भाषा

ENहिગુ
ग्रंथ पाठ

स्कन्द पुराण · अध्याय 7.196

7.196.1

॥ ईश्वर उवाच ॥ ॥
ततो गच्छेन्महादेवि प्रभासं जलसंस्थितम् ॥
वृद्धप्रभासाद्दक्षिणतो नातिदूरे व्यवस्थितम्

7.196.2

तस्यैव देवि देवस्य शृणु माहात्म्यमुत्तमम्

7.196.3

जामदग्न्येन रामेण यदा क्षत्त्रवधः कृतः ॥
तदाऽस्य परमा जाता घृणा मनसि भामिनि

7.196.4

ततस्त्वाराधयामास महादेवं सुरेश्वरम्॥
उग्रं तपः समास्थाय बहून्वर्ष गणान्प्रिये

7.196.5

ततस्तुष्टो महादेवस्तस्य प्रत्यक्षतां गतः ॥
अब्रवीद्वरदस्तेऽहं वरं वरय सुव्रत

7.196.6

॥ राम उवाच ॥ ॥
यदि तुष्टोऽसि मे देव यदि देयो वरो मम ॥
दर्शयस्व स्वकं लिंगं यज्ञे वज्रेण छादितम्

7.196.7

घृणा मे महती जाता हत्वेमान्क्षत्रियान्बहून् ॥
दर्शनात्तव लिंगस्य येन मे नश्यते घृणा

7.196.8

तथा मे पातकं सर्वं प्रसादात्तव शंकर

7.196.9

॥ शंकर उवाच ॥ ॥
मम लिंगं सहस्राक्ष उत्थितं तु पुनःपुनः ॥
वज्रेणाच्छादयत्येव भयेन महता वृतः

7.196.7.1.196.10

न तेऽहं दर्शनं यास्ये लिंगरूपी कदाचन

7.196.11

यन्मां वदसि घृणया वृतोऽहं पातकेन तु ॥
तत्तेऽहं नाशयिष्यामि स्पर्शनात्तु द्विजोत्तम

7.196.12

अस्मिञ्जलाश्रये पुण्ये जलमध्ये महामते ॥
उत्थास्यति महालिंगं तस्य त्वं दर्शनं कुरु ॥

7.196.13

गमिष्यति घृणा सर्वा निष्पापस्त्वं भविष्यसि ॥
उक्त्वैवमुदतिष्ठच्च जलमध्याद्वरानने

7.196.14

जलप्रभासनामास्य ततो जातं धरातले ॥
तस्यालं स्पर्शनाद्देवि शिवलोकं व्रजेन्नरः

7.196.15

एकं भोजयते योऽत्र ब्राह्मणं शंसितव्रतम् ॥
भोजितोऽहं भवेत्तेन सपत्नीको न संशयः

7.196.16

एषा जलप्रभासस्य संभूतिस्ते मयोदिता ॥
श्रुता पापोपशमनी सर्वकामफलप्रदा

7.196.196

इति श्रीस्कांदे महापुराण एकाशीति साहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये जलप्रभासमाहात्म्यवर्णनंनाम षण्णवत्युत्तरशततमोऽध्यायः

मूल पाठ: skandapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc