भाषा

ENहिગુ
ग्रंथ पाठ

स्कन्द पुराण · अध्याय 7.322

7.322.1

॥ ईश्वर उवाच ॥ ॥
ततो गच्छेन्महादेवि तस्य दक्षिणसंस्थितम् ॥
दुर्गादित्येतिनामानं सर्वपापप्रणाशनम्

7.322.2

यदा दुःखमनुप्राप्ता दुर्गा दुःखविनाशिनी ॥
सूर्यमाराधयामास तदा दुःखविनुत्तये

7.322.3

ततः कालेन बहुना तस्यास्तुष्टो दिवाकरः ॥
उवाच मधुरं वाक्यं दुर्गां देवो महाप्रभाम् ॥
वरं वरय देवेशि तपसा तुष्टवानहम्

7.322.4

॥ दुर्गोवाच ॥ ॥
यदि तुष्टो दिवानाथ दुःखसंघं विनाशय

7.322.5

॥ सूर्य उवाच ॥ ॥
अचिरेणैव कालेन भगवांस्त्रिपुरांतकः ॥
संप्राप्स्यत्युत्तमं लिंगमुन्नते स्थान उत्तमे

7.322.6

दुर्गादित्येति मे नाम इह देवि भविष्यति ॥
एवमुक्त्वा महादेवि तत्रैवान्तर्दधे रविः ॥
सप्तम्यां रविवारेण दुर्गादित्यं प्रपूजयेत्

7.322.7

तस्य दुःखानि सर्वाणि कुष्ठानि विविधानि च ॥
विलयं यांति देवेशि दुर्गादित्यप्रपूजनात्

7.322.322

इति श्रीस्कांदे महापुराण एकाशीतिसा हरुयां संहितायां सप्तमे प्रभासखंडे प्रथमे प्रभासक्षेत्रमाहात्म्ये दुर्गादित्यमाहात्म्यवर्णनंनाम द्वाविंशत्युत्तरत्रिशततमोऽध्यायः

मूल पाठ: skandapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc