भाषा

ENहिગુ
ग्रंथ पाठ

स्कन्द पुराण · श्लोक 7.51-2

7.51-2.1

॥ ईश्वर उवाच ॥ ॥
ततो गच्छेन्महादेवि केतुलिंगं महाप्रभम् ॥
राह्वीशानादुत्तरे च मंगलायाश्च दक्षिणे

7.51-2.2

धनुषोंतरमानेन नातिदूरे व्यवस्थितम् ॥
लिंगं महाप्रभावं हि सर्वपातकनाशनम्

7.51-2.3

केतुर्नाम ग्रहोत्युग्रः शिवसद्भावभावितः ॥
वर्तुलोऽतीव विस्तीर्णो लोचनाभ्यां सुभीषणः

7.51-2.4

पलालधूमसंकाशो ग्रहपीडापहारकः ॥
तत्राकरोत्तपश्चोग्रं दिव्याब्दानां शतं प्रिये

7.51-2.5

तस्य तुष्टो महादेवो ग्रह त्वं प्रददौ प्रिये ॥
एकादशशतानां च ग्रहाणामाधिपत्यताम्

7.51-2.6

तत्रस्थं पूजयेद्भक्त्या केतुलिंगं महाप्रभम् ॥
केतूदये महाघोरे तस्मिन्दृष्टे विशेषतः

7.51-2.7

ग्रहपीडासु चोग्रासु पूजयेत्तं विधानतः ॥
पुष्पैर्गंधैस्तथा धूपैर्नैवेद्यैर्विविधैः शुभैः

7.51-2.8

तोषयेद्विधिवद्देवं केतुं कल्मषनाशनम्

7.51-2.9

इति संक्षेपतः प्रोक्तं केतुलिंगं महोदयम् ॥
ग्रहपीडोपशमनं सर्वपातकनाशनम्

7.51-2.7.1.51.10

एतानि नव लिंगानि ग्रहाणां कथितानि ते ॥
यः पश्यति नरो नित्यं तस्य पीडाभयं कुतः

7.51-2.11

न दौर्भाग्यं कुले तस्य न रोगी नैव दुःखितः ॥
जायते पुत्रवद्देवि तं रक्षंति महाग्रहाः

7.51-2.12

इति ते कथितं सम्यक्चतुर्दशायतनं प्रिये ॥
विघ्नेश्वरं समारभ्य यावत्केतुप्रतिष्ठितम्

7.51-2.13

नवग्रहेश्वराणां तु माहात्म्यं पापनाशनम् ॥
तथैव पंचलिंगानां श्रुत्वा पापैः प्रमुच्यते

7.51-2.14

कपर्द्दिनं समारभ्य चंडनाथांतकानि च ॥
पंचैव मुद्रालिंगानि नापुण्यो वेद मानवः

7.51-2.15

सूर्येश्वरं समारभ्य केतुलिंगांतकानि वै ॥
नवग्रहाणां लिंगानि नान्यो जानाति कश्चन

7.51-2.16

चतुर्दशविधा त्वेवं प्रोक्ताऽऽयतनसंगतिः ॥
यश्चैनां वेद भावेन स क्षेत्रफलमश्नुते

7.51-2.51

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये केत्वीश्वरमाहात्म्यवर्णननामैकपंचाशोऽध्यायः

मूल पाठ: skandapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc