भाषा

ENहिગુ
ग्रंथ पाठ

स्कन्द पुराण · श्लोक 7.59-2

7.59-2.1

॥ ईश्वर उवाच ॥ ॥
अथ वच्मि तृतीयां ते ज्ञानशक्तिं शिवात्मिकाम् ॥
प्रभासक्षेत्रमध्यस्थां दारिद्र्यौघविनाशिनीम्

7.59-2.2

अजेति नाम्नीं तां देवीं राह्वीशाद्दक्षिणे स्थिताम् ॥
मम वक्त्राद्विनिष्क्रांता षष्ठाद्वै विष्णुपूजितात्

7.59-2.3

॥ देव्युवाच ॥ ॥
पंचवक्त्राणि देवेश प्रसिद्धानि तव प्रभौ ॥
षष्ठं यद्वदनं देव तस्य किं नाम संस्मृतम् ॥
समुत्पन्ना कथं तस्मादजादेवीति या श्रुता

7.59-2.4

॥ ईश्वर उवाच ॥ ॥
साधु पृष्टं त्वया देवि यद्गोप्यं स्वसुतेष्वपि ॥
तत्तेऽहं संप्रवक्ष्यामि अप्रसिद्धागमोदितम्

7.59-2.5

वक्त्राणि मम देवेशि सप्तासन्पूर्वमेव हि ॥
सद्योजातादिपंचैव षष्ठं स्मृतमजेति च

7.59-2.6

सप्तमं पिचुनामेति सप्तैवं वदनानि मे ॥
तेभ्योऽजं ब्रह्मणे दत्तं पिचुवक्त्रं तु विष्णवे

7.59-2.7

तस्मादहं महादेवि पंचवक्त्रोऽधुनाऽभवम् ॥
अजस्तु ब्रह्मा सञ्जज्ञे पिचुर्विष्णुरजायत

7.59-2.8

अजवक्त्रान्महादेवि अजा जाता महाप्रभा ॥
अन्धासुररणे घोरे मम क्रोधेन भामिनि

7.59-2.9

खड्गचर्मधरादेवी सुरूपा सिंहवाहिनी ॥
मर्द्दयन्ती महादैत्यान्देवीकोटिसमन्विता

7.59-2.7.1.59.10

तस्या भयेन ये दैत्या विद्रुता दक्षिणार्णवम् ॥
पृष्ठतोऽनुययौ तान्वै सा देवी सिंहवाहिनी

7.59-2.11

इतस्ततस्ते धावन्तो मार्यमाणाश्च तद्गणैः ॥
प्रभास क्षेत्रसंप्राप्ता नश्यमाना महार्णवम्

7.59-2.12

केचित्तत्र हता दैत्याः केचित्पातालमाययुः ॥
निःशेषान्निहतान्दृष्ट्वा सा देवी सिंहवाहिनी

7.59-2.13

क्षेत्रं पवित्रमाज्ञाय तत्र स्थाने स्थिता शुभा ॥
सोमेशादीशकोणस्था सौरीशादुत्तरे स्थिता

7.59-2.14

यस्तां तत्र स्थितां पश्येद्योषिद्वाथ नरोऽपि वा ॥
स भूयात्सत्त्वसौभाग्यैः सप्तजन्मानि संयुतः

7.59-2.15

गीतवाद्यादिकं नृत्यं यस्तत्र कुरुते नरः ॥
तस्यान्वये न दौर्भाग्यं भूयात्तस्याः प्रसादतः॥

7.59-2.16

घृतेन दीपकं तत्र या नारी संप्रयच्छति॥
रक्तवर्त्या महादेवि यावंतस्तत्र तंतवः ॥
तावज्जन्मांतराण्येव सा सौभाग्यमवाप्नुयात्

7.59-2.17

यश्चैतत्तु पठेन्नित्यं तृतीयायां विशेषतः ॥
शृणुयाद्वाऽपि यो भक्त्या स कामानखिलाल्लँभेत्

7.59-2.18

इति संक्षेपतः प्रोक्तो रुद्रशक्तित्रयक्रमः

7.59-2.19

एताः शक्तीः पूजयित्वा सोमेशं पूजयेत्ततः ॥
सम्यग्यात्राफलापेक्षी एकां वा वरदामथ

7.59-2.59

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्येऽजादेवीमाहात्म्यवर्णनंनामैकोनषष्टितमोऽध्यायः

मूल पाठ: skandapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc