भाषा

ENहिગુ
ग्रंथ पाठ

स्कन्द पुराण · श्लोक 7.33-2

7.33-2.1

॥ श्रीप्रह्लाद उवाच ॥ ॥
श्रुत्वा ब्रह्ममहेशानौ यदुक्तं विष्णुपार्षदैः ॥
द्वारकायास्तु माहात्म्यं तद्वर्णयितुमूचतुः॥

7.33-2.2

॥ श्रीब्रह्मेशानावूचतुः ॥ ॥
भोभोः क्षेत्राणि तीर्थानि सरांसि सागरादयः ॥
प्रयागादीनि तीर्थानि काश्याद्या मुक्तिदायकाः

7.33-2.3

भवतां तीर्थराजानां महाराजस्त्वियं शुभा ॥
द्वारका सेवनीया वै स्थीयतां स्वेच्छया बहिः

7.33-2.4

॥ श्रीप्रह्लाद उवाच ॥ ॥
महेशवचनं श्रुत्वा सर्वेषामुत्सवोऽभवत् ॥
प्रदक्षिणां ततः कृत्वा द्वारकां प्रणिपत्य च ॥
आवासं चक्रिरे तत्र क्षेत्रतीर्थानि हर्षतः

7.33-2.5

भागीरथी प्रयागं च यमुना च सरस्वती ॥
सरयूगंडकी पुण्या गोमती पूर्ववाहिनी

7.33-2.6

अन्याश्च सरितः सर्वाः सिन्धुशोणौ नदौ तथा ॥
पंचाशत्कोटिभिस्तीर्थैर्दिग्भागे ह्युत्तरे स्थिताः ॥
लंपटाः कृष्णसेवायां पश्यतो द्वारकां मुहुः

7.33-2.7

मन्दाकिनी तथा पुण्या नदी भागीरथी च या ॥
महानदी नर्मदा च शिप्रा प्राची सरस्वती

7.33-2.8

चक्षुर्भद्रा तथा सीता नद्योऽन्याः पापनाशिनी ॥
वर्तंते पूर्वदिग्भागे तीर्थैश्च षष्टिकोटिभिः

7.33-2.9

पयोष्णी तपती पुण्या विदर्भा च पयस्विनी ॥
गोदावरी महापुण्या भीमा कृष्णानदी तथा

7.33-2.7.4.33.10

कावेरीप्रमुखाः पुण्या अन्यैश्चैवाघनाशिनीः ॥
स्वतीर्थसहिता भक्त्या नवनवतिकोटिभिः

7.33-2.12

स्थिता दक्षिणदिग्भागे द्वारकासेवनोत्सुकाः ॥
क्रीडंति गोमतीनीरे तीरे च कृष्णसन्निधौ ॥१ १॥
सप्तद्वीपेषु याः संति तथाऽन्या वै सरिद्वराः ॥
सागराश्च तथा सप्त पश्चिमायां दिशि स्थिताः

7.33-2.13

क्रीडंति चक्रतीर्थे वै तीर्थैश्च शतकोटिभिः॥
पश्यंति च मुहुः कृष्णं पश्चिमाभिमुखं सदा

7.33-2.14

विदिशासु च सर्वासु तीर्थसंख्या न विद्यते ॥
पुष्करादीनि तीर्थानि विशाला विरजा गया

7.33-2.15

शतैककोटिभिस्तीर्थैर्गोमत्युदधिसंगमे ॥
वर्त्तंते कृष्णसेवायां सोत्सवानि द्विजोत्तमाः

7.33-2.16

वाराणसी पूरैशान्यामवन्ती पूर्वदिक्स्थिता ॥
आग्नेय्यां दिशि कांती च दक्षिणे मथुरा स्थिता

7.33-2.17

नैरृत्यां च तथा माया अयोध्या पश्चिमे स्थिताः॥
वायव्यां तु कुरुक्षेत्रं हरिक्षेत्रं तथोत्तरे

7.33-2.18

शिवक्षेत्रं च ऐशान्यामैंद्र्यां च पुरुषोत्तमः ॥
आग्नेय्यां च भृगुक्षेत्रं प्रभासं दक्षिणाश्रितम्

7.33-2.19

श्रीरंगं नैरृते भागे लोहदंडं तु पश्चिमे ॥
नारसिंहानि वायव्ये कोकामुख्यं तथोत्तरे

7.33-2.7.4.33.20

कामाख्या रेणुकादीनि शाक्तेयानि च सर्वशः ॥
क्षेत्रराजानि सर्वाणि यथास्थाने वसंति हि

7.33-2.21

उत्तरे चैव सौराणि गाणपत्यानि कृत्स्नशः ॥
क्षेत्राण्युत्तरतः संति रुक्मिण्याः सन्निधौ द्विजाः

7.33-2.22

धेनुकं नैमिषारण्यं दंडकं सैंधवं तथा ॥
दशारण्यमर्बुदं च नरनारायणाश्रमम्

7.33-2.23

यथादिशं वसंति स्म द्वारकायाः समन्ततः ॥
मेर्वाद्याः पर्वताः सौम्ये द्वारकासेवनोत्सुकाः

7.33-2.24

कैलासाद्याश्च ऐशान्यामैन्द्र्यां हिमवदादयः ॥
श्रीशैलाद्याश्च आग्नेय्यां सिंहाद्र्याद्या यमे तथा

7.33-2.25

नैरृत्यां वाममार्गाद्या महेन्द्रऋषभादयः ॥
अन्ये च पुण्यशैलाश्च सलोकालोक मानसाः ॥
द्वारकां परितः संति पर्य्युपासंति प्रत्यहम्

7.33-2.26

एवं ब्रह्मादयो देवा ऋषयः सनकादयः ॥
क्षेत्रतीर्थादिभिर्युक्ता अन्यैः पुण्यतमैस्तथा

7.33-2.27

श्रद्धया परया भक्त्या कन्याराशिस्थिते गुरौ ॥
आयांति द्वारकां द्रष्टुं ब्राह्म्याद्याश्च प्रहर्षिताः

7.33-2.33

इति श्रीस्कान्दे महा पुराण एकाशीतिसाहस्र्यां संहिताया सप्तमे प्रभासखण्डे चतुर्थे द्वारकामाहात्म्ये द्वारकामाहात्म्यवर्णनपूवकं द्वारकायां सर्वतीर्थक्षेत्रादिकृतनिवास वर्णनंनाम त्रयस्त्रिंशत्तमोऽध्यायः

मूल पाठ: skandapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc