भाषा

ENहिગુ
ग्रंथ पाठ

स्कन्द पुराण · अध्याय 7.79

7.79.1

॥ ईश्वर उवाच॥ ॥
ततो गच्छेन्महादेवि लकुलीशं महाप्रभम् ॥
तस्य पश्चिमदिग्भागे धनुषां सप्तके स्थितम्

7.79.2

पापघ्नं सर्वजंतूनां शांतं मूर्तिस्थितं प्रभुम् ॥
समायातं महाक्षेत्रे तत्र कायावरोहणात्

7.79.3

कृत्वा तत्र तपश्चोग्रं दीक्षयित्वात्मशिष्य कान् ॥
कुशकादींश्च चतुर उक्त्वा शास्त्राण्यनेकशः

7.79.4

न्यायवैशेषिकादीनि ततः सिद्धिं परां गतः॥
एवं ज्ञात्वा तु यः सम्यक्तं समर्चयते नरः

7.79.5

कार्त्तिक्यां तु विशेषेण अयने चोत्तरेपि वा ॥
विद्यादानं च तत्रैव दद्याद्विप्राय शालिने

7.79.6

सप्तजन्मानि विप्रस्य धनाढ्यस्य कुले शुभे ॥
जायते मतिमान्धीमाञ्छ्रीमानेवं पुनःपुनः

7.79.79

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभास क्षेत्रमाहात्म्ये लकुलीश्वरमाहात्म्य वर्णनंनामैकोनाशीतितमोऽध्यायः

मूल पाठ: skandapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc