भाषा

ENहिગુ
ग्रंथ पाठ

स्कन्द पुराण · श्लोक 7.45-2

7.45-2.1

॥ ईश्वर उवाच ॥ ॥
ततो गच्छेन्महादेवि अंगारेश्वरमुत्तमम् ॥
स्थापितं भूमिपुत्रेण सोमेशादीश गोचरे

7.45-2.2

त्रिपुरं दग्धुकामस्य पुरा मम वरानने ॥
क्रोधादश्रु विनिष्क्रांतं लोचनत्रितयेन तु

7.45-2.3

तच्च भूमौ निपतितं ततो भूभिसुतोऽभवत् ॥
स प्रभासं ततो गत्वा बाल्यात्प्रभृति शंकरम्

7.45-2.4

तपसाऽऽराधयामास बहून्वर्षगणान्प्रिये ॥
तस्य तुष्टो महादेवः सुप्रीतात्मा वरं ददौ

7.45-2.5

सोऽब्रवीद्यदि मे देव तुष्टोसि वृषभध्वज ॥
ग्रहत्वं देहि सर्वेश न चान्यं वरमुत्सहे

7.45-2.6

स तथेति प्रतिज्ञाय पुनस्तं वाक्यमब्रवीत् ॥
इहागत्य नरो यो मां पूजयिष्यति भक्तितः

7.45-2.7

न भविष्यति वै पीडा तावकी तस्य कुत्रचित् ॥
पुष्पाणि रक्तवर्णानि मध्वाज्याक्तानि भूरिशः

7.45-2.8

होमयिष्यति यो भक्त्या लक्षमेकं तदग्रतः ॥
पंचोपचारविधिना त्वां तु संपूज्य यत्नतः

7.45-2.9

तस्य जन्मावधिर्नैव तव पीडा भविष्यति ॥।
तथा विद्रुमदानेन लप्स्यते फलमीप्सितम्

7.45-2.7.1.45.10

एवमुक्त्वा स भगवानत्रैवांतरधीयन ॥
भौमोऽपि ग्रहमध्यस्थो विमानेन विराजते

7.45-2.11

एवं संक्षेपतः प्रोक्तं भौममाहात्म्यमुत्तमम्॥
श्रुतं हरति पापानि तथारोग्यं प्रयच्छति

7.45-2.45

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्येंऽगारेश्वरमाहात्म्यवर्णनंनाम पञ्चचत्वारिंशोध्यायः

मूल पाठ: skandapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc