भाषा

ENहिગુ
ग्रंथ पाठ

स्कन्द पुराण · अध्याय 7.344

7.344.1

॥ ईश्वर उवाच ॥ ॥
ततो गच्छेन्महादेवि लिंगं पापप्रणाशनम् ॥
कपिलेश्वरस्यैशान्यामुत्तरेण व्यवस्थितम्

7.344.2

जरद्गवेश्वरंनाम जरद्गवप्रतिष्ठितम् ॥
ब्रह्महत्यादि पापानां नाशनं नात्र संशयः

7.344.3

तत्रैव संस्थिता देवि देवी अंशुमती नदी ॥
तत्र स्नात्वा विधानेन पिडदानं तु दापयेत्

7.344.4

वर्षकोटिशतं साग्रं पितॄणां तृप्तिमावहेत् ॥
वृषभस्तत्र दातव्यो ब्राह्मणे वेदपारगे

7.344.5

ततस्तु पूजयेद्देवं गन्धपुष्पैर्जरद्गवम् ॥
पञ्चामृतरसेनैव तथा गुग्गु लुधूपनैः

7.344.6

स्तुतिदण्डनमस्कारैः प्रदक्षिणैरहर्निशम् ॥
ब्राह्मणान्भोजयेत्तत्र भक्ष्यभोज्यैः पृथग्विधैः ॥
एकेन भोजितेनैव कोटिर्भवति भोजिता

7.344.7

कृते सिद्धोदकंनाम तत्तीर्थं परिकीर्त्तितम् ॥
जरद्गवेश्वरं तीर्थं कलौ तु परिकीर्त्यते

7.344.344

इति श्रीस्कांदे महापुराण एकाशीति साहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्येंऽशुमतीमाहात्म्ये जरद्गवेश्वरमाहात्म्यवर्णनंनाम चतुश्चत्वारिंशदुत्तरत्रिशततमोऽध्यायः

मूल पाठ: skandapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc