भाषा

ENहिગુ
ग्रंथ पाठ

स्कन्द पुराण · अध्याय 7.345

7.345.1

॥ ईश्वर उवाच ॥ ॥
ततो गच्छेन्महादेवि लिंगं वै हाटकेश्वरम् ॥
जरद्गवात्पूर्वभागे धनुषां षष्टिभिस्त्रिभिः

7.345.2

नाम्ना नलेश्वरं देवि स्थापितं तु नलेन वै ॥
दमयन्तीयुतेनैव ज्ञात्वा क्षेत्रं तदुत्तमम्

7.345.3

तं दृष्ट्वा मानवो देवि पूजयित्वा विधानतः ॥ कलिभिर्मुच्यते जंतुर्द्यूते च विजयी भवेत्

7.345.345

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखंडे प्रथमे प्रभासक्षेत्रमाहात्म्ये नलेश्वरमाहात्म्यवर्णनंनाम पञ्चचत्वारिंशदुत्तरत्रिशततमोऽध्यायः

मूल पाठ: skandapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc