स्कन्द पुराण · अध्याय 7.201
॥ ईश्वर उवाच ॥ ॥
तस्मिन्स्थाने महादेवि स्मशानं कालभैरवम् ॥
ब्रह्मकुण्डं वरारोहे यावद्देवः कृतस्मरः
तत्र ये प्राणिनो दग्धा मृताः कालविपर्ययात् ॥
ते सर्वे मुक्तिमायांति महापातकिनोऽपि वा
कृतस्मरान्महादेवि यावन्मंकीश्वरः स्थितः ॥
महास्मशानं तद्देवि अपुनर्भवदायकम्
तस्मिन्स्थाने वहेद्यत्र विषुवं प्राणिनां प्रिये ॥
तत्रोषरं स्मृतं क्षेत्रं तन्मे प्रियतरं सदा
कल्पांतेऽपि न मुंचामि अविमुक्तात्प्रियं मम
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये कालभैरवस्मशानमाहात्म्यवर्णनं नामैकोत्तरद्विशततमोऽध्यायः
मूल पाठ: skandapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0