भाषा

ENहिગુ
ग्रंथ पाठ

स्कन्द पुराण · अध्याय 7.328

7.328.1

॥ ईश्वर उवाच ॥ ॥
तस्माद्वायव्यदिग्भागे स्थितं पापप्रणाशनम् ॥
संगमेश्वरनामाढ्यमृषयो यत्र संगताः

7.328.2

तस्यैव पूर्वदिग्भागे कुण्डिका पापनाशिनी ॥
वडवानलसंयुक्ता यत्रायाता सरस्वती

7.328.3

कुंडिकायां नरः स्नात्वा संगमेश्वरमर्चयेत् ॥
तस्य जन्मसहस्राणि लक्ष्म्याः पुत्रै प्रियैः सह ॥
असंगमं महादेवि न कदाचित्प्रजायते

7.328.4

मुच्यते पातकैः सर्वैराजन्म मरणांतिकैः

7.328.328

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये संगमेश्वरमाहात्म्यवर्णनं नामाष्टाविंशत्युत्तरत्रिशततमोऽध्यायः

मूल पाठ: skandapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc