भाषा

ENहिગુ
ग्रंथ पाठ

स्कन्द पुराण · अध्याय 7.180

7.180.1

॥ ईश्वर उवाच ॥ ॥
तत्रैव संस्थितं पश्येत्पुष्पदन्तेश्वरं शुभम् ॥
पुष्पदन्तेश्वरोनाम गणेशः शंकरस्य तु

7.180.2

तेन तप्तं तपो घोरं तत्र लिंगं प्रतिष्ठितम्

7.180.3

तं दृष्ट्वा मुच्यते जंतुर्जन्मसंसारबन्धनात् ॥
प्राप्नुयादीप्सितान्कामानिह लोके परत्र च

7.180.180

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये पुष्पदन्तेश्वर माहात्म्यवर्णनंनामाशीत्युत्तरशततमोऽध्यायः

मूल पाठ: skandapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc