ग्रंथ पाठ
स्कन्द पुराण · अध्याय 7.192
7.192.1
॥ ईश्वर उवाच ॥ ॥
ततो गच्छेन्महादेवि विश्वकर्मप्रतिष्ठितम् ॥
लिंगं महाप्रभावं हि मोक्षस्वामिन उत्तरे
7.192.2
धनुषां पंचके देवि स्थितं पातकनाशनम्
7.192.3
तं दृष्ट्वा मानवः सम्यग्यात्राफलमवाप्नुयात् ॥
वाचिकं मानसं पापं दर्शनात्तस्य नश्यति
7.192.192
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये विश्वकर्मेश्वरमाहात्म्यवर्णनंनाम द्विनवत्युत्तरशततमोऽध्यायः
मूल पाठ: skandapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0