भाषा

ENहिગુ
ग्रंथ पाठ

स्कन्द पुराण · अध्याय 7.219

7.219.1

॥ ईश्वर उवाच ॥ ॥
तस्मादाग्नेयकोणे तु मार्कंडेयसमीपगम् ॥
गुहालिंगं महादेवि नीलकण्ठेति विश्रुतम्

7.219.2

विष्णुना पूजितं पूर्वं सर्व पातकनाशनम्

7.219.3

तत्र यः पूजयेद्भक्त्या तल्लिंगं पापमोचनम्॥
स पुत्रपशुमान्धीमान्मोदते पृथिवीतले

7.219.4

एवं तत्र महादेवि मार्कण्डेयेश सन्निधौ ॥
ऋषीणामाश्रमा येऽत्र दृश्यन्तेऽद्यापि भामिनि

7.219.5

अष्टाशीतिसहस्राणि ऋषीणामूर्ध्वरेतसाम् ॥
तत्र स्थितानि देवेशि मार्कण्डेयाश्रमांतिके

7.219.6

ऋषीणां च गुहास्तत्र सर्वा लिंगसमन्विताः ॥
दृश्यन्ते पुण्यतपसां तदाश्रमनिवासिनाम्

7.219.7

तत्र यः स्थापयेल्लिंगं मार्कंडेशसमीपगम्॥
कुलानां शतमुद्धृत्य मोदते दिवि देववत्

7.219.8

सर्वे शिवमया लोकाः शिवे सर्वं प्रतिष्ठितम् ॥
तस्माच्छिवं यजेद्विद्वान्य इच्छेच्छ्रियमात्मनः

7.219.9

शिवभक्तो न यो राजा भक्तोऽन्येषु सुरेषु च ॥
स्वपतिं युवती त्यक्त्वा रमतेऽन्येषु वै यथा

7.219.7.1.219.10

ब्रह्मादयः सुराः सर्वे राजानश्च महर्द्धिकाः ॥
मानवा मुनयश्चैव सर्वे लिंगं यजंति च

7.219.11

स्वनामकृतचिह्नानि लिंगानींद्रादिभिः क्रमात् ॥
स्थापितानि यथा स्थाने मानवैरपि भूरिशः

7.219.12

स्थापनाद्ब्रह्महत्यां च भ्रूणहत्यां तथैव च ॥
महापापानि चान्यानि निस्तीर्णाः शिवतेजसा

7.219.13

वृत्रं हत्वा पुरा शक्रो माहेन्द्रं स्थाप्य शंकरम् ॥
लिंगं च मुक्तपापौघस्ततोऽसौ त्रिदिवं गतः

7.219.14

स्थापयित्वा शिवं सूर्यो गंगासागरसंगमे ॥
निरामयोऽभूत्सोमश्च प्रभासे पश्चिमोदधेः

7.219.15

काश्यां चैव तथादित्यः सह्ये गरुडकाश्यपौ ॥
प्रतिष्ठां परमां प्राप्तौ प्रतिष्ठाप्य जगत्पतिम्

7.219.16

ख्यातदोषा ह्यहिल्याऽपि भर्तृशप्ताऽभवत्तदा ॥
स्थाप्येशानं पुनः स्त्रीत्वं लेभे पुत्रांस्तथोत्तमान्

7.219.17

पश्यंत्यद्यापि याः स्नात्वा तत्राहिल्येश्वरं स्त्रियः ॥
पुरुषाश्चापि तद्दोषैर्मुच्यन्ते नात्र संशयः

7.219.18

स्थापयित्वेश्वरं श्वेतशैले बलिविरोचनौ ॥
उभावपि हि संजातावमरौ बलिनां वरौ ॥

7.219.19

रामेण रावणं हत्वा ससैन्यं त्रिदशेश्वरम् ॥
स्थापितो विधिवद्भक्त्या तीरे नदनदीपतेः

7.219.7.1.219.20

स्वायंभुवर्षिदैवादिलिंगहीना न भूः क्वचित ॥ व्या
पारान्सकलांस्त्यक्त्वा पूजयध्वं शिवं सदा ॥
निकटा इव दृश्यंते कृतांतनगरोपगाः

7.219.21

देवि किं बहुनोक्तेन वर्णितेन पुनः पुनः ॥
प्रभासक्षेत्रसारं तु मार्कण्डेयाश्रमं प्रति

7.219.219

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखंडे प्रथमे प्रभास क्षेत्रमाहात्म्ये मार्कण्डेयेश्वरमाहात्म्यवर्णनंनामैकोनविंशत्युत्तरद्विशततमोऽध्यायः

मूल पाठ: skandapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc