भाषा

ENहिગુ
ग्रंथ पाठ

स्कन्द पुराण · अध्याय 7.246

7.246.1

॥ ईश्वर उवाच ॥ ॥।
ततो गच्छेन्महादेवि पिंगलीं पापनाशिनीम् ॥
ऋषितीर्थात्पश्चिमतो नदीं सागरगामिनीम्

7.246.2

तस्याः संदर्शनाद्देवि रूपवाञ्जायते नरः ॥
पुरा महर्षयः प्राप्ताः सोमेश्वरदिदृक्षया

7.246.3

प्रभासं क्षेत्रमासाद्य नदीतीरे व्यवस्थिताः ॥
दाक्षिणात्या महादेवि कृष्णवर्णा विरूपकाः

7.246.4

तत्राश्रमवरे स्नात्वा पश्यन्तो रूपमात्मनः ॥
कामेन सदृशं सर्वे विस्मयं परमं गताः

7.246.5

ततस्ते सहिताः सर्वे विस्मयोत्फुल्ललोचनाः ॥
अत्र स्नाता वयं सर्वे यतः पिंगत्वमागताः ॥
अतः प्रभृति नामास्यास्ततः पिंगा भविष्यति

7.246.6

येत्र स्नानं करिष्यन्ति भक्त्या परमया युताः ॥
न तेषामन्वये कश्चिद्भविष्यति कुरूपवान्

7.246.7

दर्शनात्पितृमेधस्य लप्स्यते मानवः फलम् ॥
स्नानेन द्विगुणं पुण्यं तर्पणेन चतुर्गुणम्

7.246.8

असंख्यातं फलं तस्य योऽत्र श्राद्धं करिष्यति ॥
एवमुक्त्वा ततः सर्व ऋषयो वरवर्णिनि

7.246.9

व्यभजंस्तन्नदीतीरं सर्वे ते मुनिसत्तमाः ॥
यज्ञोपवीतमात्राणि चक्रुस्तीर्थानि सर्वतः

7.246.246

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये पिंगा नदीमाहात्म्यवर्णनंनाम षट्चत्वारिंशदुत्तरद्विशततमोऽध्यायः

मूल पाठ: skandapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc