भाषा

ENहिગુ
ग्रंथ पाठ

स्कन्द पुराण · अध्याय 7.191

7.191.1

॥ ईश्वर उवाच ॥ ॥
ततो गच्छेन्महादेवि अजीगर्तेश्वरं हरम् ॥
चन्द्रवापीसमीपस्थं कर्ममोटीसमीपतः

7.191.2

तस्यां स्नात्वा महादेवि यस्तल्लिगं प्रपूजयेत् ॥
स मुक्तः पातकैर्घोरैर्गच्छेच्छिवपदं महत्

7.191.191

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्येऽजीगर्तेश्वरमाहात्म्यवर्णनं नामैकनवत्युत्तरशततमोऽध्यायः

मूल पाठ: skandapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc