सांख्यसूत्र · अध्याय 6
(भूतचैतन्यवाद निरासः)
तन्त्राध्यायः
अस्त्यात्मा नास्तित्वसाधनाभावात्
(आत्मास्तित्व निरूपणं)
देहादिव्यतिरिक्तो ऽसौ वैचित्र्यात्
(आत्मास्तित्व निरूपणं)
षष्ठीव्यपदेशादपि
(आत्मास्तित्व निरूपणं)
न शिलापुत्रवत्, धर्मिग्राहकमानबाधात्
(आत्मास्तित्व निरूपणं)
अत्यन्तदुःखनिवृत्त्या कृतकृत्यता
(आत्मनः कृतकृत्यतानिमित्तं)
यथा दुःखात् क्लेशः पुरुषस्य, न तथा सुखाभिलाषः
(आत्मनः कृतकृत्यतानिमित्तं)
कुत्रापि को ऽपि सुखीति
(दुःखनिवृत्तेरेव पुरुषार्थत्वं)
तदपि दुःखशबलितमिति दुःखपक्षे निक्षिपन्ते विवेचकाः
(दुःखनिवृत्तेरेव पुरुषार्थत्वं)
सुखलाभाभावादपुरुषार्थत्वामिति चेन्न द्वैविध्यात्
(दुःखनिवृत्तेरेव पुरुषार्थत्वं)
निर्गुणत्वमात्मनो ऽसङ्गत्वादिश्रुतेः
(गुणबन्धस्यैव अविवेकमूलत्वं), पू
परमधर्मत्वे ऽपि तत्सिद्धिरविवेकात्
(गुणबन्धस्यैव अविवेकमूलत्वं), सि
अनादिरविवेकः अन्यथा दोषद्वयप्रसक्तेः
(अविवेकस्यानादित्वं)
न नित्यः स्यादात्मवदन्यथानुच्छित्तिः
(अविवेकस्यानादित्वं)
प्रतिनियतकारण नाश्यत्वमस्य ध्वान्तवत्
(मुक्तिकारणविवरणं)
अत्रापि प्रतिनियमो ऽन्वयव्यतिरेकात्
(मुक्तिकारणविवरणं)
प्रकारान्तरासम्भवादविवेक एव बन्धः
(बन्धस्वरूपं)
न मुक्तस्य पुनर्बन्धयोगो ऽप्यनावृत्ति श्रुतेः
(मुक्तेर्नित्यत्वं)
अपुरुषार्थत्वमन्यथा
(मुक्तेर्नित्यत्वं)
अविशेषापत्तिरुभयोः
(मुक्तेर्नित्यत्वं)
मुक्तिरन्तराय ध्वस्तेर्न परः
(अन्तरायध्वंसमात्रस्य मुक्तिरूपत्वं)
तत्राप्यविरोधः
(अन्तरायध्वंसमात्रस्य मुक्तिरूपत्वं)
अधिकारित्रैविध्यान्न नियमः
(अधिकारिभेदेन अन्तरायध्वसनिष्पत्तिभेदः)
दार्ढ्यार्थमुत्तरेषां
(नियमानां आवश्यकता)
स्थिरसुखमासनमिति न नियमः
(नियमानां आवश्यकता)
ध्यानं निर्विषयं मनः
(ध्यानस्वरूपं)
उभयथाप्यविशेषश्चेन्नैवमुपरागनिरोधाद्विशेषः
(योगस्यावश्कता)
निस्सङ्गे ऽप्युपरागो ऽविवेकात्
(उपरागहेतुः)
जपास्फटिकयोरिव नोपरागः किन्त्वभिमानः
(उपरागहेतुः)
ध्यानधारणाभ्यास वैराग्यादिभिः तन्निरोधः
(उपराग निरोधहेतुः)
लयविक्षेपयोर्व्यावृत्त्येत्याचार्याः
(उपराग निरोधहेतुः)
न स्थाननियमः चित्तप्रसादात्
(उपराग निरोधहेतुः)
प्रतेराद्योपादानतान्येषां कार्यत्वश्रुतेः
(प्रकृतेरेव जगन्मूलता)
नित्यत्वे ऽपि नात्मनो योग्यत्वाभावात्
(प्रकृतेरेव जगन्मूलता)
श्रुतिविरोधान्न कुतर्कापसदस्यात्मलाभः
(प्रकृतेरेव जगन्मूलता)
पारम्पर्ये ऽपि प्रधानानुवृत्तिरणुवत्
(प्रकृतेरेव जगन्मूलता)
सर्वत्र कार्यदर्शनात् विभुत्वं
(प्रकृतेरेव जगन्मूलता)
गतियोगे ऽप्याद्यकारणताहानिरणुवत्
(प्रकृतेरेव जगन्मूलता)
प्रसिद्धाधिक्यं प्रधानस्य न नियमः
(प्रकृतेरेव जगन्मूलता)
सत्त्वादीनामतद्धर्मत्वं तद्रूपत्वात्
(प्रकृतेः गुणरूपतासाधनं)
अनुपभोगे ऽपि पुमर्थं सृष्टिः प्रधानस्योष्ट्रकुङ्कुमवहनवत्
(प्रधानप्रवृत्तिहेतुः)
कर्मवैचित्र्यात्सृष्टिवैचित्र्यं
(प्रधानप्रवृत्तिहेतुः)
साम्यवैषम्याभ्यां कार्यद्वयं
(सृष्टिप्रलनिमित्ते)
विमुक्तबोधान्न सृष्टिः प्रधानस्य लोकवत्
(प्रधानस्यसृष्ट्युपरमनिमित्तादि निरूपणं)
नान्योपसर्पणे ऽपि मुक्तोपभोगः निमित्ताभावात्
(प्रधानस्यसृष्ट्युपरमनिमित्तादि निरूपणं)
पुरुषबहुत्वं व्यवस्थातः
(प्रघानस्यसृष्ट्युपरमनिमित्तादि निरूपणं)
उपाधिश्चेत् तत्सिद्धौ पुनर्द्वैतं
(उपाधिभेदात् बन्धमोक्षव्यवस्थाभावः)
द्वाभ्यामपि प्रमाणविरोधः
(अविद्यापुरुषयोरस्तित्वाङ्गीकारे अद्वैद्यविरोधः)
द्वाभ्यामप्यविरोधान्नपूर्वमुत्तरं च साधाकाभावात्
(अविधापुरुषयोरास्तित्वाङ्गीकारे अद्वैद्यविरोधः)
प्रकाशतस्तत्सिद्धौ कर्मकर्तृविरोधः
(आत्मनः प्रकाशस्वरूपत्वे दोषः)
जडव्यावृत्तो जडं प्रकाशयति चिद्रूपः
(आत्मनः प्रकाशस्वरूपत्वे दोषः)
न श्रुतिविरोधो रागिणां वेराग्याय तत्सिद्धेः
(अद्वैतश्रुतेः स्वपक्षे सामरस्यं)
जगत्सत्यत्वमदुष्टकरणजन्यत्वम् बाधकाभावात्
(जगत्सत्यत्वसाधनं)
प्रकारान्तरासंभवात्सदुत्पत्तिः
(सत्कार्यवादस्यैव साधुता)
अहङ्कारः कर्ता न पुरुषः
(अहङ्कारस्यैव कर्तृत्वं)
चिदवसाना भुक्तिः तत्कर्मार्जितत्वात्
(भोगोपाधिः)
चन्द्रादिलोकेप्यावृत्तिः निमित्तसद्भावात्
(पुनरावृत्तिहेतुः)
लोकस्य नोपदेशात् सिद्धिः पूर्ववत्
(पुनरावृत्तिहेतुः)
पाराम्पर्येण तत्सिद्धौ विमुक्तिश्रुतिः
(पुनरावृत्तिहेतुः)
गतिश्रुतेश्च व्यापकत्वे ऽपि उपाधियोगात् भोगदेशकाललाभः व्योमवत्
(आत्मनो गतिश्रुत्युपपत्तिः)
अनधिष्ठितस्य पूतिभावप्रसङ्गान्न तत्सिद्धिः
(देहरचनां प्रति भोक्त्रधिष्ठानस्यावश्यकता)
अदृष्टद्वाराचेदसम्बद्धस्य तदसम्भवाज्जलादिवदङ्कुरे
(देहरचनां प्रति भोक्त्रधिष्ठानस्यावश्यकता)
निर्गुणत्वात्तदसम्भवादहङ्कार धर्माते
(देहरचनां प्रति भोक्त्रधिष्ठानस्यावश्यकता)
विशिष्टस्य जीवत्वमन्वयव्यतिरेकात्
(जीवत्वोपाधिः)
अहङ्कारकर्त्रधीना कार्यसिद्धिर्नेश्वराधीना प्रमाणाभावात्
(सृष्ट्यादीनां कालमात्रनिमित्ताहङ्कारादिकार्यता)
अदृष्टोद्भूतिवत्समानत्वं
(सृष्ट्यादीनां कालमात्रनिमित्ताहङ्कारादिकार्यता)
महतो ऽन्यत्
(सृष्ट्यादीनां कालमात्रनिमित्ताहङ्कारादिकार्यता)
कर्मनिमित्तः प्रकृतेः स्वस्वामिभावो ऽप्यनादिः बीजाङ्कुरवत्
(प्रकृतिपुरुषयोः भोग्यभोक्तृभावस्य अनादिकर्मनिमित्तकत्वं)
अविवेकनिमित्तो वा पञ्चशिखः
(तत्रैव मतभेदः)
लिङ्गशरीरनिमित्तक इति सनन्दनाचार्यः
मूल पाठ: Sāṃkhyasūtra including the Tattvasamāsa, an abstract of Sāṃkhya philosophy (appended at the end) · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0