स्कन्द पुराण · श्लोक 7.5-4
॥ ईश्वर उवाच ॥ ॥
ततो गच्छेन्महादेवि मंगलात्पश्चिमे स्थितम् ॥
गंगास्रोतस्तथा लिंगं सुरार्कं च विशेषतः
तान्गच्छेद्विधिवद्देवि यदि यात्राफलेप्सुता ॥
स्नात्वा पिण्डप्रदानं च कुर्यात्तत्र यथार्थतः ॥
ब्राह्मणेभ्यस्तथा देयमन्नं भूरि सदक्षिणम्
इति ते कथितं मया प्रिये कलिपापौघविनाशनं शुभम् ॥
निखिलं तीर्थमहोदयोदयं पठितं सद्विनिहंति पापसंहतिम्
इदं न देयं दुर्बुद्धेः सुतरां पापनाशनम् ॥
श्रोतव्यं विधिना तद्वद्भविष्योक्तविधानतः
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखंडे प्रथमे प्रभासक्षेत्रमाहात्म्ये गंगेश्वरमाहात्म्यवर्णनंनाम पंचमोऽध्यायः
मूल पाठ: skandapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0