भाषा

ENहिગુ
ग्रंथ पाठ

स्कन्द पुराण · श्लोक 7.37-3

7.37-3.1

॥ देव्युवाच ॥ ॥
किमर्थं कंकणं देव क्षिप्यते लवणांभसि ॥
तस्या पुण्यं न पूर्वोक्तं यथावद्वक्तुमर्हसि

7.37-3.2

के मंत्राः किं विधानं तत्कस्मिन्काले महत्फलम् ॥
किं पुराभूच्च तद्वृत्तं भगवन्कंकणाश्रितम्

7.37-3.3

॥
॥ ईश्वर उवाच ॥ ॥
आसीत्पुरा महीपालो बृहद्रथ इति श्रुतः ॥
तस्य भार्याऽभवत्साध्वी नाम्ना चेंदुमती प्रिया

7.37-3.4

न देवी न च गन्धर्वी नासुरी न च किंनरी ॥
तादृग्रूपा महादेवि यादृशी सा सुमध्यमा

7.37-3.5

शीलरूपगुणोपेता नित्यं सा तु पतिवता ॥
सर्वयोषिद्गुणैर्युक्ता यथा साध्वी ह्यरुन्धती

7.37-3.6

प्रधान (?)हस्रस्य सौभाग्यमदगर्विता ॥
न विना स तया रेमे मुहूर्त्तमपि पार्थिवः

7.37-3.7

एकदा तस्यराजर्षेरर्द्धासनगता सती॥
यावत्तिष्ठति राजेंद्रमृषिस्तावदुपागतः॥
कण्वो नाम महातेजास्तपस्वी वेदपारगः

7.37-3.8

तमागतमथो दृष्ट्वा सहसोत्थाय पार्थिवः॥
पूजां कृत्वा यथान्यायं दत्त्वा चार्घ्यमनुत्तमम्

7.37-3.9

सुखासीनं ततो मत्वा विश्रांतं मुनिपुंगवम्॥
आपृच्छत्कुशलं राजा स सर्वं चान्वमोदयत्

7.37-3.7.1.37.10

ततो धर्मकथां चक्रे स ऋषिर्नृपसन्निधौ

7.37-3.11

ततः कथावसाने सा भार्या तस्य महीपतेः ॥
अब्रवीदमृतं वाक्यं कृतांजलिपुटा सती

7.37-3.12

॥ इन्दुमत्युवाच ॥ ॥
त्वं वेत्सि भगवन्सर्वमतीतानागतं विभो ॥
पृच्छे त्वां कौतुकाविष्टा तस्मात्त्वं क्षंतुमर्हसि ॥

7.37-3.13

अन्यदेहोद्भवं कर्म मम सर्वं प्रकीर्त्तय ॥
ईदृशं मम सौभाग्यं पतिर्देवसुतोपमः

7.37-3.14

सौभाग्यं पतिदेवत्वं शीलं त्रैलोक्यविश्रुतम्॥
किं प्रभावो व्रतस्यैष उताहोपोषितस्य वा

7.37-3.15

दानस्य वा मुनिश्रेष्ठ यन्मे सौभाग्यमुत्तमम्॥
वशो राजा महाबाहुर्मम वाक्यानुगः सदा ॥

7.37-3.16

एतन्मे सर्वमाचक्ष्व परं कौतूहलं हि मे

7.37-3.17

॥ सूत उवाच ॥ ॥
तस्यास्तद्वचनं श्रुत्वा ध्यात्वा च सुचिरं मुनिः ॥
अब्रवीत्प्रहसन्वाक्यं कण्वो वेदविदां वरः

7.37-3.18

॥ कण्व उवाच ॥ ॥
शृणु राज्ञि प्रवक्ष्यामि अन्यदेहोद्भवं तव ॥
न रोषश्च त्वया कार्यो लज्जा वापि सुमध्यमे

7.37-3.19

त्वमासीदन्यदेहे तु आभीरी पंचभर्तृका ॥
सौराष्ट्रविषये हीना देवं सोमेश्वरं गता

7.37-3.7.1.37.20

ततः स्नातुं प्रविष्टा च सागरे लवणांभसि ॥
हता कल्लोलमालाभिर्विह्वलत्वमुपागता

7.37-3.21

तव हस्ताच्च्युतं तत्र हैमं कंकणमेव च ॥
नष्टं समुद्रसलिले पश्चात्तापस्तु ते स्थितः

7.37-3.22

अथ कालेन महता पंचत्वं त्वमुपागता ॥
दशार्णाधिपतेर्गेहे ततो जातासि सुन्दरि

7.37-3.23

बृहद्रथेन चोढासि कंकणस्य प्रभा वतः॥
न व्रतं न तपो दानं त्वया चीर्णं पुरा शुभे

7.37-3.24

एतत्ते सर्वमाख्यातं यन्मां त्वं परिपृच्छसि ॥
तच्छ्रुत्वा सा विशालाक्षी त्रपयाऽधो मुखी तथा ॥
आसीत्तूष्णीं तदा देवी श्रुत्वा वाक्यं च तादृशम्

7.37-3.25

एवं निवेद्य स मुनी राजपत्नीं वरानने ॥
जगाम भवनं स्वं च आमंत्र्य वसुधाधिपम्

7.37-3.26

ज्ञात्वा फलं कंकणस्य मुनेस्तस्य प्रभावतः ॥
गत्वा सोमेश्वरं देवं स्नात्वा च लवणांभसि

7.37-3.27

प्राक्षिपत्कंकणं तत्र प्रतिवर्षं(?) महाप्रभे ॥
ततो देवत्वमापन्ना प्रभावात्तस्य भामिनि

7.37-3.28

ईश्वर उवाच ॥ ॥
एष प्रभावः सुमहान्कंकणस्य प्रकीर्तितः ॥
सर्वकामप्रदो देवि सर्वपापप्रणाशनः

7.37-3.37

इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभास खण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये सोमेश्वरमाहात्म्ये कंकणमाहात्म्यवर्णनंनाम सप्तत्रिंशोऽध्यायः

मूल पाठ: skandapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc