भाषा

ENहिગુ
ग्रंथ पाठ

स्कन्द पुराण · अध्याय 7.251

7.251.1

॥ ईश्वर उवाच ॥ ॥
ततो गच्छेन्महादेवि शंकरादित्यमुत्तमम् ॥
गंगेश्वरस्य पूर्वेण शंकरेण प्रतिष्ठितम्

7.251.2

षष्ठ्यां चैव तु शुक्लायामेनं यः पूजयिष्यति ॥
गमिष्यति परं स्थानं यत्र देवो दिवाकरः

7.251.3

रक्तचंदनमिश्रैश्च रक्तपुष्पैः समाहितः ॥
ताम्रपात्रे समाधाय योऽर्घ्यं दास्यति मानवः ॥
स यास्यति परां सिद्धिं न च याति दरिद्रताम्

7.251.4

तस्मात्सर्वप्रयत्नेन तस्मिन्क्षेत्रे वरानने ॥
पूजयेच्छंकरादित्यं सर्वकामफलप्रदम्

7.251.251

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये शंकरादित्यमाहात्म्यवर्णनंनामैकपञ्चाशदुत्तरद्विशततमोऽध्यायः

मूल पाठ: skandapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc