भाषा

ENहिગુ
ग्रंथ पाठ

स्कन्द पुराण · अध्याय 7.324

7.324.1

॥ ईश्वर उवाच ॥ ॥
तस्मादुत्तरदिग्भागे किंचिद्वायव्यमाश्रितम् ॥
विनायकं प्रपश्येच्च सर्वसिद्धिप्रदायकम्

7.324.2

योऽसौ देवि मया ख्यातः सखा मे धनदः पुरा ॥
गणनाथस्वरूपेण निधीनां परिपालकः ॥
लोकानां सिद्धिदानार्थमस्मिन्स्थाने स्थितः प्रिये

7.324.3

चतुर्थ्यां भौमवारेण भक्ष्यभोज्यः समोदकैः ॥
पूजयेद्विधिवद्देवि तस्य सिद्धिर्भवेद्ध्रुवम्

7.324.324

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये गणनाथमाहात्म्यवर्णनंनाम चतुर्विंशत्युत्तरत्रिशततमोऽध्यायः

मूल पाठ: skandapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc