भाषा

ENहिગુ
ग्रंथ पाठ

स्कन्द पुराण · अध्याय 7.179

7.179.1

॥ ईश्वर उवाच ॥ ॥
ततो गच्छेन्महादेवि लिंगं पापप्रणाशनम् ॥
सिद्धेशाद्दक्षिणे कोणे धनुषां त्रितये स्थितम् ॥
माण्डव्येश्वरनामानं महापातकनाशनम्

7.179.2

माघे मासे चतुर्दश्यां पूजां जागरणं तथा ॥
कुर्याद्योऽतीन्द्रियो मर्त्यो न स मर्त्ये पुनर्व्रजेत्

7.179.179

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासज्ञेत्रमाहात्म्ये माण्डव्येश्वरमाहात्म्यवर्णनंनामैकोना शीत्युत्तरशततमोऽध्यायः

मूल पाठ: skandapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc