भाषा

ENहिગુ
ग्रंथ पाठ

स्कन्द पुराण · श्लोक 7.50-2

7.50-2.1

॥ ईश्वर उवाच ॥ ॥
ततो गच्छेन्महादेवि लिंगं राहुप्रतिष्ठितम् ॥
शनैश्चरेश्वराद्देवि वायव्ये संप्रतिष्ठितम्

7.50-2.2

अजादेव्याश्चोत्तरतो धनुषां सप्तके स्थितम् ॥
मंगलायाः समीपस्थं नातिदूरे व्यवस्थितम्

7.50-2.3

लिंगं महाप्रभावं तु सैंहिकेयप्रतिष्ठितम् ॥
तत्र वर्षसहस्रं तु वैप्रचित्तिस्तपोऽकरोत्

7.50-2.4

स्वर्भानुः स महावीर्यो वक्त्रयोधी महासुराः ॥
समाराध्य महादेवं दिव्येन तपसा प्रभुम्

7.50-2.5

लिंगेऽवतारयामास जगद्दीपं महेश्वरम् ॥
यश्चैनं पूजयेद्भक्त्या नरः सम्यक्च पश्यति ॥
तस्य पापं क्षयं याति अपि ब्रह्मवधोद्भवम्

7.50-2.6

नांधो न बधिरो मूको न रोगी न च निर्द्धनः ॥
कदाचिज्जायते मर्त्यस्तेन दृष्टेन भूतले

7.50-2.7

सुखसौभाग्यसंपन्नस्तदा भवति रूपवान् ॥
सर्वकामसमृद्धात्मा मोदते दिवि देववत्

7.50-2.8

इति ते कथितं देवि माहात्म्यं राहुदैवतम् ॥
श्रुत्वा तु मोहनिर्यातो नरो निष्कल्मषो भवेत्

7.50-2.50

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये राह्वीश्वरमाहात्म्यवर्णनंनाम पंचाशोऽध्यायः

मूल पाठ: skandapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc