ग्रंथ पाठ
स्कन्द पुराण · अध्याय 7.190
7.190.1
॥ ईश्वर उवाच ॥ ॥
ततो गच्छेन्महादेवि तत्र मुक्तिप्रदं हरिम् ॥
प्रभासान्नैरृते भागे नातिदूरे व्यवस्थितम्
7.190.2
एकादश्यां जिताहारो यस्तं देवि प्रपूजयेत् ॥
माघेमासे विशेषेण सोऽग्निष्टोमफलं लभेत्
7.190.3
यस्तत्रानशनं कुर्याद्व्रतं चान्द्रायणादिकम् ॥
सोऽन्य तीर्थात्कोटिगुणं प्राप्नुयात्फलमीप्सितम्
7.190.190
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्र माहात्म्ये मोक्षस्वामिमाहात्म्यवर्णनंनाम नवत्युत्तरशततमोऽध्यायः
मूल पाठ: skandapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0