भाषा

ENहिગુ
ग्रंथ पाठ

स्कन्द पुराण · श्लोक 7.3-3

7.3-3.1

ऋषय ऊचुः॥
कथितो भवता सर्गः प्रतिसर्गस्तथैव च॥
वंशानुवंशचरितं पुराणानामनुक्रमः

7.3-3.2

मन्वन्तरप्रमाणं च ब्रह्मांडस्य च विस्तरः॥
ज्योतिश्चक्रस्वरूपं च यथावदनुवर्णितम्॥
श्रोतुमिच्छामहे त्वत्तः सांप्रतं तीर्थविस्तरम्

7.3-3.3

पृथिव्यां यानि तीर्थानि पापघ्नानि शुभानि च॥
तानि सूतज कार्त्स्न्येन यथावद्वक्तुमर्हसि

7.3-3.4

सूत उवाच॥
इदं पृष्टं पुरा देव्या कैलासशिखरोत्तमे॥
नानाधातुविचित्रांगे नानारत्नसमन्विते

7.3-3.6

नानाद्रुमलताकीर्णे नानापुष्पोपशोभिते॥
यक्षविद्याधराकीर्णे ह्यप्सरोगणसेविते॥५।
तत्र ब्रहमा च विष्णुश्च स्कन्दनन्दिगणेश्वराः॥
चंद्रादित्यौ ग्रहैः सार्धं नक्षत्रध्रुवमण्डलम्

7.3-3.7

वायुश्च वरुणश्चैव कुबेरो धनदस्तथा॥
ईशानश्चाग्निरिंद्रश्च यमो निरृतिरेव च

7.3-3.8

सरितः सागराः सर्वे पर्वता उरगास्तथा॥
ब्राह्म्याद्या मातरश्चैव ऋषयश्च तपोधनाः

7.3-3.12

मूर्तिमंति च तीर्थानि क्षेत्राण्यायतनानि च॥
दानवासुरदैत्याश्च पिशाचा भूतराक्षसाः॥7.1.3.१०
तत्र सिंहासनं दिव्यं शतयोजनविस्तृतम्॥११।
लक्षायुतसहस्रैश्च रुद्रकोटिभिरावृतम्॥
तन्मध्ये सर्वतोभद्रं सिंहद्वारैः सुतोरणैः

7.3-3.13

स्वच्छमौक्तिकसंकाशं प्राकारशिखरावृतम्॥
नन्दीश्वरमहाकालद्वारपालगणैर्वृतम्

7.3-3.14

किंकिणीजालमुखरैः सत्यताकैरलंकृतम्॥
वितानच्छत्रखंडैश्च मुक्तादामप्रलंबितैः

7.3-3.15

घंटाचामरशोभाढयैर्दर्पणैश्चोपशोभितम्॥
कलशैर्द्वारविन्यस्तरत्नपल्लवसंयुतैः

7.3-3.16

चित्रितं चित्रशास्त्रज्ञै रत्नचूर्णैः समुज्वलैः॥
स्वस्तिकैः पत्रवल्याद्यैर्लिंगोद्भवलतादिभिः

7.3-3.17

शतसिंहासनाकीर्णं वेदिकाभिश्च शोभितम्॥
आसीनै रुद्रवृन्दैश्च रुद्रकन्याकदम्बकैः

7.3-3.18

लक्षपत्रदलाढ्यैश्च श्वेतपद्मैश्च भूषितम्॥
अप्सरोभिः समाकीर्णं पुष्पप्रकरविस्तृतम्

7.3-3.19

धूपितं धूपवर्त्तीभिः कुंकुमोदकसेचितम्॥
वंशवीणामृदंगैश्च गोमुखैर्मुखवादनैः

7.3-3.7.1.3.20

शंखभेरीनिनादेन दुन्दुभिध्वनितेन च॥
गर्जद्भिर्गणवृन्दैश्च मेघस्वनितनिस्वनैः

7.3-3.21

गणानां स्तोत्रशब्देन सामवेदरवेण च॥
प्रेक्षणीयैर्महानादैर्गेयहुङ्कारशोभितम्

7.3-3.22

वृषनर्दितशब्देन गजवाजिरवेण च॥
कांचीनूपुरशब्देन समाकीर्णदिगंतरम्

7.3-3.23

सर्वसंपत्करं श्रीमच्छंकरस्यैव मंदिरम्॥
वंश वीणामृदंगैश्च नादितं तत्र तत्र ह ॥
ऋग्वेदो मूर्तिमांश्चैव शक्रनीलसमद्युतिः

7.3-3.24

दिव्यगन्धानुलिप्तांगो दिव्याभरणभूषितः ॥
संस्थितः पूर्वतस्तस्य दीप्यमानः स्वतेजसा

7.3-3.25

उत्तरेण यजुर्वेदः शुद्धस्फटिकसन्निभः ॥
दिव्यकुण्डलधारी च महाकायो महाभुजः

7.3-3.26

स्थितः पश्चिम दिग्भागे सामवेदः सनातनः ॥
रक्तांबरधरः श्रीमान्पप्ररागसमप्रभः

7.3-3.27

स्रग्दामधारी चित्रश्च गीतभूषणभूषितः ॥
अथवांऽजनवच्छयामः स्थितो दक्षिणतस्तथा

7.3-3.28

पिंगाक्षो लोहितग्रीवो हरिकेशो महातनुः ॥
इतिहासषडंगानि पुराणान्यखिलानि च

7.3-3.29

वेदोपनिषदश्छन्दो मीमांसारण्यकं तथा ॥
स्वाहाकारवषट्कारौ रहस्यानि तथैव च

7.3-3.7.1.3.30

एतैः समन्वितैश्चैव तत्र ब्रह्मा स्वयं स्थितः ॥
शक्तिरूपधरैर्मन्त्रैर्योगैश्वर्यसमन्वितैः॥

7.3-3.31

सहस्रपत्रकमलैरंकितैः सुरपूजितैः ॥
पूजितैर्गणरुद्रैश्च ब्रह्मविष्विंद्रवंदितैः

7.3-3.32

चामराक्षेपव्यजनैर्वीजितैश्च समन्ततः ॥
शोभितश्च सदा श्रीमांश्चंद्रकोटिसमप्रभः

7.3-3.33

ज्ञानामृतसुतृप्तात्मा योगैश्वर्यप्रसादकः ॥
योगींद्रमानसांभोज राजहंसो द्विजोत्तमः

7.3-3.34

अज्ञानतिमिरध्वंसी षट्त्रिंशत्तत्त्वभूषणः ॥
सर्वसौख्यप्रदाता च तत्रास्ते चंद्रशेखरः

7.3-3.35

तस्योत्संगगता देवी तप्तकांचनसप्रभा ॥
पूजितो योगिनीवृन्दैः साधकैः सुरकिन्नरैः

7.3-3.36

सर्वलक्षणसंपूर्णा सर्वाभरणभूषिता ॥
योगसिद्धिप्रदा नित्यं मोक्षाभ्युदयदायिनीम्

7.3-3.37

सौभाग्यकदलीकन्दमूलबीजं च पार्वती ॥
देवस्य मुखमालोक्य विस्मिता चारुलोचना

7.3-3.38

आनंदभावं संज्ञाय आनन्दास्राविलेक्षणम् ॥
उवाच देवी मधुरं कृतांजलिपुटा सती

7.3-3.39

॥
देव्युवाच ॥ ॥
जन्मकोटिसहस्राणि जन्मकोटिशतानि च ॥
शोधितस्त्वं जगन्नाथ मया प्राणनचिंतया

7.3-3.7.1.3.40

अर्द्धांग संस्थया वापि त्वद्वक्त्रध्यानकाम्यया ॥
तथापि ते जगन्नाथ नांतो लब्ध्वो महेश्वर

7.3-3.41

अनन्तरूपिणे तुभ्यं देवदेव नमोऽस्तु ते ॥
नमो वेदरहस्याय नमो वेदैः स्तुताय च

7.3-3.42

श्मशानरतिनित्याय नमो गगनचारिणे ॥
ज्येष्ठसामरहस्याय शतरुद्रप्रियाय च

7.3-3.43

नमो वृषकृतांकाय यजुर्वेदधराय च ॥
ब्रह्मांडकोटिसंलग्नमालिने गगनात्मने

7.3-3.44

मणिचित्रितकन्दाय नमः सर्वार्थसिद्धये ॥
नमो वेदस्वरूपाय द्विज सिद्धिप्रियाय च

7.3-3.45

पुंस्त्रीविकाररूपाय नमश्चंद्रार्द्धधारिणे ॥
नमोग्नये सहोमाय आदित्यवरुणाय च

7.3-3.46

पृथिव्यै चांतरिक्षाय वायवे दीक्षिताय च ॥
संयोगाय वियोगाय धात्रे कर्त्रेऽपहारिणे

7.3-3.47

प्रदीप्तशूलहस्ताय ब्रह्मदण्डधराय च ॥
नमः पतीनां पतये महतां पतये नमः ॥।.

7.3-3.48

नमः कालाग्निरुद्राय सप्तलोकनिवासिने ॥
त्वं गतिः सर्वभूतानां भूतानां पतये नमः

7.3-3.49

नमस्ते भगवन्रुद्र नमस्ते भगवञ्छिव ॥
नमस्ते परतः श्रेष्ठ नमस्ते परतः पर

7.3-3.7.1.3.50

जिह्वाचापल्यभावेन खेदितोऽसि मया प्रभो ॥
तत्क्षन्तव्यं महेशान ज्ञानदिव्य नमोऽस्तु ते

7.3-3.51

॥ ईश्वर उवाच ॥ ॥
ममोत्संगस्थिता देवि किं त्वं सास्राविलेक्षणा ॥
अद्यापि किमपूर्णं ते तत्सर्वं करवाण्यहम्

7.3-3.52

वरं ब्रवीहि भद्रं ते स्तवेनानेन सुव्रते ॥
ददामि ते न संदेहः शोकं त्यज महेश्वरि

7.3-3.53

निष्कले सकले देवि स्थूले सूक्ष्मे चराचरे ॥
न तत्पश्यामि देवेशि यत्त्वया रहितं भवेत्

7.3-3.54

अहं ते हृदये गौरि त्वं च मे हृदि संस्थिता ॥
अहं भ्राता च पुत्रश्च बंधुर्भर्ता तथैव च

7.3-3.55

त्वं तु मे भगिनी भार्या दुहिता बांधवी स्नुषा ॥
अहं यज्ञपतिर्यज्वा त्वं च श्रद्धा सदक्षिणा

7.3-3.56

ओंकारोऽहं वषट्कारः सामाहमृग्यजुस्तथा ॥
अहमग्निश्च होता च यजमानस्तथैव च

7.3-3.57

अध्वर्युरहमुद्गाता ब्रह्माहं ब्रह्मवित्तथा ॥
त्वं तु देव्यरणी चैव पत्नी तु परिकीर्त्यसे

7.3-3.58

स्वाहा स्वधा च सुश्रोणि त्वयि सर्वं प्रतिष्ठितम् ॥
अहमिष्टो महायज्ञः पूर्वो यज्ञस्त्वमुच्यसे

7.3-3.59

पुरुषोऽहं वरारोहे प्रकृतिस्त्वं निगद्यसे ॥
अहं विष्णुर्महावीर्यस्त्वं लक्ष्मीर्लोकभाविनी

7.3-3.7.1.3.60

अहमिन्द्रो महातेजाः प्राची त्वं परमेश्वरी ॥
प्रजापतीनां रूपेण सर्वमाहं व्यवस्थितः

7.3-3.61

तेषां या नायिकास्तास्त्वं रूपैस्तैस्तैरवस्थिता ॥
दिवसोऽहं महादेवि रजनी त्वं निगद्यसे

7.3-3.62

निमेषोऽहं मुहूर्तश्च त्वं कला सिद्धिरेव च ॥
अहं तेजोऽधिकः सूर्यस्त्वं तु संध्या प्रकीर्त्त्यसे

7.3-3.63

अहं बीजधरः श्रेष्ठस्त्वं तु क्षेत्रं वरानने।
अहं वनस्पतिः प्लक्षस्त्वं वनस्पतिरुच्यसे ॥

7.3-3.64

शेषरूपधरो नित्ये फणामणिविभूषितः ॥
रेवती त्वं विशालाक्षि मदविभ्रमलोचना

7.3-3.65

मोक्षोऽहं सर्वदुःखानां त्वं तु देवि परा गतिः ॥
अपां पतिरहं भद्रे त्वं तु देवि सरिद्वरा

7.3-3.66

वडवाग्निरहं भद्रे त्वं तु दीप्तिः प्रकीर्तिता ॥
प्रजापतिरहं कर्त्ता त्वं प्रजा प्रकृतिस्तथा ॥

7.3-3.67

नागानामधिपश्चाहं पातालतलवासिनाम् ॥
त्वं नागी नागराजोऽहं सहस्रफणभूषितः

7.3-3.68

निशाकरवरश्चाहं श्रेष्ठा त्वं रजनीकरी ॥
कामोऽहं कामदो देवि त्वं रतिः स्मृतिरेव च

7.3-3.69

दुर्वासाश्चाप्यहं भद्रे त्वं क्षमा समचारिणी ॥
लोभमोहतपश्चाहं त्वं तृष्णा तामसी स्मृता

7.3-3.7.1.3.70

ककुद्मान्वृषभश्चाहं योगमाता तपस्विनी ॥
वायुरप्यहमव्यक्तस्त्वं गतिर्मनसूदनी

7.3-3.71

अहं मोचयिता लोभे निर्ममा त्वं यशस्विनि ॥
नयोऽहं सर्वकार्येषु नीतिस्त्वं कमलेक्षणा

7.3-3.72

अहमन्नं च भोक्ता च ओषधी त्वं निगद्यसे ॥
अहमग्निश्च धूमश्च त्वमूष्मा ज्वालमेव च

7.3-3.73

अहं संवर्त्तको मेघस्त्वं च धारा ह्यनेकशः ॥
अहं मुनीनां रूपेण त्वं तत्पत्नी प्रकीर्तिता

7.3-3.74

अहं संसारकर्त्ता वै त्वं तु सृष्टिर्वरानने ॥
अहं शुक्रास्थिरोमाणि त्वं मज्जा बलमेव च

7.3-3.75

पर्जन्योऽहं महाभागे त्वं वृष्टिः परमेश्वरि ॥
अहं संवत्सरो देवि त्वमृतुः परिकीर्त्तिता

7.3-3.76

अहं कृतयुगो देवि त्वं तु त्रेता निगद्यसे ॥
युगोऽहं द्वापरः श्रीमांस्त्वं कलिः परमेश्वरि

7.3-3.77

आकाशश्चाप्यहं भद्रे पृथिवी त्वमिहोच्यसे ॥
अहमदृश्यमूर्तिश्च दृश्यमूर्तिस्त्वमुच्यसे

7.3-3.78

वरदोऽहं वरारोहे मंत्रस्त्वमिति चोच्यसे ॥
अहं द्रष्टा च श्रोता च त्वं दृश्या श्रुतिरेव च

7.3-3.79

अहं वक्ता रमयिता त्वं वाच्या परमेश्वरि ॥
अहं श्रोता च गाता च त्वं गीतिर्गेयमेव च

7.3-3.7.1.3.80

अहं त्राता च गन्धश्च त्वं तु निघ्राणमेव च ॥
अहं स्पर्शयिता कर्ता स्पर्श्यस्त्वं सृष्टमेव च

7.3-3.81

अहं सर्वमिदं भूतं त्वं तु देवि न संशयः ॥
स्रष्टाऽहं तव देवेशि त्वं सृजस्यखिलं जगत्

7.3-3.82

त्वया मया च देवेशि ओतप्रोतमिदं जगत् ॥
एकधा दशधा चैव तथा शतसहस्रधा

7.3-3.83

ऐश्वर्येण तु संयुक्तौ सर्वप्राणि व्यवस्थितौ ॥
अहं त्वं च विशालाक्षि सततं संप्रतिष्ठितौ

7.3-3.84

क्रीडामि क्रीडया देवि त्वया सार्द्धं वरानने ॥
त्वं धृतिर्धारिणी लक्ष्मीः कांता मत्प्रकृतिर्ध्रुवम्

7.3-3.85

रतिः स्मृतिः कामचारी मम चांगनिवासिनी ॥
देवि किं बहुनोक्तेन प्राणेभ्योऽपि गरीयसी

7.3-3.86

वरं वरय देवशि यत्किंचिन्मनसि स्थितम्॥
तत्ते ददामि तुष्टोऽहं यद्यपि स्यात्सुदुर्ल्लभम्

7.3-3.87

॥ देव्युवाच ॥ ॥
धन्याहं कृतपुण्याहं तपः सुचरितं मया ॥
यत्त्वयाऽहं जगन्नाथ हर्षदृष्ट्याऽवलोकिता

7.3-3.88

यदि तुष्टोऽसि मे देव वरं दातुं ममेच्छसि ॥
तन्मे कथय देवेश सांप्रतं तीर्थविस्तरम् ॥

7.3-3.89

पृथिव्यां यानि तीर्थानि पापघ्नानि शिवानि च ॥
तानि देवेश कार्त्स्न्येन यथावद्वक्तुमर्हसि

7.3-3.7.1.3.90

॥ ईश्वर उवाच ॥ ॥
शृणु देवि प्रवक्ष्यामि तीर्थमाहात्म्यमुत्तमम् ॥
सर्वपापहरं नृणां पुण्यं देवर्षिसत्कृतम्

7.3-3.91

तीर्थानां दर्शनं श्रेष्ठं स्नानं चैव सुरेश्वरि ॥
श्रवणं च प्रशंसंति सदैव ऋषिसत्तमाः

7.3-3.92

पृथिव्यां नैमिषं तीर्थमंतरिक्षे च पुष्करम् ॥
केदारं च प्रयागं च विपाशा चोर्मिला तथा

7.3-3.93

कर्णवेणा महादेवी चंद्रभागा सरस्वती ॥
गंगासागरसंभेदस्तथा वाराणसी शुभा

7.3-3.94

अर्घतीर्थं समाख्यातं गंगाद्वारं तथैव च ॥
हिमस्थानं महातीर्थं तथा मायापुरी शुभा

7.3-3.95

शतभद्रा महाभागा सिन्धुश्चैव महा नदी ॥
ऐरावती च कपिला शोणश्चैव महानदः

7.3-3.96

पयोधिः कौशिकी तद्वत्तथा गोदावरी शुभा ॥
देवखातं गया चैव तथा द्वारावती शुभा

7.3-3.97

प्रभासं च महातीर्थं सर्वपातकनाशनम्

7.3-3.98

एवमादीनि तीर्थानि यानि संति महीतले ॥
तानि दृष्ट्वा तु देवेशि पुनर्जन्म न विन्दते

7.3-3.99

तिस्रः कोट्योऽर्धकोटी च तीर्थानामिह भूतले ॥
संजातानि पवित्राणि सर्वपापहराणि च

7.3-3.7.1.3.100

गंतव्यानि महादेवि स्वधर्मस्य विवृद्धये ॥
अशक्यानि शिवान्येवं गंतुं चैव सुरेश्वरि ॥
मनसा तानि सर्वाणि गंतव्यानि समाहितैः

7.3-3.101

। देव्युवाच॥
भगवन्प्राणिनः सर्वे सर्वोपद्रवसंकुलाः॥
अल्पायुषः सदा बद्धा व्यामोहैर्मंदिरोद्भवैः

7.3-3.102

त्रेतायां द्वापरे चैव किं नु वै दारुणे कलौ ॥
तस्मात्तेषां हितार्थाय तत्तीर्थं त्वं प्रकीर्तय ॥
येन दृष्टेन सर्वेषां तीर्थानां लभ्यते फलम्

7.3-3.103

एवमुक्तस्तु पार्वत्या प्रहस्य परमेश्वरः ॥
उवाच परया प्रीत्या वाचा मधुरया प्रभुः

7.3-3.104

॥
ईश्वर उवाच ॥ ॥
त्वमेव हि चराः प्राणाः सर्वस्य जगतोरणिः ॥
त्वया विरहितो देवि मुहूर्तमपि नोत्सहे

7.3-3.105

शिवस्य च तथा शक्तेरंतरं नास्ति पार्वति ॥
न तदस्ति महादेवि यन्न जानासि शोभने

7.3-3.106

त्वया विनाऽहं न क्वास्मि न त्वं देवि मया विना ॥
चंद्रचंद्रिकयोर्यद्वदग्नेरुष्णत्वमेव हि

7.3-3.107

तव देवि ममापीह नास्ति चैवांतरं प्रिये ॥
सर्वं चैव सुरेशानि यथावत्कथयाम्यहम्

7.3-3.108

रहस्यानां रहस्यं तु गोपनीयं प्रयत्नतः ॥
नास्तिकाय न दातव्यं न च पापरताय च

7.3-3.109

दातव्यं भक्ति युक्ताय स्वशिष्याय सुताय वा ॥
पूर्वमेव मया ख्यातं सारात्सारतरं प्रिये

7.3-3.7.1.3.110

तीर्थोपनिषदः ख्याता लिंगोपनिषदस्तथा ॥
योगोपनिषदो देवि पूर्वं वै कथितास्तव

7.3-3.111

॥ पार्वत्युवाच ॥ ॥
लेशेनापि न सिद्ध्यंति कांक्षमाणाः परं पदम् ॥
योनीर्भ्रमंतो दृश्यंते नरा नास्तिकवृत्तयः॥

7.3-3.112

तीर्थव्रतानि सेवन्ते प्रत्ययो नैव जायते ॥
मोहितं तु जगत्पूर्वं मिथ्याज्ञानेन शंकर

7.3-3.113

किं ते फलं सुरश्रेष्ठ जगद्व्यामोहने कृते

7.3-3.114

सारात्सारतरं नाथ तव प्राणप्रियं हि यत् ॥
तन्मे कथय देवेश प्रियाहं यदि ते प्रभो

7.3-3.115

इत्युक्तः स तया देव्या श्रीकंठः सुरनायकः ॥
प्रहस्योवाच भगवान्गंभीरार्थमिदं वचः

7.3-3.116

॥ईश्वर उवाच ॥ ॥
शृणुष्वावहिता भूत्वा पृष्टोऽहं यस्त्वयाऽधुना ॥
निष्फलं तत्प्रवक्ष्यामि वस्तुतत्त्वं यथास्थितम्

7.3-3.117

पूर्वमुक्तानि तीर्थानि यानि ते सुरसुंदरि ॥
तिस्रः कोट्योऽर्द्धकोटी च ब्रह्मांडे सचराचरे

7.3-3.118

तेषां च गोपितं तीर्थं प्रभासं चैव सुव्रते

7.3-3.119

एवमुक्तं महादेवि प्रभासं क्षेत्रमुत्तमम् ॥
दृष्ट्वा संस्काररहिताः कलौ पापेन मोहिताः

7.3-3.7.1.3.120

राजसास्तामसाश्चैव पापोपहतचेतसः ॥
परदारपरद्रव्यपरहिंसारता नराः

7.3-3.121

उद्वेगं च परं यांति प्रतप्यंति यतस्ततः ॥
आत्मसंभाविता मूढा मिथ्याज्ञानेन मोहिताः॥
वर्णाश्रमविरुद्धं तु तीर्थे कुर्वन्ति येऽधमाः

7.3-3.122

तीर्थयात्रां प्रकुर्वंति दंभेन कपटेन च॥
तीर्थे मृता न सिध्यंति ते नरा वरवर्णिनि

7.3-3.123

एतदर्थं मया देवि तीर्थानि विविधानि च ॥
लिंगानि चैव सुश्रोणि गोपितानि प्रयत्नतः ॥
न सिद्धिदानि देवेशि कलौ कल्मषकारिणाम्

7.3-3.124

ये नरास्तु जितक्रोधा जितलोभा जितेंद्रियाः ॥
ब्राह्मणाः क्षत्रिया वैश्याः शूद्राश्चादम्भमत्सराः

7.3-3.125

मद्भावभाविता देवि तीर्थं सेवंति सुव्रताः ॥
तेषां चैव हितार्थाय कथयामि यशश्विनि

7.3-3.126

प्रभासमिति विख्यातं क्षेत्रं त्रैलोक्यवंदितम् ॥
तत्क्षेत्रं नैव जानंति मम मायाविमोहिताः

7.3-3.127

परोहं त्वेकचित्तैश्च बहुजन्मभिरर्चितः ॥
ते विदंति परं क्षेत्रं प्रभासं पापनाशनम्

7.3-3.128

मद्भावभाविता देवि मम व्रतनिषेविणः ॥
तेषां प्रभासिकं क्षेत्रं विदितं नात्र संशयः

7.3-3.129

यमैश्च नियमैर्युक्ता अहंकारविवर्ज्जिताः ॥
तेषामर्थे वदिष्यामि तव प्रश्नं सुदुर्ल्लभम् ॥
ब्रह्मविष्ण्विन्द्रदेवानां पुराणं कथितं मया

7.3-3.7.1.3.130

सोऽहं देवि वदिष्यामि कर्णं देहि वरानने ॥
पृथिव्यामपि सर्वेषां तीर्थानां सुरसुंदरि

7.3-3.131

एकं मे वल्लभं तत्र प्रभासं क्षेत्रमुत्तमम् ॥
तस्मिंश्चैव महाक्षेत्रे तीर्थैः सोमेन पूजितः ॥
वरांस्तस्मै प्रदायाथ सदैकांते स्थितो ह्यहम्

7.3-3.132

तेन गुह्यं कृतं स्थानं तव देवि प्रकाशितम्॥
तत्र मे योगयुक्तस्य दिव्यं लिंगं बभूव ह

7.3-3.133

दिव्यतेजस्समा युक्तं वह्निमेखलमंडितम् ॥
लक्षमात्रस्थितं शांतं दुर्निरीक्ष्यं तु मानवैः

7.3-3.134

इच्छाज्ञानक्रियाख्याश्च तिस्रो वै शक्तयश्च याः ॥
तस्माल्लिंगात्समुत्पन्ना जगत्कर्तृत्वहेतवे

7.3-3.135

तस्मिँल्लिंगे लयं याति जगदेतच्चराचरम् ॥
पुनस्तेनैव संभूतं दृश्यते सचराचरम्

7.3-3.136

गुह्यं चैव तु संभूतं न कश्चिद्वेद तत्परम् ॥
जन्माभ्यासेन तल्लिंगं ज्ञायते भुवि मानवैः

7.3-3.137

क्षेत्रं प्रभासिकं प्रोक्तं क्षेत्रज्ञोऽहं न संशयः ॥
तत्र सोमेशनामाहमस्मिन्क्षेत्रं वरानने

7.3-3.138

ममांशसंभवा ये च अस्मिन्क्षेत्रे समुद्भवाः ॥
तेषां तु विदितं लिंगं पूर्वकल्पे तु भैरवम्

7.3-3.139

अन्यैरपि युगैर्देवि इदं लिंगं सुदुर्लभम् ॥
घोरे कलियुगे पापे विशेषेण च दुर्लभम्

7.3-3.7.1.3.140

अन्यन्निदर्शनं तत्र तत्प्रवक्ष्यामि पार्वति

7.3-3.141

कलौ युगे महाघोरे हेतुवादरता नराः ॥
वदिष्यंति महापापाः सर्वे पाखण्डसंस्थिताः

7.3-3.142

मिथ्या चैतत्कृतं सर्वं मूर्खैश्चापि प्रकीर्तितम् ॥
क्व क्षेत्रं क्व प्रभावश्च कुत्र वै सन्ति देवताः

7.3-3.143

सर्वं चापि तथालीकं मूढैश्चापि प्रकीर्तितम्

7.3-3.144

एवं मूर्खा वदिष्यंति प्रहसिष्यन्ति चापरे ॥
नारका नास्तिका लोकाः पापोपहतचेतसः ॥
सिद्धिं नैव प्रयास्यंति संप्राप्ते तु कलौ युगे

7.3-3.145

तीर्थे चैव मृता ये तु शिवनिन्दापरायणाः॥
तिर्यग्योनिप्रसूताश्च दृश्यन्ते सर्वयोनिषु

7.3-3.146

एतस्मात्कारणाद्देवि तीर्थे चैव सुदुःखिताः ॥
दृश्यन्ते युगमाहात्म्यात्सत्यशौचविवर्जिताः

7.3-3.147

इदं हि कारणं प्रोक्तं क्षेत्राणां चैव गोपने ॥
एतत्ते कथितं सर्वं सिद्धिर्येन सुदुर्ल्लभा

7.3-3.148

युगेयुगे तु तीर्थानि कीर्तितानि सुरेश्वरि ॥
तेषां मे वल्लभं देवि प्रभासं क्षेत्रमेव च

7.3-3.149

इत्येतत्कथितं देवि रहस्यं पापनाशनम् ॥
क्षेत्रबीजं महादेवि किमन्यत्परिपृच्छसि

7.3-3.7.1.3.150

इदं महापातकनाशनं ये श्रोष्यंति वै क्षेत्रमहाप्रभावम् ॥
ते चापि यास्यन्ति मम प्रभावात्त्रिविष्टपं पुण्यजनाधिवासम्

7.3-3.3

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभास खण्डे प्रभासक्षेत्रमाहात्म्ये देवीप्रश्नवर्णनं नाम तृतीयोऽध्यायः

मूल पाठ: skandapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc