भाषा

ENहिગુ
ग्रंथ पाठ

स्कन्द पुराण · अध्याय 7.346

7.346.1

॥ ईश्वर उवाच ॥ ॥
तस्मादाग्नेयदिग्भागे स्थितः कर्कोटको रविः ॥
पूर्वकल्पे महादेवि स्मृतः कर्कोटकान्वितः

7.346.2

तस्य दर्शनमात्रेण प्रीताः स्युः सर्वदेवताः ॥
सप्तम्यां रविवारेण धूप गंधानुलेपनैः ॥
पूजयेद्यो विधानेन मुच्यते सर्वकिल्बिषैः

7.346.346

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये कर्कोटकार्कमाहात्म्यवर्णनंनाम षटचत्वारिंशदुत्तरत्रिशततमोऽध्यायः

मूल पाठ: skandapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc