भाषा

ENहिગુ
ग्रंथ पाठ

स्कन्द पुराण · अध्याय 7.82

7.82.1

॥देव्युवाच ॥ ॥
चक्रतीर्थेति किं नाम त्वया प्रोक्तं वृषध्वज ॥
कुत्र तिष्ठति तत्तीर्थं किं प्रभावं वदस्व मे

7.82.2

॥ ईश्वर उवाच ॥ ॥
पुरा देवासुरे युद्धे हत्वा दैत्याञ्जनार्द्दनः ॥
चक्रं प्रक्षालयामास तत्र वै रक्तरंजितम्

7.82.3

अष्टकोटिसुतीर्थानि तत्रानीय स्वयं हरिः ॥
तीर्थे प्रकल्पयामास शुद्धिं कृत्वा सुदर्शने ॥
तीर्थस्य चक्रे नामापि चकतीर्थमिति श्रुतम्

7.82.4

अष्टायुतानि तीर्थानामष्टौ कोट्यस्तथैव च ॥
तत्र संति महादेवि चक्रतीर्थे न संशयः

7.82.5

यस्तत्र कुरुते स्नानमेकचित्तो नरोत्तमः॥
सर्वतीर्थाभिषेकस्य स प्राप्नोत्यखिलं फलम्

7.82.6

तीर्थानामष्टकोटिस्तु निवसंति वरानने ॥
एकादश्यां विशेषेण चन्द्रसूर्यग्रहे तथा

7.82.7

तत्र स्नात्वा महादेवि यज्ञकोटिफलं लभेत् ॥
तस्यैव कल्पनामानि शृणु ते कथयाम्यहम्

7.82.8

कोटितीर्थं पूर्वकल्पे श्रीनिधानं द्वितीयके ॥
तृतीये शतधारं च चक्रतीर्थं चतुर्थके

7.82.9

एवं ते कल्पनामानि ह्यतीतान्यखिलानि वै ॥
कथितान्येवमन्यानि ज्ञेयानि विबुधैः क्रमात्

7.82.7.1.82.10

तत्र यद्दीयते दानं तस्य संख्या न विद्यते ॥
अर्द्धक्रोशप्रमाणं हि विष्णुक्षेत्रं प्रकीर्त्तितम्

7.82.11

ब्रह्महत्या नोपसर्पेत्सत्यमेतन्मयोदितम् ॥
मासोपवासी तत्क्षेत्रे अग्निहोत्री यतव्रतः

7.82.12

स्वाध्यायी यज्ञयाजी च तपश्चांद्रायणा दिकम् ॥
तिलोदकं पितॄणां च श्राद्धं च विधिपूर्वकम्

7.82.13

एकरात्रं त्रिरात्रं वा कृच्छ्रं सांतपनं तथा ॥
मासोपवासं तच्चैव अन्यद्वा पुण्यकर्म तत्

7.82.14

दैत्यारिक्षेत्रमासाद्य यत्किंचित्कुरुते नरः ॥
अन्यक्षेत्रात्कोटिगुणं पुण्यं भूयान्न संशयः

7.82.15

सुदर्शने वरे तीर्थे गोदानं तत्र दापयेत् ॥
सम्यग्यात्राफलप्रेप्सुः सर्वपापविशुद्धये

7.82.16

चंडालः श्वपचो वाऽपि तिर्यग्योनिगतस्तथा ॥
तस्मिंस्तीर्थे मृतः सम्यगाच्युतं लोकमाप्नुयात्

7.82.17

इति संक्षेपतः प्रोक्तं चक्रतीर्थसमुद्भवम् ॥
माहात्म्यं सर्वपापघ्नं सर्वकामफलप्रदम्

7.82.82

इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये दैत्यसूदन माहात्म्यप्रसंगेन चक्रतीर्थोत्पत्तिवृत्तान्तमाहात्म्यवर्णनंनाम द्व्यशीतितमोऽध्यायः

मूल पाठ: skandapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc