिगमे यदुत तथागते, तथागतश्रावकेषु वा, आत्मनश्चोत्तरिविशेषाधिगमसंप्रत्ययजातो मानसं संप्रहर्षय इति (।) य एभिराकारैर्मनसस्ते स प्रहर्ष इति । य एभिराकारैः स पूर्वप्रमुदितस्यैतर्हि प्रीतिमनस्कतेत्युच्यते ।
एवं प्रसदनीयं निमित्तमुद्ग्राहयत्युद्ग्राहयित्वा (ह्य) पुनस्समनुशास्ति । एहि, त्वं, भद्रमुख, संवेजनीयेन निमित्तेन संतापितचित्तः, प्रसदनीयेन चित्तेनाभिष्यन्दितचित्तः प्रहायाभिध्यादौर्मनस्यं (स्ये) लोके बहुलं विहरिष्यसि । यत्र च यत्रालम्बने प्रयोक्ष्यसे ॥ ( श्भ्_स्ह् 415 ) शमथपक्षे, विपश्यनापक्षे वा, तत्र तत्रालम्बने चित्तं स्थितं भविष्यति । अध्यात्मं सुसंस्थितं, कायचित्तप्रश्रब्धिचित्तैकाग्रताश्च प्रतिलप्स्यसे [।] एवं कृष्णपक्षविमुखीभूतः शुक्लपक्षाभिमुखीभूतस्य यदुत संवेगाभिष्यन्दनतया सर्वं पुनरस्यादीनवनिमित्तमुद्गृह्णीष्व यदुत निमित्तेभ्यो विपक्षेभ्यभ्यश्चोपक्लेशेभ्यश्च [।]
तत्र निमित्तानि रूपनिमित्तादीनि दश, वितर्काः कामवितर्कादयो ऽष्टौ, उपक्लेशाः कामच्छन्दादयः (।) पञ्च । एवञ्च पुनस्तेष्वादीनवमुद्गृह्णीष्व । इतीमानि निमित्तानि व्यापारकारकानि(णि) चित्तस्य । इतीमे वितर्का औन्मुक्तसंक्षोभकारकाश्चित्तस्य [।] इतीमे उपक्लेशा अनुपशमकारकाश्चित्तस्य । यश्च चित्तस्य व्यापारो निमित्तकृतः । यश्चोन्मुक्तसंक्षोभो वितर्ककृतः । यश्चानु(नू)पक्लेश [उपक्लेश]कृतः दुःखाविहार एष चित्तस्य, तस्मादिमे निमित्तवितर्कोपक्लेशाः दुःखा अनार्या अनर्थोपसंहिताश्चित्तविक्षेपसंक्षोभकरा[ः ।] एवमादीनवनिमित्तमुद्गृह्य चित्तैकाग्रतायां चित्तस्थितौ, चित्ताविक्षेपः (पे) षड्भिराकारैर्निमित्तमुद्गृहाण, यदुत निमित्तसंज्ञया निर्निमित्ते वाव्यापारसंज्ञया, निर्विकल्पसंज्ञया, निर्विकल्पे चानौत्सुक्यासंक्षोभसंज्ञया, उपशमसंज्ञया, ( श्भ्_स्ह् 416 ) उपशमे(न) निष्परिदाह नैर्वृत्याशुभसंज्ञया [।] एवं निमित्तमुद्गृह्य पुनरपरं चालोकनिमित्तमुद्गृहाण [।] यदुत प्रदीपाद्वा, अग्निस्कन्धप्रभासाद्वा, सूर्यमण्डलाद्वा, चन्द्रमण्डलाद्वा निमित्तमुद्गृह्य, श्मशानाद्युपसंक्रम्य, विनीलकाद्वा निमित्तमुद्गृहाण । यावदस्थी (स्थि)नाम्वा, अस्थिशंकलिकानाम्वा, नो चेच्छ्मशानादपि तु चित्रकृताद्वा, काष्ठश्मशानकृताद्वा निमित्तमुद्गृहाण, उद्गृह्य शयनासनासनमुपसंक्रम, उपसंक्रम्यारण्यगतो वा, वृक्षमूलगतो वा, शून्यागारगतो वा, मंचे वा, पीठे वा, तृणसंस्तरके वा निषीद [।] पर्यङ्कमाभुज्य, पादौ प्रक्षाल्य, ऋजुं कायं प्रणिधाय, प्रतिमुखां (खीं) स्मृतिमुपस्थाप्य, निषद्य तत्प्रथमत एकाग्रतायां चित्ताविक्षेपे स्मृत्युपनिबद्धं कुरु, तत्र च षट्संज्ञां (ः) निर्विकल्पसंज्ञामुपसंशमसंज्ञां निर्व्यापारसंज्ञामनौत्सुक्यासंक्षोभसंज्ञान्निष्परिदाहनैर्वृत्याशुभसंज्ञां । तत्र च ते विक्षेपाविक्षेपपरिज्ञावधानं प्रत्युपस्थितं भवतु । येन विक्षेपाविक्षेपपरिज्ञावधानेन तथा तथा निमित्तवितर्कोपक्लेशेषु विक्षेपञ्च परिजानीष्व, चित्तैकाग्रता[या]ञ्च षट्संज्ञाभावनानुगतायामविक्षेपं [।] तत्र च विक्षेपाविक्षेपे (पयोः) तथा तथावहितो भव यथा ते एकाग्रतोपनिबद्धा, अध्यात्मं चेतःशमथोपनिबद्धा सर्वा चित्तसन्ततिश्चित्तधारा पौर्वापर्येण ( श्भ्_स्ह् 417 ) निर्निमित्ता प्रवर्तेत । निर्विकल्पा उपशान्ता [।] स चेत्पुनः संप्रमोषा[त्]स्मृतिसंप्रमोषात्तथा शमथप्राप्ते चेतसि निमित्तवितर्कोपक्लेशानभ्यासदोषादाभासमागच्छन्ति । सुखमादर्शयन्ति । आलम्बनीकुर्वन्ति । तेषूत्पन्नोत्पन्नेषु स्मृत्यमनसिकारः कर्तव्यः । यदुत पूर्वदृष्टमेवमधिपतिं कृत्वा एवं तदालम्बनम[नु]स्मृत्यमनसिकारेण विभावितं । विश्वस्तमनाभासगतायामवस्थापितं भविष्यति । तच्चैतद्, भद्रमुख, सूक्ष्ममालम्बनं । दुःप्र(दुष्प्र)तिविध्यमस्य ते प्रतिवि(वे)धाय तीव्र[च्]छन्दश्च व्यायामश्च करणीय[ः ।]
इदं चालम्बनं सन्धायोक्तं भगवता । जनपदकल्याणी जनपदकल्याणीति भिक्षवो महाजनकायः सन्निपतेत । अथ पुरुष आगच्छेदबालजातीयः । तं कश्चिदेव[ं] वदेदिदं ते भोः, पुरुष, तैलपात्रपूर्णं समतित्तिकमनभिषेक्यमन्तरा च जनकायः सन्निपतेत । सा खलु जनपदकल्याणीम(अ)न्तरा च ( श्भ्_स्ह् 418 ) महासमाजं । परिहर्त्तव्यमयं च ते उत्क्षिप्तासिको वधकपुरुषः पृष्ठतः पृष्ठतः समनुबद्धः । स चेत्त्वमस्मात्तैलपात्रादेकबिन्दुमपि पृथिव्यां निपातयिष्यसि ततस्ते उत्क्षिप्तासिको बधकपुरुष उच्छिन्नमूलं शिरः प्रपातयिष्यति । किं मन्यध्वे भिक्षवः अपि नु स पुरुषः अमनसिकृत्वा तैलपात्रममनसिकृत्वा तैलपात्रममनसिकृत्वा उत्क्षिप्तासिकं बधकपुरुषं जनपदकल्याणी[ं] मनसि कुर्यान्महाजनसमाजम्नो, नो, भदन्त, तत्कस्य हेतोस्तथा हि तेन पुरुषेणो[त्क्षि]प्तासिको वधकपुरुषः पृष्ठतः पृष्ठतः समनुबद्धो दृष्टः । तस्यैवं स्यात् [।] स चेदहमस्मात्तैलपात्रादेकबिन्दुमपि पृथिव्यां पातयिष्यामि । अतो मे उत्क्षिप्तासिको बधकपुरुषः उच्छिन्नमूलं शिरः प्रपातयिष्यति । नान्यत्र स पुरुषः अमनसिकृत्य(त्वा) जनपदकल्याणी[ं] महासमाजम्वा । तदेव तैलपात्रं सर्वचेतसा समन्वाहृत्य सम्यगेव परिहरेदेवमेव भिक्षवः । ये केचिच्चत्वारि स्मृत्युपस्थानानि सत्कृत्य भावयन्ति । गुरुकृत्य सर्वचेतसा समन्वाहृत्यते मे (त इमे) श्रावका इति [।] तत्र जनपदकल्याणीति काय[च्]छन्दाद्युपक्लेशपर्यवस्थानीयानान्धर्माणामेतदधिवचनं । परमप्रधाना नृत्तगीतवादित इति वितर्कप्रपञ्चसंक्षोभस्थानीयानां धर्माणामेतदधिवचनं । महासमाज इति । रूपनिमित्तादीनां दशानां निमित्तानामेतदधिवचनं । ( श्भ्_स्ह् 419 ) अबालभागीयः पुरुष इति । योगाचारस्याधिवचनं । तैलपात्रमिति । शमथोपनिबद्धस्य चित्तस्य एतदधिवचनं । कायचित्तप्रश्रब्धिस्नेहनार्थेन उत्क्षिप्तासिको बधकपुरुष इतिनिमित्तवितर्कोपक्लेशेषु पूर्वोद्गृहीतस्यादीनस्यैतदधिवचनं [।] सत्कृत्य विहरति । न चैकबिन्दुमपि पृथिव्यां पातयतीति विक्षेपाविक्षेपपरिज्ञानावधानपरिगृहीतस्य शमथमार्गस्यैतदधिवचनं । येनायं सर्वो (सर्वां) चित्तसन्ततिं चित्तधारां निर्मिमित्तां निर्विकल्पामुपशान्तां वीर्यबलेन निरन्तरां पौर्वापयेण प्रवर्त्तयति । न चैकचित्तमुत्पादयति । निमित्तालम्बनम्वा वितर्कोपक्लेशालम्बनम्वा ॥
तमेनमेवं शमथप्रयुक्तमादिकर्मिकं योगी समनुशास्ति । यावत्ते, भद्रमुख, एवं शमथमार्गप्रयुक्तस्य एवमुपायपरिगृहीतं स्मृतिसंप्रजन्यसहगतं साभिरामं चित्तं भवति । तावत्ते शमथमार्ग एव भावयितव्यः । स चेत्पुनरनभ्यासमोषान्न रमते सोपायं च तदालम्ब तस्मान्निर्विकल्पादालम्बनाद् व्युत्थाय सविकल्प आलम्बने स्मृत्युपनिबद्धं कुरुते । यदेव ते पूर्वोद्गृहीतमशुभनिमित्तं तदेव मनसि कुरु तत्प्रथमतो निमित्तमात्रानुसारिण्या विपश्यनया यदुत विनीलकम्वा, विपूयकम्वा, यावदस्थिशंकलिकाम्वा ॥ तथा प्रयुक्तश्च तत्प्रथमव(त) एकं विनीलकमधिमुच्यस्व, ( श्भ्_स्ह् 420 ) यावदेकामस्थिशंकलिकां यतश्चात्र कृतपरिचयो भवसि । प्रभास्वरश्च तेधिमोक्षः प्रवर्तते । तदालम्बनन्द्वौ तदा द्वौ, त्रीणि, चत्वारि, पंच, दश, विंश, त्रिंशच्चत्वारिंशत् । पञ्चाशद्विनीलकशतंविनीलकसहस्रं, यावत्सर्वा दिशो विदिशश्च । प्रमाणाकारेण पूर्वा[ं] निरन्तरा[म]धिमुच्यस्व । येषां न स्यादवकाशः अन्ततो दण्डविष्टम्भनकोटीमात्रमपि [।] यथाविनीलकानामेवं यावद स्थिशंकलिकानां सर्वमेवमधिमुक्तिमनस्कारं निश्रित्य भूतमनस्कारमवतर, एवं च पुनरवतर, यावन्त्येतानि विनीलकानि मयाधिमुक्तानि यावदस्थिशंकलिका अतो [अ]प्रमाणवराणि मे पूर्वान्तभारभ्य, तत्र तत्र भवगतिच्युत्युपपादेषु, मृतस्य कालगतस्य यानि विनीलकानि निर्वृत्तानि, यावदस्थिशंकलिकानिर्वृत्यां । येषां पूर्वा कोटिर्न प्रज्ञायते, निवर्तमानानां, ताः स चेत्कश्चित् संहरेत् संहृताश्च न विनश्येयुः, न च पूतीभवेयुः । नास्ति स पृथिवीप्रदेशो यत्र तेषामवकाशः स्यात् । एककल्पिका नामपि, तावद्यावदस्थिशंकलिकानां स चेत्कश्चित्संहारको भवेत् । तासां स्यात् संहृतानां विपुलपार्श्वपर्वतसमा राशिः । यथा पूर्वस्यान्तर (पूर्वान्त)मारभ्यैवम परान्तमपि यावत् (।) दुःखस्यान्तं न ( श्भ्_स्ह् 421 ) करिष्याम्येवं हि त्वमभियुक्षि (युंक्ष्व) । मनस्कारं निश्रित्य भूतमनस्कारमवतीर्णो भविष्यसि (भव) । न चैतानि विनीलकानि यावदस्थिशंकलिका [या] विपश्यनाप्रयुक्तेन सकृद्विपश्यितव्या[नि], नान्यत्रैकं विनीलकमधिमुच्य पुनश्चित्तं शमयितव्यं तावच्च तद्विनीकमधिमोक्तव्यः (व्यं) यावत्तस्मेना (स्मिन्ना)लम्बने साभिरामप्रभास्वरं नोपायासेन पर्यवनह्यते । न तावात्कालकरणीयं भवति । तस्मिन् समये अध्यात्मं सा(सं?) शमयितव्यं यथा विनीलकमेवं यावदस्थिशंकलिकैका एवं यावदप्रमाणा अनेनैव नयेन वेदितव्या[ः] । चित्तमध्यात्मं संशमयित्वा (संशम्य) विमोक्तव्यास्ततः सर्वपश्चादप्रमाणानि विनीलकान्यप्रमाणा यावदस्थिशंकलिका अध्यात्मं चित्ताभिसंक्षेपेण विभावयत्यनाभासगतायां स्थापयति । न च तानि निमित्तान्युत्सृजति ॥ सविकल्पानि नापि च कल्पयति । नान्यत्र तदालम्बनमेव निर्निमित्तं निर्विकल्पमुपशान्तं चित्तमवस्थापयति ।
स पुनश्चोपदिश्यते, यत्ते भद्रमुख, पूर्वमेवालोकनिमित्तमुद्गृहीतं, तत्त्वं शमथपक्षप्रयोगे [अ]पि मनसि कुरु, विपश्यनापक्षप्रयोगे [अ]पि, आलोकसहगतेन ( श्भ्_स्ह् 422 ) चित्तेन, सप्रभाससहगतेन, प्रभास्वरेणानन्धकारेण शमथविपश्यनां भावय । एवं च ते शमथविपश्यनामार्गे आलोकसंज्ञां भावयतः । स चे दादित एव अविस्पष्टोधिविमोक्षो भविष्यत्यालम्बने सम्य[गा]भासः । स तेन हेतुना, तेन प्रत्ययेन, भावनाभासाद्विशिष्टता भविष्यति । प्रचुराभास(ग)ता च । स चेत्पुनरादित एव विस्पष्टो भविष्यति । प्रचुराभासः । स भूयस्या मात्रया विस्पष्टतरतां प्रचुराभासतरताञ्च गमिष्यति । स त्वमेतत्सम्वेगनिमित्तेन सूद्गृहीतेन, प्रसदनीयनिमित्तेन, शमथनिमित्तेन, विपश्यनानिमित्तेन, लोकनिमित्तेन, सूद्गृहीतेन कालमध्यात्मं चित्तं संशयमयन्कालेन कालं धर्मान्विचिन्वन्ति(चिन्वन्), निमित्तमात्रानुसारिण्या विपश्यनया स्मृत्युपस्थानेष्ववतर । यदुताशुभाप्रयोगमेवाधिपतिं कृत्वा, एवं च पुनर्विचिन्वन् बहिर्धा षट्त्रिंशतो (त्)द्रव्याणि कायात् केशादि प्रसावपर्यन्ता (न्तं) निमित्तमुद्गृह्य अध्यात्ममेतानि सर्वाणि अशुचिद्रव्याण्यधिमुच्याध्यात्मंचित्तं संशमय (स्व), इदं ते भविष्यत्यध्यात्मं कायेन कायानुपश्यनायाः यदुतात्मनो ऽन्तः कायमारभ्य, स त्वं पुनरपि बहिर्धा अशुभानिमित्तेनोद्गृहीतेन विनीलकं चाधिमुच्यस्व, यावदस्थि वा शंकलिकाम्वा, ( श्भ्_स्ह् 423 ) परीत्तेन वाधिमोक्षेण, महद्गतेन वा [अ]प्रमाणेन वाधिमुच्याधिमुच्याध्यात्मं चित्तं संशमय, इदं ते भविष्यति । बहिर्धा कायेन कायानुपश्यनाया, यदुत परसान्ततिकं बहिःकायमारभ्य, स त्वं पुनरप्यात्मनः अन्तःकाये ऽशुभतापरिभावितेन चेतसाश्चाशुभतापरिभावितेन चेतसा परकाये चान्तर्बहिश्चाशुभतापरिभावितेन चेतसात्मानं घ्रि(म्रि)यमाणमधिमुच्यस्व, मृतम्वा पुनः श्मशाने [अ]भिनिर्ह्रियमाणमभिनिर्हृतम्वा, श्मशाने च्छोरितं । छोरितम्वा विनीलकावस्थं, विपूयकावस्थं, यावदस्थिशंकालिकावस्थमधिमुच्यस्व, इदं ते भविष्यत्यध्यात्मबहिर्धा काये कायानुपश्यनायाः स[त्]त्वं, पुनरपि चत्वारो ऽरूपिणः स्कन्धाः श्रुतचिन्ताधिपतेयेन परिकल्पनिमित्तग्राहेण त्रिषु भागेष्वधिमुच्यस्व शमथपक्ष्ये, विक्षेपपक्ष्ये, विपश्यनापक्ष्ये च । यदाध्यात्मं चित्तमभिसंक्षिपसि तत्र निर्मिमित्तनिर्विकल्पोपशमाकारा निर्व्यापारानुत्सुकासंक्षोभनिःपरिदाह नैर्वृत्यसुखसंज्ञाकारा अविक्षेपालम्बना वेदनादयश्चत्वारो [अ]रूपिणः स्कन्धाः । प्रतिक्षणं प्रतिक्षणमन्यो ऽन्यतया नवनवनिष्पुराणतया प्रवर्तन्त इत्यधिमुच्यस्व, इदं ते भविष्यत्यध्यात्मबहिर्धा वेदनासु, चित्ते, धर्मेषु, धर्मानुपश्यनायाः सत्त्वं । ये पूर्वं विषयोपादाना, विषयालम्बना असमाहितभूमिपतिता अभ्यपतिताः ( श्भ्_स्ह् 424 ) क्षीणा, ये चैतर्हि स्मृतिसंप्रमोषाच्चित्तक्षेपे सत्युत्पद्यन्ते निमित्तवितर्कोपक्लेशालम्बनाधिपतेया वेदनादयश्चत्वारो [अ]रूपिणः स्कन्धास्तेषामा(या)पायिकतां तावत्कालिकतामित्वरप्रत्युपस्थायितां, सादीनवतां, सध्रुवतामनाश्वासिकतामपरिमुच्यस्व । इदं ते भविष्यति । बहिर्धा वेदनाचित्तधर्मानुपश्यनायाः सत्त्वं, पुनरपि विपश्यनानिमित्तमुद्गृह्य सनिमित्ते संकल्पे मनस्कारे स्थितः । ये सविकल्पसनिमित्तालम्बनाधिपतेया अध्यात्ममुत्पद्यन्ते । वेदनादयचत्वारो [अ]रूपिणः स्कन्धास्तेषां प्रतिक्षणं नवनवतां निष्पुराणतामन्यो ऽन्यतां पूर्ववदधिमुच्यस्व । इदं ते भविष्यति बहिर्धा वेदनायां, चित्ते, धर्मेषु धर्मानुपश्यनायाः [सत्त्वं] । एवं हि त्वमशुभाप्रयोगमधिपतिं कृत्वा चत्वारि स्मृत्युपस्थानान्यवतीर्णो भविष्यसि । स्मृत्युपस्थाने, प्रयोगे [अ]पि च । ते कालेन कालं शमथविपश्यनायां प्रयोक्तव्यं । स त्वमेवमुपस्थितया स्मृत्या चतुर्षु स्मृत्युपस्थानेषु यं यमेव ग्रामं वा, निगमं बोपनिश्रित्य विहरसि, स त्वं तमेव ग्रामं वा, निगमं वा । तन्नित्येन चित्तेन, तत्प्रवणेन, तत्प्राभो(भा)रेण आलम्बनमालम्बननिमित्तमुत्सृजता पिण्डाय प्रविश । चण्डस्य हस्तिनश्चण्डस्याश्वस्य, चण्डस्य गोश्चण्डस्य कुररस्य, अहिश्वभ्रस्थाणुकण्टकपल्वलप्रपातस्यन्दिकगूथकठल्लपापिके या चर्या शयनासनपरिवर्जना [।] ( श्भ्_स्ह् 425 ) अरक्षितस्ते आत्मा भवति । येषु च ते विषयनिमित्तेष्विन्द्रियाणि प्रेरयितव्यानि तेष्वनाभोगतया असंवृतानीन्द्रियाणि भवन्तु । येषु वा पुनर्निमित्तेष्विन्द्रियाणि प्रेरयितव्यानि । तेषु तेषूपस्थिता
स्मृतिः । भवतु, यदुत क्लेशासमुदाचाराय । स त्वमेवं सुरक्षितेन कायेन, सुसंवृतैरिन्द्रियैः, सूपस्थितयास्मृत्या, तद्गतेन मानसेन मात्रया पिण्डपातं परिभुंक्ष्व । मितभागी(णी) च भव, सार्धं गृहस्थप्रव्रजितैर्युक्तका(भा)णी, कालभाणी, आर्जवभाणी । प्रशान्तभाणी । अधर्म्या च ते [त्वया] कथा सर्वेण सर्वं परिवर्जयितव्या । धर्म्यामपि ते [त्वया] कथा[ं] कथयता न विगृह्य कथा करणीया । तत्कस्य हेतोः [।] विगृह्य कथासंरम्भानुयोगमनुयुक्तस्य पुरुषपुद्गलस्य विहरतः कथाबाहुल्ये चित्तं सन्तिष्ठते । तथा बाहुल्ये सत्यौद्धत्यमौद्धत्ये सत्यव्युपशमः । अव्युपशान्तचित्तस्याराच्चित्तं समाधेर्भवति । न त्वमेवंचारी त्वरितत्वरितमनुत्सृष्टेनालम्बनेन मे [अ]द्यशमथविपश्यनायां यथोद्गृहीतेनैव निमित्तेन प्रतनुकारितयावा, अन्तकारितया च । योगं कुरु, ते (स त्वम्) अग्निमथनप्रयोगेण च सातत्यसत्कृत्यप्रयोगतया प्रततकारी भव, एवं तु पुनश्चितं प्रणिधत्स्व । स चेद्यावदायुर्जम्बूद्वीपे सर्वेषां जंबूद्वीपकानां मनुष्याणामभूत्तत्सर्वमभिसमस्तं ममैकस्यैतर्हि ( श्भ्_स्ह् 426 ) स्यात् । सो [अ]हं तावदप्रमाणेनायुषा प्रमाणयोगप्रयोगेण च सातत्यसत्कृत्यप्रयोगतया प्रततकारी भवा[मि] [।] एवं च पुनश्चित्तं प्रणिधत्स्व । स चेद्यावदायुर्जबूद्वीपे मनसिकारे शमथविपश्यनायां योगं न रिंचयं(यन्) यदुतास्यैव योगप्रयोगस्य महाफलतां महानुशंसतां च विदित्वा प्रागेवास्मिन् परि(प्रणि)धत्ते [।] आयुषीत्वरे जीविते दूरमपिगत्वा वर्षशति(त)के परिगण्यमानमौन्तिके [।]
एवं हि त्वं यथानुशिष्टः प्रततकारी वात्यन्तकारी च । यस्यार्थे प्रहाणमुपगतस्तस्यार्थस्याबाधको भविष्यसि । तत्प्रथमत[स्त]म्प्र[क्ष्य]सि । मृदुकां कायप्रश्रब्धिं चित्तैकाग्रतां ततश्चोत्तरि विपुलालौकिकलोकोत्तरां सम्पदमारागयिष्यति(सि) ।
एवमयमादिकर्मिकस्तत्प्रथमकर्मिकः । अशुभाप्रयुक्तो योगज्ञेनाचार्येण चोद्यमानः सम्यग(क्) चोदितो भवत्येवं च प्रतिपद्यमानः । सम्यक्प्रतिपन्नो भवति । यथा [अ]शुभाविनेयो [अ]शुभायां, तथा मैत्र्यविनेयादयो [अ]पि आनापानस्मृतिपर्यवसानाय यथायोगं वेदितव्यास्तत्रायं विशेषः । तदन्येष्ववतरणमुखेषु तं विभावयिष्यामि । तत्र मैत्रीभावनाप्रयुक्तेनादिकर्मिका(ण)बहिर्धा मित्रपक्षादुदासीनपक्षाच्च ( श्भ्_स्ह् 427 ) निमित्तमुद्गृह्य प्रतिरूपशयनासनगतो हि सुखाध्याशयगतेन मनस्कारेण समाहितभूमिकेन पूर्वमेकं मित्रमधिमोक्तव्यमेकममित्रमेकमु(क उ)दासी नं (नः), तेषु च त्रि[षु] पक्षेषु तुल्यं हितसुखाध्याशयगतेन मनस्कारेणोपसंहारश्च करणीयः । सुखिता भवन्त्येते सुखकायाः सत्त्वा यदुतानवद्यकामसुखेन, अनवद्यसप्रीतिकसुखेन, अनवद्यनिष्प्रीतिकसुखेन । ततः पश्चाद् द्वे मित्राणि, त्रीणि, चत्वारि, पञ्च, दश, विंश, त्रिंशत्पूर्ववद्यावत्सर्वा दिशो विदिशश्च मित्रामित्र (त्रैः) पूर्णा अधिमुच्यन्ते । निरन्तरा यत्र नास्त्यन्तरमन्ततो दण्डकोटीविष्कम्भनमात्रमपि यथा मित्रपक्षेणैवममित्रोदासीनपक्षेण वेदितव्यं । स च मैत्रीप्रयोगं च न जहाति । नान्यत्र भावयन्नेव मैत्रीं स्मृत्युपस्थानेष्ववतरति । कथं पुनरवतरत्यधिमुच्यमानो [अ]वतरति । यथाहमप्यन्येषां मित्रसम्मतो [अ]मित्रसम्मतश्चोदासीनसम्मतश्च [।] अहमपि सुखकामो दुःखप्रतिकूलः । इदमस्याध्यात्मं काये कायानुपश्यनायाः [सत्त्वम्] । एते [अ]पि सत्त्वाः परेषां मित्रभूता, अमित्रभूता, उदासीनभूताश्च, यथा मे ते [अ]पि सुखकामाः दुःखप्रतिकूला इदमस्य बहिर्धा कायानुपश्यनायाः [सत्त्वं], यथाहं तथैते सत्त्वा, यथा मे आत्मनः सुखमेषणीयं सत्त्वानामात्मसमतयात्मतुल्यतया ( श्भ्_स्ह् 428 ) एषां सत्त्वानां मयाभिहितसुखोपसंहारकरणाय इतीदमस्याध्यात्मबहिर्धा काये कायानुपश्यनायाः [सत्त्वम्] । चत्वारि चैतानि स्मृत्युपस्थानानि, संभिन्नस्कन्धालम्बनतया संभिन्नालम्बनं स्मृत्युपस्थानं भवति । रूपनिमित्तन्तु योगी उद्गृह्य वर्णसंस्थाननिमित्तं, विज्ञप्तिनिमित्तं च मित्रामित्रोदासीनपक्षाद्(क्षेभ्यो) ऽधिमुच्यते । तेनेदं कायस्मृत्युपस्थानमेव व्यावस्थाप्यते । सो ऽधिमुक्तिमनस्कारं निश्रित्य, भूतमनस्कारमस्यावतरत्येवं च पुनरधिमुच्यमानो [अ]वतरति । यावदप्रमाणाः सत्त्वा एते मया (अ)धिमुक्ता । हितसुखगतेनाध्याशयेन । अतो [अ]प्रमाणतराः सत्त्वा ये ममपूर्वान्तमारभ्य मित्रामित्रोदासीनपक्षतया [अ]भ्यतीता ये मम मित्रतां गत्वा अमित्रतामुपगता, अमित्रतां गत्वा मित्रतां चोदासीनतां तोप(चोप)गतास्तदनेन पर्यायेण सर्व एव सत्त्वास्समसमा, नास्त्यत्र काचिन्मित्रता वा, अमित्रता वोदासीनता वा, परिनिष्पन्नेत्यनेनैव पर्यायेण तुल्यहितसुखोपसंहारता च करणीया । यथा पूर्वान्तमारभ्य एवमपरान्तमप्यारम्य, सत्यां संसृतौ संसारे येपि च मया सत्त्वाः पूर्वान्तमारभ्य तन्मैत्रेण चित्तेनानुकम्पिताः । किं ( श्भ्_स्ह् 429 ) चापि ते [अ]भ्यतीता अपितु तानेतर्ह्यनुकम्पे यदुत चित्तनिष्कालुष्य(कलुष)तामव्यापन्नतामुपादाय । सुखिता बत ते सत्त्वा, भूता भविष्यन् (अभूवन्), ये, [अ]पि च न भूता अनागते [अ]ध्वनि सुखिता भवन्तु । एवं भूतमनस्कारानुप्रतिष्ठस्य मैत्रीविहारिणः यः पुण्याभिष्यन्दः कुशलाभिष्यन्दः । तस्याधिमोक्षिकमैत्रीविहारगतः पुण्यस्कन्धः । शतिमामपि कलां नौपेति । सहस्रिमामपि । संख्यामपि, कलामपि । गणनामप्युपनिषदमपि नोपैति [।] शेषं पूर्वत् ॥
तत्रेदंप्रत्ययताप्रतीत्यसमुत्पाद आदिकर्मिकः श्रुतचिन्ताधिपतेयेन परिकल्पितं न निमित्तमुद्गृह्णात्यन्येषां सत्त्वानामज्ञानं । सम्मोहो येनेमे प्रत्यक्षमनित्यं नित्यतो [अ]वगच्छन्ति प्रत्यक्षमशुचि शुचितः, दुःखं सुखतः, निरात्मकतामात्मतः । विपर्यस्ता एते सत्त्वा विपर्यास हेतोर्दृष्टे धर्मे, वेदनासु सम्पराये चात्मभावाभिर्निवृत्तौ, तृष्यन्ति, तृषिताश्च जातिमूलकानि कर्माणि कृत्वा एवमायत्यां कर्मक्लेशहेतु [............] केवलं संदुःखमभिनिर्वर्तयन्त्येवं निमित्तमुद्गृह्याध्यात्ममधिमुच्यते । अयमपि केवलो दुःखस्कन्ध एवमेव संभूत इति । ये चात्मभावा नानन्ता[ः] पर्यन्ताः पूर्वान्तमारभ्य येषामादिरेव न प्रज्ञायते । ( श्भ्_स्ह् 430 ) ते ऽप्येवंभूता, एषामपि सत्त्वानामतीतानागतप्रत्युत्पन्नाः सर्व एवात्मभावा दुःखस्कन्धसंगृहीता एवमेवाभिनिर्वृत्ताः । आयत्यां नोत्पद्यन्ते । स खल्वयमियं(दं)प्रत्ययताप्रतीत्यसमुत्पादमनस्कारः सर्वभूतमनस्कार एव नास्त्याधिमोक्षिकः । यदि न पुनरात्मनो वर्तमानान् स्कन्धान् प्रतीत्यसमुत्पन्नान् मनसिकरोति । तदाध्यात्मं काये यावद्धर्मेषु धर्मानुदर्शी विहरति । यदा च पुनः परेषां वर्तमानान्स्कन्धान् प्रतीत्यसमुत्पन्नान्मनसि करोति । तदाध्यात्मबहिर्धा काये यावद्धर्मेषु धर्मानुदर्शी विहरति । यदात्मनश्च परेषां चातीतानागतान् [स्कन्धान्] प्रतीत्यसमुत्पन्नान्मनसि करोति । तदाध्यात्मबहिर्धा काये यावद्धर्मेषु धर्मानुदर्शी विहरति । शेषं पूर्वत् ।
तत्र धातुप्रभेदप्रयोगप्रयुक्त आदिकर्मिको बहिर्धापृथिवीकाठिन्यनिमित्तमुद्ग्रह्य, तद्यथा भूपर्वततृणवनशर्करकठिल्लमणिमुक्तिवैडूर्यशिलाप्रवालादिकेभ्यश्चाध्यात्मं काठिन्यमधिमुच्यते । बहिर्धा अप्स्वब्धातोर्न्नि(र्नि)मित्तमुद्गृह्य, तद्यथा नदीप्रस्रवणतडागकूपादिभ्य[ः], तथा महतो [अ]ग्निस्क स्क[न्धस्य]ब्धौ वादित्यकिरणसंतापिता भूराविष्टेभ्यो ( श्भ्_स्ह् 431 ) [वा] सर्वेभ्यः । उदाराग्निसंप्रतापितेभ्यो वा प्रश्रयेभ्यश्च नो बहिर्धा वायुस्कन्धात्पूर्वदक्षिणपश्चिमोत्तरेभ्यो वायुभ्यो यावद्वायुमण्डलेभ्यः । ये देशा [अस्त्यादेस्तारणीया] वायुगतेन सच्छिद्राः, सुशिराः, सावकाशाः, तस्मादाकाशधातोर्निमित्तमुद्गृह्णात्यध्यात्ममब्धातुं, तेजो धातुं वायुधातुमाकाशधातुमधिमुच्यति(ते) । श्रुतचिन्ताधिपतेयेन च परिकल्पितेन [।] एवं विज्ञानधातोर्निमित्तमुद्गृह्णाति । चक्षुराध्यात्मिकमायतनमपरिभिन्नं चेद् भवति । रूपमाभासगतं । न च तज्जो मनस्कारः प्रत्युपस्थितो भवति । न तज्जस्य चक्षुर्विज्ञानस्य प्रादुर्भावो भवति । विपर्ययाद्भवति । एवं यावन्मनोधर्मान्मनोविज्ञानं वेदितव्यम् ।
एवं निमित्तमुद्गृह्याप्येषां सर्वेषां विज्ञानानामस्मिन् काये चातुर्महाभूतिके बीजं धातुर्गोत्रं प्रकृतिरित्यधिमुच्यते । तान्येतानि चत्वारि महाभूतानि तत्प्रथमतो [अ]ङ्गप्रत्यंगो(गतो) [अ]र्थं विनाप्यधिमुच्यते [।] ततः पश्चात् । सूक्ष्मतरावयव प्रभेदानाधिमुच्यते । एवं यावद्गतायनप्रविष्ट[स्]तु[टि]समतया, एवं यावच्छनैः शनैः परमाणुशो [अ]धिमुच्यते । स एकैकमंगावयवप्रमाणपरमाणुसञ्चयसन्निविष्टमधिमुच्यते । ( श्भ्_स्ह् 432 ) कः पुनर्वादः सर्वकायमयं(यम् । अयं) धातुप्रभेदप्रयुक्तस्य चार्थप्रभेदपर्यन्तः रूपिणां ताबद्धातूनामाकाशधातोः पुनः । यत्पुनरस्य तस्मिन् प्रयोगे शमथविपश्यनाभावनायां विक्षेपाविक्षेपपरिज्ञावधानमिदमस्य संप्रजन्यस्य स्मृतिसमतायाश्च [।] यत्पुनः संवेगनिमित्तं, प्रसदनीयं च निमित्तं सूद्गृहीतं भवतीदमस्याभिध्यादौर्मनस्य विनयस्य, तस्यैवमातापिनो विहरतो यावत् (द्) द्वितीयलोके [अ]भिध्यादौर्मनस्यं पूर्वमेव सम्यक्प्रयोग[स]मारम्भकाले । सूक्ष्मचित्तप्रश्रब्धिर्दुरुपलभ्या प्रवर्त्तते । या तत्र शमथम्वा भावयतो, विपश्यनाम्वा प्रस्वस्थचित्तता, प्रस्वस्थकायता । चित्तकाय कर्मण्यता । इयमत्र कायचित्तप्रश्रब्धिः । तस्य सैव सूक्ष्मा चित्तैकाग्रता चित्तकायप्रश्रब्धिश्चाभिवर[ं] नी औदारिकां सूपलक्ष्यां चित्तैकाग्रतां कायप्रश्रब्धिमावहति । यदुत हेतुपारं पर्यादानयोगेन, न तस्य, न चिरस्येदानीमौदारिकीचित्तकायप्रश्रब्धिश्चित्तैकाग्रता च । सूपलक्ष्योत्पत्स्यतीति । यावदस्या पूर्वनिमित्तं पूर्व निर्गौरवप्रतिभासमुत्पद्यते । न चैतद्वाधलक्षणं । तस्यानन्तरोत्पादाद्यत्प्रहाणरतिविवन्धकारी (रि)णां क्लेशानां पक्ष्यं चित्तं(त्त)दौष्ठुल्यं तत्प्रहीयते । तत्प्रतिपक्षेण च चित्तकर्मण्यता ( श्भ्_स्ह् 433 ) चित्तप्रश्रब्धिरुत्पद्यते । तस्योत्पादात् कायप्रश्रब्ध्युत्पादानुकूलानि वायूर्ध्व [मु]क्तानि महाभूतानि काये ऽवक्रमन्ति । तेषामवक्रमणहेतोर्यत्कायदौष्ठुल्यं तद्विगच्छति । प्रहाणरतिरिव[दक]रक्लेशापक्ष्यकायप्रश्रब्ध्या च तत्प्रतिपक्षिकया सर्वकायः पूर्यते । स्यादा [............] ध्याति ।
ततः प्रथमोपनिपाते चित्तौष्ठिल्यं (चित्तदौष्ठुल्यं) चित्तसुमनस्कारप्रामोद्यसहगतालम्बनसाभिरामता च । चित्तस्य तस्मिन् समये ख्याति । तस्योर्ध्वं यो ऽसौ तत्प्रथमोपनिपाती प्रश्रब्धिवेगः । स शनैः शनैः परिश्लथतरो भवति । छायेवानुगता प्रश्रब्धिः काये च प्रवर्त्तते । यच्च तदौद्धिल्यं(द्धत्यं) चेतसस्तदप्यवहीयते । प्रशान्ताकारचित्तसालम्बने शमथो यस्तच्च(यस्स)प्रवर्त्तते । तत ऊर्ध्वमयं योगी आदिकर्मिकः समनस्कारो भवति । [स]मनस्कार इति च संख्यां गच्छति । तत्कस्य हेतोः । रूपार्थानुरोधेन समाहितभूमिको मनस्कारः परीत्तस्तप्रथमतः प्रतिलब्धो भवति । तेनोच्यते समनस्कार इति ।
तस्यास्य समनस्कारस्यादिकर्मिकस्येमानि लिंगानि भवन्ति । परीत्तमनेन रूपावचरं चित्तं प्रतिलब्धं भवति । परीत्ता कायप्रश्रब्धिश्चित्तप्रश्रब्धिश्चित्तैकाग्रता, भव्यो भवति प्रतिबलः । क्लेशविशोधनालम्बनः ( श्भ्_स्ह् 434 ) प्रयोगे ऽस्य, स्तिग्वा(मा)चास्य चित्तसन्ततिः प्रवर्त्तते । शमथोपगूढाच्चरितं तदानेन विशोधितं भवति । स चेद्रंजनीये विषये चरति, न तीव्रं रागपर्यवस्थानमुत्पादयति । अल्पमात्रेकणावरमात्रकेण च । प्रतिपक्षसन्निश्रयेणाभोग मात्रकेणाशक्तो [अ]तिप्रतिविशोद(ध)यितुं । यथा रंजनीये एवं द्वेषणीये, मोहनीये मानस्थानीये, वितर्कस्थानीये वेदितव्यम् । निषण्णस्य चास्य प्रतिसंलयने चित्तं प्रतिदधतस्त्वरितत्वरितं चित्तं प्रश्रभ्यते ॥ कायश्च [।] कायदौष्ठुल्यानि च नात्यर्थं बाधन्ते । न चात्यर्थं निवरणसमुदाचारो भवति । न चात्यर्थमुत्कण्ठा रतिपरितमनासहगता[ः] संज्ञामनसिकाराः समुदाचरन्ति । व्युत्थितस्यापि मनस[श्] (व्युत्थितमनसो ऽपि) चरतः । प्रश्रब्ध(ब्धि)मात्रा काचिच्चित्ते, काये, (चित्ते) चानुगता भवतीत्येवं भागीयानि [स]मनस्कारस्य [आदिकर्मिकस्य] लिंगानि निमित्तान्यवदातानि वेदितव्यानि ॥
। पिण्डोद्दानम् ॥
उपसंक्रमणं या च हर्षणा पृच्छनैषणा ।
विनियोगरक्षोपचयः प्राविवेक्यभवैकता ॥
आवरणशुद्धयुत्कृष्टेह मनस्कारस्य भावना ॥
॥ योगाचारभूमौ श्रावकभूमिसंगृहीतायां तृतीयं योगस्थानं समाप्तम् ॥
इव्. चतुर्थं योगस्थानम्
तत्र लब्धमनस्कारस्य योगिनः । एवं परीत्तप्रहाणरतिप्रविष्टस्य तदूर्ध्वं द्वे गती भवतः । अनन्ये । कतमे द्वे तद्यथा । लौकिकी च लोकोत्तरा च ।
तत्रायमादिकर्मिको योगाचारः । समनस्कारः । लौकिकया वा गत्या गमिष्यामि । लोकोत्तरया वेति । तमेव मनस्कारं बहुलीकरोति । यथा यथा बहुलीकरोति । तथा तथा सा प्रश्रब्धिश्चित्तैकाग्रता च । तेषां तेषां रात्रिदिवसानामत्ययात्पृथुवृद्धिवैपुल्यतां गच्छति । यदा चास्य दृष्टिस्थिरः खरश्च मनस्कारः संवृत्तो भवति । परिश्रब्धश्चालम्बनाधिमोक्षः । प्रवर्तते । शमथविपश्यनापक्ष्याच्च निमित्तान्युद्गृहीतानि भवन्ति । तदा स लौकिकेन मार्गेण गन्तुकामस्तत्र च प्रयोगमारभते लोकोत्तरेण वा मार्गेण [।]
तत्र कति पुद्गलाः । ये दृष्टे धर्मे लौकिकेनैव ( श्भ्_स्ह् 438 ) मार्गेण पृ(ग)च्छन्ति । न लोकोत्तरेण । आह । चत्वारस्तद्यथा सर्व इतो बाह्यकः । इह धार्मिको ऽपि मन्दः । पूर्वशमथचरितस्तथा भूयो ऽप्यपरिपक्वकुशलमूलः । बोधिसत्त्वस्यायत्यां बोधिमनुप्राप्तुकामः । नो तु दृष्ट एव धर्मे (।) अमी चत्वारः पुद्गला दृष्ट एव धर्मे लौकिकमार्गयानि(यि)नो भवन्ति ।
तच्च लौकिकमार्गगमनं द्विविधं । सक[ल]बन्धनानाञ्च पृथग्जनानां, विकलबन्धनानां च । शैक्षाणां ।
तत्पुनः कतमत् । कामानामौदारिकतां पश्यतः, प्रथमे च ध्याने समापत्त्युपपत्तिक्लेशान्ततां पश्यतस्तत्कामवैराग्यगमनमेवं यावत् । आकिञ्चन्यायतनवैराग्यं वेदितव्यम् । तथा असंज्ञिसमापत्तिः । ( श्भ्_स्ह् 439 ) ध्यानसमापत्तिसन्निश्रयेन ष[ड्वि]ज्ञानानां पञ्चानामभिनिर्हारः ।
तत्र कामवैराग्याय प्रयुक्तो योगी सप्तभिर्मनस्कारैः । कामवैराग्यमनुप्राप्नोति । कतमे पुनस्ते सप्त मनस्काराः । आह । लक्षणप्रतिसंवेदी, आधिमोक्षिकः, प्राविवेक्यो, रतिसंग्राहकः । मीमान्सा(मांसा)मनस्कारः । प्रयोगनिष्ठः, प्रयोगनिष्ठाफलश्च ।
तत्र लक्षणप्रतिसंवेदी मनस्कारः कतमः । आह । येन मनस्कारेण कामानामौदारिकलक्षणं प्रतिसंवेदयते । प्रथमे च ध्याने शान्तलक्षणं । कथं च पुनरौदारिकलक्षणं प्रतिसंवेदयति । आह । कामानां षड्वस्तूनि पर्येषमाणः अर्थन्य स्वूलक्षणं (अर्थं, स्वलक्षणं, सामान्यलक्षणं) । पक्षं कालं युक्तिञ्च ।
तत्रौदारिकार्थं तावत्पर्येषते । इतीमे कामाः सादीनवा, बहूपद्रवा, बह्वीतिका, बहूपसर्गा इति । या एषु कामेषु बह्वादीनवता । यावद्बहूपसर्गता । अयमौदारिकार्थः । तत्र वस्तु पर्येषते । अस्त्यध्यात्मं कामेषु काम(च्)छन्द इति ।
तत्र स्वलक्षणं पर्येषते । अमी क्लेशकामाः । अमी वस्तुकामाः । ते पुनः सुखस्थानीया, दुःखस्थानीया, ( श्भ्_स्ह् 440 ) अदुःखसुखस्थानीयाश्च । सुखस्थानीयाः कामरागाधिष्ठानाः । संज्ञाचित्तविपर्यासाधिष्ठानाः । दुःखस्थानीया[ः] पुनर्द्वेषाधिष्ठानाः क्रोधोपनाहाधिष्ठानाः । अदुःखासुखस्थानीयाः म्रक्षप्रदाशमायाशाठ्याह्रीक्यम(क्या)नपत्राप्याधिष्ठाना दृष्टिविपर्यासाधिष्ठानाश्च । एवममी कामाः प्रदुष्टवेदनानुगताश्च, प्रत्यस्तक्लेशानुगताश्चैवं कामानां स्वलक्षणं पर्येषते ।
तत्र कथं सामान्य लक्षणं (।) पर्येषते । सर्व एते कामा जातिदुःखतया, जरादुःखतया (या)वदिच्छाविघातदुःखतया समसममनुबद्धाश्चानुशक्ताश्च । ये ऽपिकामोपभोगिनो महत्यां कामसम्पदिवर्त[न्]ते । ते ऽपि जात्यादिधर्मतया अविनिर्मुक्तास्तावत्कालिकी सा तेषां सम्पत् । एवं सामान्यलक्षणं पर्येषते ।
कथं पक्षं पर्येषते । कृष्णपक्षपतिता एते कामाः । अस्थिकंकालोपमा, मान्सपेश्युपमास्तृणोल्कोपमाः । अंगारकर्षूपमाः । आशीविषोपमाः । स्वप्नोपमाः । याचिकालंकारोपमाः । तृणफलोपमाश्च । पर्येषमाणा अपि सत्वाः (त्त्वाः) कामान् पर्येषणाकृतं (।) दुःखं प्रतिसंवेदयन्ति । आरक्षाकृतं, स्नेहपरिभ्रंशकृतमातृप्तिकृतमस्वातन्त्र्यकृतं, दुश्चरितकृतं, ( श्भ्_स्ह् 441 ) च दुःखं प्रतिसंवेदयन्ति । पूर्ववदेव तावत्सर्वं वेदितव्यं ।
तथा कामान्प्रतिषेवतः । पंचादीनवा उक्ताः । भगवता अल्पास्वादाः कामाः बहुसु(दुः)खा, बह्वादीनवाः [।] कामान्खलु प्रतिषेवमाणस्य नास्त्यलं ताव(त्) तृप्तिता च पर्याप्तिता वा, अनेन पर्यायेण कामा विगर्हिता बुद्धैः बुद्धश्रावकैश्च सद्भिः सम्यग्गतैः, सत्पुरुषैः [।]
कामान्खलु प्रतिषेवमाणस्य संयोजनान्युपचयं गच्छन्ति । नास्ति चास्य किंचित् पापकमकुशलं कर्माकरणीयं वदामि । इतीमे कामा अतृप्तिकारका[ः] साधारणा, अधर्मविषमचर्याहेतवः । कामतृष्णाविवर्धकाः, सतां विवर्जनीयाः, क्षिप्रम्विषयगामिनः, प्रत्ययाधिपा, प्रमादभूमयो, रिक्ता, अनित्यास्तुच्छा, मृषामोषधर्माणो, मायोपमाः, बाललापनाः । ये च दृष्टधार्मिकाः (।) कामाः, ये च सांपरायिकाः, ये च दिव्याः, ये च मानुष्यकाः । मा[र]मारभ्यैष गोचरो, मारस्यैष निवापो यत्रेमे ऽनेकविधाः पापका अकुशला धर्मा मानसाः संभवन्ति । यदुताभिध्या, व्यापादा[ः], संरम्भो वा, ये वा पुनरान्तरायिका भवन्त्यार्यश्रावकस्याशिक्षमाणस्यानेकपर्यायेण कृष्णपक्षपतिता एते कामा यद्भूयसा [।] एवम्पक्षं पर्येषते ।
अतीतानागतप्रत्युत्पन्नेष्वध्वसु अनित्यं नित्यकालं (म)ध्रुवं ध्रुवकालमे ते कामाः । एवं बहूपद्रवाः, बहूपसर्गा, बह्वादीनवा इत्येवं कालम्पर्येषते ।
कथं युक्तिं पर्येषते । महता संरम्भेण, महत्या पर्येष्ट्या, महता परिश्रमेण विविधैर्विचित्रैः शिल्पकर्मस्थानैः कामाः संह्रियन्ते । निर्वर्त्यन्ते, उपचीयन्ते [।] ते पुनः सूपचिता अपि, सुनिर्वर्तिता अपि । यावदेष बहिर्धा परिग्रहवस्तुनः माता(तृ)पितृपुत्रदारदासीदासकर्मकरपौरुषेयमित्रामात्यज्ञातिसालोहितानां । अस्य वा पुनः कायस्याध्यात्मिकस्य रूपिण औदारिकस्य चातुर्महाभूतिकस्यौदनकल्माषोपचितस्य नित्योत्सदनस्नपनपारिमर्दनभेदन(च्)छेदन विकिरणविध्वंन्स(ध्वंस)न धर्मेण उत्पन्नोत्पन्नदुःखमात्रप्रतीकाराय सम्वर्तन्ते । क्षुद्दुःखप्रतीकाराय भोजनं । शीतोष्णदुःखप्रतीघाताय । ह्रीकोपनप्रतिच्छादनाय (।) च वस्त्रं [।] निद्राक्लमदुःखप्रतीघाताय च शयनासनं । चंक्रमस्थानदुःखप्रतिघाताय च । व्याधिदुःखप्रतिघाताय च (।) ग्लानभैषज्यमिति दुःखप्रतीकारभूता एते कामा इति । नैते रक्तेन परिभोक्तव्याः । न सक्तेन नान्यत्र व्याधिग्रस्तेनैवातुरेण व्याधिमात्रोपशमाय भैषज्यमाप्तागमो ऽप्येषः । तथैते कामाः एवं चैवं चौदारिकाः । प्रत्यात्ममपि मे ज्ञानदर्शनं ( श्भ्_स्ह् 443 ) प्रवर्तेत । आनुमानिको ऽप्येष विधिः । प्रकृतिश्चैषा कामानां अनादिकालिका प्रसिद्धधर्मता अचित्त (-चिन्त्य?)धर्मता । सा न चिन्तयितव्या(ः) । न विकल्पयते (यितव्ये)त्येवं युक्तिम्पर्येषते ।
स एवं कामानामौदारिकलक्षणं प्रतिसंवेज्य यदुत षड्भिर्वस्तुभिः प्रथमे ध्याने शान्तलक्षणं प्रतिसंवेदयति नास्त्येतत्सर्वश औदारिकत्वं (।) प्रथमे ध्याने यदेतत्कामधातावित्यनेनौदारिकलक्षणं प्रतिसंवेदयते । प्रथमे च ध्याने शान्तलक्षणमयमुच्यते लक्षणप्रतिसंवेदी मनस्कारः । स खल्वेष मनस्कारः । श्रुत चिन्ताव्यवकीर्णोवेदितव्यः ।
स एवं कामान्परिज्ञाय प्रथमं ध्यानं प्रथमं ध्यानं यथावत्पर्येष्टौ(ष्यौ)दारिकशान्तलक्षणेन श्रुतं च चिन्तां च व्यतिक्राम्यैकान्तेन भावनाकारेणैवाधिमुच्यते । तन्निमित्तालम्बनामेव शमथविपश्यनां भावयति । भावयंश्च यथा यथा तामौदारिकशान्ततां पुनः पुनरधिमुच्यतः । इत्युपपद्यते । [आ]धिमोक्षिको मनस्कारः ।
त(य)स्यासेवनान्वयाद् भावनान्वयाद्बहुलीकारान्वयात्तत्प्रथमतः क्लेश(ः)प्रहाणाय मार्ग उत्पद्यते । क्लेशप्रहाणाय च मार्गे समुत्पन्ने यस्तद्भगवतो मनस्कारः । अयमुच्यते प्राविवेक्यः ।
स तत्प्रथमतः कामावचरक्लेशादिप्रहेयप्रहाणात्तत्पक्ष्ये ( श्भ्_स्ह् 444 ) दौष्ठुल्यापगमाच्च । तदूर्ध्वं प्रहाणारामो भवति । विवेकारामः । तस्मिंश्च प्रहाणानुशंसदर्शीपरीत्तप्रविवेकप्रीतिसुखसंस्पृष्टः कालेन कालं प्रसदनीयेन मनस्कारेण । संप्रहर्षयति । संवेजनीयेन मनस्कारेण संवेजयति । यावदेव स्त्यानमिद्धौद्धत्यापगमाय (।) अयमुच्यते । रतिसंग्राहको मनस्कारः ।
तस्य तथा प्रहाणारामस्य भावनारामस्य सम्यक्प्रयुक्तस्य सतः कुशलपक्षप्रयोगोपस्तम्भकामप्रतिसंयुक्तं क्लेशकर्मपर्यवस्थानं चरतो वा विहरतो वा न समुदाचरति । तस्यैवं भवति । किं सन्तमेवाहं कामेषु काम(च्)छन्दं प्रतिसम्वेदयाम्याहोस्विदसन्तम्परिमीमान्सयितुकामः । अन्यतमान्यतमं प्रसदनीयं शुभनिमित्तं मनसि करोति । तस्याप्रहीणत्वात् सर्वेण सर्वमनुशयस्य तन्निमित्तं मनसि कुर्वतः सेवनानिम्नं चित्तं भवति । सेवनाप्रवणं । सेवनाप्राभो(भा)रं नापेक्षापत्तियुतेन निर्विजुगुप्सा(प्रति) वा निःप्रतिकूलता । तस्यैवं भवति । न मे सम्यग्विरक्तं विमुक्तं चित्तं यदुत कामेभ्यः, संस्काराभिनिगृहीतं मे चित्तं वारिवद् धृतं [।] धर्मताभिनिगृहीतं (।) य[न्]न्वहं भूयस्या मात्रया तस्यानुशयस्याशेषप्रहाणाय भूयस्या मात्रया प्रहाणारामो विहरेयं । भावनारामः । अयमुच्ते मीमान्सामनस्कारः ।
स भूयस्या मात्रया प्रहाणारामो विहरति । भावनारामः । शमथविपश्यनायुक्तः । पौनःपुन्येन च मीमान्सते । तस्य प्रतिपक्षं च भावयतः कालेन कालं प्रहीणाप्रहीणतां मीमान्समानस्य सर्वेभ्यः कामावचरेभ्यः क्लेशेभ्यश्चित्तं विसंयुज्यते । तावत्कालिकयोगेन (।) न त्वत्यन्ताद्बीजसमुद्धातो भवति । तस्मिंश्च समये प्रयोगध्यानप्रयोगमार्गपर्यवसानगतः । सर्वक्लेशप्रातिपक्षिको मनस्कारः । समुत्पन्नो भवत्ययमुच्यते प्रयोगनिष्ठो मनस्कारः (।)
तस्य च समनस्कारप्रत्ययं तद्धेतुकं प्रथमं ध्यानं समापद्यते । मौलप्रथमध्यानसहगतो यो मनस्कारः । अयमुच्यते प्रयोगनिष्ठाफलो मनस्कारः ।
तत्र प्राविवेक्ये मनस्कारे वर्तमानो, रतिसंग्राहके च विवेकजेन प्रीतिसुखेन कायं प्रतिप्रीणयति । कदाचित् केनचित् प्रतनुकसंमुखीभावयोगेन प्रायोगनिष्ठामनस्कारकालस्यारति[ः] । कदाचित् कदाचित् ध्यानविपुलतरसंमुखीभावेन प्रयोगनिष्ठाफले पुनर्मनस्कारे वर्तमानस्य नास्ति किञ्चिदस्या(स्य) भवति । स्मारणीयं सर्वतः कायाद्युत(द्यदुत) विवेकजेन प्रीतिसुखेन स तस्मिं(स्मिन्) समये विविक्तैः कामैः विविक्तं पापकैरकुशलैर्धर्मैः सवितर्कसविचारं विवेकजं प्रीतिसुखं प्रथमं ध्यानं पंचा[ङ्]गमुपसम्पद्य विहरति । कामावचरप्रतिपक्षभावनाफले स्थितः कामवैराग्य[ता]मनुप्राप्त ( श्भ्_स्ह् 446 ) इत्युच्ते ।
तत्र लक्षणप्रतिसंवेदिना मनस्कारेण [।] यत् प्रहातव्यं तत् सम्यक् प्रजानाति । प्रहातव्यस्य च प्रहाणाय प्राप्तव्यस्य च प्राप्तये चित्तं प्रणिधत्ते । आधिमोक्षिकेण च मनस्कारेण प्रहाणाय प्राप्तये च सम्यक् प्रयोगमारभते । प्राविवेक्यमनस्कारेणाधिमात्रज्ञ शां(तां)जहाति । रतिसंग्राहकेण स क्लेशप्रकारं जहाति । मीमान्सामनस्कारेण प्राप्तिनिरभिमानतायां चित्तमवस्थापयति । प्रयोगनिष्ठेन मृदुं क्लेशप्रकारं जहाति । प्रयोगनिष्ठाफलेनैषां क्लेशप्रकाराणां भावितानां सुभावितानां भावनाफलं प्रत्यनुभवति ।
अपिच यश्च लक्षणप्रतिसंवेदी मनस्कारः । यश्चाधिमोक्षिकः । अयमुच्यते आनुलोमिको मनस्कारो ऽपि दूषणाप्रतिपक्षसहगतः । यश्च प्राविवेक्यो मनस्कारः, यश्च प्रयोगनिष्ठो ऽयं प्रातिपक्षिको मनस्कारः । प्रहाणप्रतिपक्षगवतः (-क्षगतः) [।] तत्र यो रतिसंग्राहको मनस्कारः (।) अयं प्रातिपक्षिकश्च प्रसदनीयश्च [।]
तत्र यो मीमान्सामनस्कारः अयं प्रत्यवेक्षणामनस्कारः । इत्युच्यते । एवं सति षट्षु मनस्कारेषु चत्वारो मनस्काराः प्रविघ्ना वेदितव्याः । तद्यथा आनुलोमिकः । प्रातिपक्षिकः । प्रसदनीयः । प्रत्यवेक्षणीयश्चेति ।
यथा प्रथमध्यानसमापत्तिः सप्तभिर्मनस्कारैरेवं द्वितीयतृतीयचतुर्थध्यानसमापत्तिः । आकाशविज्ञानाकिंचन्यायतननैवसंज्ञानासंज्ञायतनसमापत्तिः सप्तभिरेव ( श्भ्_स्ह् 448 ) मनस्कारैः । तत्र येन वितर्केष्वौदारिकलक्षणं प्रतिसम्वेदयते । अवितर्कश्च द्वितीयध्याने शान्तलक्षणं स लक्षणप्रतिसंवेदी मनस्कारः । द्वितीयध्यानसमापत्तये [।] तत्र ध्यानसमापन्नः । प्रथमध्यानलाभी वितर्केष्वौदारिकताम्पश्यति । यः समाहितभूमिको ऽप्युग्रालम्बनभारी तत्प्रथमोपनिपातितया चालम्बने औदारिको मनोजल्पः । अयम्बितर्कस्तदनुबन्धानुचारी व्यग्रचार्येवालम्बने सूक्ष्मतरो मनोजल्पः विहारः । एते पुनर्वितर्कविहा(चा)राश्चै तसिकाश्चेतस्युत्पद्यमाना उत्पद्यन्ते । सहभुवः संप्रयुक्ता[ः] । एकालम्बनवृत्तयः । एवमेते अध्यात्ममुत्पद्यन्ते ।
बाह्यायतनसंगृहीताश्च । सर्व एव चातीता, अनागतप्रत्युत्पन्ना, हेतुसमुत्पन्नाः, प्रतीत्यसमुत्पन्नाः, आकायिकास्तावत्कलिकाः । इत्वरप्रत्युपस्थायिनश्चित्तसंक्षोभकरा, इंजका अप्रशान्ताकारेण वर्तन्ते । उपरिमां भूमिमारभ्य दुःखविहारानुगतत्वात्कुष्णपक्ष्या कामविवेकप्रीतिसुखमेवानुशंसानुगता भूमिश्चैषा तादृशी प्रकृत्या यत्र स्थितस्य नित्यं नित्यकालं, ध्रुवं ध्रुवकालं, सवितर्कः, सविचारः, चित्तप्रचारः प्रवर्तते । न शान्तप्रशान्त इत्येवमादिभिराकारैर्वितर्केष्वौदारिकलक्षणं प्रतिसंवेदयते ।
सर्वशो नास्त्येतदौदारिकलक्षणमवितर्केद्वितीये ध्याने इत्यतः शान्तं द्वितीयं ध्यानमस्यौदारिकत्वस्यापगमात् । शेषो(षे) मनस्कारा द्वितीयध्यानसमापत्तये यथा(पि) योगं पूर्ववद्वेदितव्यं । एवं भूमौ भूमौ यावन्नैवसंज्ञानासंज्ञायतनसमापत्तये यथायोगं सप्त मनस्कारा वेदितव्याः ।
औदारिकलक्षणं पुनः सर्वास्वधरिमासु भूमिषु यावदाकिंचन्यायतनात् समासेन द्विविधं वेदितव्यं । दुःखतरं विहावितो(रिता) चाधर्मू(धोभू)मीनामप्रशान्तविहारिता च । अल्पायुष्कतरा च । इत्येतद् द्विविधमौदारिकलक्षणं । षड्भिर्वस्तुभिर्यथायोगं पर्येषते । यस्या यस्या भूमेर्वैराग्यं कर्त्तुकामो भवत्युपरिष्टाच्च यथायोगं शान्तलक्षणं । यावत्प्रयोगनिष्ठाफलान्मनस्कारात्तत्र विविक्तं कामैरिति ।
द्विविधाः कामाः क्लेशकामा वस्तुकामाश्च [।] ( श्भ्_स्ह् 450 ) कामवितर्को ऽपि द्विविधः । संप्रयोगविवेक आलम्बनविवेकश्च [।] विविक्तं पापकैरकुशलैर्धर्मैरिति । उपक्लेशाः कामहेतुका अकुशला धर्मास्तद्यथा कायदुश्चरितं, वाग्दुश्चरितं, मनोदुश्चरितं । दण्डादानं शस्त्रादानं । कलहभण्डनविग्रहविवादशाठ्यवञ्चननिकृतिमृषावादाः सम्भवन्ति । तेषाम्प्रहाणाद्विविक्तं पापकैरकुशलैर्धर्मैरवितर्कविचारेष्वदोषदर्शनात्स्वभूमिकैर्वितर्कविचारैः कामप्रातिपक्षिकैः कुशलैः [।] सवितर्कं सविचारं प्रयोगनिष्ठो मनस्कारः कामविवेकं (कः) तस्यानन्तरमुत्पन्नं(न्नः) । तद्धेतुकं (कस्) तत्प्रत्ययं (यस्) तेनाह विवेकजमीप्सिताभिलषितार्थसंप्राप्तः, प्रीतौ वा दोषदर्शनात् । सर्वदौष्ठुल्यापगमाच्च विपुलप्रश्रब्धि चित्तकायकर्मण्यतया प्रीतिसुखमनुपूर्वेण गणयतः । तत्प्रथमतश्च कामधातूच्चलितात् प्रथमं सम्यगालम्बनोपनिध्यानादेकाग्रस्मृत्युपनिबन्धाद्ध्यानं प्रयोगनिष्ठाफलत्वादुपसम्पद्य । उत्तरत्र च भावनाबहुलीकारनिष्पादनात् [।] ( श्भ्_स्ह् 451 ) निकामलाभी, अकृच्छ्रलाभी, अकिसर(अकृत्स्न?)लाभी, तथा ध्यानसमापत्त्या रात्रिमतिनामयति । दिवसमपि यावदाकांक्षमाणः सप्तरात्रिंदिवसानि तेनाह विहरतीति । सवितर्कसविचारविविक्तेभ्यश्चित्तम्व्यावर्तयित्वा (त्तं व्यावर्त्य) अवितर्काविचारसमाधिनिमित्तेषूपनिबध्नाति । व्यग्रचारिण आलम्बनाद्विवेच्य अव्यग्रचारिण्यालम्बने एकधर्मतया शान्तं प्रसन्नं चित्तं प्रवर्त्तते । व्यवस्थापयति । तेनाह वितर्कविचाराणां व्युपशमादध्यात्मसंप्रसादनात्सभावनाभ्यासात्तस्यैवावितर्काविचारस्य समाधेः, वितर्कविचारस्य समाधेः, स[च्]छिद्रसान्तरामवस्थामतिक्रम्य निश्छिद्रनिरन्तरामवस्थां प्राप्नोति । तेनाह चेतस एकोतीभावात् सर्वेण सर्वं वितर्कविचारप्रहाणादवितर्कमविचारं प्रयोगनिष्ठो मनस्कारः समाधिस्तस्यानन्तरं तद्धेतुकं तंत्प्र(कस्तत्प्र)त्ययमुत्प(यौत्प)द्यत इति । तेनाह समाधिजं ईप्सितानिन्दितार्थप्राप्तेः प्रीतौ वा दोषदर्शनात् । स संप्रहर्षगतं दौर्मनस्यगतं वितर्कविचारप्रथमध्यानक्लेशपक्षसर्वदौष्ठुल्यापगमात्तत्प्रातिपक्षिकप्रश्रब्धिचित्तकायकर्मण्यतासुरवानुगत्वात् । प्रीतिसुखमनुपूर्वेण गणयतो द्वितीयं भवत्येवं सर्वं पूर्ववद् वेदितव्यम् ।
प्रीतिनिमित्तेषु दोषं पश्यति । तेनाह प्रीतेर्विरागात् [।] ( श्भ्_स्ह् 452 ) तस्मिंश्च समये द्विविधो ऽस्य चित्तक्षोभकरः अपक्षालो ऽधिगतो भवति । निःप्रीतिके तृतीयध्याने चित्तं प्रदधतः । द्वितीये च ध्याने वितर्कविचाराः, एतर्हि च प्रीतिः, तेनाह उपेक्षको विहरति । एतौ हि द्वौ धर्मौ चित्तसंक्षोभकरौ । निरन्तराया उपेक्षाया विघ्नकारकौ । तत्र प्रथमे ध्याने वितर्कविचारा भवन्ति । येन निरन्तरोपेक्षा न प्रवर्त्तते । द्वितीये ध्याने प्रीतिर्भवति । येनात्रापि निरन्तरोपेक्षा न प्रवर्त्तते । तेनायं ध्यायी प्रथमद्वितीयेषु(ययोः) ध्यानेषु(नयोः) नास्ति, तेन तृतीये ध्याने उपेक्षको विहरतीत्युच्यते । स उपेक्षकस्सन्स्तथा(स्संस्तथा) तथोपस्थितस्मृतिर्विहरति । यथा यथा ते प्रीतिसहगताः संज्ञामनसिकाराः समुदाचरन्ति । स चेत्पुनरभावितत्वात् तृतीयस्य ध्यानस्य स्मृतिसंप्रमोषात्कदाचित्कर्हिचित् चित्ते प्रीतिसहगताः संज्ञामनसिकाराः समुदाचरन्ति । तां(तान्) लघु लघ्वेव ( श्भ्_स्ह् 453 ) प्रज्ञया प्रतिविध्यति । सम्यगेव प्रजानाति । उत्पन्नोत्पन्नांश्च नाधिवासयति । प्रजहाति विनोदयति । व्यन्तीकरोति, चित्तमध्युपेक्षते । तेनाह स्मृतः संप्रजाना[न] इति । तस्य तस्मिन्समये एवमुपेक्षकस्य विहरता स्मृतस्य संप्रजन्य स्यासेवनान्वयाद्बहुलीकारान्वयात्प्रीतिसहगतं प्रहीयते । तच्चित्तौद्धत्यकरं, निःप्रीतिकं, शान्तं, प्रशान्तं चेतसि वेदितमुत्पद्यते । प्रीतिप्रातिद्वन्द्व्येन तस्मिन् समये रूपकायेन, मनःकायेन वेदित सुखं च प्रश्रब्धिसुखं प्रतिसम्वेदयते । तृतीयाच्च ध्यानात् । अधस्तद्रूपं सुखं नास्ति नापि निरन्तरा उपेक्षा तृतीया[द्]ध्यानादूर्ध्वं यदप्युपेक्षोपलभ्यते । न तु सुखं । तत्राधः सुखोपेक्षाभावादूर्ध्वं च सुखाभावात् । इदं तदायतनं यदुत तृतीयं ध्यानं यत्तदार्या आचक्षते । यत्प्रतिलम्भविहारिणं पुद्गलमधिकृत्य स्मृतिमां(मान्) सुखविहारी तृतीयं ध्यानमुपसंपद्य विहरतीति आर्याः पुनः वृद्धाश्च वृद्धश्रावकाश्च ।
तत्रातुल्यजातीयत्वात् । प्रतिपक्षस्य सुखस्य प्रहाणप्रतिपक्षानाख्यातः (क्षो ऽनाख्यातः) । यदेव तत्प्रतिपक्षकृतं सुखप्रहाणं तदेवाख्यातं । कः पुनरसौ प्रतिपक्षः । यदुतोपेक्षा स्मृतिसम्प्रजन्यञ्च । तस्य च निषेवणाभ्यासात्तृतीयध्यानाच्चलितो यत्र ( श्भ्_स्ह् 454 ) तृतीयध्यानभूमिसुखं तत्प्रजहाति । तेनाह । सुखस्य च प्रहाणात्पूर्वमेव च सौमनस्यदौर्मनस्ययोरस्त(ङ्)गमात् । तत्र चतुर्थध्यानसमापत्तिकाले तस्मिन् समये स ध्यायी सुखदुःखव्यतिक्रममनुप्राप्नोति । तेन यश्(च्)च पूर्वप्रहीणं, यश्चै(च्चै)तर्हि प्रहीयते । तस्य संकलनं कुर्वन्नेवमाह । सुखस्य च प्रहाणात्(द्), दुःखस्य च प्रहाणात्, पूर्वमेव च सौमनस्यदौर्मनस्ययोरस्त[ङ्]गमात् । तन्न चतुर्थध्यानसमापत्तिकाले सुखस्य च प्रहाणाअद्द्वितीयध्यानसमापत्तिकाले दुःखस्य, तृतीयध्यानसमापत्तिकाले सौमनस्यस्यास्तङ्गमात्, प्रथमध्यानसमापत्तिकाले दौर्मनस्यस्य, अस्ति तावत्सुखदुःखस्य(योः) प्रहाणाददुःखासुखैवास्य वेदना, न विशिष्टा भवति । तेनाह । अदुःखासुखा तस्मिन् समये प्रथमं ध्यानमुपादाय सर्वे अधोभूमिकाः अपक्षालाः प्रहीणा भवन्ति । तद्यथा वितर्कविचाराः, प्रीतिराश्वासप्रश्वासाः । तेषां च प्रहाणाद्या तत्रोपेक्षा । स्मृतिश्च सा परिशुद्धा भवति । पर्यवदाता, येनास्य एतच्चित्तं चतुर्थध्यानसमापन्नस्यानिंज्यं सन्तिष्ठते । सर्वेञ्जितायतनं । ( श्भ्_स्ह् 455 ) तेनाह । उपेक्षास्मृतिपरिशुद्धमिति [।] तत्र चतुर्थमिति पूर्ववद् वेदितव्यम् ॥ यथाप्रमाणादिषु स्थानेषु ॥
तत्राकाशाधिमोक्षस्य वर्णसंज्ञा नीलपीतलोहितावदातादिप्रतिसंयुक्ततामसातामसातया निर्विरागतया च समतिक्रान्तो भवति । तेनाह । रूपसंज्ञानां ( श्भ्_स्ह् 456 ) समतिक्रमादनाभासगमनहेतोर्या अनेकविधा बहुनानाप्रकारा वर्णप्रचयहेतुका आवरणसंज्ञा सा (या) सा विगता भवति । तेनाह । प्रतिघसंज्ञानामस्त[ङ्]गमात्, तासाम्वा पुनर्विगमहेतोर्या औपचयिकीसंज्ञास्तेष्ववशिष्टेषु विशिष्टेषु संघातेषु प्रवृत्तास्तद्यथा भोजनपानवस्त्रालंकारगृहोद्यानवनसेनापर्वतादिसंज्ञा[ः] । तेषु सर्वेण सर्वमाभोगो ऽप्यस्य न प्रवर्तते । तेनाह । नानात्वसंज्ञानाममनसिकारात् । स एवं रूपप्रतिघनानात्वसंज्ञा भावयित्वा अनन्ताकारेणाकाशाधिमुक्तो भवति । तेनाह । अनन्तमाकाशम(शंस)सामन्तकमतिक्रम्य प्रयोगनिष्ठान्मनसिकारादुच्चप्रयोगनिष्ठाफलं मौलं समापद्यते । तेनाह । आकाशानन्त्यायतनमुपसम्पद्य विहरति । तस्य यावन्मौलं न समापद्यते । तस्याकाशमालम्बनं समापन्नस्य पुनस्तच्च तदन्ये च स्कन्धाः स्वभूमिकाः सामन्तके पुनरधोभूमिका अपि स्कन्धाः ।
समयेन विज्ञानेनानन्तमाकाशमधिमुच्यते । तदेव विज्ञानमनन्ताकाराकाशाधिमोक्षिकं । विज्ञानानन्त्यायतनं समापत्तुकामः । आकाशानन्त्यायतनसंज्ञां व्यावर्त्य । तदेव विज्ञानमनन्ताकारेणाधिमुच्यते । ससामन्तके मौलमाकाशानन्त्यायतनं समतिक्रम्यते । तेनाह । सर्वश आकाशानन्त्यायतनं समतिक्रम्यानन्तं विज्ञानमिति । स विज्ञानानन्त्यायतनमिति सामन्तकं समतिक्रम्य यावत्प्रयोगनिष्ठान्मनसिकरान्मौलप्रयोगनिष्ठाफलं समापद्यते । तेनाह । विज्ञानानन्त्यायतनमुपसम्पद्य विहरतीति ।
स विज्ञानानन्त्यायतनादुच्चलितो विज्ञानात् परेणालम्बनं समन्वेषमाणो न पुनर्लभते (।) किञ्चन प्रतिसंयुक्तं रूपि वा, अरूपि वा [।] स तदालम्बनमलभमानः ससामान्तकमौलं विज्ञानानन्त्यायतनं [स]मतिक्रम्य नास्ति किञ्चिदन्यदा लम्बनमधिमुच्यते । सो [अ]किञ्चनसंज्ञाधिमुक्त एव भवति । स तस्य संज्ञाधिमोक्षस्य बहुलीकारान्वयादाकिंचन्यायतनसामन्तकं समतिक्रम्य यावत्प्रयोगनिष्ठा(न्) मनसिकारान्मौलं प्रयोगनिष्ठाफले समापद्यते । तेनाह । सर्वशो विज्ञानानन्त्यायतनं समतिक्रम्य नास्ति किञ्चिदित्याकिञ्चन्यायतनमुपसंस्पृश्य (-सम्पद्य) विहरतीति ।
तेनाह । संज्ञी यदुताकिञ्चन्यायतनादुच्चलितः । आकिञ्चन्यसंज्ञायामौदारिकसंज्ञी आदीनवसंज्ञी आकिञ्चन्यायतनसंज्ञां व्यावर्त्तयति । तेन पूर्वमाकिञ्चन्यायतनसमापत्तिकाले [अ]किञ्चनसंज्ञासमतिक्रान्ता, एतर्ह्यकिंचनसंज्ञा समतिक्रान्ता भवति । तेनाह संज्ञी यदुत किञ्चनसंज्ञाया वा, अकिञ्चनसंज्ञाया वा, अकिञ्चनसंज्ञा वा, न च पुनः सर्वेण सर्वं सास्य संज्ञा निरुद्धा भवति । तद्यथा आसंज्ञि[के]वा, निरोधसमापत्तौ वा, नान्यत्र सूक्ष्मा सा संज्ञा निमित्तालम्बने प्रवर्तते । नैव संज्ञा नासंज्ञा [।] एवं तदायतनाधिमुक्तः ससामन्तकमौलमाकिञ्चन्यायतनं समतिक्रम्य नैव संज्ञानासंज्ञायतनसामन्तकस्य या वत्प्रयोगनिष्ठान्मनसिकारात् प्रयोगनिष्ठाफलं मौलं समापद्यते । तेनाह । सर्वश आकिञ्चन्यायतन[ं] समतिक्रम्य नैव संज्ञानासंज्ञायतनमुपसम्पद्य विहरतीति ॥
तत्र ध्यानसमापत्तिकाले अधो रसातलप्रवेशवत् । कायसंप्रख्यानलिंगं । आरूप्यसमापत्तिकाले आकाशात्पतनवत् । तत्र शमथाकालेनाध्युपेक्षणात्सम्यक्प्रयोगः । तत्र द्वे अचित्तिके समापत्ती असंज्ञा(ज्ञि)समापत्तिर्निरोधसमापत्तिश्च । ( श्भ्_स्ह् 459 ) तत्रासंज्ञासमापत्ति[ं] संज्ञाविमुखेन मनस्कारेण पृथग्जन एव समापद्यते, निरोधसमापत्तिं पुनरार्य एव ।
तत्र द्वाभ्यां मनस्काराभ्यामनयोः समापत्त्योः समापत्तिप्रवेशो भवति । तद्यथा संज्ञाविमुखेन मनस्कारेणासंज्ञा(ज्ञि)समापत्तेः, नैवसंज्ञानासंज्ञोच्चलितेनालम्बनसन्निरुद्धेन च मनस्कारेण निरोधसमापत्तेः [।] ( श्भ्_स्ह् 460 ) तत्र संज्ञारोगः, संज्ञागण्डः, संज्ञाशल्यः (मं), एतच्छान्तमेतत्प्रणीतं यदुतासंज्ञिकमिति । संज्ञाविमुखं मनस्कारं परिगृह्योत्पन्नोत्पन्नामसंज्ञास्मृत्यमनसिकारानु (रमनु)चरेति (रति) [।] तस्य भावनान्वयात्प्रयोगमार्गे सचित्तिकावस्था भवति । समनस्कारसमापन्नस्य च पुनश्चित्तं न प्रवर्तत इति । स एवं निःसरणसंज्ञा पूर्वकेण मनस्कारेण शुभकृत्यवीतरागस्य, बृहत्फलेभ्यो वीतरागस्य, चित्तचैतसिकानां धर्माणां निरोध इयमुच्यते [अ]संज्ञ (ज्ञि)समापत्तिः । एवं च पुनरस्याः प्राप्तिर्भवति ॥
तत्र नैव संज्ञानासंज्ञायतनलाभी आर्यः परेण शान्तेन विहारेण विहर्त्तुकामः नैव संज्ञानासंज्ञायतनाच्चित्तमुच्चा लयति । तच्चित्तमुच्चलितमालम्बनं न लभते । अलभमानं निरुध्यते । न प्रवर्त्तत इति । य एवमाकिञ्चन्यायतनवीतरागस्य शैक्षस्यार्हतो वा विहारसंज्ञापूर्वकेण मनस्कारेण चित्तचैतसिकानां धर्माणां निरोध इयमुच्यते निरोधसमापत्तिरेवं च पुनरस्याः प्राप्तिर्भवति ॥
तत्र ध्यानसन्निश्रयेण पंचानामभिज्ञानामभिनिर्हारो भवति । कथं च पुनर्भवति । यथापि तद्ध्यायी लाभी भवति । परिशुद्धस्य ध्यानस्य [।] स तत्परिशुद्धं ध्यानं निश्रित्य यो [अ]नेनाभिज्ञाधिपतये(पतेयो) धर्म[ः] श्रुतो भवत्युद्गृहीतः, पर्यवाप्तः, ( श्भ्_स्ह् 461 ) यदुत ऋद्धिविषयम्वारभ्य, पूर्वेनिवासदिव्यश्रोत्रच्युत्युपपादचेतः पर्यायम्वा तमेव मनसि कुर्वन् समाहितभूमिकेन मनस्कारेणार्थप्रतिसंवेदी च भवति । धर्मप्रतिसंवेदी च । तस्यार्थप्रतिसंवेदिनो धर्म(ः) प्रतिसंवेदिनस्तथास्तथा (स्तथा तथा) चित्तान्यभिसंस्कुर्वतो बहुलीकारान्वयाद् भवति । स कालो भवति समयो यदस्य भाज(व)नाफलाः (ः) पंचाभिज्ञा उत्पद्यन्ते ॥
अपि च तस्या(स तथा)र्थ प्रतिसंवेदी, धर्मप्रतिसंवेदी सर्वाभिज्ञानिर्हाराय द्वादशसंज्ञा भावयति । तद्यथा लघु संज्ञा[ं] । मृदुसंज्ञा[ं] । आकाशधातुसंज्ञां । कायचित्तसम[व]धानसंज्ञामधिमुक्तिसंज्ञां, पूर्वानुभूतचर्यानुक्रमानुस्मृतिसंज्ञां नानाप्रकारशब्दसन्निपातनिर्घोषसंज्ञामवदातरूपनिमित्तसंज्ञां, क्लेशकृतरूपविकारसंज्ञा[म]धिमोक्षसंज्ञाममिभ्वायतनसंज्ञां कृत्स्नायतनसंज्ञाञ्च ।
तत्र लघुसंज्ञायां लघुकमात्मानमधिमुच्यते । तद्यथा तूलपिन्धुर्वा, कर्पासपिन्धुर्वा [।] वायुमण्डलके वा स तथा [अ]धिमुच्यमानः तत्र प्रेरयत्याधिमोक्षिकेणैव मनस्कारेण [।] तद्यथा मञ्चात्पीठान्मञ्चे । एवं मञ्चात् तृणसंस्तरकान्मञ्चे । तत्र मृदुसंज्ञा । मृदुकं कायमधिमुच्यते । तद्यथा कौशयम्वा, कच्चम्वा, पद्गम्वा, [।] इतीयं मृदुसंज्ञाया लघुसंज्ञाया[ः] पोषिका, अनुग्राहिका [य]या अनुगृह्यमाणा लघुसंज्ञा पृथुवृद्धिवैकल्यतां (विपुलतां) गच्छति । तत्राकाशधातुसंज्ञा यया संज्ञया लघुतां च मृदुतां चात्मनो ऽधिमुच्यते । स चेत् क्वचिद् गन्तुकामो भवति । तत्र यदन्तरालं विवन्धचरं रूपिगतं गमनाय तदाकाशमधिमुच्यते [।] आधिमोक्षिकं (केन) च ( श्भ्_स्ह् 463 ) मनस्कारेण । तत्र चित्तकायसमवधानसंज्ञा यया चित्तम्वा काये समवदधाति । कायम्वा चित्ते, येनास्य कायो लघुतरश्च भवति, मृदुतरश्च, कर्मण्यतरश्च, प्रभास्वरतरश्च [।] चित्तान्वयश्चित्त प्रतिबन्धश्चित्तं निश्रित्य वर्त्तते । तत्राधिमोक्षिकसंज्ञा यया संज्ञया भू(दू)रगमासन्ने [अ]धिमुच्यते, आसन्नं दूरे, अणु स्थूलं, स्थूलमणु, पृथिवी आपः, आपः पृथिवी एवमेकैकेन महाभूतेनान्योन्यं करणीयं । विस्तरेण तथानिर्मितं चाधिमुच्यते, रूपनिर्मितं वा, शब्दनिर्मितं वा [।]
इत्याभिः पञ्चसंज्ञाभिः भावनाया परिनिष्पन्नाभिरनेकविधमृद्धिषयं प्रत्यनुभवत्येको भूत्वा बहुधात्मानमुपदर्शयति । यदुताधिमोक्षिकया नैर्माणिकया(क्या)संज्ञया तत्र बहुधा पुनरात्मानमुपदर्शयन्चै(यंश्चै)की भवति । यदुत निर्माणान्तर्धायिकया [अ]धिमुक्तिसंज्ञया तिरःकुड्यं, तिरःप्राकारमसज्जमानेन ( श्भ्_स्ह् 464 ) कायेन गच्छति । येन गच्छति । (येन गच्छति) । पृथिव्यामुन्मज्जनिमज्जनं करोति । तद्यथोदके, उदके भिद्यमानेन स्रातसा गच्छति । तद्यथा पृथिव्यामाकाशे पर्यङ्केनाक्रामति । तद्यथा पक्षी शकुनि[ः], इमौ वा सूर्याचन्द्रमसावेवं महर्धिकौ महानुभावौ पाणिना आमार्ष्टि । परामार्ष्टि । यावद्ब्रह्मलोकात्कायेन वशे वर्त्तयति । लघुमृद्वाकाशधातुचित्तकायसमवधानसंज्ञया परिगृहीतया अधिमुक्तिसंज्ञया सर्वमेतत्करोति । यथायोगम्वेदितव्यं । तत्र द्विविधाब्रह्मलोकस्य कायेन वशे वर्तना, गमनेन च (।) वशे वर्त्तयति । यथैवाधिमुक्त्या वा, ब्रह्मलोकादधश्चर्तुकामता भूतानां तदेकत्यस्य चोपादायरूपस्य [।]
तत्र पूर्वानुभूतचरितानुक्रमानुस्मृतिसंज्ञा यया कुमारकभावमुपादाय यत्रास्य स्मृतिः प्रवर्त्तते । न व्याहन्यते । यत्रार्य गतो भवति, स्थितो, निषण्णुः(ण्णः), ( श्भ्_स्ह् 465 ) शयितो विस्तरेण सर्वां पूर्वानुभूतां चर्यामौदारौदारिकौदारिकतया अनुपरिवाटिकया अव्युत्क्रमन्ति(न्ते) । कया समनुस्मरन्संजानाति । तस्या भावनान्वयाद् भावनाफलमनेकविधं पूर्वेनिवासं समनुस्मरति यावत्सन्सा(संसा)रं सोद्देशं विस्तरेण [।] तत्र नानाप्रकारशब्दसन्निपातनिर्घोषसंज्ञा [।] यस्मिन् ग्रामे वा, निगमे वा श्रेण्याम्वा, पूगे वा, पर्षदि वा, आयतविशाले वा गृहे, अववरके वा, नानाप्रकारस्य जनकायस्य सन्निषण्णस्य सन्निपतितस्य यो व्यतिमिश्रो, विचित्रो, निर्घोषो निश्चरित । यः कलकलशब्द इत्युच्यते । महत्या वा नद्या वह[न्]त्या निर्घोषः, तत्र निमित्तमुद्गृह्य या संज्ञाभावना यया समाहितभूमिकेन मनसिकारेणार्यानार्येषु शब्देषु, दिव्यमानुष्यकेषु, दूरान्तिकेष्वाभोगं वारयति । तस्यास्य बहुलीकारान्वयाद् भावनाफलं दिव्यं श्रोत्रं प्रतिलभते । येन दिव्यमानुष्यकां [कान्] शब्दां (ब्दान्) शृणोति । ये ऽपि दूरे, ये ऽप्यन्तिके [।] तत्रावभासरूपनिमित्तसंज्ञा [।] पूर्ववदालोकनिमित्तमुद्गृह्य तदेव निमित्तं मनसि करोति । इयमवभासरूप निमित्तसंज्ञा [।] तस्या भावनान्वयाद् ( श्भ्_स्ह् 466 ) भावनाफलं च्युत्युपपादज्ञानं प्रतिलभते । येन दिव्येन चक्षुषा विशुद्धेन विस्तरेण यावत्कायस्य भेदात्स्वर्गतौ स्वर्गलोके देवेषूपपद्यन्ते(ते) । तत्र क्लेशकृतरूपविकारसंज्ञा । यया रक्तद्विष्टमूढानां क्रोधोपनाहप्र[यु]क्तपरिदाहाह्रीक्यानपत्राप्यक्लेशोपक्लेशपर्यवनद्धचित्तानां सत्त्वानां रूपावस्थामुपलक्षयति । परि[च्]छिनत्ति [।] एवं रूपारक्तस्य रूपावस्था भवति । रूपविकृतिः । तद्यथा उद्धतेन्द्रियता, स्मितमुखता [।] एवं रूपा द्विष्टस्य रूपावस्था भवति । रूपविकृतिः । तद्यथा मुखविवर्णता सगद्गदस्वरता । कृतभृकुटिता । एवंरूपा मूढस्य पर्यवस्था भवति । रूपविकृतिः । तद्यथा मूकता अर्थनिध्यप्तावप्रतिपद्यनता (दनता) प्राकृताप्राकृता वा वाग्व्याहारता [।] इत्येभिराकारैरेवं भागीयैर्यावदाह्रीक्यानपत्राप्यपर्यवस्थितस्य ( श्भ्_स्ह् 467 ) या रूपावस्था भवति । रूपविकृतिः । ततो निमित्तमुद्गृह्य मनसि करोति । तद्यथा बहुलीकारान्वयाद् भावनाफलं चेतःपर्यायज्ञानमुत्पद्यते । येन परसत्त्वानां परपुद्गलानां वितर्कितं विचारितं मनो मनसा यथाभूतं प्रजानाति ।
तत्र विमोक्षाभिभ्वायतन-कृत्स्नायतनसंज्ञाभावना पूर्ववद्वेदितव्या । तद्यथा समाहितायां भूमौ । यया भावनया आर्यामृद्धिमभिनिर्हरति । वस्तुपरिणामिनी[ं] नैर्माणिकीमाधिमोक्षिकीं । तद्यथा अरणा प्रणिधिज्ञानं । चतस्रः प्रतिसम्विदः तद्यथा धर्मप्रतिसंविदर्थ प्रतिसंविन्निरुक्तिप्रतिसम्वित्प्रतिभानप्रतिसम्वित् [।]
तत्रार्यायाश्चानार्याया ऋद्धेरयं विशेषः । आर्यया ऋद्ध्या यद्यदेव वस्तु परिणामयति । यद्यदेव निमित्तं निर्मिणोति । तत्तथैव भवति । नान्यथा । सर्वेण तेन कार्यं शक्यते कर्तुम् । अनार्यया न पुनर्न तथैव भवत्यपि तु । मायाकारकस्यैव संदर्शन मात्रकं ख्याति । एवमाभिर्द्वादशभिः संज्ञाभिर्बहुलीकारान्वयाद्यथायोगं स पञ्चानामभिज्ञानामार्याणां च गुणानामपृथग्जनसन्धारणानां यथायोगमभिनिर्हारो वेदितव्यः ।
तत्र प्रथमे ध्याने मृदुमध्याधिमात्रपरिभावितेन यथायोगं ब्रह्मकायिकानां, ब्रह्मपुरोहितानां, महाब्रह्मणां देवानां सभागतायामुपसम्पद्यते [।] द्वितीये ध्याने मृदुमध्याधिमात्रभाविते यथायोगं परीत्तानामाभास्वराणां च देवानां सभागतायामुपसंपद्यते । तृतीये ध्याने मृदुमध्याधिमात्रभाविते यथायोगं परीत्तशुभानां, सप्रमाणशुभानां, शुभकृत्यानां च देवानां सभागतायामुपसंपद्यते । चतुर्थे ध्याने मृदुमध्याधिमात्रभाविते यथायोगमनभ्रकानां, पुण्यप्रसवानां, बृहत्फलानां च देवानां सभागतायामुपसम्पद्यते । स चेत्पुनरनागामी अनास्रवेण ध्यानेन चतुर्थेन सास्रवं, व्यवकीर्णं ( श्भ्_स्ह् 469 ) भावयति । तस्मिं(स्मिन्) मृदुमध्याधिमात्राधिमात्रतराधिमात्रतमभाविते यथायोगं पञ्चानां शुद्धावासानां देवानां स(ह)भागतायामुपसम्पद्यते । तद्यथा अदहे(ह्रे)ष्वतापेषु, सुदर्शनेषु, अकनिष्ठेषु [।] आकाशविज्ञानाकिञ्चन्यनैवसंज्ञानासंज्ञायतने मृदुमध्याधिमात्रभाविते आकाशविज्ञानाकिञ्चन्यनवसंज्ञानासंज्ञायतनोपगानां देवानां सभागतायामुपसम्पद्यते [।] अरूपिणश्च देवास्तस्मात्तेषां स्थानान्तरकृतो भेदो नास्ति, विहारकृतस्तु विशेषो भवति । असंज्ञिसमापत्त्यां भावितायामसंज्ञिसत्त्वानां देवानां सभागतायामुपसम्पद्यते ।
तत्र कतमानि वीतरागस्य लिंगानि । आह । स्थिरकायकर्मान्तो भवत्यचलेन्द्रियः [।] न चास्येर्यापथ आशु पर्यादीयते । एकेनापीर्यापथेन चिरं कालमतिनामयत्यपरितस्यमानः । न ताशु(सु)ईर्यान्तरं स्पृहयति । मन्दभाणी च भवति, प्रशान्तभाणी च [।] न संगणिकारामो, न संसर्गारामो, धीरा चास्य वाग्(क्)प्रवर्तते । चक्षुषा रूपाणि दृष्ट्वा रूपप्रतिसम्वेदी भवति । न रूपरागप्रतिसम्वेदी । एवं शब्दगन्धरसस्प्रष्टव्यप्रतिसंवेदी भवति । नो तु ( श्भ्_स्ह् 470 ) यावत्स्प्रष्टव्यरागप्रतिसंवेदी । विशारदश्च भवति । गम्भीरबुद्धिर्विपुलप्रश्रब्धिचित्तकायोपगूढः ॥ अनभिध्यालुरविक्षोभ्यः । क्षमावान्न चास्य कामवितर्कादयः पापकाश्चित्तं क्षोभयन्ति । इत्येवं भागीयानि वीतरागलिंगानि वेदितव्यानीत्ययं तावत् लौकिकमार्गगमनस्य विभागः ॥
अथ लोकोत्तरेण मार्गेण गन्तुकामो भवति तस्य चत्वार्यार्यसत्यान्यारभ्य सप्त मनस्कारा अनुपूर्वेणोत्पद्यन्ते । लक्षणप्रतिसंवेदी[दि]मनस्कारादयः प्रयोगनिष्ठाफलपर्यवसाना यावदर्हत्त्वप्राप्तेः । तत्र चतुर्णामार्यसत्यानां सोद्देशविभंगानां श्रमणेनोद्गृहीतयोगाचारः । सुभावितमनस्कारो वा, मौलध्यानारूप्यलाभी वा, चतुर्भिराकारैर्दुःखसत्यस्य लक्षणं प्रतिसंवेदयते । तद्यथानित्याकारेण, दुःखाकारेण, अनात्माकारेण च । चतुर्भिराकारैः समुदयसत्यस्य तद्यथा हेतुतः, समुदयतः, प्रभवतः, प्रत्ययतश्च [।] चतुर्भिराकारैर्निरोधसत्यस्य लक्षणं प्रतिसम्वेदयते । तद्यथा निरोधतः, शान्ततः, प्रणीततो, निःसरणतश्च [।] चतुर्भिराकारैर्मार्गसत्यस्य लक्षणं प्रतिसम्वेदयते । तद्यथा मार्गतो, न्यायतः प्रतिपत्तितो, नैर्याणिकतश्च । सो ऽस्य भवति लक्षणप्रतिसंवेदी मनस्कारः ॥
तत्र दशभिराकारैर्दुःखसत्यं परीक्षमाणश्चतुर आकाराननुप्रविशति । कतमैर्दशभिस्तद्यथा । विपरिणामाकारेण, अविनाशाकारेण, वियोगाकारेण, सन्निहिता [।] कारेण, धर्मताकारेण । संयोजनबन्धनाकारेण, अनिष्टाकारेण, अयोगक्षेमाकारेण, अनुप(कारेण)लम्भाकारेण, अस्वातन्त्राकारेण च । एतान्पुनर्दशाकारान् उपपत्तिसाधनयुक्त्या उपपरीक्षते ।
तत्रागमस्तावद्यथोक्तं भगवता सर्वसंस्कारा अनित्याः [।] ते पुनः संस्काराः समासतः सत्त्वलोकश्च भाजनलोकश्च ॥ उक्तञ्च भगवता सत्त्वलोकमधिकृत्य, पश्याम्यहं, भिक्षवो, दिव्येन चक्षुषा विशुद्धेनातिक्रान्तमानुष्यकेण सत्वांश्च्यवमानांश्चोत्पद्यमानांश्च ( श्भ्_स्ह् 472 ) विस्तरेण यावत् कासस्य भेदात्सुगतौ स्वर्गलोके देवेषूपपद्यन्ते । इत्यनेन तावत्पर्यायेण इत्यनेन तावत्पर्यायेण भगवता चक्षुष्मता प्रत्यक्षदर्शिना सत्त्वलोकस्यानित्यता व्याख्याता । उक्तंचभगवता, भवति, भिक्षवः, स समयो यद्दीर्घस्याध्वनो ऽत्ययादनुपूर्वेण यावत्सप्तानां सूर्याणां लोके प्रादुर्भावो भवति । ( श्भ्_स्ह् 473 ) तद्यथा सप्तसूर्योपमे सूग्रे(त्रे)यावदस्याः खलु महापृथिव्याः सुमेरोश्च पर्वत राजस्य । यावच्च ब्रह्मलोकाद् भाजनलोकस्य दग्धस्य ध्मातस्य मषिरपि न प्रज्ञायते । छायिकावशिष्टमपि न प्रज्ञायते [।] अनेन पर्यायेण भगवता भाजनलौकिक(लोक)स्थानित्यता आख्यातायं(तेमं) तावदाप्तागमं निश्रित्यायं योगी श्रद्धाधिपतेयं सर्वसंस्कारानित्यतायां निश्चयं प्रतिलभते ॥
स एवं निश्चयं प्रतिलभ्य, श्रद्धाधिपत्येन पुनः पुनः प्रत्यक्षतामपि, परोक्षतामपरप्रत्ययां (यतां) चानित्यता(यां) समन्वेषते । कथञ्च पुनः समन्वेषते । आह । द्विविधं वस्तु व्यवस्थापयति । आह । आध्यात्मिकम्बाह्यं च । तत्राध्यात्मिकम्वस्तु यत्षडायतनं, बाह्यम्वस्तु (स एवं निश्चयं प्रतिलभ्य श्रद्धाधिपत्येन पुनः पुनः प्रत्यवेक्षतामविपरोक्षतामपरप्रत्ययता(ं) चानित्यतां(यां) समन्वेषते । आह । द्विविधं वस्तु व्यवस्थापयति । आध्यात्मिकम्बाह्यञ्च । तत्राध्यात्मिकम्वस्तु यत्षडायतनं बाह्यम्वस्तु) षोडशविधं । तद्यथा पृथिवीवस्तु [तद्यथा] ग्रामनिगमगृहापणादयः । आरामवस्तु तद्यथा तृणौषधिवनस्पतयः । पर्वतवस्तु तद्यथा चित्राः ( श्भ्_स्ह् 474 ) पर्वतसन्निवेशाः । उत्ससर(स)स्तडागनदीप्रस्रवणवस्तु [।] क्षेत्रवस्तु कोशसन्निधिवस्त्रालंकारनृत्तगीतवादितगन्धमाल्यविलेपनमाण्डोपस्कारलोकास्त्रीपुरुषपारिचर्यावस्तूनि च तान्येतानि भवन्ति । षोडशवस्तूनि [।]
स एवमाध्यात्मिक[ं] बाह्यं वस्तु व्यवस्थापयित्वा (व्यावस्थाप्य) [आ]ध्यात्मिकस्य तावद्वस्तुनः प्रत्यक्षाधिपतेयेन मनस्कारेण विपरिमाणा(णामा)कारेण विपरिणामानित्यतां समन्वेषते । तत्र [पञ्चद]शविध आध्यात्मिकस्य वस्तुनो विपरिणामः । अष्टौ विपरिणामकरणानि ।
तत्र कतमः [पञ्चद]शविधो विपरिणामः । आध्यात्मिकस्य वस्तुनस्तद्यथा-अवस्थाकृतो, वर्णकृतः, संस्थानकृतः, सम्पत्तिविपत्तिकृतः । अंगसाकल्यवैकल्यकृतः, [परिश्रमकृतः], परोपक्रमकृतः, [शीतोष्णकृतः] । ईर्यापथकृतः, [स्वयंकृतः], संक्लेशकृतो(तः), [कृषिकृतः], मरणकृतो, विनीलकादि कृतः, सर्वेण सर्वमसंप्रख्यानपरिक्षयकृतो विपरिणामः ।
तत्राष्टौ विपरिणामकारणानि । कतमानि [।] आह । तद्यथा कालपरिवासः, परोपक्रम उपभोगः, ( श्भ्_स्ह् 475 ) ऋतुविपरिणामः, अग्निदाहः, उदकक्लेदः, वायुशोषः, प्रत्ययान्तरसंगतिश्चेति ॥
तत्र कालपरिवासो नाम येषां भावानां रूपिणां स्वस्थाने ऽप्युपन्यस्तकानां कालान्तरेण जर्जरतो पलभ्यते । जीर्णता रूपविकृतिः ॥
तत्र परोपक्रमो नाम यथापि तत् परो विविधानि रूपाणि विविधैः प्रहरणैः विविधैरुपक्रमविशेषैः विचित्रां विकृतिमापादयति ।
तत्रोपभोगो नाम यथापि तत्प्रतिस्वामिनो विविधं रूपमुपभुंजाना उपभोगविधिपतित्वा (गमधिपतिं कृत्वा वि)कृतिमापादयन्ति ।
तत्र ऋतुविपरिणामो नाम तद्यथा हेमन्ते तृणौषधिवनस्पतीनां पाण्डुत्वं, शीर्णत्वं प्रजायते । ग्रीष्मवर्षासु पुनः संपूर्णत्वं, हरितता च । तथा फलसमृद्धिः, पुष्पसमृद्धिः, पत्रसमृद्धिः, विपत्तिश्च तेषामेव [।]
तत्राग्निदाहो नाम यथापि तदग्निर्मुक्तो ग्रामनिगमराष्ट्रराजधानीर्दहन् परैति ।
तत्रोदकक्लेदो नाम तथापि तन्महान् उदकस्कन्धः समुदागतो (ग्रामनिगमराजराष्ट्रधानीं दहन् परैति । तत्रोदकक्लेदो नाम तथापि तन्महानुदकस्कन्धः समुदागतो) ग्रामनिगमराजराष्ट्रधानी[ः] प्लावयन् परैति ॥
तत्र वायुशोषो नाम तथापि तन्महता वायुस्कन्धेनार्द्राः पृथिवीप्रदेशा लघु लघ्वेव शुष्यन्ति । तथार्द्राणि वस्तून्यार्द्राः सस्यजातयः ।
प्रत्ययान्तरसमुद्गमो नाम तद्यथा सुखवेदनीयं स्पर्शं प्रतीत्य सुखां वेदनां वेदयमानस्य सुखवेदनीय(ः)स्पर्शसमुद्गमः । [एवं दुःखां वेदनां वेदयमानस्य सु(दुः)ख वेदनीय(ः) स्पर्शसमुद्गमः] अदुःखासुखां वेदनां वेदयमानस्यासुखवेदनीयस्य वादुःखवेदनीयस्य वा स्पर्शस्य समुद्गमः । तथा रक्तस्य प्रतिघनिमित्तसमुद्गमः यस्य समुद्गमाद्रागपर्यवस्थानं च विगच्छति । प्रतिघपर्यवस्थानं चोत्पद्यते (।) एवं द्विष्टस्य मूढस्य विसभागः । क्लेशोत्पत्तिनिमित्तः समुद्गमो वेदितव्यः । तद्यथा चक्षुर्विज्ञाने संमुखी भूते शब्दविषयसमुद्गमः । गन्धरसस्प्रष्टव्याः । धर्मनिमित्त समुद्गमो येन विषयान्तरेण विसभागान्युत्पद्यन्ते । इतीमान्यष्टौ विपरिणामकारणानि [।] या काचिद्विपरिणतिर्भवति । रूपिणाम्वा, अरूपिणाम्वा, धर्माणां सर्वो(र्वा) सौ एभिरष्टाभिर्नात उत्तरि नातो भूयः ।
तत्राध्यात्मिकस्य वस्तुनः कथमवस्थाकृतं विपरिणामम्पर्येषते । इहानेचा(ना)त्मनो [वा] परेषाम्वा दह्रावस्थामुपादाय यावज्जीर्णावस्था दृष्टा भवति । तां पूर्वेणापरां विसदृशां (शीं), व्यतिभिन्नां, विपरिणतां, संस्कारसन्ततिं दृष्ट्वास्यैवं भवति । अनित्या बत(ते) मे संस्कारा[स्] तथाप्येषां प्रत्यक्षत एवेयं पूर्वणापरा विकृतिरुपलभ्यते ।
तत्र कथं सुवर्णकृता(नां) विपरिणामानित्यतां पर्येषते । इहानेनात्मनो (स तथात्मनो) वा, परेषाम् वा, या पूर्वं(ताम) स्व(सु)वर्णता(तां), सुच्छविता(तां), त्वग्वर्णता (ताम्) । पश्चाच्च दुर्वर्णतां दुश्छवितां रुक्षतां रुक्षवर्णतां च । पश्यति [।] दृष्ट्वा च पुनरेव प्रत्युदावर्त्त्यापरेण समयेन तामेव सुवर्णतां पर्यवदातत्वग्वर्णतां च पश्यति । तस्यैवं भवत्यनित्या बत(ते)मे संस्काराणा(रास्तेषा)मियमेवं रूपा प्रत्यक्षतो वर्णविकृतिरुपलभ्यते ।
तत्र कथं [सं]स्थानकृतां विपरिणामानित्यतां पर्येषते । यथा वर्ण उक्त एवं कृशस्थूलतया संस्थानं वेदितव्यं सम्पत्तिर्विपत्तिश्च । तद्यथा ज्ञातिसम्पत्तिर्वा, भोगसम्पत्तिर्वा, शीलदृष्टिसम्पत्तिर्वा [।] एतद्विपर्ययेण विपत्तिस्त (त्तिः [।] त)त्कथमंगप्रत्यंगविपरिणामानित्यतां ( श्भ्_स्ह् 478 ) पर्येषते । इहानेनात्मनो वा, परेषाम्वा या पूर्वं सुवर्णता, सुच्छविता, पर्यवदातत्वग्वर्णता दृष्टा भवति । प(प्र)तिसम्पत्तिर्वा भोगसम्पत्तिर्वा शीलदृष्टिसम्पत्तिर्वा (।) एतद्विपर्ययेण विपत्ति स्(ः) [।]
तत्कथमंगप्रत्यंगविपरिणामानित्यतां पर्येषति(ते) । इहानेनात्मनो वा, परस्य वा, पूर्वमपि (वि)कलांगता दृष्टा भवति । सोपरेण समयेन विकलताम्पश्यति राजतो वा, चोरतो वा, मनुष्यतो वा, अमनुष्यतो वा [।] दृष्ट्वा च पुनरस्यैवं भवति । अनित्या बत(ते)मे संस्कारा इति पूर्ववदे(त् [।]) ।
(एव)मात्मनः परेषां च श्रान्तकायतां, क्लान्तकायतां धावतो वा, प्लवतो वा, लंघयतो वा, अभिरु(रो)हतोवा, विविधं वाक्कर्म द्रुतं कुर्वतः । सोपरेण समयेन विगतक्लमश्रमतां पश्यति । तस्यैवं भवत्यनित्या बतेमे संस्कारा इति पूर्ववत् । एवम्परिश्रमकृतां विपरिणामानित्यताम्पर्येषते ॥
एवमात्मनो वा परेषाम्वा परोपक्रमेण कायविकृतिं पश्यति । तद्यथा लताभिर्वा ताडितस्य, कशाभिर्वा, ( श्भ्_स्ह् 479 ) वैत्रैर्वा वर(त)त्राभिर्वा [।] तथा विविधैर्दशमशकसरीसृपसंस्पर्शैः [।] अपरेण वा पुनः समयेन तां विकृतिं न पश्यति । दृष्ट्वा च पुनरस्यैवं भवत्यनित्या बत(ते)मे संस्कारा इति पूर्ववदित्येवं परोपक्रमकृताम्विपरिणामानित्यताम्पर्येषते ॥
तथात्मानं वा, परम्वा, शील(त)काले प्रत्युपस्थिते अविशदकायं, संकुचितकायं, शीतपर्यवस्थानपर्यवस्थितमुष्णाभिलाषपरिगतं पश्यति । उष्णकाले वा पुनः प्रत्युपस्थिते अविशदकायं, संकुचितकायं शीतपर्यवस्थानपर्यवस्थितविशदगात्रप्रस्विन्नगात्रं सन्तप्तगात्रमुच्छ्रष्य वचनं तृषापरिगतं । शीतसंस्पर्शाभिलाषिणं पश्यति । दृष्ट्वा च पुनः प्रत्युदावर्त्त्य पुनः शीतकाले पूर्वोक्तैरेवाकारैः पश्यति । दृष्ट्वा च पुनरस्यैवं भवति । अनित्या बत(ते)मे संस्कारा इति पूर्ववदेव[ं] शीतकृतां विपरिणामानित्यतां पर्येषते ।
स पुनरध्यात्मम्वा (रात्मनो वा) [परे]षाम्वा चंक्रमस्थाननिषद्यशयानैरीर्यापथैरन्यतमान्यतमेनेर्यापथेन आत्मानम्वा परम्वा पश्यति । पुनस्तेनैवमेकदा अनुगृह्यमाणं पश्यति । दृष्ट्वा च पुनरस्यैवं भवत्यनित्या ( श्भ्_स्ह् 480 ) बतेमे संस्कारा इति पूर्ववत् । एवमीर्या पथकृतां विपरिणामानित्यतांपर्येषते ॥
कथं स्पर्शकृताम्विपरिणामानित्यताम्पर्येषते । सुखवेदनीयेन स्पर्शेन स्पृष्टः, सुखवेदनीयं स्पर्शं प्रतीत्योत्पन्नां सुखां वेदनां वेदयमानः । सुखा[ं] वेदनावस्थामात्मनः परि[च्]छिनत्ति । यथा सुखदेवनावस्था[ं] एवं दुःखासुखासु(दुः)खवेदनावस्थां [।] तस्य पूर्वां पर्येषणा आसां वेदनानां नवनवतानिःपुराण पुराणतामापायिकतां तावत्कालिकतामित्वरप्रत्युपास्थायितमन्यथीभावं दृष्ट्वा, दृष्ट्वैवं भवति । अनित्या बतेमे संस्कारा इति पूर्वत् ॥
तत्र कथं क्लेशकृतां विपरिणामानित्यतां व्यवचारयति । सरागं चित्तमुत्पन्नं परिजानाति । विगतरागं सद्वेषम्विगतद्वेषं । समोहं विगतमोहमन्यतमान्यतमेन वा उपक्लेशेनोपक्लिष्टं चित्तमुपक्लिष्टमिति परिजानाति । अनुपक्लिष्टम्वा पुनरनुपक्लिष्टमिति परिजानाति । तस्य पू(पौ)र्वापर्येणैभिः क्लेशोपक्लेशैरवतीपर्णविपरिणताविपरिणतांचित्तसन्ततिं दृष्ट्वैवं भवत्यनित्या बतेमे संस्कारा इति । तथा ह्येषां प्रत्यक्षतः संक्लेशकृतो विपरिणामौपलभ्यते ॥
तत्र कथं व्याधिकृतां विपरिणामानित्यतां व्यवचारयति । इहानेनैकदात्मा च परे च दृष्ट्वा(ष्टा) ( श्भ्_स्ह् 481 ) भवन्त्यरोगिणः, सुखिनो, बलवन्तः । सो ऽपरेण समयेन पश्यत्यात्मानम्वा, परम्वा, आबाधिकं, दुःखितं, बाढग्लानं, स्पृष्टं शारीरिकाभिर्वेदनाभिः दुःखाभिस्तीव्राभिरिति विस्तरेण पूर्ववत् ।
तत्र कथं क्लेशकृतां विपरिणा[मा]नित्यतां व्यवचारयति । इहानेनैकदात्मा च परे च दृष्ट्वा (दृष्टा) भवन्त्यरोगिणः, सुखिनो, बलवन्तः । सो ऽपरेण समयेन पश्यत्यात्मानम्वा, परम्वा, आबाधिकं, दुःखितं, बाढग्लानं, स्पृष्टं शारीरिकाभिर्वेदनाभिः । स पुनरपरेण समयेन पश्यत्यरोगिणं, सुखितं, बलवन्तं, दृष्ट्वा च पुनरस्यैवं भवत्यनित्या बत(ते)मे संस्कारा इति पूर्ववत् ॥
तत्र कथं मरणकृतां विपरिणामानित्यतां व्यवचारयति । इहायं जीवितं पश्यति ध्रियन्तं, तिष्ठन्तं, यापयन्तं, सो ऽपरेण समयेन मृतं कालगतं पश्यति । विज्ञानशून्यं कलेवरं दृष्ट्वा च पुनरस्यैवं भवतीति विस्तरेण पूर्ववत् ॥
तत्र कथं [वि]नीलकादिकृतां विपरिणामानित्यतां व्यवचारयति । सो ऽपरेण समयेन ताम(तद)स्थिशंकलिकावस्थानं पश्यति । स तदेव मृतकलेवरं विनीलकावस्थमेकदा पश्यति । एकदा विपूयकावस्थमेनं विस्तरेण यावस्थिशंकलिकावस्थं दृष्ट्वास्यैवं भवत्यनित्या बत(ते)मे संस्कारा इति विस्तरेण ( श्भ्_स्ह् 482 ) पूर्ववत् ॥
तत्र कथमसंख्या(य) न परिक्षयकृताम्विपरिणामानित्यतां व्यवचारयति [।] सो ऽपरेण [समयेन] ताम(तद)प्य[स्थि]शंकलिकावस्थानं पश्यति । सर्वेण सर्वं नष्टा(ष्टो) भवति, विध्वस्ता(स्तो), विशीर्णः । सर्वेण सर्वं चक्षुषो [अ]नाभासगता, दृष्ट्वा च पुनरस्यैवं भवत्यनित्या बत(ते)मे संस्कारास्तथा ह्येषां पौर्वापर्येण प्रत्यक्षत एवायमेवं रूपो विकार उपलभ्यते । विपरिणामः ।
एवं तावत्प्रत्यक्षाधिपतेयेन मनस्कारेणाध्यात्मिकस्य वस्तुनः [पंच] दशभिराकारैर्विपरिणामानित्यतां व्यवचारयति । व्यवचारयित्वा(व्यवचार्य) षोडशविधस्य बाह्यस्य वस्तुनो विपरिणामानित्यतां व्यवचारयति । ये ऽनेन पृथिवीप्रदेशा नाभिसंस्कृताः पूर्वं दृष्टा भवन्ति । गृहवस्त्वापणवस्तुपुण्यशालादेवकुलविहारवस्तुप्रकारैः पश्चाच्चाभिसंस्कृतान्पश्यत्यनभिसंस्कृतान्पश्यत्यनन्दिनवान्सुकृतान्सूपलिप्तान् (।) सो ऽपरेण समयेन जीर्णान् पश्यति । जर्जरानलूनविलूनां (नान्) च्छीर्णान् छ(क्ष)तितपतितान् खलु छिद्रानग्निना वा दग्धानुदकेन वापह्रतां(हृतान्) । दृष्ट्वा च पुनरस्यैवं भवति । अनित्या बत(ते)मे संस्काराः [।] तथाप्येः(ह्ये)षां पौर्वापर्येणायमेवंरूपः प्रत्यक्षो विकारो ( श्भ्_स्ह् 483 ) विपरिणाम उपलभ्यते । एवं पृथिव्यां विपरिणामानित्यतां व्यवचारयति । एवं तृणौषधिवनस्पतय आरामोद्यानानि च समृद्धपत्रपुष्पफलानि पश्यति । हरति तानि (हरितानि) प्रासादिकान्यभिरम्याणि [।] अपरेण स समयेनोच्छुष्काणि पश्यति । विगतपत्रपुष्फलानि (।) अग्निदाहेन वा दग्धानि (वा,) तथा पर्वतान्येकदा समृद्धपाषाणानि पश्यत्येकदा निर्लुठितपाषाणानि पतित श्रृंगाणि, पतितकूटानि, उत्कूलनिकूलान्यग्निना दग्धानि, उदकाभिष्यन्दितानि, तथा उत्ससरस्तडाक(ग)नदीप्रस्रवणकूपादीन्येकदा, समृद्धोदकानि पश्यत्येकदा परिक्षीणोदकानि, सर्वेण वा सर्वं विशुष्काणि खिलीभूतानि कोटराणि । तथा कर्मान्तानेकदा सम्पद्यमानान्पश्यत्येकदा विपद्यमानां (नान्) [पश्यति ।] तद्यथाकृषिकर्मान्तान्नौकर्मान्तान्सम्यग्व्यवहारकर्मान्तान् विविधांछिल्प (विधाञ्छिल्प)स्थानकर्मान्तान्, तथा कोशसन्निधीनां विचित्राणां नानाप्रकाराणामेकदा आचयं पश्यत्येकदा अपचयं । तथा भोजनपानं च एकदा[न]भिसंस्कृता(न्ना)वस्थं पश्यत्येकदाभिसंस्कृतावस्थमेकदा लालाविसरविक्लिन्नमेकदा यावदुच्चारप्रस्रावावस्थं [पश्यति] । ( श्भ्_स्ह् 484 ) तथा विविधानि यानान्येकदा सुमण्डितानि स्वलंकृतान्यभिनवानि पश्यत्येकदा विगतालंकाराणि । विगतमण्डनानि, जर्जराणि । तथा वस्त्राणामेकदा अभिनवतां पश्यत्येकदा पुराणतां । प्रक्षीणतामेकदा शुद्धतामेकदा मलिनतां । तथालंकाराणामेकदानभिसंस्कृततामेकदाभिसंस्कृततामेकदा सारतामेकदाभिन्न-प्रभिन्नताम्विक्षीणतां पश्यति । तथा नृत्तगीतवादितानां प्रत्युत्पन्नप्रयोगविचित्रभूय[स्]समुद्गता[ं] भवभंगताम्पश्यति । तथा गन्धमाल्यविलेपनानां प्रत्यग्रसुगन्धाम्लानतां पश्यति । अपरेण समयेन नातिसुगन्धदुर्गन्धम्लानविशुष्कतां पश्यति । तथा भाण्डोपस्काराणामनभिसंस्काराभिसंस्कारसारभग्नतां पश्यति । तथा आलोकानुकारयोः संभवविभवताम्पश्यति । तथा स्त्रीपुरुषचर्यासम्भवविभवतां पश्यति । अस्थिरतां [।] दृष्ट्वा च पुनरस्यैवं भवत्यनित्या बत(ते)मे संस्कारास्तथा ह्येषां बाह्यानां संस्काराणां, षण्णां च परिग्रहवस्तूनां, दशानाञ्च कायपरिवाराणां प्रत्यक्षता, विकारो, विपरिमाणो ऽयमीदृश उपलभ्यते । सर्वत्रचैतत् पेयालं वेदितव्यं ॥
एभिरष्टाभिर्विपरिणामकारणैः पूर्वनिर्दिष्टैरस्याध्यात्मिकबाह्यस्य वस्तुनो यथायोगं प्रत्यक्षाधिपतेयेन मनस्कारेणैवं विपरिणामाकारेणानित्यतां व्यवचारयति । ( श्भ्_स्ह् 485 ) यथानेन सा विपरिणामानित्यता प्रत्यक्षं दृष्टा भवत्यनुभूता, अपरप्रत्ययश्च तस्यां भवत्यनन्यनेयः । तथैवानुस्मरन् व्यवचारयति । निश्चितश्च भवति । तेनोच्यते प्रत्यक्षाधिपतेयो मनस्कार इति ।
स एवं प्रत्यक्षाधिपतेयेन मनस्कारेण विपरिणामानित्यतां व्यवहा(चा)रयित्वा(व्यवचार्य) येषां रूपिणां संस्काराणां सती सम्विद्यमाना क्षणोत्पन्नभग्ना विनीलता(विलीनता) नोपलभ्यते । तत्र प्रत्यक्षाधिपतेयं मनस्कारं निश्रित्यानुमानं करोत्येवञ्च पुनरनुमानं करोति । क्षणोत्पन्नभग्नविलीनानामेषां संस्काराणामियं पूर्वेणापरा विकृतिर्युज्यते । न तु तथैवावस्थितानां, इति हि क्षणिकाः संस्कारास्तेषु तेषु प्रत्ययेषु सत्सु तथा तथोत्पद्यन्ते । उत्पन्नाश्चानपेक्ष्य विनाशकारणं स्वरसेन विप(न)श्यन्ति ।
यानि पुनरेतानि विपरिणामकारणानि तान्यन्यथोत्पत्तये सत्य(म्व)र्त्तन्ते विकृताया उत्पत्तेः कारणीभवन्ति । न तु विनाशस्य [।] तत्कस्य हेतोः [।] सहैव तेन विनाशकारणेन विनष्टानां संस्काराणां यस्माद्विसदृशा (शी) प्रवृत्तिरुपलभ्यते । न तु सर्वेण सर्वमप्रवृत्तिरेव [।] येषाम्वा पुनः संस्काराणां सर्वेण सर्वमप्रवृत्तिरुपलभ्यते । तद्यथा क्वाथ्यमानामसामन्ते सर्वेण सर्वम्परिक्षयो भवति अग्निनिर्दग्धानां च लोकभाजनानां मसिरपि न [प्र]ज्ञायते । छायिका च । शिष्टमपि न प्रज्ञायते तेषामप्युत्तरोत्तरकरणपर्यादानादन्ते सर्वेण सर्वमभावो भवति । न त्वग्निनैव क्रियते [।] तस्माद्विपरिणामकारणान्येतान्यष्टौ यथोक्तानि स्वरसेनैव तु विनाशो भवति । स एवमानुमानिकमनस्कारेण संस्कारेणाक्षणोत्पन्नभग्नविलीनतायां निश्चयं प्रतिलभ्य पुनरप्यप्रत्यक्षपरलोकासंस्कारप्रवृत्तावनुमानं करोति ॥
एवं च पुनरनुमानं करोति । सन्ति सत्वा (त्त्वा) ये अवर्णा अपि, दुर्वर्णा अप्युपलभ्यन्ते, उच्चकुलीना अपि, आद्यकुलीना अपि, दरिद्रकुलीना अपि, अल्पेशाख्या अपि, दीर्घायुषो (ष) आदेयवाक्या अपि, अनादेयवाक्या अपि, तीक्ष्णेन्द्रिया अपि [।] ( श्भ्_स्ह् 487 ) तदेतत् सत्व(त्त्व)वैचित्र्यं सति कर्मवैचित्र्ये युज्यते [।] नासति । यद्रूपैः सत्त्वैर्यद्रूपं पूर्वमेव भूतं (कृतं?) कुशलाकुशलं चित्रकर्म कृतमुपचितं, तेन हेतुना, तेन प्रत्ययेन तेषामिदमात्मभाववैचित्र्यमभिनिर्वृत्तं ॥
न चैतदीश्वरनिर्माणहेतुकं युज्यते । स चेदीश्वरनिर्माणहेतुकं स्यात्तदीश्वरप्रत्ययमेव वा स्यादन्येन वोपादानेनेश्वरो निर्मिमीत । स चेदीश्वर प्रत्ययमेव स्यात् तेनेश्वरस्यैषाञ्च संस्काराणां यौगपद्यं स्यात् । अथ पूर्वमीश्वरः पश्चात् संस्कारा, नेश्वरप्रत्ययाः संस्कारा भवन्ति । अथेश्वरस्य प्रणिधानं निर्माणकारणं, नेश्वर एव । तेन समीच्छा सहेतुका (की) वा स्यान्निर्हेतु का (कीं) वा [।] यदि सहेतुका ईश्वरहेतुकैव च तेन पूर्वकेण दोषेण तुल्यतया न युज्यते । अथान्यहेतुका (की) तेनेच्छा प्रयत्नः । ( श्भ्_स्ह् 488 ) प्रणिधानमीश्वरविनिर्मुक्तान्यधर्महेतुका तथा सर्वे ऽपि संस्कारा धर्महेतुका एव भविष्यन्ति । किमीश्वरेण वृथा कल्पितेनेत्येवमादिना आनुमानिकेन मनस्कारेणैवंभागीयेन, परलोकेन संस्कारप्रवृत्तौ निश्चयं प्रतिलभते ।
स एवं त्रिःप्रकारमनस्काराधिपत्येन श्रद्धाधिपतेयेन प्रत्यक्षाधिपतेयेनानुमानाधिपतेयानां(याम्) नित्यतां व्यवचारयति । तत्र या पूर्व पञ्च [विधा]नित्यता पञ्चाकारभावनानुगता उद्दिष्टा, तत्र विपरिणामाकारनिर्दिष्टा, विनाशाकारा च ।
विसंयोगाकारा अनित्याकारा (अनित्यता) कतमा । आह । अध्यात्ममुपादाय बहिर्धा च वेदितव्या ॥ तत्राध्यात्ममुपादाय यथापि तदेकत्यः पूर्वम्परेषां स्ता(स्वा)मी भवत्यदासः अप्रेष्यः । अपरकर्मकरः । सो ऽपरेण समयेन स्वामिभावमदासभावं विहाय परेषां दासभावमुपगच्छति । स्वामिभावाद्विसंयुज्यते । तथा सन्तः सम्विद्यमाना भोगा अविपरिणता, अविनष्टा राज्ञा(ः) अपह्रियन्ते । चोरैर्वा, अप्रियैर्वा, दायादै[रित्य]नित्यता वेदितव्या । तत्र धर्मताकारानित्यता ( श्भ्_स्ह् 489 ) यथापि तस्या एव विपरिणामानित्यतायाः विनाशानित्यतायाः । वर्तमाने ऽप्यध्वन्यसमवहितायाः अनाभोगे (गते) ऽध्वनि भाविन्या धर्मतां प्रतिविध्यत्येवं धर्माण एते संस्कारा अनागते ऽध्वनि एवंभागीया इति । एषु सन्निहिताकाराय (रया?) इत एव विपरिणामानित्यतां, विनाशानित्यतां, विसंयोगानित्यतां समवहितां संभुरवीभूतामाकारयति ।
स एवमाध्यात्मिकबाह्यानां संस्काराणां पञ्चविधायामनित्यतायामेभिः पञ्चभिराकारैर्यथायोगं मनसिकारबाहुल्यादुपपत्तिसाधनभावनाधिपत्याच्च निये(र्मे)यं प्रतिलभ्य तद[न]न्तरं दुःखाकारमवतरति । तस्यैवं भवति । य एते संस्कारा अनित्यास्तेषामनित्यतां (ता) जातिधर्मतो युज्यते । इति ह्येत एव संस्कारा जातिधर्माणः जातिश्च दुःखा, यदा(या) जातिरेव[ं] जरा व्याधिर्मरण[ं], विप्रियसंप्रयोगः, प्रियविनाभाव, इच्छाविघातश्च वेदितव्यः । एवं तावदनिष्टा(त्या)कारेण दुःखाकारमवतरति ।
स ये सुखवेदनीयाः स्कन्धाः, सास्रवाः, सोपादानास्तेषु संयोजनबन्धनाकारेण दुःखाकारमवतरति । ( श्भ्_स्ह्: 490 ) तथा हि ते (तस्य) तृष्णासंयोजनस्याकारे ऽधिष्ठानं, तृष्णासंयोजनं च जातिजराव्याधिमरणशोकपरिदेवदुःखदौर्मनस्योपायासबन्धनस्य, रागद्वेषमोहबन्धनस्य चाधिष्ठानं ।
तत्रायोगक्षेमामारेण अदुःखासुखस्थानीयेषु स्कन्धेषु दुःखाकारमवतरति । तथा ह्यदुःखासुखास्थानीयाः स्कन्धाः सोपादाना दौष्ठुल्यसहगता अबीजानुगता अविनिर्मुक्ता दुःखदुःखतया, विपरिणामदुःखतया च । अनित्या, निरोधधर्माणः ।
एवमयं योगी सुखस्थानीयेषु संस्कारेषु, सुखायाञ्च वेदनायां विपरिणामदुःखतामवतीर्णो भवति । यदुत संयोजनबन्धनाकारेण दुःखवेदनास्थानीयेषु संस्कारेषुदुःखायां वेदनायां दुःखदुःखतामवतीर्णो भवति । यदुतानिष्टाकारेण अदुःखासुखस्थानीयेषु संस्कारेषु(ष्व) दुःखासुखायाञ्च वेदनायां संस्कारदुःखतामवतीर्णो भवति । यदुतायोगक्षेमाकारेण [।]
तस्यैवं भवति । संयोजनबन्धनाकारमनिष्टाकारं योगक्षेमाकारं चाधिपतिं कृत्वा तिसृषु वेदनासु यत्किञ्चिद्वेदयितमिदमत्र दुःखस्येत्येवमयमनित्याकारपूर्वकेण मनस्कारेण दुःखाकारमवतीर्णो भवति । तस्यैवं भवतीन्द्रियमात्र(त्रं)सह(सः) उपलभते, विषयमात्रं । तज्जमनुभवमात्रं । चित्तमात्र हता आत्मेति (हतात्मेति) । नाममात्रं । दर्शनमात्रमुपचारमात्रं । ( श्भ्_स्ह् 491 ) नात उत्तरि नातो भूयः ।
तदेवं सति स्कन्धमात्रमेतन्नास्त्येषु स्कन्धेषु नित्यो, ध्रुवः, शाश्वतः स्वाभूतः । कश्चिदात्मा वा, सत्वो(त्त्वो) वा, यो ऽसौ जायेत वा, हीयेत वा, म्रियते (येत) वा, तत्र वा (तत्र वा) तत्र कृतकृतानां कर्मणां फलविपाकं प्रतिसम्वेदयेत । इति हि ( श्भ्_स्ह् 492 ) शून्या एते संस्काराः, आत्मविरहिता इत्येवमनुपलम्भाकारेण शून्याकारमवतरति । तस्यैवं भवति । ये पुनरेते संस्काराः स्वलक्षणेनानित्यलक्षणेन, दुःखलक्षणेन युक्तास्ते ऽपि प्रतीत्यसमुत्पन्नतया अस्वतन्त्रा, ये ऽस्वतन्त्रास्ते ऽनात्मान इत्येवमस्वतन्त्राकारेणानात्माकारमवतरति । एवं पुनर्योगिना दशाकारं गृहीतैश्चतुर्भिराकारैर्दुःखसत्यलक्षणं प्रतिसंवेदितं भवति ॥
तत्रानित्याकारः पञ्चभिराकारैः संगृहीतः । तद्यथा विपरिणामाकारेण, विसंयोजनाकारेण, सन्निहिताकारेण, धर्मताकारेण [।]
दुःखाकारस्त्रिभिराकारैः संगृहीतः । संयोजनबन्धनाकारेण अनिष्टाकारेण अयोगक्षेमाकारेण च [।]
शून्याकार एकेनाकारेण संगृहीतो यदुतानुपलंभाकारेण [।]
अनात्माकार एकेनाकारेण संगृहीतो यदुतास्वतन्त्राकारेण ।
स एवं दशभिराकारैश्चतुराकारानुप्रविष्टो ( श्भ्_स्ह् 493 ) दुःखलक्षणां प्रतिसंवेद्य, अस्य दुःखस्य को हेतुः, कः समुदयः, प्रभवः, प्रत्ययः इति । यस्य प्रहाणादस्य दुःखस्य प्रहाणं स्यादित्येभिश्चतुर्भिराकारैस्समुदयसत्यस्य लक्षणं प्रतिसंवेदयति । तृष्णाया दुःखक्षेमकत्वाद्धेतुतः, आक्षिप्याभिनिर्वर्तकत्वात्समुदयानयनात्समुदा[न]यतः । अभिनिर्वृत्तिर्दुःखितत्वात् प्रभवत्वात् प्रभवतः । पुनरायत्यां दुःखबीजपरिग्रहत्वादनुक्रमेण च । दुःखसमुदयानयनात्प्रत्ययतः । अपरः पर्यायः । उपादानहेतुकस्य च भवस्य समुदागमाद्भवपूर्विकाया जातेः प्रभवत्वात्, जातिप्रत्ययतां, जाति च (तेश्च) जराव्याधिमरणशोकादीनामभिनिर्वृत्तेः । हेतुतः समुदयतः, प्रभवतः, प्रत्ययतः । यथायोगं वेदितव्यं । अपरः पर्यायः [।] यः क्लेशानुशय आश्रय[ः] पुनर्भवामभिनिर्वृत्तये हेतुस्तज्जस्य च पर्यवस्थानस्य यथायोगं वेदितव्यं [।] अपरः पर्यायः [।] यः क्लेशानुशय आश्रयस्तृष्णानुशयादिकः । स आयत्यां पुनर्भवाभिनिर्वृत्तये हेतुस्तज्जस्य च पर्यवस्थानस्य यथायोगं समुदयः, प्रभवः, प्रत्ययश्च [।]
तत्र पौनर्भविक्यास्तृष्णायाः समुदाननात्समुदयतः । सापुन[ः] पौनर्भविकी तृष्णा नन्दीरागसहगतायास्तृष्णायाः ( श्भ्_स्ह् 494 ) प्रभवो भवति सा पुनर्नन्दीरागसहगता तृष्णा प्रभूता, तत्र तत्राभिनन्दिन्यास्तृष्णायाः प्रत्ययो भवत्येवमस्यानुशयगतां त्रिविधपर्यवस्थागतां च तृष्णामागम्यायति[ः] । पुनर्भवस्याभिनिर्वृत्तिर्भवति प्रादुर्भावः । तेनाह हेतु[तः], समुदयतः, प्रभवतः, प्रत्ययतश्च । एवमयं योगी एभिश्चतुर्भिराकारैस्समुदयसत्यलक्षणं प्रतिसम्वेदयते ।
समुदयसत्यलक्षणं प्रतिसंवेद्य अस्य समुदयसत्यस्याशेषोपरमन्निरोधं निरोधत आकारयति । दुःखसत्यस्याशेषोपरमेच्छातः, अग्रत्वाच्छ्रेष्ठत्वात्तदन्तरत्वात् प्रणीततः, नित्यत्वान्निस्सरणतः । एवमयं चतुर्भिराकारैः निरोधसत्यस्य लक्षणं प्रतिसंवेदयति । प्रतिसम्वेद्य ज्ञेयपरिमार्गणार्थेन, भूतपरिमार्गणार्थेन चतुर्भिर्दुःखैरनुप्रवर्तनार्थेन । निर्वाणगमनायैकायनार्थेन मार्गं मार्ग[तो], न्यायतः, प्रतिपत्तितो, नैर्याणिकतश्च आकारयति । स एवं चतुर्भिराकारैर्मार्गत्यस्य लक्षणं प्रतिसम्वेदयते । अयमस्योच्यते चतुर्ष्वार्यसत्येष्वध्यात्मं प्रत्यात्मं लक्षणप्रतिसंवेदी (यते । अयमस्योच्यते । चतुर्ष्वार्यसत्ये[षु]) मनस्कारः ॥
स एवं प्रत्यात्मिकान् स्कन्धान् प्रत्ययेनोपपरीक्ष्य ( श्भ्_स्ह् 495 ) व्यवचारयित्वा (व्यवचार्य) विपरोक्षकान् विसभागधातुकान् । स्कन्धाननुमानतः पराहन्ति । तेप्येवं धर्माणः ते ऽप्येवंनयपतिता इति । यत्किञ्चित्संस्कृतं सर्वत्र सर्वशः [एवं तदेवं प्रतिसंवेदी मनस्कारः । प्रत्ययेनोपपरीक्ष्यव्यवचारयित्वा(चार्य) विपरोक्षान् विसभागधातुकान् स्कन्धाननुमानतः पराहन्ति । ते ऽप्येवं धर्माणस्ते ऽप्येवं नयपतिता इति यत्किञ्चित्संस्कृतं सर्वत्र सर्वश] एवं तदेवंप्रकृतिकं, तस्य च निरोधः । शान्तः, मार्गो, नैर्याणिको यस्तत्प्रहाणाय तस्य यदा विपक्षोक्तेषु प्रत्यात्मिकेषु स्कन्धेषु सत्यज्ञानं । यच्च विपरोक्षेषु विसभागधातुकेष्वनुमानज्ञानं । तद्धर्मज्ञानान्वयज्ञानयोरुत्पत्तये बीजस्थानीयं भवति । स चायं लक्षणप्रतिसंवेदी मनस्कारः श्रुतचिन्ताव्यवकीर्णो वेदितव्यः ।
यदा तेषु सत्येष्वयं योगी एवं सम्यक्(ग्)व्यवचारणान्वयादिभिः षोडशभिराकारैश्चतुर्ष्वार्यसत्येषु निश्चयः [-यं] प्रतिलब्धो भवति । यदुतोपपत्तिसाधनयुक्त्या, यदुत यावद्भाविकतां वा, तदा श्रुतचिन्तामयं मनस्कारं समतिक्रम्य व्यवतीर्णवर्त्तिनमेकान्तेन भावनाकारेणाधिमुच्यते । सो [अ]स्य भवत्याधिमोक्षिको मनस्कारः । सत्यालम्बनश्चैकान्तसमाहितश्च [।] स तस्यान्वया[द्]द्वे सत्ये अधिकृत्य दुःखसत्यञ्च ( श्भ्_स्ह् 496 ) समुदयसत्यञ्च अपर्यन्तं ज्ञानं प्रतिलभते । येनानित्यमनित्यमित्यनित्यापर्यन्तमधिमुच्यते ॥
एवं दुःखापर्यन्ततां शून्याकाया[रा]पर्यन्ततां, संक्लेशापर्यन्तामपायगमनापर्यन्ततां सम्पत्ति(त्त्य) [पर्यन्त]नां(तां), विपति[त्त्य]पर्यन्ततां, स व्याधिमरणशोकपरिदेवदुःखदौर्मनस्योपायासा पर्यन्ततां [।] तत्रापर्यन्तेति नास्ति संसारं(रः) सन्स(संस)रत, एषां धर्माणामन्तो नास्ति पर्यन्तः । यावत्सन्सा(संसा)रभाविन एते धर्माः, सन्सा(संसा)रस्य वाशेषोपरमादेषामुपरमो, नास्ति अन्यथोपरम इत्येवं सर्वभवगतिच्युत्युपपादेभ्यः अप्रणिहा(हिता)कारेणासन्निश्रयाकारेण, प्रातिकूल्याथि(धि)कारेणासन्निश्रयाकारेण [।] प्रातिकूल्याधिकारेणाधिमुच्यमान आधिमोक्षिकमनस्कारं भावयति । स एवं सर्वभावोपपत्तिभ्यः । चित्तमुद्वेजयित्वा (-मुद्वेज्य) । उत्त्रास्य । उ(त्)त्रासयित्वा (स्य) [अ]ध्याशयेन निर्वाणे ऽप्यन्यतमान्यतमेनाकारेण प्रणिदधाति । तस्य दीर्घरात्रं तच्चित्रं(त्तं)रूपरतं शब्दगन्धरसस्प्रष्टव्यरतं आ(तमा)चितमुपचितं (रूपशब्दगन्धरसस्प्रष्टव्यरतमा(तमा)चितमुपचितं ।) रूपशब्दगन्धरसस्प्रष्टव्यैः । येनाध्याशयेनापि निर्वाणं प्रदधते । ( श्भ्_स्ह् 497 ) न प्रस्कन्दति, न प्रसीदति । न संतिष्ठते । न विमुच्यते, न प्रत्युदावर्त्तते (।) मानसं, शान्तधात्वनभिलक्षिततया । परितमनामुपादाय, स पुनः पुनस्तच्चित्तमुद्वेजयत्यु[त्]त्रासयति । दुःखसत्यात्समुदयसत्यादुद्वेज्यो[ज्]त्रास्य पुनः पुनरध्याशयतो निर्वाणे प्रणिदधाति । तथाप्यस्य न प्रस्कन्दति । तत्कस्य हेतोस्तथा ह्यसौ [औ]दारिको [अ]स्मि मानो ऽभिसमयाय विबन्धकरः । स मनस्कारानुप्रविष्टः सान्तरव्यन्तरो वर्तते । अहमस्मि संस्कृ(सृ)तवानहमस्मि संसरिष्यामि । अहमस्मि परिनिर्वास्यामि, अहमस्मि(न्) परिनिर्वाणाय कुशलान्धर्मान् भावयामि । अहमस्मिदुःखं दुःखतः (।) पश्यामि, समुदयं समुदयतो, निरोधं निरोधतः । अहमस्मि मार्गं मार्गतः पश्यामि । अहमस्मि शून्यं शून्यतो ऽप्रणिहितमप्रणिहिततः । आनिमित्तमानिमित्ततः पश्यामि ममैते धर्मास्तद्धेतोस्तत्प्रत्ययस्य तच्चित्तं न प्रस्कन्दत्या(त्य)ध्याशयम्वाध्याशयतो [अ]पि निर्वाणम(त)स्मिमानं निर्ब(विब)न्धका(क)रं विबन्धकार इति लघु लघ्वेव प्रज्ञया प्रतिविध्य, स्वरसानुप्रवृत्तौ मनस्कारमुत्सृज्य, बहिर्धा ज्ञेयालम्बनाद् व्यावर्त्य, मा(म)नस्कारप्रविष्टां, ( श्भ्_स्ह् 498 ) मनस्कारानुगतां, सत्यव्यवचारा(र)णामारभते । स उत्पन्नोत्पन्नं चित्तं निरुध्यमानमनन्तरोत्पन्नेन चित्तेन भज्यमानं पश्यति । प्रवाहानुप्रबन्धयोगेन । स तथाचित्तेन चित्तमालम्बनीकरोत्यवष्टभते । यथास्य यो ऽसौ मनस्कारानुप्रविष्टो ऽस्मिमानो विपक्ष(बन्ध)करः स तस्यावकाशः । पुनर्भवव्युत्पत्तये ॥
तथा प्रयुक्तो ऽयं योगी यत्तस्याश्चित्तसन्ततेः अन्योन्यतां नवनवतामापायिकतां तावत्कालिकतामित्वरप्रत्युपस्थायिताञ्च पौर्वापर्येण पश्यतीदमस्या [अ]नित्यताया यत्तस्याश्चित्तसन्ततेः उपादानस्कन्धानुप्रविष्टतां पश्यतीदमस्य दुःखतायास्तत्र यच्चित्तं धर्मं नोपलभते । इदमत्र शून्यतायास्तत्र यस्या एव चित्तसन्ततेः प्रतीत्यसमुत्पन्नतामस्वतन्त्राम्पश्यतीदमस्यानात्मताया[ः ।] एवं तावद् दुःखसत्यमवतीर्णो भवति ।
तस्यैवं भवतीयमपि मे चित्तसन्ततिः । तृष्णाहैतुकी, तृष्णासमुदया, तृष्णाप्रभवा, तृष्णाप्रत्यया [।] अस्या अपि चित्तसन्तेतेर्यो निरोधः सो ऽपि शान्तः । अस्या अपि यो निरोधगामी मार्गः । स नैर्याणिक इत्येवमपरीक्षितमनस्कारपरीक्षायोगेन सूक्ष्मया प्रज्ञया न तान्यार्यसत्यान्यवतीर्णो भवति । तस्यैवमासेवनान्वयाद्भावनान्वयात्तस्याः समसमालम्ब्यालम्बकाज्ञानमुत्पद्यते । येनास्यौदारिकत्वास्मिमानो निर्वाणाभिरतये विबन्धकरः समुदाचरतः । प्रहीयते । निर्वाणे चाध्यायतश्चित्तं प्रदधतः प्रस्कन्दति । नप्रत्युदावर्तते(यति) (।) मानसं । परितमनामुपादाय । अध्याशयतश्चाभिरतिं गृह्णाति । तथाभूतस्यास्य मृदुक्षान्तिसहगतं समसमालम्ब्यालम्बकज्ञानं तदूष्मगतमित्युच्यते । यन्मध्यक्षान्तिपरिगृहीतं तन्मूढे(ढमि)त्युच्यते । यदधिमात्रक्षान्तिसंगृहीतं तन्मध्यानुलोमा क्षान्तिरित्युच्यते ॥
स एवम्बिबन्धकरमस्मिमानं प्रहाय निर्वाणे चाध्याशयरतिं परिगृह्ययो ऽसावुत्तरोत्तरश्चित्तपरिक्षयाभिसंस्कारः । तमभिसंस्कारं समुत्सृज्य अनभिसंस्कारतायां निर्विकल्पचित्तमुपनिक्षिपति । तस्य तच्चित्तं तस्मिन् समये निरुद्धमिव ख्याति । न च तं (तन्) निरुद्धं भवत्यनालम्बनमिव ख्याति । न च तदालम्बनं भवति । तस्य तच्चित्तं प्रशान्तं विगतमिव ( श्भ्_स्ह् 500 ) ख्याति । न च तद्विगतं भवति । न च पुनस्तस्मिं(स्मिन्) समये मधुकरमिद्धावष्टब्धमपि तच्चित्तं निरुद्धमिव ख्याति । न च तन्निरुद्धं भवति । यत्तदेकत्यानां [मन्दानां] मोमूहानामभिसमया [या]भिमानाय भवतीदं पुनश्चित्तमभिसमयायैव, न चिरस्येदानीं सम्यक्त्वं(त्त्व) (।) न्यामावक्रान्तिर्भविष्यतीति । यदि यमीदृशी चित्तस्यावस्था भवति । तस्य तत्सर्वपश्चिमनिर्विकल्पंचित्तं यस्यानन्तरं पूर्वविचारितेषु सत्वेष्वध्यात्ममाभोगं करोति । ते लौकिका अग्रधर्माः ।
तस्मात्परेणास्य लोकोत्तरमेव चित्तमुत्पद्यते । न लौकिकं [।] सीमा एषा लौकिकानां संस्काराणां, पर्यन्त एषस्तेनोच्यन्ते लौकिका अग्रधर्मा इति । तेषां समनन्तरपूर्वाविचारितानि सत्या[न्या]भ्र(व्र)जति । आभोगसमनन्तरं यथापूर्वानुक्रमः [।]
विचारितेषु सत्येषु अनुपूर्वेणैव निर्विकल्पप्रत्यक्षपरोक्षेषु ॥ निश्चयज्ञानं प्रत्यक्षज्ञानमुत्पद्यते । तस्योत्पादात् त्रैधातुकावचराणां दर्शनप्रहातव्यानां क्लेशानां पक्ष्यं दौष्ठुल्यसन्निश्रयसन्निविष्टं तत्प्रहीयते । तस्य प्रहाणात् सचेत्पूर्वमेव कामेभ्यो वीतरागो भवति । सह स(ग?)त्याभिसमयात् । तस्मिन्समये ( श्भ्_स्ह् 501 ) ऽनागामीत्युच्यते । तस्य तान्येव लिंगानि वेदितव्यानि । यानि पूर्वमुक्तानि वीतरागस्यायन्तु विशेषः । अयमौपपादुको भवति । तत्र परिनिर्वायी । अनागन्ता पुनरिमं लोकं [।]
स चेत् पुनर्यद्भूयो वीतरागो भवति । सह गत्या अभिसमयात् सकृदागामी भवति ।
सचेत्पुनरवीतरागो भवति । स भूयस्स तस्य दौष्ठुल्यस्य प्रतिप्रश्रब्धेः स्रोत आपन्नो भवति । ज्ञेयेन ज्ञानं समागतं भवति । प्रत्यक्षतया । तेनोच्यते [अ]भिसमयतः । तद्यथा क्षत्रियः क्षत्रियेण । सार्धं सम्मुखीभावं तदन्वभिसमयागत इत्युच्यते । एवं ब्राह्मणादयो वेदितव्याः ।
तस्येमानि लिंगानि चत्वारि ज्ञानान्यनेन प्रतिलब्धानि भवन्ति । सत्त्वचारविहारमनसिकारेषु तीरयतो धर्ममात्रज्ञानमनुच्छेदज्ञानमशाश्वतज्ञानं । प्रतीत्यसमुत्पन्नसंस्कारमायोपमज्ञानविषयो ऽपि चास्य चरतः, सुतीव्रमपि क्लेशपर्यवस्थानं । यद्यपि स्मृतिसंप्रमोषादुत्पद्यते । तदप्यस्याभोगमात्राल्लघु लघ्वेव विगच्छति । तथा अगन्ता भवत्यपायां (यान्) न संचिध्यणिक्षां (विध्य[ति] शिक्षां) व्यतिक्रामति । च तिर्यग्योनि(कृतं) गतं प्राणिनं जीविताद् व्यपरोपयति । ( श्भ्_स्ह् 502 ) न शिक्षां प्रत्याख्याय हानायार्वत्तते । अभव्यो भवति पञ्चानामानन्तर्याणां कर्मणां करणतायै । न स्वयंकृतसुखदुःखं पर्येति, न परकृतं, न स्वयंकृतं च परकृतं च, न स्वयंकारापरकाराहेतुसमुत्पन्नं । न इतो बहिर्धान्यं शास्तारं पर्येषते । न दक्षिणीयं । न परेषां श्रमणब्राह्मणानां सुखावलोकको भवति । सुखपरीक्षकः । नान्यत्र दृष्टधर्माः, प्राप्तधर्मा, पर्यवगाढधर्मा, तीर्णकांक्षस्तीर्णविचिकित्सः, अपरप्रत्ययो ऽनन्यनेयः, शास्तुः शासने धर्मेषु वैशारद्यप्राप्तः । स न कौतूहलमंगलाभ्यां शुद्धिं प्रत्येति । नाप्यष्टमं भवमभिनिर्वर्त्तयति । चतुर्भिरवेत्यप्रसादैः समन्वागतो भवति । तस्य यावल्लौकिकेभ्यो ऽग्रधर्मेभ्य अधिमोक्षिको मनस्कारः सत्यान्यभिसमितवतः दर्शनप्रहातव्येषु क्लेशेषु प्रहीणेषु प्राविवेक्यो मनस्कारः, प्रहाणाय च ।
अत ऊर्ध्वं यथाप्रतिलब्धं मार्गं भावयतो ऽभ्यस्यतः कामावचराणामधिमात्रमध्यानां क्लेशानां प्रहाणात् सकृदागामी भवति । तस्यापि यानि स्रोत आपन्नस्य लिंगानि । सर्वाणि वेदितव्यानि । अयञ्च विशेषो यद्विषये ऽधरक्लेशस्थानीयेषु अधिमात्रपर्यवस्थानीये ऽपि बद्धं क्लेशपर्यवस्थानमुत्पादयत्याशु चापनयति । सकृच्चेमं लोकमागम्य दुःखस्यान्तं करोति । अनागामी । अनागामिलिंगानि च पूर्वोक्तानीत्येव तत्र सर्वो भावनामार्गः प्रत्यवेक्ष्य प्रत्यवेक्ष्य मीमान्सा(मांस) मनस्कारेण प्रहीणाप्रहीणतां यथाप्रतिलब्धमार्गाभ्यामप्रभावितः ।
तत्र भावनायाः कतमः स्वभावः [।] कतमत्कर्म । कतमः प्रकारभेदः । यः समाहितभूमिकेन मनस्कारेण लौकिकलोकोत्तरेणैषां कुशलानां संस्कृतानां धर्माणामभ्यासः । परिचयः, सातत्यसत्कृत्य क्रिया । चित्तसन्ततेस्तन्मयता चोपनय[न]मयमुच्यते भावना स्वभावः ।
तत्र भावनाया अष्टविधं कर्म । एकत्यान्धर्मान्भावयन् प्रतिलभते । एकत्यान्धर्मान्भावनया निषेवते । एकत्यान्धर्मान्विशोधयत्येकत्यान्धर्मान्प्रतिविनोदयत्येकत्यान्धर्मान् परिजानाति । एकत्यान्धर्मान्प्रजहात्येकत्यान् ( श्भ्_स्ह् 504 ) धर्मान् प्रजहात्येकत्यान् धर्मान् साक्षात्करोत्येकत्यान्धर्मान्दूरीकरोति । तत्र ये तावदप्रतिलब्धा धर्माः कुशला वैशेषिकास्तान् प्रतिलभते । एकत्या(त्ये) धर्माभावनया लब्धाः, संमुखीभूताश्च वर्त्त[न्]ते । तान्निषेवते । तत्र ये प्रतिलब्धा, न च संमुखीभूतास्ते तज्जातीयैर्धर्मैर्निषेव्यमाणौ(णै)रायत्यां संमुखीक्रियमाणा[ः], परिशुद्धतरा[ः], पर्यवदाततराश्चोत्पद्यन्ते तत्र ये स्मृतिसंप्रमोषा(त्) क्लिष्टा(न्)धर्मान्समुदाचरन्ति । तान्कुशलधर्माभ्यासबलेनाधिवासयति । प्रजहाति । विनोदयति । व्यन्तीकरोत्यनुत्पन्नानेव वा प्रहातव्यान्धर्मान्रोगतः परिजानाति । विदूषयति । शल्यतो, गण्डतः, अघतः, अनित्यतो, दुःखतः, शून्यतो, [अ]नात्मतश्च परिजानाति । विदूषयति । तस्य परिज्ञानाभ्यासादानन्तर्यमार्ग उत्पद्यते । क्लेशानां प्रहाणाय, येन प्रजहाति । प्रहीणे च पुनर्विमुक्तिं साक्षात्करोति । यथा च यथोपरिमां भूमिमाक्रमते । तथा तथा अधोभूमिकाः प्रहाणाधर्मा दूरी भवन्ति । यावन्निष्ठागमनादिदं भावनीयमष्टविधं कर्म वेदितव्यम् ॥
तत्र भावनायामे (या ए)कादशविधः प्रकारभेदो ( श्भ्_स्ह् 505 ) वेदितव्यः तद्यथा शमथभावना, विपश्यनाभावना, [पूर्ववदेव तत्र] लौकिकमार्गभावना, लोकोत्तरमार्गभावना, मृदुमध्याधिमात्रभावना, प्रयोगमार्गभावना, आनन्तर्यविमुक्तिविशेषमार्गभावना [।]
तत्र शमथभावना नवाकारायाश्चित्तस्थित्या[ं](ञ्चित्तस्थित्यां) पूर्ववत् ।
विपश्यनाभावना पूर्ववदेव । तत्र लौकिकमार्गभावना[य]दधोभूमिकानामौदारिकदर्शनतया उपरिभूमीनां च शान्तदर्शनतया, यावदाकिञ्चन्यायतनवैराग्यगमनं [।]
तत्र लोकोत्तरमार्गभावना दुःखं वा दुःखतो मनसिकुर्वतः, यावन्मार्गम्वा मार्गतो मनसिकुर्वतः । यदनास्रवेण मार्गेण सम्यग्दृष्ट्यादिकेन यावन्नैवसंज्ञा नासंज्ञायतनवैराग्यगमनं [।]
तत्र मृदुमार्गभावना ययौदारिकानधिमात्रान् क्लेशान्प्रजहाति । तत्र मध्यमार्गभावना यया मध्यान् क्लेशान् प्रजहाति । तत्राधि[मात्र]मार्गभावना यया मृदुं क्लेशप्रकारं प्रजहाति । सर्वम्पश्चात्प्रहेयं ।
तत्र प्रयोगमार्गभावना यया प्रयोगमारभते क्लेश प्रहाणाय । तत्रानन्तर्यमार्गभावना यया प्रजहाति । ( श्भ्_स्ह् 506 ) तत्र विमुक्तिमार्गभावना यया समनन्तरप्रहीणे क्लेशविमुक्तिं साक्षात्करोति । तत्र विशेषमार्गभावना ययास्त (यया त)त ऊर्ध्वं यावदन्यभूमिकस्य क्लेशप्रयोगमारब्धव्यं नारभते । निष्ठागतो वा नारभते । इत्ययमेकादशविधो भावनायाः प्रकारभेदो वेदितव्यः ।
तस्यैवं भावनाप्रयुक्तस्य कालेन च कालं क्लेशानां प्रहीणाप्रहीणतां मीमान्स(मांस)तः (मानस्य?) कालेन कालं संवेजनीयेषु धर्मेषु चित्तं सम्वेजयतः, कालेनकालमभिप्रमोदनीयेष्वभिप्रमोदयतः सो ऽस्य भवति [रति]संग्राह[को] मनस्कारः । तस्यास्य रतिसंग्राहकस्य मनस्कारस्यासेवनान्वयाद् भावनान्वयाद्बहुलीकारान्वयान्निरवशेषभावनाप्रहातव्या[ः] क्लेशप्रहाणाय सर्वपश्चिमः शैक्षो वज्रोपमः समाधिरुत्पद्यते । तस्योत्पादात्सर्वे भावनाप्रहातव्याः क्लेशाः प्रहीयन्ते ।
केन कारणेन वज्रोपम इत्युच्यते । तद्यथा ( श्भ्_स्ह् 507 ) वज्र[ं] सर्वेषां तदन्येषां मणिमुक्तावैडूर्यशंखशिलाप्रवाडा(ला)दीनां मणीनां सर्वसारं सर्वदृढं तदन्यान्विलिखति । न त्वन्यैर्मणिभिर्विलिख्यते । एवमेवायं समाधिः सर्वशैक्षसमाधीनामग्र्यः, श्रेष्ठः सर्वसारः सर्वक्लेशानभिभवति । न च पुनरुत्पत्तिक्लेशैरभिभूयते । तस्माद्वज्रोपम इत्युच्यते ।
तस्य वज्रोपमस्य समाधेः समनन्तरं सर्वक्लेशपक्ष्यं दौष्ठुल्यबीजसमुद्धातादत्यन्ततायै चित्तमधिमुच्यते । ( श्भ्_स्ह् 508 ) गोत्रपरिशुद्धिं चानुप्राप्नोति [।] सर्व दौष्ठुल्य क्लेशोन्धक्षयाय ज्ञानमुत्पद्यते । हेतुक्षयाच्चायत्यां दुःखस्य सर्वेण सर्वमप्रादुर्भावायानुत्पाद ज्ञानमुत्पद्यते । स तस्मिन् समये ऽर्हन् भवति । क्षीणास्रवः, कृतकृत्यः, कृतकरणीयो ऽनुप्राप्तस्वकार्यः परिक्षीणभवसंयोजनः सम्यगाज्ञासुविमुक्तचित्तः । दशभिरशैक्षैर्धर्मैः समन्वागतः । अशैक्षया सम्यग्दृष्ट्या सम्यक्संकल्पेन यावदशैक्षया सम्यग्विमुक्त्या सम्यग्ज्ञानेन [।] स्वचित्तवशवर्ती च भवति । विहारे च मनसिकारे च । समयेन येन कांक्षते । विहारेणार्येण वा, दिव्येन वा, ब्राह्मेण वा, तेन तेन विहरति । यं यमेवाकांक्षते धर्मं मनसि कर्त्तुं कुशलमर्थोपसंहितं । लौकिकं वा लोकोत्तरम्वा, तं तमेव मनसि करोति ।
तत्रार्यो विहारः शून्य[ता]विहारो(र [आ])निमित्तविहारो ऽप्रणिहितविहारो निरोधसमापत्तिविहारश्च । दिव्यो विहारो ध्यानारूप्यविहारः । ब्राह्मो विहारो मैत्रीकरुणामुदितोपेक्षाविहारः । अत्यन्तनिर्मलोभवत्यत्यन्तविमलो ऽत्यन्तब्रह्मचर्यपर्यवसानः । निर्गत इवासि उत्क्षिप्त परि............................................. इत्यपि पंचांगप्रहीणषडंगसमन्वागतः (ए)कारक्त............................................... (श्भ्_स्ह् ( श्भ्_स्ह्: 509 ) शे(श्रे)-त्तु(त्र)(क्षेत्र?) धर्माश्रयः । प्रणुन्नः प्रत्ये...............................................प्रवियु(मु)क्त चित्तः, सुविमुक्तप्रज्ञः केवलो उक्षि..........च्च...........लि पुरुष इत्युच्यते । प श्चितु.............समन्वागतो भवति । पा लं दृष्ट्वा चैवं सुमनाः ।
भवति सुष्ठुमनाः उपेक्षको भवति स्मृतः सम्प्रजा[ना]नः । एवं श्रोत्रेण शब्दान्, घ्राणेन गन्धान्, जिह्वया रसान्, कायेन स्प्रष्टव्यान्, मनसा धर्मान् विज्ञाय । मे व........तदूर्ध्व । उपेक्षको विहरति स्मृतः संप्रजा[ना]नः । स तस्मिन् समये अपरिशेषरागक्षयं प्रतिसंवेदयति । स क्षयाद्रागद्वेषमोहानां यत्त्यागं (यस्त्यागः), तन्न करोति...........
समचित्तश्च भवति वासी चन्दनकल्पः सेन्द्रो पित्र्याणां देवानां मान्यश्च पूज्यश्च मार्गकाशेषधातुप्रतिष्ठिते च भवति तीर्णः पारगतो ऽन्तिमादेहधारीत्युच्यते । पूर्वकर्मक्लेशाविद्धानां पञ्च स्कन्धानां स्वरसं..........नानु पादानात् वा, निरुपधिशेषनिर्वाणधातौ (प्रविष्टः।प्रविशति)
......परिनिर्वृतो भवति । यथा न संसृतो (तौ) नान्यत्र यद् दुःखं तन्निरुद्धं तव्युपशान्तं तच्छीतीभूतं भव इं गतं । शान्तं शान्तमिदं पदं । यदुत सर्वोपधिप्रतिनिःसर्वसंज्ञाक्षयो विरागो निरोधो निर्वाणं तस्येमानि लिंगान्येवं भागीयानि वेदितव्यानि । ( श्भ्_स्ह् 510 ) पञ्च स्थानान्यु..........भिक्षुः क्षीणास्रवः प्रति । वि विने । क्त मन्यमसं तथा
प्रापयितुं मन्ददा त्र म ब्रह्मचर्यं मैथुनं धर्मं प्रतिषेवितुं । संप्रजाना(नो) मृषापभाषितुमभव्यः मन्दविकारेण कामान्परिभोक्तुं । तथा भव्यः स्वयं कृतं सुखं दुःखं प्रत्येतुं । पूर्ववद्यावत्स्वयंकायकारो ऽहेतुसमुत्पन्नमुग्रदुःखं प्रणीतममव्याय कृतस्तुभिः(तिः) । सत्रासं मांसं भक्ष्य(व्य).........
ऽअन्यतामान्यतम्वा भयभैरवं........संत्रासमापत्तु रयमसौ वज्रोपमः समाधिरयं प्रयोगनिष्ठो मनस्कारः यः पुनरग्रफलार्हत्त्वसंगृहीतमनस्कारो ऽयं प्रयोगनिष्ठाफलो मनस्कारः । एभिः सप्तभिर्मनस्कारैर्लोकोत्तरेण मार्गेणात्यन्तनिष्ठात् आ।प्रा पा तः-त
इत्ययमुच्यते सा।मो ध क सर्वेषां सम्यक्संबुद्धानां सश्रावकसंयुक्तानां निर्देशस्थानीयानां साक्षात्का[र]स्थानीयानां तद्यथा सर्वनामकायपदकायव्यंजनकायकाव्यमनु शास्त्राणि ॥ मातृका ॥
॥ उद्दानम् ॥
लक्षणप्रतिसंवेदी स्यात्तथैवाधिमोक्षिकः ।
प्राविवेक्यरतिग्राही तद्व्यामीमान्स(मांस)कः ॥
पुनः प्रयोगनिष्ठा कृत्युत्तरतत्फलः पश्चिमो भवेत् ।
मनस्कारश्च, ध्यानानां आरूप्याना(णां) विभागता ॥
समापत्ती(त्तिर)अभिज्ञाश्च उपपत्तिश्च लिङ्गता ।
सत्यानां व्यवचारश्च प्रतिवेधस्तथैव च ॥
भावनाया विभङ्गश्च निष्ठा भवति पश्चिमा ॥
॥ श्रावकभूमौ चतुर्थं योगस्थानम् ॥
॥ समाप्ता श्रावकभूमिः ॥
मूल पाठ: Śrāvakabhūmi · Edition: Karunesha Shukla: Sravakabhumi of Acarya Asanga, Patna : K.P. Jayaswal Research Institute, 1973 (Tibetan Sanskrit Works Series, 14 and 28) · Data entry Ms. Anula Shakya · GRETIL (Göttingen) · CC BY-NC-SA 4.0