स्कन्द पुराण · अध्याय 7.89
॥ ईश्वर उवाच ॥ ॥
ततो गच्छेद्वरारोहे कपालीश्वरमुत्तमम् ॥
रुद्रं तृतीयं पापघ्नं नीलरुद्रस्यपूर्वतः
बुधेश्वरात्पश्चिमतो धनुषां सप्तके स्थितम् ॥
छिन्नं मया पुरा देवि ब्रह्मणः पंचमं शिरः
तत्कपालं करे लग्नं प्रभासक्षेत्रमागतः ॥
ततो वर्षसहस्रं तु संस्थितः क्षेत्रमध्यतः
कपालधारी दिग्वासाः कपाली तेन च स्मृतः ॥
तन्मया पूजितं लिंगं वर्षाणामयुतं प्रिये
कपालिरूपमास्थाय कपालीशस्ततः स्मृतः ॥
सर्वपापहरो नृणां दर्शनात्स्पर्शनादपि
मया तत्र नियुक्ता वै रक्षार्थं शूलपाणयः ॥
गणाः सहस्रशो देवि पापिनां दुष्टचेतसाम्
तस्मात्सर्वप्रयत्नेन सम्यक्छ्रद्धासमन्वितः ॥
पूजयेत्तं महादेवं कपालिनमनामयम्
हिरण्यं तत्र दातव्यं ब्राह्मणे वेदपारगे ॥
पूजयित्वा विधानेन सम्यक्तत्पुरुषाणुना
जन्मप्रभृति यत्पापं प्राणिभिः समुपार्जितम् ॥
षडशीतिमुखे दृष्ट्वा तल्लिंगं तु व्यपोहति
इति संक्षेपतः प्रोक्तं माहात्म्यं पापनाशनम् ॥
कपालिरुद्रदेवस्य तृतीयस्य वरानने
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्य एकादशरुद्रमाहात्म्ये कपा लीश्वरमाहात्म्यवर्णनंनामैकोननवतितमोऽध्यायः
मूल पाठ: skandapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0