भाषा

ENहिગુ
ग्रंथ पाठ

स्कन्द पुराण · अध्याय 7.323

7.323.1

॥ ईश्वर उवाच ॥ ॥
ततः पश्येन्महादेवि तस्य दक्षिणतः स्थितम् ॥
क्षेमेश्वरेति विख्यातमृषितोयातटे स्थितम्

7.323.2

भूतीश्वरेति नामास्य पूर्वं च परिकीर्तितम् ॥
क्षेमेशेति कलौ देवि तस्य नाम प्रकीर्तितम्

7.323.3

तं दृष्ट्वा पूजयित्वा च मुक्तः स्यात्सर्वकिल्बिषैः

7.323.323

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये क्षेमेश्वरमाहात्म्यवर्णनंनाम त्रयोविंशत्युत्तरत्रिशततमोऽध्यायः

मूल पाठ: skandapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc