भाषा

ENहिગુ
ग्रंथ पाठ

स्कन्द पुराण · अध्याय 7.329

7.329.1

॥ ईश्वर उवाच ॥ ॥
अथोत्तरे देवकुलात्तत्र गव्यूतिमात्रतः ॥
उत्तमस्थानमिति च प्रख्यातं धरणीतले

7.329.2

तस्योत्तरे तु दिग्भागे धनुर्द्वादशकांतरे ॥
उन्नतो विघ्नराजस्तु सर्वप्रत्यूहनाशनः

7.329.3

चतुर्थ्यां पूजितः सम्यक्सुगंधैः फलमोदकैः ॥ ददाति वांछितान्कामांस्त्रैलोक्ये विजयी भवेत्

7.329.329

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभास खण्डे प्रथमे प्रभासक्षेत्रमाहात्म्य उन्नतविनायकमाहात्म्यवर्णनंनामैकोनत्रिंशदुत्तरत्रिशततमोऽध्यायः

मूल पाठ: skandapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc