भाषा

ENहिગુ
ग्रंथ पाठ

स्कन्द पुराण · अध्याय 7.235

7.235.1

॥ ईश्वर उवाच ॥ ॥
तत्रैव संस्थितं पश्येल्लिंगत्रयमनुत्तमम् ॥
शतमेधं सहस्रमेधं कोटिमेधमिति क्रमात्

7.235.2

दक्षिणे शतमेधं तु शतयज्ञफलप्रदम् ॥
कार्तवीर्य्येण तत्रैव कृतं यज्ञशतं पुरा

7.235.3

प्रतिष्ठाप्य महालिंगं सर्वपातकनाशनम् ॥
मध्यभागेऽत्र यल्लिंगं कोटिमेधेति विश्रुतम्

7.235.4

तत्रेष्टा ब्रह्मणा पूर्वं कोटि संख्या मखोत्तमाः ॥
संस्थाप्य तु महादेवं शंकरं लोकशंकरम

7.235.5

तस्य उत्तरभागस्थं सहस्रक्रतुसंज्ञकम् ॥
शक्रश्च देवराजोऽपि सहस्रं यष्टवान्क्रतून्

7.235.6

प्रतिष्ठाप्य महालिंगं देवानामादिदैवतम् ॥
गंधपुष्पादिविधिना पंचामृतरसोदकैः

7.235.7

स प्राप्नुयात्फलं देवि लिंगनामोद्भवं क्रमात् ॥
गोदानं तत्र देयं तु सम्यग्यात्राफलेप्सुभिः

7.235.8

दशलक्षाणि तीर्थानां तत्र तिष्ठंति भामिनि ॥
लिंगत्रयं तथा मध्ये सर्वपातकनाशनम् ॥

7.235.235

इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां सहितायां सप्तमे प्रभास खण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये दशाश्वमेधमाहात्म्ये शतमेधादि लिंगत्रयमाहात्म्यवर्णनंनाम पञ्चत्रिंशदुत्तरद्विशततमोऽध्यायः

मूल पाठ: skandapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc